अलङ्कारमणिहारः (भागः १)/आवृत्तिदीपकसरः (१८)

विकिस्रोतः तः
Jump to navigation Jump to search

अथावृत्तिदीपकसरः.


समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्थयोः ।
आवृत्तिदीपकं प्राहुस्त्रिविधं बुधसत्तमाः ॥

 पदतदर्थयोस्समस्तयोर्ब्यस्तयोश्चानेकोपकारकतया दीपस्थानीययोरावृत्तौ त्रिविधमावृत्तिदीपकमित्यर्थः । पदतदर्थयोरुभयोरावृत्तावेकः प्रकारः, पदस्यैव अर्थस्यैव चावृत्तौ द्वौ प्रकाराविति त्रयोऽस्य प्रकाराः। एकक्रियाया अनेककारकान्वयवदनेककारकस्यावृत्तक्रियान्वयादावृत्तिदीपकमित्यन्वर्थाभिधानमिदम् ॥

 यथाक्रममुदाहरणानि--

 हरिभूभृदुदयभाजो हरेर्महस्फूर्तिपरिचये नॄणाम् । विकसति दृगब्जबृन्दं विकसति हृदयाब्जबृन्दं च ॥ ५७३ ॥

 हरिभूभृत् वेंकटगिरिः स एव उदयः तं भजतीति तथोक्तः । तस्य हरेः भगवत एव भानुमतः महस्फूर्तिरुत्सवस्फूर्तिरेव तेजस्स्फूर्तिः तस्याः परिचये सति । अत्र विकसनक्रियातद्वाचकपदयोर्द्वयोरावृत्तिरितीदमुभयावृत्तिदीपकम् ॥

 यथा वा--

 कर्षति दृगेकतो मां श्रुतिरेषाऽन्यत्र कर्षति मुरारे । रसना परत्र कर्षति साध्वी भक्तिः किमत्र कुर्वीत ॥ ५७१ ॥  मां त्वां द्रष्टुं त्वत्कथां श्रोतुं त्वन्नाम वक्तुं चाभीप्सन्तमिति भावः दृक् चक्षुरिन्द्रियं एकतः स्वविषये इत्यर्थः । एवमुत्तरत्रापि । शिष्टं स्पष्टम् । अत्र कर्षणक्रियातद्वाचकपदयोरुभयोरप्यावृत्तिः । इदं धूर्तबहुसपत्नीकदर्थितसाध्वीदयितवृत्तान्तसमारोपरूपसमासोक्त्या संकीर्णं, पूर्वं तु रूपकेण ॥

 यथावा--

 प्रसजेद्यदि पापं नः प्रसजेद्दातुं हरिः फलं तस्य । प्रसजेत्कृपाऽपि लक्ष्म्याः प्रसजेत्सा स्वदयितं प्रसादयितुम् ॥ ५७५ ॥

 यथावा--

 करिवरनिनदो मूर्छति हरिवरनिनदोऽपि मूर्छति समन्तात् । मूर्छति च तत्प्रतिस्रुद्गुहागृहाभ्यन्तरेषु शेषगिरेः ॥ ५७६ ॥

 यथावा--

 कूजन्ति चक्रवाकाः कूजन्ति शुकाः पिकाश्च कूजन्ति । कूजन्ति सारसा अपि कर्णानन्दप्रदाः पृदाकुगिरौ ॥ ५७७ ॥

 इदमुदाहरणत्रितयं शुद्धम् । अत्राप्याद्ययोरुदाहरणयोः कारणमाला ध्वन्यते । अन्तिमं तूदाहरणं शुद्धतमम् ॥

 पदावृत्तिदीपकं यथा--

 व्यालोत्तमाचलेन्दोरालोकाद्दूरतस्तमो द्रवति । शरणगतानामन्तःकरणसुधाकिरणदृषदपि द्रवति ॥

 अत्र द्रवतीति पदस्यैवावृत्तिः न तु तदर्थस्य, आद्यस्य धावतीति अन्त्यस्यार्द्रा भवतीत्यर्थयोर्भदात् ॥

 यथावा--

 स्वैरं यशो विसृमरं स्मेरं भवतो विधूयते शौरे । स्फारं यशोप्यसुहृदां दूरंदूरं विधूयते दिक्षु ॥

 अत्रापि विधूयते इत्यनयोः विधुरिवाचरतीति प्रकम्प्यत इति चार्थभेदादिदमपि पदावृत्तिदीपकम् ॥

 यथावा--

 बहुशो धयति स्वामिन्नहिशैले धन्य एव तव तीर्थम् । बहु शोधयति च तमिमं कलशोदधिजाधिनाथ तत्तीर्थम् ॥ ५८० ॥

 हे स्वामिन् ! अहिशैले धन्यः पुण्यवानेव तव तीर्थं त्वद भिषेकतीर्थमित्यर्थः, बहुशः बहु धयति पिबति । 'घेट् पाने' तमिमं तीर्थधातारं जनं तत्तीर्थं कर्तु बहु यथा स्यात्तथा शोधयति शुद्धं करोति अपास्तसमस्तांहस्ततिं तनोतीत्यर्थः । अत्रापि पदमात्रावृत्तिः ॥

 यथावा--

 चेतो मम बहु धावति वातंधयगिरिजमद्भुतं किमपि । बहुधाऽवति च महाम्भोवहधाम तदद्भुतं स्मरन्तं माम् ॥ ५८१ ॥  मम चेतः कर्तृ । वातंधयगिरिजातं किमप्यद्भुतं सर्वाश्चर्यनिधिं श्रीनिवासमित्यर्थः । धावति स्मरतीति यावत् । महाम्भोवहधाम महावारिवाहनीलमित्यर्थः । तदद्भुतं भगवानित्यर्थः । स्मरन्तं मां बहुधा अवति प्रीणयति रक्षति च । अत्रापि पदमात्रावृत्तिः । आद्योदाहरणद्वये अभङ्गश्लेषेण अनन्तरोदाहृत्योस्सभङ्गश्लेषेण निर्व्यूढमिदम् ॥

 यथावा--

 योऽन्तर्धत्ते कमलाकान्तं काकोदराद्रिभास्वतम् । अन्तर्धत्ते तस्य च संतमसं भवमयं स हि नितान्तम् ॥ ५८२ ॥

 यः पुमान् अन्तः मनसि धत्ते ध्यायतीत्यर्थः । तस्य पुंसः भवमयं संतमसं सः भगवान् अन्तर्धत्ते पिदधाति विनिवर्तयतीति यावत् । अत्रापि पदस्यैवावृत्तिः ॥

 अर्थावृत्तिदीपकं यथा--

 क्षालयति वेङ्कटाचलपालयितुरघानि सपदि नामसुधा । मार्जयति कुजनसन्नुत्यार्जितमूर्जितमपीह दौर्जन्यम् ॥ ५८३ ॥

 अत्र क्रियापदभेदेऽपि तदर्थस्य शोधनस्याभेदादर्थावृत्तिदीपकमिदम् ॥

यथावा--

 यत्रेन्धे वनमाला चकास्ति कौस्तुभमणिर्लसति च श्रीः। कियदिव तद्भाग्यं स्यात्पङ्कजमालाऽपि तत्र दीव्यति चेत् ॥ ५८४ ॥  अत्रापि इन्धे इत्यादिक्रियावाचिपदभेदेऽपि तदर्थस्य प्रकाशस्याभेद इति ध्येयम् । इदं च उत्कृष्टव्यक्तिसमुचितोत्त मस्थानतत्तुल्यकक्ष्यासमिन्धानापकृष्टव्यक्तिभागधेयप्रशंसालक्षणव्यवहारसमारोपरूपसमासोक्तिसंकीर्णमिति विभावनीयम् ॥

 यथावा--

 प्राप्नोति जयं लभते श्रियं ह्रियं विन्दते नयं भजते । प्रियमयतेऽपिच नियतं श्रियःपते त्वां श्रयन्नयं लोकः ॥ ५८५ ॥

 ह्रियं अकार्येभ्यो लज्जां विन्दते । अयं महान्गुणः। यथोच्यते तत्रतत्र ‘ह्रीनिषेवी’ इति । आद्योदाहरणद्वये कर्तॄणामावृत्तक्रियान्वयः, इह तु जयमित्यादिकर्मणामिति विशेषः ॥

 नन्वत्र धर्मनिर्देशस्य प्रस्तुताप्रस्तुतोभयविषयत्वाभावात्कथं दीपकशब्दव्यपदेश इति चेन्न, अनेकोपकारकत्वसाम्येन तदुपपत्तेः । अत एव कुवलयानन्दे- 'आवृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमात्रेण दीपकव्यपदेशः’ इत्युक्तम् । अत्र मात्रपदं प्रयुञ्जानैर्दीक्षितैः पृथगेवायमलंकारो न तु दीपकप्रभेद इति सूचितम् । अत एवोक्तं दण्डिना-

अर्थावृतिः पदवृत्तिरुभयावृत्तिरित्यपि ।
दीपकस्थानमेवेष्टमलंकारत्रयं यथा ॥

इति । त्रिप्रकारोऽयमलंकारो दीपकसदृश इति तदर्थः ॥

इत्यलंकारमणिहारे आवृत्तिदीपकसरोऽष्टादशः

अलङ्कारमणिहारः.pdf