अलङ्कारमणिहारः (भागः १)/अतिशयोक्तिसरः (१५)

विकिस्रोतः तः
Jump to navigation Jump to search

अथातिशयोक्तिसरः.


निगीर्य विषयं यत्र विषय्येवाध्यवस्यते ।
रूपकातिशयोक्तिं तामलंकारविदो विदुः ॥

 आरोपविषयस्य मुखादेर्विशिष्य तद्वाचकपदोपादानेन विनाऽपि विषयिवाचकैश्चन्द्रादिपदैरेव ग्रहणं विषयनिगरणम् । तत्पूर्वकं विषयस्य विषयिरूपतयाऽध्यवसानं यत्र तत्र रूपकातिशयोक्तिः । विषयिरूपतयेत्यत्र रूपं च अभेदताद्रूप्यान्यतरत् । एवं च अनुपात्तविषयधर्मिकाहार्यनिश्चयविषयीभूतं विषय्यभेदताद्रूप्यान्यतरद्रूपकातिशयोक्तिरिति लक्षणं बोध्यम् । रूपकवारणायानुपात्तेति। तत्र हि विषयो मुखादिरुपात्तः । अयमेव हि रूपकादस्यां विशेषोऽतिशय उच्यते । भ्रान्तिमद्वारणायाहार्येति । उत्प्रेक्षावारणाय निश्चयेति । अत्र च विषयविषयिणोरेकपदोपात्तत्वान्नोद्देश्यविधेयभावस्संभवति । विभिन्नपदोपात्तयोरेव तदवतारात् ॥  यथा--

 तिमिरनिरासपटीयान्कमलानामावहन्महामोदम् । कर्दममर्दयतितमां दुर्दममम्भोजबान्धवो द्युतिमान् ॥ ४८९ ॥

 अत्र हि अम्भोजबान्धवत्वेन कौस्तुभस्य निगरणे तिमिरनिरासेत्यादिपादद्वयगते द्वे विशेषणे तदनुग्रहार्थं विषयविषयिणोस्साधारणधर्मतया साक्षादुपात्ते । तृतीयमपि तृतीयचरणगतमशाब्दिकानां नये । शाब्दिकानां तूपात्तया अम्भोजबान्धवाभिन्नकर्तृकया कर्दममर्दनक्रिययोन्नीतं तादृशकर्तृत्वं साधारणधर्मत्वेन तयोर्विषयविषयिणोस्स्थितम् । प्रथमे चरणे अज्ञानस्य तिमिरत्वेन, द्वितीये जननयनानां कमलतया, तृतीये दुरितस्य कर्दमत्वेन च निगरणं तस्मिन्नेवानुग्राहकतया । एवंच सावयवेयमतिशयोक्तिः ॥

 यथा वा--

 तिमिराधःकृतमिन्दुं कमलयुगं तत्र सततसंफुल्लम् । कलयन्ती भाति घने माया देवस्य काऽप्यविज्ञेया ॥ ४९० ॥

 अत्र तिमिरेन्दुकमलघनमायारूपैर्विषयिभिश्चिकुरवदननयनभगवच्छ्रियो विषया निगीर्णाः । अत्र ‘जनकस्य कुले जाता देवमायेव निर्मिता’ इत्येतदनुसन्धेयम् । माया नाम विचित्रकार्यकरी शक्तिः ।

 यत्र ह्यनुग्राहकं न निगरणान्तरं किंतु शुद्धं साधारणधर्मादि सा निरवयवा ॥  यथा-

 मधुरान् सुधाप्रवाहान्विधुशिशिरानबुधजनदुरवगाहान् । प्रमुषिततापव्यूहन् प्रविगाह्य जहामि सकलसंमोहान् ॥ ४९१ ॥

 अबुधजनैः अज्ञजनैः देवेतरैश्व दुरवगाहान्, अत्र श्रीनिवासदयाविभवा निगीर्णाः । प्रथमोदाहरणे अम्भोजबान्धवपदेन साध्यवसानलक्षणया शक्यलक्ष्योभयानुगततिमिरनिरासपटीयस्त्वाद्युपात्तधर्मपुरस्कारेणोपस्थिते कौस्तुभे शक्त्युपस्थितस्याम्भोजबान्धवत्वविशिष्टस्याभेदसंसर्गेणान्वयः । शक्त्युपस्थितयोः कृतीष्टसाधनतयोरिव शक्तिलक्षणाभ्यामुपस्थितयोरप्येकपदार्थयोस्तात्पर्यवशादन्वयाभ्युपगमे बाधकविरहात् । एवं च अम्भोजबान्धवाभिन्नः तिमिरनिरासपटीयस्त्वादिमानिति बोधादियमभेदातिशयोक्तिरित्युच्यते । एवमनन्तरोदाहरणयोरपि । नन्वेवं सति किमस्य रूपकाद्वैलक्षण्यमिति चेन्मैवम् । रूपके विषयिभेदव्याप्यस्य विषयतावच्छेदकस्य भानेन वैलक्षण्यस्य स्पष्टत्वात् । यदा तु नाभेदभाने तात्पर्ये किंतु भेदभाने तदा ताद्रूप्यस्यैव बोधात्ताद्रूप्यातिशयोक्तिर्वक्ष्यते । अत्र लक्षणे विषयं निगीर्य विषय्येवाध्यवस्यत इति सामान्यत एवोक्तेश्शुद्धसाध्यवसानलक्षणया अभेदोपचारेऽप्यतिशयोक्तिरेव ॥

 तत्र धर्मे धर्म्यभेदाध्यवसायो यथा--

 सकलजगदग्रगण्यं सरसिजनयनस्य परिणतं पुण्यम् । अस्मादृशां शरण्यं विस्मयनीयं विभातु लावण्यम् ॥ ४९२ ॥  अत्र लावण्याश्रये भगवत्यां लक्ष्म्यां लावण्यारोपः । चन्द्रोऽयमित्यादौ सादृश्यस्याध्यवसाननिमित्तत्वाद्गौणत्वम् । आश्रयत्वादिसंबन्धस्य निमित्तत्वे तु शुद्धत्वमिति विवेकः । ‘भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौ’ इति काव्यप्रकाशोक्तेः । इमौ भेदौ सारोपसाध्यवसानरूपभेदावित्यर्थः । तस्मात्सादृश्यातिरिक्तसंबन्धेन यत्रान्यस्मिन्नन्यतादात्म्यारोपः सा शुद्धसाध्यवसानेति ध्येयम् ॥

 कार्ये कारणाभेदाध्यवसानं यथा--

 वचनरसधुतमरन्दं वपुरसितिम्नाऽवधीरितमिळिन्दम् । वन्दारुदेववृन्दं विनतानन्दं कमप्यहमविन्दम् ॥ ४९३ ॥

 अत्र विनतानन्दरूपकार्ये तत्कारणभगवदभेदाध्यवसायः । ‘हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते ’ इत्युक्तलक्षणहेत्वलंकारविशेषस्य तु शुद्धसारोपलक्षणामूलकत्वेनोपात्तविषयकं ‘लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः' इत्यादिकं विषय इति नानेनैव कार्यकारणाभेदरूपशुद्धसाध्यवसानलक्षणामूलकेन गतार्थता ॥

सारोपा तत्र यत्रोक्तौ विषयी विषयस्तथा ।
सारोपा द्विविधा सेयं गौणी शुद्धेति भेदतः ॥
सादृश्यात्मकसंबन्धरूपा गौणीत्युदीर्यते ।
शुद्धा तदन्यसंबन्धरूपा सा तु निगद्यते ॥
मुखेन्दुर्नयनानन्दस्तन्व्या विजयते तराम् ।
निगीर्य विषयं यत्र विषय्येव निबध्यते ॥

तत्र साध्यवसाना स्याद्गौणी शुद्धेति सा द्विधा ।
सरोजकाहळीरम्भासैकताकाशभूधरैः ॥
शङ्खेन्दुतिमिरैस्सृष्टा वल्ली कामिजनोत्सवः ॥

इति काव्यदर्पणे सोदाहरणे सारोपसाध्यवसानलक्षणे प्रदर्शिते । अनुपदपद्योदाहृतकाव्यप्रकाशकारिकार्थस्फुटप्रतिपत्तये काव्यदर्पणलक्षणोदाहरणम् । एतेन प्रत्यासत्तिरसौ रसस्य जयति त्रस्यत्कुरङ्गेक्षणा' इत्यलंकारकौस्तुभकृतो विश्वेश्वरस्य कार्यकारणाभेदाध्यवसानलक्षणातिशयोक्तेरुदाहरणमचतुरश्रं वेदितव्यम् । तत्र त्रस्यत्कुरङ्गेक्षणेति विषयस्योपादानेनातिशयोक्तेर्विषयनिगरणप्रधानाया अविषयत्वादुक्तरीत्या हेत्वलंकारपार्थक्यावश्यंभावेन तदुदाहरणताया एवास्य युक्ततया उदाहरणान्तरप्रदर्शनस्यैवोचितत्वात् । ‘अभेदेनाभिधाहेतुर्हेतोर्हेतुमता सह’ इति साहित्यदर्पणोक्तहेत्वलंकारलक्षणं च ‘हेतुहेतुमतोरैक्यं हेतुम्' इति प्रदर्शितचन्द्रावलोकलक्षणाविसंवाद्येव अभेदेन अभेदारोपेण अभिधा उक्तिरिति तदर्थात् । यत्पुनः-

तारुण्यस्य विलासस्समधिकलावण्यसंपदो हासः ।
धरणितलस्याभरणं युवजनमनसो वशीकरणम् ॥

इति तदीयमुदाहरणं, तत्तु 'लक्ष्मीविलासा विदुषाम्' इत्यादिसंप्रतिपन्नोदाहरणविसंवादितयाऽनादर्तव्यम् । अत्र वशीकरणहेतुर्नायिकावशीकरणत्वेनोक्तेति विवृततया साध्यवसानलक्षणामूलकातिशयोक्त्युदाहरणार्हत्वात्तस्य । कौस्तुभकारस्तु— "अभेदेनाभिधाहेतुः" इति साहित्यदर्पणोक्तहेत्वलंकारस्यातिशयोक्तावेवान्तर्भावः” इत्यभाणीत् ॥

 साहित्यदर्पणोक्तेति हेत्वलंकारं विशिषतोऽस्यायं भावः- 'युवजनमनसो वशीकरणम्’ इति तदीयोदाहरणे साध्यवसानलक्षणामूलकहेतुहेतुमदभेददर्शनेन तल्लक्षणस्य तथाविधहेतुहेतुमदभेदतत्परतावगमात्तादृशहेत्वलंकारस्यातिशयोक्तावेवान्तर्भावः न तु सारोपलक्षणामूलकहेतुहेतुमदभेदस्यापीति ॥ उल्लेखादीनामप्यत्रैवातिशयोक्तौ क्तौस्तुभकृताऽन्तर्भावनं तु नातीव रमणीयमिति स्वयमेव विदां कुर्वन्तु सहृदया इति विरम्यते विस्तरभयात् ॥

 मालारूपाऽपीयं दृश्यते यथा--

 सौराज्यं जगतीनां सौमङ्गल्यं सुपर्वसुदतीनाम् । सौभाग्यमहिगिरिपतेस्सौलभ्यं हन्त नयनयोर्भजते ॥ ४९४ ॥

 अत्र सौराज्यादिरूपकार्येषु तत्कारणभगवदभेदाध्यवसायः ॥

 अत्रातिशयोक्तौ रूपकविशेषणं रूपके प्रदर्शिताः प्रकारा अत्रापि संभवन्तीति सादृश्येन प्रदर्शनार्थम् । मुख्यरूपकाभेदस्यातिशयोक्तावसंभवाद्रूपकपदं ‘मासमग्निहोत्रं जुहोति' इत्यत्राग्निहोत्रपदवत्तद्धर्मातिदेशेन तत्सदृशपरम् । तेनात्राप्यभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति विधाद्वयं तत्राप्याधिक्यन्यूनतानुभयविभागश्चेत्येतत्सर्वं विभावनीयम् ॥

 तत्राधिकाभेदरूपकातिशयोक्तिर्यथा--

 अञ्जनगिरिशिखरोल्लसदञ्जनमद्भुतमिदं नृणां जातु। सञ्जितमिह लोचनयोर्व्यञ्जयति सदा स्वमेव निधिम् ॥ ४९५ ॥  अत्र कदाचिल्लोचनासञ्जितात्स्वातिरिक्तनिधिव्यञ्जकात्प्रसिद्धाञ्जनादञ्जनाभेदाध्यवसितस्य कदाचिल्लोचनगोचरीकृतस्य भगवतस्सततमपि स्वाभिन्ननिधिव्यञ्जकतोक्तेराधिक्यं द्रष्टव्यम् ॥

 यथा च--

 जाम्बूनदाद्रिशृङ्गे जम्बूरद्भुततमेयमुद्भूता । न फलप्रत्ययलोपो यस्याः परिदृश्यते कदाचिदपि ।

 जाम्बूनदाद्रेः शेषगिरेः शृङ्गे अद्भुततमा इयं जम्बूः जम्बूत्वेनाध्यवसितो भगवानिति भावः । उद्भूता अवतीर्णा । अद्भुततमत्वमेवाह-नेत्यादि । यस्याः जम्ब्वाः फलैः प्रत्ययः प्रथितत्वं तस्य लोपः फलवत्ताप्रसिद्धयभाव इत्यर्थः ॥

 प्रत्ययः प्रथितत्वेऽपि सनादिज्ञानयोरपि।
आचारे शपथे रन्ध्रे विश्वासाधीनहेतुषु ॥

इति मेदिनी । भगवत्पक्षे तु-- फलप्रत्ययस्य तत्तदभीप्सितप्रयोजनसिद्धिविषयकविश्वासस्येत्यर्थः । लोपः कदाचिदपि न परिदृश्यते । प्रसिद्धजम्ब्वाः कदाचित्फलप्रसिद्धिलोपस्संभवेदपि अस्यास्तु न तथा । एतदाश्रितानामीप्सितं फलं सिध्यति वा न वेति विशयेन विश्वासलोपः कदाचिदपि न भवेदिति भावः । पक्षे जम्बूः जम्बूशब्दः अर्थगतस्य स्त्रीत्वस्य शब्दे आरोपः । अद्भुततमा । तदेवाह-- नेति । यस्याः पञ्चम्येकवचनमिदम् । फलप्रत्ययलोपः कदाचिदपि न परिदृश्यते । जम्बूशब्दात्फलरूपेऽर्थे वैकारिके अणि ‘जम्ब्वा वा’ इति वैकल्पिके लुप्यनुशिष्टेऽपि अस्याः जम्बूशब्दव्यक्तेः कदाचिदपि फलप्रत्ययलोपः फलार्थविहिताण्प्रत्ययलोपः न दृश्यत इत्यद्भुतत्वमिति भावः । वास्तवार्थस्तूक्त एव । अत्र प्रसिद्धजम्ब्वपेक्षया प्रसिद्धजम्बूशब्दापेक्षया च जम्बूत्वेनाध्यवसितस्य भगवत उक्तरीत्याऽऽधिक्यं श्लेषमूलकं द्रष्टव्यम् । शब्दपरार्थान्तरं चमत्कारातिशयाय ॥

 न्यूनाभेदरूपकातिशयोक्तिर्यथा--

 सौशील्यमुख्यशुभगुणराशीन्भवतो हरे श्रुतिशतोक्तान् । अविदन्तः पशवोऽमी विनदन्त्यचतुष्पदा वृथा दिक्षु ॥ ४९७ ॥

 अत्र पश्वभेदेनाध्यवसितानामचतुष्पदत्वोक्तेर्न्यूनता ॥ अनुभयाभेदरूपकातिशयोक्तिस्तु 'तिमिरनिरासपटीयान्, मधुरान्सुधाप्रवाहान्’ इति प्रागुदाहृतपद्यद्वये द्रष्टव्या ॥

 अधिकताद्रप्यरूपकातिशयोक्तिर्यथा--

 नीरन्ध्रगुणप्रोतं स्फारं विशदयति निजरुचिभिरमृतम् । अन्यदिदमासितरत्नं धन्यं मां विदधदहिशिखरिखनिजम् ॥ ४९८ ॥

 नीरन्ध्रैः सान्द्रैः गुणैः सर्वज्ञत्वादिभिः प्रोतं संवलितम् । अन्यत्र नीरन्ध्रं सुषिरंविरहितं तथाऽपि गुणेन तन्तुना प्रोतं स्यूतं चेति विशेषणोभयपदकर्मधारयः । अहिशिखरिखनिजं न तु सिंहलाकरजं अन्यत् लोकविलक्षणं इदं असितरत्नं महानीलरत्नं तत्त्वेनाध्यवसितश्श्रीनिवास इति यावत् । मां धन्यं कृतार्थे धनं लब्धारं च विदधत्सत् निजरुचिभिः स्वविषयकप्रीतिविशेषैः अन्यत्र स्वप्रभाभिः । अमृतं स्वानुभवरूपं मुक्त्यैश्वर्यं विशदयति विवृणुते । पक्षे अमृतं क्षीरं विशदयति पाण्डुरं करोति, न तु नीलम् । अत्र यमेवैष वृणुते तेन लभ्यस्त यैष आत्मा विवृणुते तनूं स्वाम्' इति श्रुत्यर्थोऽनुसंधेयः । तथाहि 'एष परमत्मा यं साधकं प्रार्थयते तेन लभ्यः । प्रार्थनीयेन पुंसा लभ्य इत्यर्थः । तत्प्रार्थनीयत्वं च तत्प्रियतमस्यैव पुंसः । तत्प्रियतमत्वं च तत्प्रीतिमत एव । ततश्च भगवद्विषयिणी उपासकस्य प्रीतिः भगवत उपासके प्रीतिमुत्पाद्य तत्प्राप्तिहेतुर्भवति । तस्योपासकस्य एष आत्मा परमात्मा स्वां तनुं स्वरूपं विवृणुते प्रकाशयति स्वानुभवं प्रयच्छति' इत्यभाषि । वृणुत इति पाठेऽपि स एवार्थः । अत्र अन्यदित्यनेन निर्ज्ञातनीलरत्नाद्वैलक्ष ण्यं नीरन्ध्रेत्यादिना नीरन्ध्रगुणप्रोतत्वाहिशिखरिखनिजत्वामृतविशदीकरणैस्सरन्ध्रगुणप्रोतात्सिंहलाकरजात् क्षीरनीलतानिष्पादकात्तस्मादाधिक्यं च दर्शितम् ।

 एवम्--

 कानपि भजे विलासान्कण्ठीरवभूधरेन्द्रकृतवासान् । लक्ष्मीकटाक्षदासान् ललितशरच्चन्द्रचन्द्रिकाहासान् ॥ ४९९ ॥

 इत्यादावप्यधिकताद्रूप्यरूपकातिशयोक्तिर्द्रष्टव्या ॥

 न्यूनताद्रूप्यरूपकातिशयोक्तिर्यथा--

 पन्नगसन्नगनेतुस्सन्नयविन्नैरुदीरितं नाम । वाचाऽपि नाभिदधतो नीचाः केऽमी पिशाचका दृश्याः ॥ ५०० ॥

 सन्नयो वेदान्तशास्त्रं विन्नः विचारितो यैः तथोक्तैः ‘रदाभ्याम्' इति निष्ठातस्य पूर्वस्य दस्य च नत्वं ‘विन्नवित्तौ विचारिते’ इत्यमरः । आहिताग्नयादेराकृतिगणत्वान्निष्ठायाः परनिपातः । नामापि वाचेत्यन्वयः । अत्र केऽमी पिशचका इत्यनिर्ज्ञातत्वप्रकाशनान्निर्ज्ञातपिशाचकेभ्यो वैलक्षण्यं, दृश्या इत्यनेनादृश्येभ्यस्तेभ्यो न्यूनता च दर्शिते ॥

 अनुभयताद्रूप्यरूपकातिशयोक्तिर्यथा--

 शितिकण्ठकृतनिषेवणमविकुण्ठस्पर्शनप्रथितविभवम् । कमपि घनं फणिशिखरिणि कलयामि घनागमान्तसंलक्ष्यम् ॥ ५०१ ॥


 शितिकण्ठेन महादेवेन मयूरैश्च कृतनिषेवणं अविकुण्ठं निरर्गळं स्पर्शनं वितरणं तेन, पक्षे अप्रतिहतेन मारुतेन 'स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी । प्रथितविभवं, घनाः ये आगमान्ताः उपनिषदः तैः संलक्ष्यं ज्ञेयं तेषु प्रतिपाद्यं वा । ‘तं त्वौपनिषदम्' इति श्रुतेः । पक्षे घनागमस्य प्रावृषः अन्ते मध्ये संलक्ष्यं दृश्यम् । कमपि घनं कलयामि ॥

 यथावा--

 सुमनःकदम्बतान्तेश्शमनं तपनोद्भवोष्मभयदमनम् । कमपि घनाघनमेनं कलयन्नुज्जीवनं लभे नूनम् ॥ ५०२ ॥

 सुमनसां मालतीनां कदम्बानां नीपानां च पक्षे देवनिवहानां ‘सुमनाः पुष्पमालत्योः,' ‘कदम्बं निकुरुम्बे स्यान्नीपसिद्धार्थयोः पुमान्’ इति च मेदिनी । तान्ते ग्लानेः शमनम् । तपनात् भानोः उद्भवतीत्युद्भवः पचाद्यच् । य ऊष्मा तस्मात् भयं तस्य दमनं ग्रीष्मातपोष्मप्रशमथितारमित्यर्थः । पक्षे तपनो नरकविशेषः ‘तपना ग्रीष्मभल्लातनरकान्तरभास्कराः’ इति रत्नमाला । तस्मात् उद्भवो य ऊष्मा तापः तद्भयस्य शमनम् । यद्वा-तप्यते अनेनेति तपनः तापहेतुः उद्धतश्चासौ भवस्संसारः तस्मिन् ये ऊष्माणः आध्यात्मिकादयस्तापाः तद्भयशमनमित्यर्थः । कमपि घनाघनं श्रीनिवासमिति यावत् । कलयन् सेवमानः उज्जीवनं उत्कृष्टं सलिलं, पक्षे उत्तरणमिति यावत्। लभेय नूनमिति संभावनायाम् । अत्र ‘स्वोज्जीवनेच्छा यदि ते' इत्यादिकं स्मर्तव्यम् । उदाहरणद्वयेऽपि कमपीत्यनेन लोकसिद्धघनाद्वैलक्षण्यं प्रदर्शितं न त्वाधिक्यं न्यूनता वेत्यनुभयताद्रूप्यरूपकातिशयोक्तिरियं श्लेषोज्जीविता ॥

 इदं सर्वं कुवलयानन्दाद्यनुरोधेन । जगन्नाथस्तु ‘विषयिवाचकपदस्य विषये साध्यवसानलक्षणायाश्शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकवोधत्वं कार्यतावच्छेदकम् । एवंच निगरणे सर्वत्र विषयितावच्छेदकधर्मरूपेणैव विषयस्य भानं न विषय्यभिन्नत्वेनेति स्थिते अभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति द्वैविध्यमयुक्तम्' इत्यभाणीत् । अत्र वैद्यनाथः—'इदं प्रौढिविलसितं, शक्यतावच्छेदकस्य लक्ष्ये पूर्वमप्रतीतत्वेन तद्विशिष्टतया लक्षणाया असंभवात् । यद्धर्मविशिष्टे शक्यसंबन्धग्रहस्तद्धर्मप्रकारकलक्ष्योपस्थितेस्समानप्रकारकशाब्दबोधे हेतुत्वात्, लक्षणापरिहार्याया अनुपपत्तेस्तदवस्थत्वाच्च । एवमपि तात्पर्यवशात्तादृशबोधाङ्गीकारे तद्वशादेव शक्याभेदप्रकारकबोधेऽपि बाधकाभावान्मात्रपदेन विषयतावच्छेदकस्यैव व्यावर्तनात् ’ इत्यवादीत् ॥  ननु ‘अञ्जनगिरिशिखरोल्लसत्’ इत्याद्युक्तोदाहरणेषु इदमिति विषयस्योपादानात्कथमतिशयोक्तिरिति चेच्छ्रूयताम्-इदं त्वस्य विषयिविशेषणत्वेन विवक्षायामतिशयोक्तिः । विषयाविशेषणत्वविवक्षायां तु रूपकमेव । एवं गौरयमित्यादावपि । अत एवातिशयोक्तावभेदोऽनुवाद्य एव न विधेय इति प्राचामुक्तिस्संगच्छते । अत एव च प्रकाशकृता ‘नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति’ इत्यतिशयोक्तिरूपकसंकरस्योदाहरणं च योयुज्यत इति दिक् ।

 सापह्नवातिशयोक्तिः-

उक्ता सापह्नवा सैव यद्यपह्नुतिगर्भिता ॥


 सैव रूपकातिशयोक्तिरेव अपह्नुतिगर्भिता चेत्सापह्नवातिशयोक्तिरुक्ता भवति । तथाच सापह्नवत्वनिरपह्नवत्वभेदेनातिशयोक्तिर्द्विविधेति ध्येयम् ॥

 यथा-

 अधिफणिधरणिधराग्रं निधिरक्षय्योऽखिलोपजीव्योस्ति। धनदावसथे निधिरिति मनुते सर्वोऽपि कियदिदं मौग्ध्यम् ॥ ५०३ ॥

 अत्र आधिफणिधरणिधराग्रं निधिरित्यतिशयोक्तिः धनदावसथस्थो न निधिरित्यपह्नुतिगर्भा । निहवोऽत्र मौग्ध्योपन्यासादर्थसिद्धः ॥

 यथावा-

 मृगपतिनगशिखरलगज्जगदान्ध्यं हरति खलु जगच्चक्षुः । अन्धान्कतिचन रचयन्निन्धां न रविर्भवेज्जगच्चक्षुः ।।५०४॥

 जगतामान्ध्यमज्ञानमिति यावत् । कतिचन दिवान्धादीन् । इन्धां दीप्यताम्। “ञि इन्धी दीप्तौ” । कर्तरि लोट्प्रथमैकवचनम् । अत्र मृगपतिनगशिखरलगज्जगच्चक्षुरित्यतिशयेक्तिः न रविर्जगच्चक्षुरिति पर्यस्तापह्नुतिगर्भा ॥

 यथावा--

 गारुत्मतमिदमेव हि गारुत्मतशैलशिरसि यद्रत्नम् । अज्ञास्तद्गारुत्मतमाहुः प्रथते यदश्मगर्भ इति ॥ ५०५ ॥

 गरुत्मतोऽयं गारुत्मतः स चासौ शैलः शेषाद्रिरेव ‘वेदाद्रिर्गरुडाद्रिश्च' इति तन्नामसु पाठात् । तस्य शिरसि शिखरे यद्रत्नं भगवानिति यावत् । गारुत्मतगिरिशिखरभवत्वादिदमेव गारुत्मतरत्नं, अज्ञास्तु अश्मा गर्भो जन्मस्थानं यस्य सः अश्मगर्भः केवलप्रस्तरजन्य इति यद्रत्नं प्रथते तद्गारुत्मतमाहुः । केवलाश्मजन्यस्य गारुत्मतरत्नतामभिदधाना मूढा एवेत्यर्थः । अत्र गारुत्मते तद्धर्मनिह्नवेन भगवति तदध्यवसानादपह्नुतिगर्भाऽतिशयोक्तिः । अज्ञा आहुरित्यनेन निह्नवस्यार्थिकत्वम् । अत्राद्ये उदाहरणे केवलापह्नुतिगर्भत्वं, इतरयोस्तु जगच्चक्षुष्ट्वगारुत्मतत्वनिह्नवे युक्तिप्रदर्शनात्सहेतुकपर्यस्तापह्नुतिगर्भत्वमिति ध्येयम् । एवंच सापह्नवातिशयोक्तावपि द्वैविध्यमभ्युपगन्तव्यम् ।

भेदकातिशयोक्तिर्यत्प्रस्तुतस्यान्यतोच्यते ॥  प्रस्तुतस्यान्यत्वं अभेदेऽपि भेदः स यत्र लोकोत्तरत्वप्रतिपत्त्यर्थो वर्ण्यते सा भेदकातिशयोक्तिरित्यर्थः । अभेदे भेदवर्णनं चाहार्यं ज्ञेयम् । एवमुत्तरत्रापि । तेन भ्रान्तौ नातिप्रसङ्गः ॥

 यथा--

 अन्यदिदं तव मौग्ध्यं कन्येऽब्धेरन्यदेव वैदग्ध्यम् । येन जगज्जनिहेतुर्नूनं क्रीतः फणीन्द्रगिरिकेतुः ॥ ५०६ ॥

 मौग्ध्यं सौन्दर्यं ‘उदयद्यौवना मुग्धा लज्जाविजितमन्मथा' इत्युक्तलक्षणावस्थाविशेषो वा, वैदग्ध्यं चातुर्यम् ॥

 यथावा--

 अमृतमयी काचिदियं सृष्टिर्यस्त्वद्गुणान्गृणाति जनः । न प्राकृतजनगन्धं सहते जात्वपि यदृच्छयाऽप्येषः ॥ ५०७ ॥

 यः जनः त्वद्भणन् गृणाति स्तौति, इयं अमृतमयी निश्श्रेयसमयी काचित्सृष्टिः । इयमिति विधेयसृष्टिशब्दानुरोधिनी स्त्रीलिङ्गता । अत एव एष त्वद्गुणस्तोता जनः जात्वपि यदृच्छयाऽपि प्राकृताः प्रकृतिपरिणामभूताः पक्षे पामराः ये जनाः 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः । तेषां गन्धं संबन्धं न सहते । इयं प्राकृती चेत्सृष्टिः कथं प्राकृतजनगन्धं न सहेत अतो मन्ये नैषा प्राकृती सृष्टिः किंत्वन्यैवामृतमयीति भावः । अत्र प्रसिद्धप्राकृतसृष्ट्यन्तर्गतस्यापि भगवदुपश्लोकितृजनस्य तद्भेदो वर्णितः ।  यथावा--

 अन्या मनसो वृत्तिर्मान्यानां देव तावकीनानाम् । आहंकारिकतां यत् क्वचिदपि नोपाश्नुते कथंचिदपि ॥ ५०८ ॥

 आहंकारिकतां सात्विकाहंकारपरिणामतां, पक्षे अहंकारमर्हतीत्याहंकारिकं तस्य भावं ‘तदर्हति’ इति ठक् । अहंयुत्वमित्यर्थः । अत्राहंकारिकस्यापि भागवतमनसस्तद्भेदो वर्णेितः । आद्या शुद्धा । अन्ये श्लेषसंकीर्णे ॥

असंबन्धेऽपि संबन्धो वर्णोत्कृष्ट्यै यदीर्यते ।
संबन्धातिशयोक्तिं तामलंकारविदो जगुः ॥

 संबन्धश्चाभेदभिन्नत्वे सत्यन्यत्वाद्यनिरूपितो ग्राह्यः । तेन रूपकातिशयोक्त्यादिप्रभेदेषु नातिप्रसङ्गः ।

 यथा--

 रुचिरतरनिजतनूरुचिनिचयप्राचुर्यमेचकितभुवनम् । चलदलकविलसदलिकं कलयाम्यनिलाशनाद्रिपतितिलकम् ॥ ५०९ ॥

 अत्राखिलभुवनस्य श्रीनिवासदिव्यविग्रहरुचिमेचकितत्वासंबन्धेऽपि तत्संबन्धोक्तिः ॥

 यथावा--

 वयमपि कतिपयदिवसैः पयसिजनयनाङ्घ्रिधूळिधुतजडिमाः । स्त्रीत्वं स्फुटयेम स्वकमित्यहिगिरिपतिशिलाः प्रमोदन्ते ॥ ५१० ॥  जडिमा अचेतनत्वमित्यर्थः । धुतजडिमा इत्यत्र ‘डाबुभाभ्याम्' इति डाप् । स्त्रीत्वं स्फुटयेम सांप्रतं स्ववाचके शब्दे शास्त्रमात्रसमधिगम्यमास्ते स्त्रीत्वं, इतःपरं भगवच्चरणरेणुव्यतिकरविनिर्धूतप्रस्तरभावाः 'स्तनकेशवती नारी’ इत्युक्तलक्षणं लौकिकस्त्रीत्वं चार्थगतं क्रमेण प्रकाशयेम गौतमशापाद्ग्रावभावभागहल्येवेति भावः । अत्राहिगिरिशिलानामुक्तविधप्रमोदासंबन्धेऽपि तत्संबन्धकल्पनं वर्ण्योत्कर्षार्थम् ॥

 यथा वा-

 रविनिभकौस्तुभतेजसि विसरति परितस्तवान्तिके नमताम् । द्युसदां किरीटमणयो हरे पराः कीटमणय एवासन् ॥ ५११ ॥

 हे हरे! पराः श्रेष्ठाः किरीटमणयः कीटमणयः खद्योता एवासन् रविनिभकौस्तुभतेजसि खद्योतवत्तिरोहितरुचोऽभवन्नित्यर्थः । ‘खद्योते स्यात्कीटमणिर्योतिर्मीली तमोमणिः’ इत्यभिधानचिन्तामणिपरिशिष्टे तिर्यक्काण्डे । पक्षे अपरा इति छेदः अपगतरेफाः किरीटमणयः कीटमणयः इति निष्पन्ना इत्यर्थः । रेफोत्तरमकारोच्चारणं मुखसुखार्थं, रेफरूपव्यञ्जनमात्रापसारणे ककारो त्तरवर्तिन इकारस्य रेफोत्तरश्रुतस्य ईकारस्य च सवर्णदीर्घ तथात्वस्य दर्शनादिति भावः । अत्र किरीटमणीनां कीटमणित्वासंबन्धेऽपि तत्संबन्धकल्पनम् । अर्थान्तरं तु चमत्कारातिशयाय ॥

 योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरुदीर्यते॥

 संबन्धेऽप्यसंबन्धकल्पनमसंबन्धातिशयोक्तिरित्यर्थः ।  यथा-

 दर्वीकरगिरिशेखरसर्वेश्वरसेवनेन धन्यतमाः । अपुनर्भवाय केचिन्निपुणाः स्पृहयन्ति नो कदाचिदपि ॥ ५१२ ।।

 अपुनर्भवाय निश्श्रेयसाय । अत्र मोक्षस्पृहासंबन्धेऽपि तदसबन्धवर्णनम् ॥

 यथा वा--

 सारोहश्रममहिगिरिपारोदितमेनमर्चयन्तु नराः । अवरोहश्रमवर्जितमवरोधैस्सममिहार्चयन्त्यमराः ॥ ५१३ ॥

 अत्रावरोहश्रमसंबन्धेऽपि तदसंबन्धवर्णनम् ॥

 हेतुकार्यसहत्वे स्यात्सेयमक्रमपूर्विका ॥

 कार्यकारणयोस्तुल्यकालत्वे सेयमतिशयोक्तिरक्रमशब्दपूर्विका अक्रमातिशयोक्तिस्स्यात् ॥

 यथा--

 संदधति चापमाराद्द्विषतां नयनानि संदधति चापम् । अञ्जनगिरिपतिपाणौ गां जहति च तेऽपि गा जहति ॥ ५१४ ॥

 अञ्जनगिरिपतिपाणौ चापं कार्मुकं संदधति अधिज्यं कुर्वति सति द्विषतां नयनानि चापं धनुस्संदधति । पक्षे च आपमिति छेदः। नयनानि च आपं अपां समूहं संदधति । अत्याहितेन बाष्पं मुञ्चन्तीत्यर्थः । तस्मिन् भगवत्पाणौ गां बाणं जहति सति ते द्विषन्तोऽपि गां बाणं, पक्षे भुवं च जहति त्यजन्तीत्यर्थः । संदधति जहतीत्यत्र संपूर्वकाद्दधातेर्जहातेश्च लट्प्रथमपुरुषबहुवचनम् । ‘स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः । अत्र यदा धनुषस्सज्जीकरणं तदैव द्विषतां बाष्पमोचनं, यदा बाणत्यागस्तदा क्षोणीत्याग इति हेतुकार्ययोस्सहत्वं वर्णितम् ।

 यथा वा--

 संभ्रमतश्चलति पुरस्संभ्रमतश्चलति भवति रिपुनिवहः । चक्रं त्यजति च चक्रं त्यजति मृगेन्द्राचलेन्द्रमौळिमणे ॥ ५१५ ॥

 भवति त्वयि संभ्रमतः रिपुनिरासे त्वरया अत्यादरेण वा पुरः अग्रतः चलति सति रिपुनिवहोऽपि संभ्रमतः उक्तोऽर्थः, पक्षे आवेगाद्भयाद्वा ‘संभ्रमस्त्वरा' इत्यभर, ‘संभ्रमोऽत्यादरे भीतावावेगे' इति रत्नमाला च । पुरः अग्रतः स्वनगराच्च चलति । त्वयि चक्रं सुदर्शनं त्यजति प्रयुञ्जाने सति रिपुनिवहोपि चक्रं सुदर्शनं राष्ट्रं च त्यजति मुञ्चति लोकान्तरं गच्छतीति भावः । 'चक्रं चये जलावर्ते रथाङ्गे राष्ट्रसैन्ययोः' इति रत्नमाला । अत्र यदा भगवतो रिपुनिग्रहार्थं पुरश्चलनं तदैव रिपूणां नगरत्यजनं, यदा सुदर्शनप्रयोगस्तदा राष्ट्रत्याग इति कार्यकारणयोर्यौगपद्यमभिहितम् ॥

 यथावा--

 कङ्कटकं विशति त्वयि वेङ्कटगिरिनाथ वैरिवि- जयाय । कं कटकं प्रविशाम स्वयमिति रिपवोऽ पि संभ्रमन्तितराम् ॥ ५१६ ॥

 हे वेङ्कटगिरिनाथ! त्वयि कङ्कटकं कवचं ‘उरश्छदः कङ्कटकः' इत्यमरः । विशति सति रिपवोपि कङ्कटकं पक्षे कं कटकं गिरिनितम्बं प्रविशेमेति संभ्रमन्तितराम् । ‘कटकोस्त्री नितम्बोऽद्रेः' इत्यमरः । अत्रापि कवचप्रवेशगिरिनितम्बप्रवेशयोर्गौगपद्यं दर्शितम् ॥

हेतुप्रसक्तिमात्रेण कार्यं चेद्विनिबध्यते ::चपलातिशयोक्तस्सा निपुणैर्विनिगद्यते ॥

 हेत्वभावेऽपि हेतुप्रसक्तिमात्रेण कार्यवर्णनं चपलातिशयोक्तिरित्यर्थः । प्रसक्तिर्ज्ञानम् ।

 यथा--

 काश्चन सपद्ममाला लीला विहरन्ति पद्मवनलोलाः । आवासेषु तदैषां श्रीवाससिषेविषा यदा येषाम् ॥ ५१७ ॥

 अत्र श्रीनिवाससेवाभावेऽपि तदिच्छामात्रेण भक्तजनावासेषु श्रीविहाररूपकार्यं वर्णितम् । अत्र श्रीर्लीलात्वेनाध्यवस्यते॥

 यथावा--

 त्वयि जागरं विविक्षति जातु रणेनोत्सुके मुराराते । जागरमाविशति सदा रणरणकेन स्वयं द्विषन्निवहः ॥ ५१८ ॥  हे मुराराते ! त्वं जातु कदाचित् रणेनोसुके समरे उद्युक्ते ‘प्रसितोत्सुकाभ्यां तृतीया च' इति रणशब्दात्तृतीया । अत एव जागरं कवचं ‘जागरः कवचोस्त्रियाम्' इत्यमरः । विविक्षति प्रवेष्टुमिच्छति न तु प्रविष्टे सति द्विषन्निवहः रणरणकेन भयसंभ्रमेण सदा न तु कदाचित् जागरं कवचं निद्राक्षयं च विशति प्राप्नोति । अत्र कवचसन्नद्धत्वरूपहेत्वभावेऽपि तदिच्छामात्रेण रिपूणां निद्राक्षयरूपकार्यं वर्णितम् ॥

 अत्रोदाहरणद्वयेऽपि प्रसिद्धश्रीनिवाससेवनयुद्धसन्नद्धत्वादिकारणविरहेऽपि सिषेविषुगृहाधिकरणकश्रीविहरणद्विषत्कर्तृकजागरणप्राप्तिरूपकार्योदयवर्नाद्विभावनालंकारेणैव चमत्कृतेर्ने चपलातिशयोक्तिरित्यलंकारान्तरमभ्युपेयम्, ‘अप्यलाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ' इति लाक्षारसासेचनरूपकारणविरहेऽपि रक्तिमलक्षणकार्योदयवर्णनलक्षणविभावनातो वैलक्षण्याभावात् । अत एव नैनां व्यवजह्रिरे प्राञ्चः । दीक्षितास्तु-विभावनायां कारणाभावो वाच्यः,अत्र कारणप्रसक्तिकथनेन कारणाभावो गम्य इत्येतावन्मात्रेण विच्छित्तिविशेषसद्भावमनुसंधायालंकारान्तरमाहुः ॥

हेतोः कार्यस्य च स्याच्चेत्पौर्वापर्यविपर्ययः ।
अत्यन्तातिशयोक्तिं तामाहुः काव्यविचक्षणाः ॥

 यथा--

 एनांसि दवीयांसि श्रेयांसि च पुरत एव भूयांसि । पश्चान्नृणां रसज्ञा वेङ्कटनाथाभिधामृतरसज्ञा ॥५१९ ॥  यथावा--

 उद्रिक्तरजास्तापस्सर्वपथीनः प्रशाम्यति पुरैव । वर्षति कामं पश्चाद्घनस्स कुष्णो वृषाद्रिशिखरस्थः ॥ ५२० ॥

 सर्वपथान्व्याप्नोति सर्वपथीनः ‘तत्सर्वादेः पथि’ इत्यादिना व्याप्नोतीत्यर्थे खः । सर्वतोमुख इत्यर्थः । उद्रिक्तं रजः गुणविशेषः पांसुश्च यस्मिन् सः तथाभूतः तापः आध्यात्मिकादिः ग्रैष्मश्च पुरैव शाम्यति । पश्चात् वृषाद्रिशिखरस्थः घनः सकलकल्याणगुणसान्द्रः कृष्णो भगवान् पक्षे कृष्णः श्यामलः घनः मेघः कामं वर्षति ईप्सितार्थं प्रदत्ते । पक्षे पर्याप्तं यथा स्यात्तथा वर्षति सिञ्चतीत्यर्थः॥

 यथावा--

 प्रथमतरमेव तमसां वलयं विलयं प्रयाति विनतानाम् । पश्चात्तेषु प्रसरति परिस्फुरन्पद्मिनीसखालोकः ॥ ५२१ ॥

 तमसां अज्ञानानां तिमिराणां च । पद्मिनी श्रीः कमलिनी च तस्यास्सखा भगवान् भानुश्च तस्य आलोकः कटाक्षः प्रकाशश्च । ‘पद्मिनी करिणीस्त्रीश्रीसरोऽब्जनळिनीषु च' इति रत्नमाला । उदाहरणत्रये भगवन्नामोच्चारणवर्षणपद्मिनीसखालोकप्रसरणानां कारणानां पश्चाद्भावः एनोदूरीभवनतापशमनतमोविलयनानां कार्याणां प्राथम्यं च वर्णितमिति लक्षणानुगतिः । आद्या शुद्धा, द्वितीयतृतीये तु श्लेषसंकीर्णे इति विशेषः । एतास्तिस्रोऽप्यतिशयोक्तयः कार्यशैघ्र्यप्रत्यायनार्थाः॥  अथोक्तेषु प्रभेदेषु अनुगतप्रवृत्तिनिमित्तविरहात्कथमतिशयोक्तिपदवाच्यत्वमिति चेदत्राहुः-- तावत्प्रभेदान्यतमत्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेव च सामान्यलक्षणमिति प्राञ्चः । अन्ये तु -संबन्धे असंबन्धः असंबन्धे संबन्ध इति भेदद्वयं नातिशयोक्तिः ईदृशातिशयस्य रूपकदीपकोपमापह्नुत्यादिषु स्वभावोक्तिभिन्नेषु प्रायेण सर्वेष्वलंकारेषु सद्भावात् । न हि यथाऽवस्थितवस्तुकथनेऽस्ति काचिद्विच्छित्तिः कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तरतानापतेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य तस्यैवान्यत्वं यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनं कार्यकारणपौर्वापर्यविपर्ययश्चेत्येतदन्यतमत्वमतिशयोक्तित्वमित्याहुः । न व्यास्तु उपमानेनोपमेयस्य निगीर्याध्यवसानमेवातिशयोक्तिः । प्रकारान्तरे त्वतिरिक्तालंकारान्तरकल्पनमेवोचितम् । न ह्येतच्चतुष्टयासाधारणातिशयोक्तिलक्षणं संभवि, येनैकधर्मावच्छिन्नत्वेनैकालंकारतोच्येत । न चैतदन्यतमत्वमेव सर्वानुगतमस्तीति वाच्यम् । विच्छित्तिवैलक्षण्यसद्भावेऽन्यतमत्वस्याप्रयोजकत्वात् । अन्यथा उपमानरूपकादिकतिपयान्यतमत्वं सकलान्यमत्वं वाऽतिशयोक्तिलक्षणं विधाय उपमादीनामप्येतद्भेदापादनस्य सुवचत्वात् । न चातिरिक्तालंकारकल्पने गौरवमिति वाच्यं, प्रधानोत्कर्षकत्वरूपस्यालंकारत्वस्य त्वयाऽप्यङ्गीकारात् । पदार्थान्तरस्य च मयाऽप्यकल्पनात् । अलंकारविभाजकोपाधिपरिगणनस्य च पौरुषेयत्वादिति वदन्ति ॥

 वस्तुतस्तु-- रूपकभिन्नत्वे सति चमत्कृतिजनकाहार्यारोपनिश्चयविषयत्वमेवातिशयोक्तिसामान्यलक्षणम् । रूपकवारणाय सत्यन्तं, भ्रान्तिवारणायाहार्येति । उत्प्रेक्षानिरासाय निश्चयेति । रूपकातिशयोक्तावभेदस्य द्वितीये प्रभेदेऽन्यत्वस्य तृतीये संबन्धस्य चतुर्थे असंबन्धस्य पञ्चमे सहत्वस्य षष्ठे हेतुप्रसक्तिजन्यत्वस्य सप्तमे पूर्वापरत्वयोश्च तथाविधारोपविषयत्वस्य सद्भावात्सर्वत्र लक्षणानुगतिः । न चैवंविधारोपस्य रूपकस्वभावोक्तिव्यतिरिक्तेष्वलंकारेषु प्रायशस्सत्त्वादतिप्रसङ्ग इति वाच्यं इष्टापत्तेः । चमत्कृतौ प्रधानभूतस्यालंकारान्तरस्याङ्गतयाऽतिशयोक्तेरवस्थानेऽपि तथा व्यपदेष्टुमनर्हत्वात् । प्रधानभूतालंकारस्यैव व्यपदेशार्हत्वाच्च । अत एव काव्यप्रकाशकृता विशेषालंकारप्रस्तावे "सर्वत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते, तां विना प्रायेणालंकारत्वाभावात् । अत एवोक्तं--

सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते ।
यत्नोस्यां कविभिः कार्यः कोऽलंकारोऽनया विना ॥ इति ॥

दण्डिनाऽप्युक्तम्--

अलंकारान्तराणामप्येकमाहुः परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ इति ॥

इत्यभिहितमित्यपि वदन्ति ॥

इत्यलंकारमणिहारेऽतिशयोक्तिसरः पञ्चदशः.