अलङ्कारमणिहारः (भागः १)/तुल्ययोगितासरः (१६)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

 अथ तुल्ययोगितासरः--

वर्णानामेव वाऽन्येषामेव वा धर्म एककः ।
अन्वितो वर्ण्यते यत्र तत्र स्यात्तुल्ययोगिता ॥

 वाशब्दो व्यवस्थितविकल्पार्थः । तथाच प्रकृतानामेव वा अप्रकृतानामेव वा यत्रैकधर्मान्वयित्वं सा तुल्ययोगिता, तुल्यानां प्राकरणिकाप्राकरणिकान्यतरमात्रनिबन्धनसादृश्यवतां योगिता एकधर्मान्वयित्वं यत्रेति व्युत्पत्तेः । वर्ण्यानामित्यादौ बहुत्वं द्वयोरप्युपलक्षणम् । धर्मश्चात्र चमत्कारीतिं ज्ञेयम् । एवंच अनेकप्रस्तुतमात्रसंबद्धैकचमत्कारिधर्मानेकाप्रस्तुतमात्रसंबद्धैकधर्मान्यतरत्वं लक्षणं बोध्यम् । ‘मुखं विकसितस्मितं’ इत्यादावतिप्रसङ्गवारणायानेकेति । तत्र च मुखप्रेक्षितादिरूपानेकवर्ण्यसंबद्धो नैको धर्म इति तन्निरासः । दीपकवारणाय मात्रेति । प्रस्तुताप्रस्तुतप्रभेदसाधारण्यायान्यतरत्वनिवेशः । धर्मश्चात्र प्रायशो गुणक्रियारूप एव संभवतीति प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपकधर्मान्वयस्तुल्ययोगितेत्युक्तं कुवलयानन्दे । तदेतदुपलक्षणं धर्ममात्रस्य । एतच्चोदाहरणावसरे स्फुटीभविष्यति। औपम्यं चात्र गम्यं, तत्प्रयोजकस्य समानधर्मस्योपादानाद्वाचकाभावाच्च । अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरं, न तु साधारणधर्मरूपमिति विज्ञायते । अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्तेः । केचित्तु- सादृश्यभाव एवातिरिक्तः । सादृश्यं तु तत्तत्साधारणधर्मात्मकमेव । स चेवादिपदानां शक्यतावच्छेदकः तत्तत्साधारणधर्मवाचकैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण बोधनेऽपि सादश्यभावरूपेण बोधो व्यञ्जनसाध्य एवेत्यापि वदन्ति ॥

 यथा--

 अश्रूदञ्चति चक्षुषि वपुषि च पुलकोऽथ संभ्रमो मनसि । अञ्जनभूधरधामन्नञ्जलिरपि मस्तके तव स्मरताम् ॥ ५२२ ॥

 अत्र भागवतानां वर्ण्यत्वात्तदीयत्वेन प्रकृतानां कर्तॄणामश्रुप्रभृतीनामुदञ्चनक्रिया समानधर्मत्वेनोपात्ता । चक्षुरादीनामधिकरणानां च । कारकाणां सर्वेषां क्रियान्वयित्वस्य तुल्यत्वात् । एवमष्टानां क्रियरूपधर्मैक्येऽपि द्वयोर्दूयोरेवौपम्यं प्रतीयते, न परस्परमष्टानाम् । तदधिकरणत्वतत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात् । तत्र स्मरतामित्यत्र ‘अधीगर्थ’ इति षष्ठी ॥

 चरणेऽम्बुजमदहरणे सोढनतैनसि मदम्ब तव मनसि । वचने च मधुररचने मृदुता लोकोत्तरा विभातितराम् ॥ ५२३ ॥

 अत्र मृदुतेति गुणः तदन्वितत्वं चरणादीनां, विभानक्रियायास्साक्षाद्धर्मिभिरनन्वयात् ॥

 यथावा--

 येनाश्रितो धवलिमा विपरीतोऽकारि धवलिमा येन । तस्मिन् शङ्खे चक्रेऽप्यहिशैलपतेर्महो ज्वलति किमपि ॥ ५२४ ॥

 येन शङ्खेन धवलिमा पाण्डुरिमा आश्रितः, येन चक्रेण धवलिमा विपरीतः व्यत्यस्तः अकारि धवलिमा परास्त इति यावत् । इत्यापाततो विरोधः । धवलिमा इत्यानुपूर्व्या वैपरीत्ये मालिवध इति निष्पद्यते । प्रकृतमात्रस्यापि मालिवधेत्यस्य सुबन्तता कल्पनीया । ‘न केवला प्रकृतिः प्रयोक्तव्या' इति निषेधोऽपि कचिच्चित्रकाव्ये न दोषाय । यथोक्तं काव्यार्थचिन्तामणौ--

प्रातिलोम्यादिचित्रेषु प्रकृतेरेव हि क्वचित् ।
प्रयोगोऽपि न दोषाय नदी दीनो यथोच्यते ॥

इति । येन चक्रेण मालिनाम्नो राक्षसस्य वधः अकारीति तु वास्तवार्थः । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । अहिशैलपतेः शङ्खे चक्रेऽपि मह इति योजना । अत्र मह इति गुणरूपैकधर्मान्वयित्वं शङ्खचक्रयोः । यदि च ‘ते पाञ्चजन्यचक्रे दीपयतश्शेषशैलनाथकरौ' इत्युत्तरार्धं पठ्यते तदा क्रियारूपो धर्मः । यदिच–‘ते पाञ्चजन्यचक्रे दीप्तिं धत्तोऽद्भुतां वृषाद्रिपतेः’ इत्युच्यते तदा गुणविशिष्टा क्रिया, केवलगुणेन साक्षात्संबन्धाभावात् । केवलक्रियायाश्चाहृद्यत्वात् । अत्र द्वयोरेव धर्मान्वयः ॥

 वदनं नयनयुगं वा हृदयं वा नाप्रसन्नमम्ब तव । करयुगळमधरबिम्बं चरणयुगं वाऽपि भवति नानरुणम् ॥ ५२५ ॥

 अत्र नाप्रसन्नं नानरुणमित्यभावरूपे धर्मे प्रस्तुतानां वदनादीनां करयुगळादीनां चान्वयः । अत एव लक्षणे सामान्यतो धर्म इत्येव निवेशितं न तु गुणक्रियारूपविशेषिततया । इदं च रसगङ्गाधरकृदनुरोधेन । स हि ‘प्रस्तुतानामप्रस्तुतनां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता’ इति सर्वस्व कुवलयानन्दोक्तिं दूषयन् ‘गुणक्रियारूपेत्युक्तिरापाततः--

शासति त्वयि हे राजन्नखण्डावनिमण्डलम् ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥

इत्यत्राभावरूपस्यैव धर्मस्यान्वयात् इत्यभाणीत् । अन्ये तु - 'शासति’ इति पद्ये निश्चिन्ते नेति निश्चिन्तभेदश्शत्रुमित्रमण्डलधर्मतयोपात्तो गुणस्वरूप एव, चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तत्वात् । अन्यथा चिन्ताभावाभावस्याप्यतिरिक्तत्वापत्तेः । अथ तत्रापीष्टापत्तावपि अभावस्य कथंगुणबहिर्भावः जातिक्रियाद्रव्यातिरिक्तस्यैव 'चतुष्टयी शब्दानां प्रवृत्तिः’ इति वदद्भिश्शाब्दिकैस्तदनुयायिभिरालंकारिकैश्च गुणत्वाभ्युपगमादित्याहुः । अत एव जातिगुणयोर्विरोधे प्रकाशकृता 'गिरयोप्यनुन्नतियुजः' इति, विद्यानाथेनापि ‘अमदस्सार्वभौमोपि’ इति चोदाहृतं संगच्छते । अनुन्नतीयादेरभावस्यागुणत्वे तदुदाहरणासंगतिः स्पष्टैव । तस्मादभावस्यापि गुणत्वाद्धर्मस्य गुणक्रियारूपतोक्तावप्यदोष एव । एवंच - अस्मिन्नुदाहरणेऽपि नाप्रसन्नमित्यादौ गुणरूप एव धर्म इति ध्येयम् । वस्तुतस्तु लक्षणे तेन रूपेण धर्मो निवेशितोऽस्माभिरिति न कोपि दोषः ॥

 अधिफणिगिरिमणिनीरदमचञ्चलासीद्रमा च विभुता च। क्षमयाविपुलासीत्तन्मानसवृत्तिश्च तस्य करुणा च ॥ ५२६ ॥

 फणिगिरिमणिर्भगवान् नीरद इव तस्मिन् अधिफणिगिरिमणिनीरदं, विभक्त्यर्थेऽव्ययीभावः । रमा अचञ्चलासीत् चञ्चलेवाचारीत्, विद्युदिवाभादित्यर्थः । चञ्चलाशब्दादाचारक्विपि लिङ् , अडागमः । विभुता ऐश्वर्यं च अचञ्चला निश्चला आसीत् अभवत् ।‘अस भुवि' इत्यस्माल्लङ् । ‘ 'अस्तिसिचोऽपृक्ते ’ इतीट्, ‘श्नसोः' इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । तस्य भगवतो मानसवृत्तिः क्षमया क्षान्त्या अविपुलासीत् विपुलेवाचारीत् भूतुल्याऽऽसीदित्यर्थः । विपुलाशब्दादाचारक्विपि लुङ् पूर्ववत् । पक्षे -विपुलेति छेदः । तस्य करुणा च विपुला महती आसीत् । श्रीश्रीनिवासस्यैश्वर्यक्षमाकृपाः श्रीलक्ष्मीनिवासनिबन्धना इति भावः । अत्रोभयसाधारणयोर्गुणाक्रिययोरभावाच्छब्दमात्रं श्लेषमूलेनाभेदाध्यवसानेन सपिण्डितोऽर्थो वा धर्मः ॥  यथा वा-

 दन्ताळी ग्रीवाऽपि च मुक्ताळ्या नासिता तव मुरारे । नाप्रमदं जातुचिदपि वक्षश्चेतश्च वारिजाक्ष तव ॥ ५२७ ॥

 हे मुरारे ! तव दन्ताळी मुक्ताळ्या इति छेदः , मुक्ताहारापेक्षया नासिता नशब्देन समासः असिता न भवति किंतु सिता धवळैवेत्यर्थः । ग्रीवाऽपि च मुक्ताळ्येति तृतीयैकवचनं, मुक्ताहारेण असिता असंदानिता न भवति किंतु संदानितैव 'बद्धे संदानितं मूतं मुद्दितं संदितं सितम्' इत्यमरः । हे वारिजाक्ष ! तव वक्षः चेतश्च अप्रमदं अविद्यमानमानिनीकं अविद्यमानलक्ष्मीकमित्यर्थः, अविद्यमानप्रहर्षं च न, किंतु सलक्ष्मीकमेव सहर्षमेवेति भावः । अत्र सितत्वसप्रमदत्वनिषेधसंभावनाऽपि नञ्द्वयेन व्युदस्यते । यथोक्तं वामनेन –'संभाव्यनिषेधानेवर्तने द्वौ प्रतिषेधौ’ इति । अत्रापि पूर्वोदाहरणवदेव धर्मः, तस्याभावरूपत्वं तु विशेषः ॥

 क्वचिदध्याहृतोपि धर्मवाचकश्शब्दस्तुल्ययोगितां प्रयोजयति । यथा--

 दिव्यतमं रूपं तव भव्यतमा श्रीरियं च वनमाला । स्तव्यतमो मणिरच्युत भाव्यं विशयेन किं तव परत्वे ॥ ५२८ ॥

 तव परत्वे विशयेन संशयेन भाव्यं किं संदेहो न भवत्येवेत्यर्थः । अत्र परत्वसंशयक्षेपकरणतया प्रस्तुतानां दिव्यरूपादीनामस्तीति क्रियायामन्वयः । ‘अस्तिर्भवन्तिपरोप्रयुज्यमानोप्यस्ति' इत्यनुशासनात् । भवन्तिरिति लटस्संज्ञा । 'भुवो झिच्’ इत्यौणादिको भवतेर्झिच्प्रत्ययः । ‘झोऽन्तः ’ इति झस्यान्तादेशः । आस्तेक्रियाया’ अप्रयोगेऽपि तदाक्षेपश्शीघ्रोपस्थितिकत्वात् । तर्हि प्रतिवाक्यमपि कुतोनाध्याह्रियतामिति चेन्न । लाघवादेकत्राध्याहृतस्यैवान्यत्रानुषञ्जनीयताया न्याय्यत्वात् । विश्वेश्वरीयालंकारकौस्तुभे ईदृशमुदाहरणं प्रदर्शितम् ॥

 अप्रकृतानामेव यथा--

 मानववर्गो निखिलो दानववर्गश्च नमति नन्तव्यम् । अहिराजगिरिखिशामणिमत्र कथं नमदभेदवार्ता स्यात् ॥ ५२९ ॥

 नन्तव्यं ‘नन्तव्यः परमश्शेषी' इत्युक्तरीत्या सर्वशेषितया नमिकर्मीकरणार्हं अहिराजगिरिशिखामणिं निखिलो मानववर्गो दानववर्गश्च नमति । अत्र नमतां मानवानां दानवानां च वर्गे अभेदवार्ता कथं स्यात्, नमने अवैलक्षण्येऽपि मानवानां दान वानां च परस्परं वैलक्षण्यादिति भावः । यद्वा-अत्र नन्तव्ये भगवति अभेदवार्ता नमद्भिस्सहाभेदकथा कथं स्यात् । नन्तृनन्तव्ययो शेषशेषिणोरभेदायोगादिति भावः । अथवा अत्र नमतोर्मानवदानववर्गयोः मदभेदवार्ता मदो नाम कुलशीलाद्यभिमानेनान्यावधीरणहेतुश्चित्तविकारविशेषः यो ह्यरिषड्वर्गे गणितः । तस्य भेदवार्ता विदारणवृत्तान्तः कथं न स्यात् भगवत्प्रणन्तॄणां कामादिनिखिलदोषदूरीभावादिति भावः । पक्षे—अत्र मा नवदानववर्गशब्दयोः मदभेदवार्ता मकारदकारयोर्वैलक्षण्यकथा कथं न स्यात् । तावन्मात्रभेदस्य दृश्यमानत्वादिति भावः । अत्राप्रकृतयोर्मानवदानववर्गयोर्नमनक्रियारूपधर्मैक्यम् ॥ यथा वा--

 यत्साधुमनीषायां पररूपं स्फुरति तद्धि मार्तण्डेऽपि । आह सदाकृतिगण्यं परमेकं श्रुतिरवैमि शाब्दोक्तिश्च ॥ ५३० ॥

 यत् परस्य ब्रह्मणो रूपं साधूनां योगिनां मनीषायां बुद्धौ स्कुरति,

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥

इति श्रुत्युक्तरीत्या अन्तर्यामिविग्रहावशिष्टं स्वरूपं सूक्ष्मदर्शिभिस्सूक्ष्मया बुद्ध्या ऐकाग्र्यसंपन्नया दृश्यत इत्यभिप्रायः । तद्धि तदेव ‘हि हेताववधारणे' इत्यमरः । पररूपं परस्य ब्रह्मणो रूपं ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ’ इत्यादि श्रुतं दिव्यमङ्गळविग्रहविशिष्टं स्वरूपं मार्तण्डे आदित्येऽपि स्फुरति दीप्यते । कथमनयोरैक्यं त्वया विदितमित्यत्राह-आहेति । श्रुतिः ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ’ इति श्रुतिः सदाकृतिगण्यं सत्या आकृत्या विग्रहेण गण्यं प्रशस्यमिति यावत् । दिव्यमङ्गळविग्रहविशिष्टमित्यर्थः । परं परमात्मस्वरूपं उभयत्र विद्यमानमिति भावः । एकं अभिन्नं आह अवैमि तस्माज्जाने, वाक्यार्थः कर्म । शब्दोक्तिश्चेममेवार्थमाह-तथाहि, पक्षे यत् साधु सम्यगनुशिष्टं पररूपं पूर्ववर्णस्य परवर्णतापत्तिरूप एकादेश इत्यर्थः । मनीषायां मनीषाशब्दे स्फुरति प्रकाशते । तत्र मनस ईषेति विग्रहे नकारानन्तरभाविनः अस् इत्यस्य ईकाररूपपरवर्णरूपसंपत्तेः स्फुटत्वादिति भावः । तद्धि तदेव पररूपं मार्तण्डे मार्तण्डशब्देऽपि स्फुरति । मृते अण्डे जातो मार्तण्ड इत्यत्र तद्धितप्रकृतिभूतमृतण्डशब्दे तकारोत्तरवर्त्यकारस्य तत्परभूताकाररूपैकादेशदर्शनादिति भावः । परं अनयोश्शब्दयोर्मध्ये परत्र पठितं मार्तण्डशब्दं एकं एकमेव । न तु मनीषाशब्दमपि, तस्य वक्ष्यमाणगणे पाठदर्शनादिति भावः । सर्वदा आकृतिगण्यं आकृत्या पररूपवत्त्वाकारेण गण्यं शकन्ध्वादिगणं लब्धारं ‘धनगणं लब्धा’ इति यत् । लब्धेति तृन्नन्तेन लाभताच्छील्यं द्योतितम् । उक्तगणे पठितुमर्हमिति यावत् । शाब्दोक्तिः शब्दशास्त्रीयं ‘शकन्ध्वादिषु पररूपं वाच्यम्’ इति वार्तिकमित्यर्थः । आह वदतीति अवैमि संभावये । मनीषाशब्दवन्मार्तण्डशब्दस्य गणे पाठाभावादुक्तपररूपवत्त्वाकारेणायं शकन्ध्वादिगणे पठनीय इति सभावये । अन्यधा पररूपविधायकशास्त्रान्तरादर्शनादयमसाधुतामश्नुवीतेति भावः । अत एव-शकन्ध्वादिगणपाठान्ते ‘आकृतिगणोऽयं मार्तण्डः’ इत्युक्तिश्च संगच्छते । शकन्ध्वादिशब्दरूपनिष्पत्त्यनुगुणं तेषु शब्देषु टेः पररूपं वाच्यमिति वार्तिकार्थः । अत्राप्रकृतयोः श्रुतिशाब्दोक्त्योराहेति क्रियायामन्वयः। श्लेषोपस्कृतेयम् ॥

 यथा वा--

 सुरवरमाणिक्यं ननु सुरवरगाणिक्यमपि वृषाद्रिमणे । सेवाते तव लक्ष्मीं मागाभिन्ने इमे खलु समाने ॥ ५३१ ॥

 ननु वृषाद्रिमणे ! सुरवरमाणिक्यं इन्द्रनीलरत्नं सुरवराणां देवोत्तमानां गाणिक्यं गणिकासमूहोपि ‘गणिकाया यञिति वक्तव्यम्’ इति गणिकाशब्दसमूहार्थे यञ् । ‘गणिकादेस्तु गाणिक्यम्' इत्यमरः । तव लक्ष्मीं शोभां पक्षे श्रियमित्यर्थः । तव लक्ष्मीमित्यनेन 'विष्णोश्श्रीरनपायिनी' इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारार्थ्यं व्यञ्जितम् । “ तवैवोचितया तव श्रिया' इत्येतदत्रानुसंहितम् । सेवाते भजेते । इन्द्रनीलप्रभाया अपि तव दिव्यविग्रहशोभा सुतरामतिशेते इति भावः । पक्षे रम्भाद्यप्सरोनिवहः किंकरीभूय तव दिव्यमहिषीं वरिवस्यतीति भावः। इमे सुरवरमाणिक्यसुरवरगाणिक्ये भिन्ने परस्परविलक्षणे मा गाः मा ज्ञासीः ‘ये गत्यर्थास्ते ज्ञानार्थकाः '। कुतः ? इमे समाने तावकलक्ष्मीसेवनरूपधर्मवत्तया अन्योन्यं तुल्ये खलु । पक्षे इमे सुरवरमाणिक्यसुरवरगाणिक्यरूपे पदे मागाभिन्ने इति समस्तं पदं, मागावर्णाभ्यामेव भेदवती परस्परविलक्षणे इत्यर्थः । समाने अन्यवर्णानुपूर्व्या तुल्ये खलु । अत्राप्यप्रकृतयोस्सु रवरमाणिक्यसुरवरगाणिक्ययोर्भगवल्लक्ष्मीकर्मकसेवनक्रियायाम न्वयः पूर्ववत् ।

 हरिरुचिकृतपरिभवभरचिन्तादन्तुरनिजान्तरङ्गाणाम् । निश्चेतनताऽऽविरभूदिन्दीवरजलधरेन्द्रनीलानाम् ॥ ५३२ ॥

 अत्र गुणः, आविर्भावक्रियायास्साक्षाद्धर्मिभिरनन्वयात्। 'चिन्तादन्तुरनिजान्तरङ्गाणि । सुतरां पर्यम्लासिषुः' इति द्वितीयतृतीयपादयोः 'इन्दीवजलधरेन्द्रनीलानि' इति तुर्यपादस्य च कल्पने क्रिया । ‘दधते निश्चेतनताम्’ इति तृतीयपादे कृते गुणविशिष्टा क्रिया । एवमुत्तरत्र यथासंभवमूह्यम् ॥

 महसा तवासुराणां मलीमसे मानसे च वदने च । यदुवीर निर्मलानि त्रिदशमृगदृशां दिशां च वदननि ॥ ५३३ ॥

 अत्र मलीमसत्वं गुणः पूर्वार्धे । उत्तरार्धे निर्मलानीति मालिन्याभावरूपो धर्मः केषांचिन्मते । वस्तुतस्तु सोपि गुण एव ॥

 यथा वा--

 भूषयति वृषगिरिं त्वयि सुरासुराः किन्नरा नरा वाऽपि। नाभक्तिजुषो भगवन्नाप्राप्तमनोरथाश्च जातु स्युः ॥ ५३४ ॥

 अत्रापि पूर्वोदाहरणवद्गुण एव ॥

 यथा वा--

 आदौ विरुद्धवर्णे परस्परमथेक्षणेन ते प्रायः। भवतो रमे सवर्णे स चञ्चरीकश्च पुण्डरीकं च ॥

 हे रमे ! सः नीलवर्णत्वेन प्रसिद्धः चञ्चरीकः भ्रमरः पुण्डरीकं सिताम्भोजं च । आदौ त्वत्कटाक्षसान्निध्यात्पूर्वं परस्परं विरुद्धे वर्णे ययोस्ते तथोक्ते असितसितवर्णत्वादन्योन्यविरुद्धवर्णे इत्यर्थः । 'नपुंसकमनपुंसकेन’ इत्यादिना नपुंसकलिङ्गशेषः । अथ अनन्तरं कदाचिदिति यावत् । ते तव ईक्षणेन कटाक्षवीक्षणेन सवर्णे समानो वर्णो ययोस्ते तथोक्ते भवतः तुल्यवर्णे संपद्येते ।कटाक्षस्य काळिम्ना धवळिम्ना वा असितवर्णे सितवर्णे वा भवत इति भावः । ‘कटाक्षाः काळिन्दीकुवलयकचग्राहिरुचयः, वधुकिरणधारासहचरो कटाक्षाणां रेखा’ इत्यादौ कटाक्षाणां द्वैवर्ण्यस्य कविसमयसिद्धत्वात् । प्राय इति संभावनायाम् । पक्षे-चञ्चरीकपुण्डरीकपदे आदौ चतुर्वर्णात्मकयोस्स्वयोः प्रथमभागे परस्परं विरुद्धौ वर्णौ अक्षरे ययोस्ते तथाभूते भचतः। आदिभागस्थयोः चञ्च पुण्ड इत्यनयोरन्योन्यविरुद्धाकारत्वादिति भावः । अथ वर्णद्वयानन्तरं ईक्षणे न इति छेदः । नेत्येतदुत्तरान्वयि । ईक्षणे दर्शने सति सम्यग्विमर्शे सतीत्यर्थः । रमे असवर्णे इति छेदः । अस्मिन्पक्षे ते इत्येतत्प्रथमाद्विवचनम् । ते चञ्चरीकपुण्डरीके प्रायः भूम्ना न तु सर्वात्मना, अन्ते विसर्गबिन्दुभ्यामसावर्ण्यदर्शनादिति भावः । असवर्णे न भवतः, किंतु सवर्णे एव । यद्वा--ईक्षणेनेतेि तृतीयान्तमभिन्नपदमेवास्तु । रमे सवर्णे इत्येवास्तु, तथाच दर्शनेन विचारेण प्रायः सवर्णे एव तुल्यवर्णानुपूर्वीके एव भवत इत्यर्थः । रीकेति वर्णानुपूर्व्यास्तुल्यत्वादुभयत्रेति भावः । अत्रापि गुण एव, भवनक्रियायास्साक्षाद्धर्मिभ्यामनन्वयात् अप्रकृतयोश्चञ्चरीकपुण्डरीकयोरुक्तेन गुणेनान्वयः । इयं च वक्ष्यमाणतद्गुणालंकारसंकीर्णा शब्दपरार्थवर्णनरूपचमत्कारविशेषोपस्कृतेति विशेषः ॥

 यथावा--

 भुवनं दधदप्युदरे भुवनान्तर्विशदपीह नित्यजडम् । भगवंस्तवोपमायामब्भ्रं चेन्दीवरं च बाह्यमभूत् ॥ ५३६॥

 अत्रापि पूर्वोदाहरण इव गुण एव । उदराधिकरणकभुवनधारणभुवनान्तःप्रवेशाभ्यां यथाक्रममब्भ्रेन्दीवरयोर्भगवत्साम्यसंभावनेऽपि नित्यजडत्वातत्साम्ये तयोर्बहिष्कृतिरिति भावः । इयं भुवनजडशब्दश्लेषभित्तिकाभेदाध्यवसायनिर्व्यूढा ॥  अवतो जगन्ति भगवन्भवतो महसा फणीन्द्रगिरिभास्वन् । द्विषतां तन्महसामपि निकुरुम्बं निजगृहेऽप्यभासि खलु ॥ ५३७ ॥

 भवतो महसा तेजसा द्विषतां निकुरुम्बं निजगृहे निगृहीतं, निपूर्वकाद्ग्रहेः कर्मणि लिट् । अत एव अभासि द्विषन्निग्रहीतृत्वादेव तेन व्यरोचीति भावः । भासतेर्भावे लुङि चिण् । अपिस्समुच्चये । तन्महसां द्विषत्तेजसां निकुरुम्बमपि निजगृहेऽपि स्वभवनेऽपि भासो भासनं प्रकाशः, भासतेर्घञ । सोऽस्यास्तीति भासि तन्न भवतीत्यभासि । स्वगेहेऽप्यप्रकाशं किमुतान्यत्रेति भावः । खल्विति प्रसिद्धौ । अत्राप्रकृतयोर्द्विषत्तत्तेजसोस्साधारणगुणक्रियाभावाच्छब्दमात्रं श्लेषमूलकाभेदाध्यवसानसंपिण्डितोऽर्थो वा धर्मः ॥

 यथावा--

 विन्दन्परमघवत्त्वं त्वयेक्षितो जन उपेक्षितश्चाम्ब । शाम्यति महामरावत्युदीर्णतृष्णोऽभ्युदूढलेखश्च ।। ५३८ ॥

 हे अम्ब ! त्वया ईक्षितः जनः परं श्रेष्ठं च तन्मघवत्त्वं इन्द्रत्त्वं, पक्षे परमिति व्यस्तं पदम् । अत्यन्तमिति तदर्थः । अघवत्त्वं दुःखित्वं पापित्वं व्यसनित्वं वा ‘अंहो दुःखव्यसनेष्वघम्' इत्यमरः । विन्दन्, अभ्युदूढाः सर्वापद्भ्यस्समुद्धृताः लेखाः,देवाः येन स तथोक्तः । पक्षे अभ्युदूढाः वहनकर्मीकृताः लेखाः राजकीयपत्राणि येन स तथोक्तः । लेखवाहक इत्यर्थः । ‘लेखो लेख्ये सुरे' इति मेदिनी । महती च सा अमरावती च तस्यां उदीर्णा तृष्णा उत्तरोत्तराभिवर्धनस्पृहा यस्य स तथोक्तः । पक्षे महति मरौ धन्वभूमौ 'समानौ मरुधन्वानौ' इत्यमरः । अत्युदीर्णा अतिमात्रप्रवृद्धा तृष्णा पिपासा यस्य स तथोक्तः । ‘तृष्णे स्पृहापिपासे द्वे' इत्यमरः । श्राम्यति एकत्र देवोद्धरणादिव्यापारैः अन्यत्र लेख्यवहनादिभिरिति भावः । अत्रापि पूर्ववदेव धर्मो ज्ञेयः ॥

 इयं बिम्बप्रतिबिम्बभावेनापि दृश्यते, यथा अश्रूदञ्चति चक्षुषि वपुषि च पुलकः' इत्यादिप्रागुदाहृतपद्ये चक्षुर्वपुरादीनां बिम्बप्रतिबिम्बभावः । एवमन्यत्रापि द्रष्टव्यम् ।

 केचित्तु रशनारूपाऽपीयं दृश्यत इति वदन्ति ।

 सा यथा--

 मीनचकोरकुरङ्गास्संगाहन्ते वनं त्वदक्षिजिताः। विद्रुमपल्लवबिम्बान्यप्यम्ब त्वदधरावधूतानि ॥

 वनमित्यत्र यथार्हमरण्यमुदकं चेत्यर्थो ग्राह्यः । विद्रुमाणामब्धिजन्यत्वाद्वनस्थितिः । मीन इव चकोरश्चकोर इव कुरङ्ग इति प्रतीतेः रशनारूपतेति ध्येयम् । वस्तुतस्त्वियं बहूनामप्रस्तुतानामेकधर्मान्वयरूपैव तुल्ययोगिता । लक्षणे वर्ण्यानामन्येषां वेति बहुवचननिर्देशात् ॥

 यत्र च प्रकृतानामेव वा अप्रकृतानामेव वा क्रियाणां एककारकान्वयस्साकारकतुल्ययोगितेति जगन्नाथादयः ॥

 स यथा--

 भर्तुं जगन्ति भुवमुद्धर्तुं हर्तुं प्रपन्नजनविपदम् । कर्तुं श्रेयो निरवधि काकोदरगिरिपतेः क ईष्टेऽन्यः॥

 मतान्तरे त्वत्र वक्ष्यमाणस्समुच्चयालंकार एव ॥

 इयं व्यङ्ग्या यथा--

 नक्तंदिवं मुरारे ज्वलतस्तव तेजसः कथा यत्र । तत्र कदाचिद्दीव्यन्को वा भानुः कृशानुरपि ॥

 अत्र को वेत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य भानुकृशानुभ्यामप्रकृताभ्यामन्वयो व्यज्यते ॥

 द्वितीयतुल्ययोगिता-

हितेऽहिते च यद्वृत्तेस्तौल्यं सा त्वपरा मता ।

 हिताहितविषये व्यवहारतौल्यमन्या तुल्ययोगितेत्यर्थः॥

 यथा--

 शपतां चैद्यादीनां जपतामपि योगिनां भवन्नाम। अददाः पदं समानं वद दाक्ष्यं यदुकुमार किमिदं ते ॥४४२ ।।

 अत्र यदुवंश्यत्वेन भगवतस्संबोधनं विवक्षितार्थस्य तदवतारीयत्वज्ञापनाय । तत्रापि कुमारेत्युक्तिर्हिताहितविभागमुग्धताभिप्रायेण ॥

 यथावा--

 कलशाब्धिसुताकमितस्सुहृदसुहृच्च त्वया कृत- श्शामितः। वदतोऽस्ति न मे द्वेष्यो न प्रिय इति ते न चैतदाश्चर्यम् ॥ ५४३ ॥

 सुहृत् अर्जुनादिः शं सुखं इतः प्राप्तः कृतः । एवमसुहृदपि । पक्षे शमितः विनाशित इत्यर्थः ॥

 यथा वा--

 त्वच्चरणसम्मुखीनं तत्र पराचीनमप्यहिगिरीन्दो । त्वं वैभवसंमूर्छनभाजं वितनोषि का नु ते प्रौढिः ॥ ५४४ ॥

 वैभवस्य विभुत्वस्य संमूर्छनमभिव्याप्तिः ‘मुर्छा मोहसमुच्छ्राययोः' इति धातोर्ल्युट् । तद्भाजमिति सम्मुखीन पक्षे । पराचीनविषये तु वै इति प्रसिद्ध्यर्थकमव्ययम् संसारे संमूर्छनभाजं मोहभाजं वितनोषीत्यर्थः ॥

 यथावा--

 क्रियते हि सदास्थावरजन्मा जनताऽच्युत त्वया विनता । विमताऽपि तथाऽतितरां मम तावद्विस्मयो महानेषः ॥५४५॥

 हे अच्युत ! त्वया विनता विमता च जनता सदास्थावरजन्मा क्रियते, विनतपक्षे—सत्सु ब्रह्मवित्सु आस्था श्रद्धा यस्यास्सा सती प्रशस्ता आस्था यस्यास्सेति वा । वरं श्रेष्ठं जन्म यस्यास्सा तथोक्ता च क्रियते । मन्नन्तत्वान्न ङीप् । अन्यत्र-सदा सन्ततं स्थावरजन्मा वृक्षादिरूपजन्मभाक् क्रियते हिः प्रसिद्धौ । स्पष्टमन्यत् ।  यथा वा--

 परिपुष्टधेनुकानां बालाना सवयसां च तालानाम् । कृष्ण फलाभ्यवहारं कल्पयसि स्माविमृश्य बतभेदम् ॥ ५४६ ॥

 हे कृष्ण ! इयं च संबुद्धिस्तदवतारासाधारणचरितमत्र श्लोके विवक्षितमिति ज्ञापनाय । परिपुष्टाः धेनवो गावो यैस्ते परिपुष्टधेनुकाः “शेषाद्विभाषा’ इति कप् । पक्षे-परिपुष्टः धेनुकः तन्नामा गर्दभरूपोऽसुरो येषु ते तेषां सवयसां वयस्यानां 'स्निग्धो वयस्यस्सवयाः' इत्यमरः । पक्षे-सपक्षिणामित्यर्थः । 'वयः पक्षिणि बाल्यादौ’ इति विश्वः । आदौ समानं वयो येषामिति विग्रहे ‘ज्योतिर्जनपद’ इत्यादिना समानशब्दश्य सभावः । द्वितीये वयोभिस्सह वर्तत इति सहपूर्वपदबहुव्रीहौ ‘वोपसर्जनस्य’ इति सहशब्दस्य सभावः । बालानां गोपालबालकानां, तालानां तृणराजतरूणां च भेदं तारतम्यं अविमृश्य फलानां फलैर्वा अभ्यवहारं अहारम् , पक्षे -फलानां अभ्यवहारं अधःपातनं कल्पयसि स्म । बतेत्याश्चर्ये । अत्र श्रीभागवतीया धेनुकासुरवधकथाऽसुसंधेया । बालतालशब्दयोः बतभेदं बकारतकाराभ्यां वैलक्षण्यं अविमृश्य अनादृत्येत्यर्थोऽपि चमत्कारातिशयं पुष्णाति । अत्र तालानामहितत्वं चाहितधेनुकासुराश्रयतयेति ध्येयम् ॥

 यथा वा--

 सद्द्वेषरुचिरमार्गप्रवणोऽरिष्टान्वितोऽतिरिक्तात्मा । अहितो हितश्च भवता क्रियते फणिशैलशेखर विचित्रम् ॥ ५४७ ॥  अहितः सतां द्वेषे रुचिर्यस्य तथोक्तः अमार्गे शास्त्रविरुद्धे पथि प्रवणः अरिष्टेन अशुभेन अन्वितः अत्यन्तं रिक्तः तुच्छः आत्मा बुद्धिर्यस्य स तथोक्तः ‘वशिकं तुच्छरिक्तके' इत्यमरः । बुद्धिहीन इत्यर्थः । क्रियते । हितश्चैवं क्रियते । पक्षे - सन् प्रशस्तः वेषः रुचिरशास्त्रीयतया रमणीयः यो मार्गः पन्थाश्च तयोः प्रवणः । ‘वयसः कर्मणोऽर्थस्य’ इत्युक्तरीत्या वयःकर्माद्यनुरूपवेषादिक इति भावः । अरिष्टेन शुभेन अन्वितः ‘अरिष्टे तु शुभाशुभे' इत्यमरः । अतिरिक्तः समधिकः आत्मा स्वभावो यस्य स तथोक्तः । लोकोत्तरस्वभाव इत्यर्थः । ‘अतिरिक्तस्समधिकः' इत्यमरः । क्रियते विचित्रम्॥

 यथावा--

 स्फुटमणिकान्तिकमच्युत विदधानं प्राग्र्यभाश्रितं राष्ट्रम् । हन्त कुलालंकृत्यायोग्यं हितमहितमपि तनोषि जनम् ॥ ५४८ ॥

 हे अच्युत ! हितं जनं स्फुटा व्यक्ता मणीनां कान्तिश्शोभा यस्य तं तथोक्तं शेषाद्विभाषा' इति कप् । राष्ट्रं प्राग्र्यया परार्थ्यया भया प्रभया आश्रितं विदधानं सर्वराष्ट्रसमृद्धिदायिनमिति यावत् । कुलस्य अन्वयस्य अलंकृत्याः अलंकारस्य योग्यं तनोषि । अहितमप्येवमेव तनोषीत्याश्चर्यम् । वस्तुतस्तु- अहितं जनमपि स्फुटाः मणिका मृद्विकाराः अन्तिके यस्य तं तथोक्तं 'अलञ्जरस्स्यामणिकः' इत्यमरः । राष्ट्रं प्राग्र्येण अग्रिमेण भा भ् इति वर्णेन भा इत्येतत्तृतीयैकवचनम् । श्रितं विदधानं भ्राष्ट्रं विनिर्मिमाणमित्यर्थः । राष्ट्रशब्दस्यादौ व्यञ्जनमात्रभकारसंश्लेषणे भ्राष्ट्रमिति निष्पत्तेः । अत एव कुलालं कुम्भकारं अत एव कृत्यानां सत्कर्मणां कृत्येषु वा अयोग्यं अनर्हं

रजकश्चर्मकारश्च नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश्च स्वर्णकारस्तु सौचिकः ॥
तक्षकस्तिलयन्त्री च सूनश्चक्री तथा ध्वजी ।
नापितः कारुकश्चैव षोडशैते जनङ्गमाः ॥

इति पराशरोक्तेस्तस्य ग्रामचण्डालेष्वन्तर्भावादिति भावः ॥

 यथावा--

 पौरहिततां प्रपन्नं पुलोमजातेश्वरत्वमधिधरणि। प्राप्तं कलयत्यच्युत मित्रममित्रं च हन्ततव शक्तिः ॥

हे अच्युत ! तव शक्तिः पराक्रमः मित्रं सखायं युधिष्ठिरादिकं, पौरेभ्यो नागरेभ्यः हिततां अनुकूलतां प्रपन्नं प्राप्तं 'चतुर्थी तदर्थ’ इत्यादिना समासः । अधिधरणि धरणौ पुलोमजातेश्वरत्वं शचीपतित्वं भूमीन्द्रत्वं सार्वभौमत्वमिति यावत् । प्राप्तं कलयति । अमित्रं चैवमेव कलयति । हन्तेत्याश्चर्ये । वस्तुतस्त्वमित्रपक्षे –पौ पुवर्णे रहिततां विश्लिष्टतां प्रपन्नं पुलोमजातेश्वरत्वं लोमजातेश्वरत्वमित्यर्थः । तत्र पुवर्णोत्सारणे तथानिष्पत्तेः। मेषादिलोमक्रयविक्रयिकमत्यर्थनिहीनमिति भावः ।

 यथावा--

 हन्त त्वयि प्रपन्नो विप्रतिपन्नश्च यस्तयोर्जननि । अविकृतमेव विधत्से भुवनेश्वरि विश्वभोग्यमैश्वर्यम् ॥ ५५० ॥  हे भुवनेश्वरि ! भुवनेश्वरस्य भगवतस्स्त्री । तस्यास्संबुद्धिः। यद्वा- भुवनानामीश्वरीत्येव विग्रहः ‘अश्नोतेराशुकर्मणि वरट्च’ इत्यश्नोतेर्वरटि टित्त्वलक्षणो ङीप् । लोकानामाशुवरदात्रीत्यर्थः। 'आशुकर्मवरदानादि’ इति हि व्याख्यातम् । प्रपञ्चितं चैतल्लक्ष्मीसहस्ररत्नप्रकाशिकायां प्रादुर्भावस्तबके ‘अखिलेश्वरींत्याम्’ इत्येतद्विवरणावसरे । त्वयि प्रपन्नो यः विप्रतिपन्नश्च यः तयोरुभयोरप्यविकृतमेव विश्वभोग्यमैश्वर्यं विधत्से । हन्त । एकत्र अविकृतं अविकार्येव विश्वेषां भोग्यं भोगार्हं सकलजगदुपकारकमित्यर्थः। ऐश्वर्यं विधत्से । अपरत्र-अविद्यमानः विः विवर्णो यस्य तत् अवि, तथाविधं कृतं विश्वभोग्यं श्वभोग्यमित्यर्थः । अतितुच्छमिति भावः । शब्दार्थयोस्तादात्म्यम् । ऐश्वर्यं विधत्से ॥

 यथावा--

 देवानां दैत्यानामपि तव चरणद्वयं प्रभासनदम् । तेषामुभयेषामपि सामान्यं तद्धि दैवतं भगवन् ॥ ५५१ ॥

 हे भगवन् ! तव चरणद्वयं देवानां दैत्यानामपि प्रभासनदम् । कथमिदं हिताहितयोस्तुल्यफलप्रदानमुचितमित्याशङ्क्य समाधत्ते -तेषामिति । तेषामुभयेषामपि तत् तव चरणद्वयं सामान्यं दैवतं हि । उभयसाधारणदैवतत्वादुभयेषां तुल्यफलप्रदानं युक्तमेवेति भावः । हीत्येतत् ‘देवानां दानवानां च सामान्यमधिदैवतम् । सर्वदा चरणद्वन्द्वम्’ इति प्रमाणप्रसिद्धिं द्योतयति । प्रभासनं प्रकाशं ददातीति तथोक्तं देवपक्षे । अन्यत्र प्रभायाः असनं निरासं ददातीति तथोक्तम् । एषूदाहरणेष्वाद्यं शुद्धम् । अन्यानि श्लेषसंकीर्णानि यथायथमलंकारान्तरसंकीर्णानि च ॥

भगवद्वर्णनौत्सुक्यपारवश्येन दर्शितम् ।
बहूदाहरणं तत्र न कार्या दोषधीर्बुधैः ॥

 इयं सरस्वतीकण्ठाभरणोक्ता तुल्ययोगिता । अत्र केचित्- "नेयं तुल्ययोगिता पूर्वोक्ततुल्ययोगितातो भेदमर्हति, ‘वर्ण्यानामितरेषां वा' इति लक्षणाक्रान्तत्वात् । ‘प्रदीयते परा भूतिः' इत्यत्र एकानुपूर्वीबोधितवस्तुकर्मकदानपात्रत्वस्य परंपरया तादृशशब्दस्य वा धर्मस्यैक्यात् । ‘यश्च निम्बम्' इत्यत्रापि कटुत्वविशिष्टनिम्बस्यैव परंपरया छेदकसेचकपूजकधर्मत्वसंभवात् " इत्यहुः । अन्ये तु –‘तदेतदपेशलं, तथाहि यत्रानेका न्वयित्वेन ज्ञातो धर्मस्तेषामौपम्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोक्तः प्रकारः । यत्र तु हिताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्योतकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । न ह्यत्र पराभूतिशब्दस्य तदर्थकर्मदानस्य वा परंपरया शत्रुमित्रगतत्वेन भानं, अपितु श्लेषबलादेकत्वेनाध्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्तत्वम् । एतेन ‘यश्च निम्बम्' इत्यत्र कटुत्वविशिष्टस्य निम्बस्यैव परंपरया छेदकसेचकपूजकधर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मस्यालंकारतासंपादकत्वाभावात् । अन्यथा 'संकुचन्ति सरोजानि’ इत्येतावतैव तुल्ययोगितापत्तेः । किंत्वनेकगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगिताप्रयोजकत्वमिति तदभावे तदन्तर्गतिकथनमसमञ्जसमेव” इत्याहुः ॥

 तृतीयतुल्ययोगिता-यदुत्कृष्टगुणैस्साम्यवचनं साऽपरा मता ॥

 उत्कृष्टगुणैस्साम्यविचक्षया साधारणधर्मकथनमपरा तुल्ययोगिता । धर्मस्य वर्ण्यावर्ण्यगतत्वादुक्तविलक्षणेयम् । ‘यत्प्रायं श्रूयते यच्च तत्तादृगवगम्यते’ इति वाक्यविदभिमतन्यायानुरोधेन प्रसिद्धगुणोत्कृष्टसाम्यस्य वर्णनीये प्रतीतेस्तुल्ययोगिताशब्दान्वर्थताऽप्यस्तीते बोध्यम् ॥

 यथा--

 मणिराजो वनमाला श्रीवत्सो दौग्धसैन्धवी बाला । मृन्मयसुममालाऽपिच तव भूषणतामवाप किल शौरे ॥ ५५२ ॥

 अत्र वर्णनीया मृन्मयसुममाला अप्रकृतैः कौस्तुभादिभिर्भूषणत्वेन समीकृत्योक्ता । मृन्मयसुममालाया एव वर्णनीयत्वेन विवक्षणाल्लक्षणसंगतिः। किलेत्यैतिह्ये । ‘केनचिद्भक्तिमताऽर्पितां मृन्मयीं सुममालां कदाचित्फणिगिरौ भगवान्मूर्ध्न्यधार्षीत् ' इति पौराणिकी कथाऽत्रानुसंधेया । यैवोच्यते ‘दत्तां केनापि सूनावळिमधिमकुटं मृन्मयीमेच दध्रे' इति । अत्र कौस्तुभादीनां भगवदीयत्वेन प्रस्तुतत्वाभिसंधौ प्राथमिकतुल्ययोगितैवैषोति नेदं शुद्धमुदाहरणम् । इदं तु शुद्धम्-

 कल्पद्रुः कामगवी चिन्तारत्नं त्वदाश्रितश्चापि। औदार्याज्जगतोऽच्युत खेदान्व्याधूय कल्पयति मोदान् ॥ ५५३ ॥  यथावा--

 कमठपतिः काकोदरकदम्बनेता हरित्करिस्तोमः । उर्वीं वेङ्कटगिरिरपि सर्वामेतां बिभर्तितराम् ॥

 अनयोरुदाहरणयोः प्रकृतयोर्भगवदाश्रितवेङ्कटशैलयोरप्रकृतगुणोत्कृष्टकल्पद्रुकमठपतिप्रभृतिभिस्समीकृत्य साधारणधर्मवर्णनम् ॥

 एवम्--

 त्वत्प्रतिपादितमहसो भानुस्सितभानुरपि बृहद्भानुः । त्वदनुगतो मनुजोऽपिच भगवन् जगतां तमांसि धून्वन्ति ॥ ५५५ ॥

 इत्यादावपि द्रष्टव्यम् ॥

 यथावा--

 त्वद्विमुखचित्तवृत्तिर्धवळेतरपक्षचरमरात्रिश्च । हर्यालोकविहानात्पर्याप्तं तामसी भवत्यम्ब ॥

 हे अम्ब ! हरेर्भगवतः । पक्षे- हर्योः सूर्याचन्द्रमसोः आलोकस्य कटाक्षस्य दीप्तेश्च विहानात् अभावात् पर्याप्तं यथा स्यात्तथा तामसी संपद्यते । पक्षे तमिस्रवती भवति ॥

 यथावा--

 अध्याता तव विद्वानत्राता नरपतिश्च दीनानाम् । धनवान्नरोप्यदाता धरणेर्भारायते वृषाद्रिमणे ॥  पूर्वत्रोदाहरणत्रये स्तुतिः अन्तिमोदाहरणद्वये निन्दा । एवंचोत्कृष्टगुणैरिति लक्षणे उत्कृष्टपदमपकृष्टस्याप्युपलक्षकं, तुल्यत्यावगतिहेतोः प्रायपाठस्यात्राप्यविशेषात् । इयं काव्यक्षदर्शे दर्शिता । इमां तुल्ययोगितां केचित्सिद्धिरिति व्यवाहार्षुः । तथाच जयदेवः काव्यलक्षणप्रतिपादके तृतीये मयूखे--

सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।
युवामेव हि विख्यातौ त्वं बलैर्जलधिर्जलैः ॥

इति । सर्वस्वकारादिमतान्तरेष्वत्र समुदितयोर्वर्ण्यावर्ण्ययोर्भगवद्विमुखचित्तवृत्तिदर्शरात्र्योस्तामसी भवतीत्येकधर्मान्वयाद्वक्ष्यमाणं दीपकमेव ॥

इत्यलङ्कारमणिहारे तुल्ययोगितासरष्षोडशः