अलङ्कारमणिहारः (भागः १)/उत्प्रेक्षासरः (१४)
अथोत्प्रेक्षासरः.
यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम् ।
सोत्प्रेक्षोक्ता त्रिधैषा स्याद्वस्तुहेतुफलात्मना ॥
उक्तानुक्तास्पदत्वेन वस्तू्त्प्रेक्षा द्विधा मता ।
हेतूत्प्रेक्षाफलोत्प्रेक्षे सिद्धासिद्धास्पदत्वतः ॥
अन्यस्य विषयिणो यो धर्मः तत्सम्बन्धरूपान्निमित्तात् अन्यस्य अन्यविषयकं अन्यत्वतर्कणं अन्यत्वेन संभावनं विषायिणस्तादात्म्येन संभावनमित्यर्थः । अन्यस्येति षष्ठ्यर्थो विषयताधर्मितारूपा, विषयिण इति षष्ठ्यर्थस्तु विशेषणतारूपा विषयता । अन्यत्वेनोत्कीर्तनं च संभावनाया आहार्यतासूचनाय । तथाच विषयिनिष्ठधर्मसंबन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहार्यसंभावनमुत्प्रेक्षेति पर्यवसितम् । तन्निष्ठधर्मसंबन्धप्रयुक्तमाहार्यतत्संभावनमिति तु निष्कर्षः । इतरांशस्तु अव्यावर्तकत्वेन स्वरूपकथनमात्रपरः । 'मुखं चन्द्रं मन्ये' इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्लादकत्वादिधर्मसंबन्धप्रयुक्तं मुखे चन्द्रसंभावनमाहार्यमस्तीति लक्षणानुगतिः । बाधाद्यभावदशायां तु जायमाना मुखादौ चन्द्रादिसंभावना नोत्प्रेक्षेति तद्वारणायाहार्येति ॥
एतेन--
दुन्दुभिकाहलहलहलबन्धुरमखिलं दिगन्तरालमभूत् । यत्तन्मन्ये फणिगिर्युत्तंसो भजति सपदि जययात्राम् ॥ ३७२॥ इत्यत्र दुन्दुभिप्रभृतिकोलाहलदिगन्तरालव्याप्तिरूपजययात्राप्रवृत्तधर्मसंबन्धप्रयुक्तायां भगवति तत्संभावनायामपि नातिव्याप्तिः । तस्या अनाहार्यत्वात् । ‘संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये’ इति संभावनालंकारवषये--
यदि जलधिर्विजलस्स्याद्यदि विसुवर्णस्सुवर्णभूभृत्स्यात् । जह्याद्रक्षादीक्षामह्यद्रिशिखामणिस्तदा मन्ये ॥ ३७३ ॥
इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । अत्र यदि जलधिर्विजलस्स्यादित्यादिसंभावनस्य विषयिनिष्ठधर्मसम्बन्धप्रयुक्तत्वाभावात् ॥
काकोदरगिरिमेनं लोकोत्तररामणीयकं मन्ये । पदमपि परमं विजहद्विहरति यदिह श्रिया सह मुकुन्दः ॥ ३७४ ॥
इत्यादावतिप्रसङ्गवारणाय तन्निष्ठेति संभाव्यमानवृत्तित्वं धर्मविशेषणम् । तत्र परमपदत्यागपूर्वकश्रीसहितविहरणरूपो धर्मो मुकुन्दवृत्तिः । न तु संभाव्यमानवृत्तिरिति नातिप्रसङ्गः । ननु संबन्धान्तरेणोत्प्रेक्षाया असंग्रह इति चेन्न । सर्वत्राभेदैनैवोत्प्रेक्षणमिति प्राचीनमतानुरोधेनैवमभिधानात् । एतत्सूचनायैव लक्षणे तादात्म्योपादानमिति ध्येयम् ॥
सा चोत्प्रेक्षा वस्तुहेतुफलात्मतागोचरतया त्रिविधा, वस्तुहेतुफलात्मता च वस्तुहेतुफलतादात्म्यम् । अत्र वस्तुनः कस्यचिद्वस्त्वन्तरतादात्म्यसंभावना प्रथमा वस्तूत्प्रेक्षेत्युच्यते । इयमेव स्वरूपोत्प्रेक्षा । अहेतोर्हेतुभावेन अफलस्य फलत्वेनोत्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते । तत्राद्या स्वरूपोत्प्रेक्षा उक्तानुक्तास्पदत्वेन द्विविधा । आस्पदं विषयः । उक्तविषया अनुक्तविषया चेति द्विविधेत्यर्थः । हेतूत्प्रेक्षाफलोत्प्रेक्षे सिद्धविषया असिद्धविषया चेति प्रत्येकं द्विविधे ॥
क्रमेणोदाहरणानि--
हरिशेखरितादहिपतिधरणिधरादधिकतां परां लिप्सुः । हरिशिरसि भासमानस्सुरगिरिशिशुरिव महाकिरीटोऽव्यात् ॥ ३७५ ॥
अत्र कनकमणिमयत्वादिना धर्मसंबन्धेन निमित्तेन महाकिरीटस्य सुमेरुशिशुतादात्म्यसंभावना स्वरूपोत्प्रेक्षा महाकिरीटस्य विषयस्योपादानादुक्तविषया ॥
यथा वा--
विसृमरनिजरुचिभरपरिवलयिततनुरहिगिरीन्द्रपतिदयिता । प्रकटयतीव हिरण्यप्राकारात्वं स्वमागमप्रोक्तम् ॥ ३७६ ॥
अत्र पिशङ्गत्वादिना गम्यमानेन निमित्तेन लक्ष्मीतनुरुचिवलयस्य हिरण्यप्राकारतादात्म्यसंभावना । वस्तुतस्तु प्रकटनक्रियोत्प्रेक्षाया एवात्र प्राधान्येन निर्दिष्टत्वाद्वक्ष्यमाणरीत्या क्रियास्वरूपोत्प्रेक्षाया एवेदमुदाहरणं भविष्यतीति ध्येयम् । अन्यत्तु अग्रे निरूपयिष्यते । अत्र ‘हिरण्यप्राकारामार्द्राम्’ इति श्रुत्यर्थोऽनुसंहितः ॥ अनुक्तविषया वस्तूत्प्रेक्षा यथा--
अभिषिञ्चतीव मामयमहिराजधराधराधिपतिरमृतैः । दयनीयस्य ममालं नयने दिव्याञ्जनैरनक्तीव ॥ ३७७ ॥
अत्राप्यायकत्वादिना निमित्तेन गम्यमानेन भगवत्कर्तृकानन्दनस्य तत्कर्तृकामृताभिषेकतादात्म्योत्प्रेक्षा दिव्याञ्जनाञ्जनतादात्म्योप्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा, आख्यातोपस्थिते कर्तरि भगवतस्तादात्म्येनान्वये कर्तुर्धात्वर्थे अभिषेचने अञ्जने चान्वयात् तस्य इवशब्दार्थे संभावने तस्य च विषयतया आनन्दने अन्वयाद्भगवत्कर्तृकाभिषेचनाञ्जनसंभावनाविषय आनन्दनमिति वाक्यार्थबोधपर्यवसानात् उभयत्रापि विषयभूतस्यानन्दनस्य विषयिवाचकाभ्यामभिषिञ्चत्यनक्तिभ्यामन्येनानुपादानाच्च ॥
नन्वत्र अभिषिञ्चत्यनक्तीति धात्वर्थयोरभिषेचनाञ्जनयोराख्यातोपात्ते कर्तरि विशेषणत्वेनान्वयमभ्युपेत्य कर्तुरिवशब्दार्थे संभावनेऽन्वयेन अभिषेचनाञ्जनकर्तृतादात्म्यमेवोत्प्रेक्ष्यताम् । ततश्च भगवतो विषयस्योपादानेन उक्तविषयतालाभात् भगवतः प्रथमान्तपदोपस्थापितस्य मुख्यविशेष्यतया प्रथमान्तविशेष्यकबोधोऽपि तान्त्रिकसंप्रतिपन्न उपपादितो भवतीत्युत्प्रेक्षाद्वयमुक्तविषयमेवास्तु । सकृदुच्चरिताभ्यामभिषिञ्चत्यनक्तिभ्यां शक्त्या अभिषेकाञ्जनयोः साध्यवसानलक्षणया साधारणधर्मपुरस्कारेणानन्दनस्य चोपस्थापनाया युगपद्वृत्तिद्वयविरोधेनासंभवादिति चेन्मैवं, 'लः र्कमणि च' इति सूत्रानुसारेणाख्यातस्य कर्त्रादिशक्ततया प्रकृते अभिषिञ्चत्यनक्तीत्याभ्यामाख्याताभ्यां कर्तुरुपस्थितावपि 'भावप्रधानमाख्यातम्’ इति यास्कस्मरणात् भावो धात्वर्थः प्रधानं विशेष्यं यस्य तदाख्यातमित्यर्थकाद्धात्वर्थभूताभिषेचनाञ्जनक्रिययोरेव विशेष्यतया तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षाविषयतया इवादिशब्दार्थभूतसंभावनायामन्वयासंभवात् । एवमाख्यातस्य क्रियोपर्सजनत्वादेव--
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ॥
केषांचिदुपमाभ्रान्तिरिवश्रुत्येह जायते ।
नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥
इत्यादिना उत्प्रेक्षास्थले ‘लिम्पतीव’ इत्यत्रोपमाभ्रान्तिं केषांचित्संभवन्तीं प्रतिक्षिपता दण्डिना--
कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यद्व्यपेक्षितुम् ॥
इति कर्तुरुपमायामुपमानतयाऽन्वयोऽपि निराकृतः । तथाहि कारिकार्थः 'लिम्पतीव' इत्यत्र लेपनकर्तुरिवशब्दार्थे सादृश्ये उपमानत्वेनान्वयसंभवादुपमैवात्र किं न स्यादित्याशङ्काया उत्तरत्वेनायं श्लोकोऽवतारितः । कर्ता यद्युपमानं स्यात्तदेयं शङ्का युज्येत, न चेदं संभवति, तत्र हेतुः न्यग्भूत इत्यादिः । असौ कर्ता क्रियापदे तिङन्ते न्यग्भूतः क्रियोपसर्जनीभूत इत्यर्थः ।
फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥
इत्युक्तेः । न्यग्भूततामेवोत्तरार्धेनोपपादयति-- स्वेति । स्वक्रियायाः लेपनादिरूपायाः साधने व्यग्रः व्यापृतः असौ कर्ता अन्यत् स्वसाध्यक्रियापेक्षया इतरत् व्यपेक्षितुं आकाङ्क्षितुं साधयितुमिति यावत् नालं न समर्थः । यथा कस्यचिदधीनो नान्यस्य शक्नुयात्साधयितुं कार्यं तथा एकस्याः क्रियाया विशेषणत्वेनाधीनः कर्ताऽन्यस्योपमानरूपस्य विशेषणतां नाप्तुमीष्टे, इतरविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वयायोगात् । अतो नात्र कर्तुरुपमानत्वं संगच्छत इति । तथाच इवशब्दार्थस्संभावनं सादृश्यं वाऽस्तु, उभयथाऽपि न तत्र कर्तुरन्वय इति नोपमा युक्तेति । तस्मात्तमसि लेपनकर्तृत्वमुत्प्रेक्ष्यमिति मतमनुपादेयमेव । तस्यापि कर्तुर्विशेषणत्वात् । विवक्षितविवेकेन लेपनस्यैवोत्प्रेक्षणीयत्वाच्च । एवंचोदाहृतपद्ये प्रधानभूताभिषेचनाञ्जनक्रियागोचरा संभावनैव निगीर्णानन्दनविषयेति सिद्धम्। न च युगपद्वृत्तिद्वयविरोधदोषता, तदनभ्युपगमात् । ये तु'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः’ इत्यत्र तमोनभसोर्विषययोस्तत्कर्तृकलेपनवर्षणस्वरूपधर्मोत्प्रेक्षेत्याहुः, तन्मते स्वरूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वैविध्यम् । तत्र तमोनभसोः कर्तृत्वेन विषयत्वेन च द्विवारमन्वयक्लेशः । तथा धर्म्युत्प्रेक्षा, साधर्म्यप्रयुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मसंबन्धप्रयुक्तेति लक्षणाननुगमः । न च तन्निष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति वाच्यम् । सर्वत्र सादृश्यनिमित्ताया एवोत्प्रेक्षायास्संभवेनान्यतरत्वादिनिवेशप्रयुक्तगौरवस्यानुपादेयत्वादिति वदन्ति ॥
यथा वा--
श्रुत्यञ्चलसंसक्ता मुक्ताश्श्रुत्यन्तचपलमक्षियुगम् । अवलोक्य भुवनमातस्तव देवि भृशं हसन्तीव ॥ ३७८ ॥ अत्रापि कर्णाभरणमौक्तिकसंबन्धिप्रकाशस्य तत्कर्तृकहासतादात्म्योत्प्रेक्षा अनुक्तविषया । प्रकाशस्य विषयस्य निगीर्णत्वादिति बोध्यम् ।
सिद्धविषया हेतूत्प्रेक्षा यथा--
खञ्जनरुचिखञ्जनबलभञ्जनमणिमञ्जुरुचिनिचयनिचुले । अञ्जनशिखरिणि सततासञ्जनतो नूनमसित एष हरिः ॥ ३७९ ॥
खञ्जयति गतिविकलं करोतीति खञ्जनः । खञ्जनरुचेः खञ्जरीटाख्यखगत्विषः खञ्जनः ततोप्यतिशयितनीलिमेत्यर्थः । ‘खञ्जरीटस्तु खञ्जनः, खोडे खञ्जः' इति चामरः । बलभञ्जनमणयः इन्द्रनीलरत्नानि तेषां मञ्जुरुचिनिचयः निचुळः निचोळः यस्य तस्मिन् ‘निचुळस्तु निचोलके' इति विश्वः । निचोलः प्रच्छदपटः ‘विनयनिचुलितैः' इति मुरारिप्रयोगश्च । अत्र भगवतो नैसर्गिके श्यामलिम्नि वस्तुतोऽञ्जनगिरिसततासञ्जनं न हेतुरित्यहेतोस्तस्य हेतुत्वसंभावना हेतूत्प्रेक्षा अञ्जनगिरिसततासञ्जनस्य सिद्धत्वात्सिद्धविषया अञ्जनशब्दश्लेषभित्तिकाभेदाध्यवसायमूला । प्रसिद्धं ह्यञ्जनस्य नैल्यम् ॥
असिद्धविषया हेतूत्प्रेक्षा यथा--
श्रीवत्स इति हरे त्वं वात्सल्यादिव रमाश्रये हृदये । किंचन लाञ्छनमञ्चसि कञ्चुकिवरभूभृदञ्चलाभरण ॥ ३८० ॥
श्रीवत्सः लक्ष्मीपुत्रः ‘वत्सः पुत्रादिवर्षयोः' इति मेदिनी । ‘वत्सस्सुतादौ तर्णके त्रिषु' इति रत्नमाला च । पक्षे श्रीवत्स इति लाञ्छननाम । अञ्चसि पूजयसि आद्रियसे । पूजनं चात्र--'स च पूज्यो यथा ह्यहम् । पूज्या लालयितव्याश्च’ इत्यादाविवादरणपरम् । पक्षे प्राप्नोषीत्यर्थः । अत्र श्रीवत्सनामलाञ्छनस्य रमाश्रयभूतहृदयस्थलाधिकरणकाञ्चने लक्ष्मीवत्सताप्रयुक्तं वात्सल्यं न हेतुरित्यहेतोस्तस्यासिद्धस्य हेतुतासंभावना असिद्धविषया हेतूत्प्रेक्षा श्लेषोज्जीविता ॥
यथा वा--
भजति भुजगेशनगपतियुवतिमणीरुचिकचाकचिजितेव । विद्युन्मुखे विकारं तान्तत्वं च द्युमध्यनीलात्वम् ॥ ३८१ ॥
भुजगेशनगपतियुवतिमणी लक्ष्मीः तस्याः रुच्या प्रभया कचाकचिजितेव केशेषु केशेषु गृहीत्वा प्रवृत्तेन युद्धेन परास्तेव विद्युत् मुखे वदने विकारं पराभूतत्वचिह्नं वैवर्ण्यं तान्तत्वं ग्लानिं द्युमध्ये यत्रक्वापि गहराभ्यन्तरान्तरिक्षमध्ये लीनत्वं अदृश्यतयाऽवस्थानं च भजति । द्युमध्येत्यत्र वकारान्तस्य द्युशब्दस्य ‘दिव उत्' इत्युत्वम् । यद्वा द्यु इत्यव्ययं गगनवाचि । ‘यु क्लीबमह्नि गगने च' इति मेदिन्यनुशासनात् ॥
वास्तवार्थस्तु--मुखे आदौ विकारं वि इत्याकारकमक्षरं तान्तत्वं तकारान्तत्वं द्युः द्यु इति वर्णसमुदयः मध्ये वि त् इत्यनयोर्वर्णयोरन्तराळे लीनः स्थितः यस्यास्सा तस्याः भावः द्युमध्यलीनात्वम् । विद्युत्पदे मुखविकारवत्त्वतान्तत्वद्युमध्यलीनात्वानि द्रष्टव्यानि । द्युमध्यलीनाशब्दस्य समस्तत्वेनागुणवचनत्वात् ‘त्वतलोर्गुणवच स्य’ इति न पुंवद्भावः । अत्र संज्ञाजातिकृदन्ततद्धितान्तसमस्तसर्वनामसंख्याशब्दातिरिक्तश्शब्दो गुणवचनशब्देनोच्यते । आकडारसूत्रभाष्यतस्तथैव लाभात् । अत एव 'एकतद्धिते च' इति सूत्रे भाष्ये ‘एकत्वमिति पुंवत्त्वात्सिद्धम्' इत्याशङ्क्य 'न सिध्यति उक्तमेतत् । त्वतलोर्गुणवचनस्य' इत्युक्तम् । एकशब्दे सर्वनामसंज्ञया गुणवचनसंज्ञाया बाध इति तदाशयः । इदं च ‘त्वतलोः' इति सूत्रशेखरे स्पष्टम् । अत्र विद्युतो मुखविकारवत्त्वादिके नैसर्गिके लक्ष्मीरुचिपरास्तत्वं न हेतुरिति तद्धेतुत्वसंभावना हेतूत्प्रेक्षा । वस्तुतस्तत्परास्तताया अभावादसिद्धविषया श्लेषोत्तम्भिता । पूर्वोदाहरणे वात्सल्यादिति हेतुत्वं तावत्पञ्चम्यैव निर्दिष्टम्, अत्र तु जितेति धर्मिविशेषणतया जयस्य हेतुत्वमार्थम् । यथा 'पूजितस्तुष्यति' इत्यादौ पूजनादेः ।
ननु कथं विद्युच्छब्दगतं विप्रभृतिवर्णवत्त्वं तद्वाच्ये वस्तुनि संभवेत्, येन उपपादितश्लेषमूलकाभेदकल्पनेन उक्तोऽर्थो निरुह्येतेति चेत् । शब्दार्थतादात्म्यस्य साम्राज्यादित्यवेहि । तथा ह्याहुश्शाब्दिकाश्शब्दशक्तिनिरूपणावसरे–-"संकेतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दस्सोऽर्थो योऽर्थस्स शब्दः" इति पातञ्जलभाष्यमुदाहरन्तः पदपदार्थयोस्संबन्धान्तरमेव शक्तिर्वाच्यवाचकभावापरपर्याया । तद्ग्राहकं चेतरेतराध्यासमूलं तादात्म्यं तदेव सम्बन्धः । उभयनिरूपिततादात्म्यवानुभय इत्यर्थपदयोर्व्यवहारात् । तस्य च तादात्म्यस्य निरूपकत्वेन विवक्षितोऽर्थश्शक्यः, आश्रयत्वेन विवक्षितशब्दश्शक्तः। शब्दार्थयोस्तादात्म्यादेव श्लोकमशृणोत् अर्थं वदतीति व्यवहारः 'आमित्येकाक्षरं ब्रह्म, रामेति द्व्यक्षरं नाम मानभङ्गः पिनकिनः, वृद्धिरादैच्’ इति शक्तिग्राहकश्रुतिस्मृतिविषये समानाधिकरण्येन प्रयोगश्च । तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वमिति भेदाभेदसमनियतम् । अभेदस्याध्यस्तत्वाच्च न तयोर्विरोधः' इति । विस्तरस्तु मञ्जूषादौ । तस्माच्छब्दार्थतादात्म्यावलम्बनेन विद्युच्छब्दगतमपि विप्रभृतिवर्णवत्त्वं तदर्थेऽपि निरर्गळमेवेत्युपपादितोऽर्थो निरुह्यत इति न संकटं किंचित् । एवमेवान्यत्रापि बोद्धव्यं बुद्धिमद्भिः ॥
यथा वा--
अर्थिजनपीडनानामसासहिमहिर्नूनमहिमहीध्रमगाः । क्व वसन्तमर्थिनिवहा वदान्यमब्जाक्ष जीवयन्त्येते ॥ ३८२ ॥
अर्थिजनपीडनानां असासहिर्नूनं असहिष्णुरिव ‘सासहि वावहि' इत्यादिना यङन्तात्सहतेः किप्रत्ययान्ततया निपातनात्साधुः । पीडनानामिति कर्मणि षष्ठी । अहिमहीध्रं शेषाद्रिं आशीविषमयं गिरिमित्यपि गम्यते । अतिभयंकरत्वेनान्यदुर्गमत्वमनेन द्योत्यते । अगाः प्राप्तवानभूः । हे अब्जाक्ष ! एते परसंकटं मनागप्यनालोचयन्तस्स्वार्थैककृपणा इति भावः । अर्थिनिवहाः वदान्यं प्रियवचनपुरस्सरदानशीलं क्व वसन्तं जीवयन्तीति लोकोक्तिः । न खलु सुदुर्गममपि प्रदेशमास्थितवन्तं न पीडयेरन्निति भावः । अत्र भगवतोऽहिमहीध्रप्राप्त्यहेतोरप्यर्थिजनपीडनासहिष्णुत्वस्य तद्धेतुत्वसंभावना असिद्धविषया, तादृशासहनस्यासिद्धत्वात् । अत्रापि पूवोदाहरण इव हेतुरार्थः । पूर्वोदाहरणद्वयं श्लेषसंकीर्णम् । इदं तु शुद्धमिति वैलक्षण्यम् ॥ सिद्धविषया फलोत्प्रेक्षा यथा--
विनतानां जनतानां तमसामवसादनाय किल शौरे । शस्तघृणिं कौस्तुभमणिमरुणांशुसहस्रनिभमुरसि वहसि ॥ ३८३ ॥
अत्र कौस्तुभमणिधारणं प्रत्यफलस्यापि तमोऽवसादनस्य तत्फलत्वेन संभावना सिद्धविषया फलोत्प्रेक्षा ।
<poem>::तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
- नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥}}
इत्युक्तप्रकारेण भगवतस्तमोऽवसादनस्य स्वतस्सिद्धत्वात् ॥
असिद्धविषया फलोत्प्रेक्षा यथा--
सोदरसुधानिरन्तरसादरसहवासकुतुकपरिपूर्त्यै । काकोदरगिरिनाथः कमलायै स्मितसुधां व्यनक्ति किल ॥ ३८४ ॥
किलेत्युत्प्रेक्षाव्यञ्जकम् । अत्र भगवता लक्ष्मीं प्रति स्मितसुधाया व्यञ्जनस्य सोदरसुधानिरन्तरसादरसहवासकुतुकपरिपूर्तिर्न फलमिति तस्याः गगनारविन्दायमानायास्तत्फलत्वेन संभावना असिद्धविषया फलोत्प्रेक्षा ॥
यथा वा--
अहमपि विजितोऽस्म्यनया रमयेति व्यञ्जनाय किल भगवन् । तन्निलये निजहृदये भान्तीं बध्नासि वैजयन्तीं त्वम् ॥ ३८५ ॥ वैजयन्तीं विजयपताकां वनमालां च । अत्र भगवत लक्ष्मीनिलयभूते निजहृदये वनमालाऽभिन्नत्वेनाध्यवसिताया वैजयन्तीशब्दवाच्याया जयपताकाया बन्धनं प्रति स्वस्यापि श्रिया विजितत्वाभिव्यञ्जनं न फलमिति तस्य फलत्वेन संभावना उक्तफलस्यासिद्धत्वादसिद्धविषया फलोत्प्रेक्षा । इयं रूपकश्लेषाभ्यामुत्तम्भिता । पूर्वा तु रूपकसंकीर्णेति भिदा ॥
यथा वा--
लक्ष्मीजयकेतनतामात्मीयोरस्स्थलस्य विशदयितुम् । बध्नासि वैजयन्तीं बहुवर्णां तत्र नूनमब्जाक्ष ॥ ३८६ ॥
हे अब्जाक्ष! आत्मीयोरस्स्थलस्य लक्ष्म्याः जयकेतनतां विजयध्वजयष्टितां केतनशब्दोऽत्र ध्वजयष्टिवाची । पक्षे विजयगृहत्वम् । ‘केतनं तु ध्वजे कार्ये निमन्त्रणनिवासयोः' इत्यजयः । विशदयितुं नूनं तत्र विजयकेतनभूते आत्मीयोरस्स्थले बहुवर्णां विचित्रां, पक्षे-- 'पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः' इत्युक्तवर्णां वैजयन्तीं पताकां वैजयन्तीशब्दोऽत्र ध्वजपटीवाचकः । बध्नासि । यद्यपि 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इति पताकादयश्चत्वारोऽपि शब्दा ध्वजपर्यायतया सुधादौ व्याख्याताः । तथाऽपि पताकावैजयन्तीशब्दयोर्ध्वजपटीवाचित्वं केतनध्वजशब्दयोस्तद्यष्टिवाचित्वं चावश्याभ्युपेयं, तथैव प्रसिद्धेः । अन्यथा ‘पताकाध्वजमालिनम्, चञ्च्वग्रदष्टचटुलाहिपताकयाऽन्ये स्वावासभागमुरगाशनकेतुयष्ट्या, प्रभावनीकेतनवैजयन्तीः' इति श्रीरामायणमाघकाव्यादिषु भूयस्सु प्रदेशेषु पताकाध्वजादिशब्दानां सहप्रयोगो विरुध्येत । न हि घटकलशादीनां पर्यायशब्दानां सहप्रयोगो दृष्ट इष्टश्च । किंच उदाहृते माघकाव्यपद्ये चटुलाहिपताकयेत्यत्राहेः ध्वजपटीत्वेन रूपणस्यैव उरगाशनकेतुयष्ट्येत्येतदनुरूपता । अत एव ‘व्याकृत्तशीर्षकरको विमलास्थिदन्तो रक्तह्रदांशुकधरो रथकेतुदण्डः' इति चम्पूभारतपद्ये केतुयष्टेः यतिधार्यदण्डत्वेन रूपणं, ‘असौ ते पूर्वेषां सुचरितपताका यदमरस्रवन्ती' इति मुरारिमिश्रपद्ये मन्दाकिन्यास्सुचरितपताकात्वेन रूपणं च योयुज्यते । ‘ध्वजार्धसम्मितां चैव पताकां चैव चित्रयेत्’ इति ध्वजारोहणप्रकरणगतपाद्मसंहितावचनं चात्रैवानुकूलम् । अत्र विशदयितुमिति तुमुनोऽर्थः फलम् । एवं वक्ष्यमाणोदाहरणेऽपि । पूर्वोदाहरणेषु चतुर्थ्यर्थः फलम् । अत्र भगवता निजोरस्स्थलस्य लक्ष्मीजयकेतनताभिव्यञ्जनं तत्र वैजयन्तीबन्धनं प्रत्यफलं तत्फलत्वेन संभाव्यत इति फलोत्प्रेक्षा तादृशव्यञ्जनस्यासिद्धत्वादसिद्धविषया केतनवैजयन्तीशब्दप्रतिपाद्यगृहध्वजवनमालापताकारूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणितेति विशेषः ॥
यथा वा--
अञ्जनभूधरविभुना व्यञ्जयितुं माधवत्वमिव नैजम् । हृद्याऽतिमृदुलताश्रीरामोदं प्रापितोपवनमालम् ॥ ३८७ ॥
अञ्जनभूधरपतिना नैजं माधवत्वं मधुमासत्वं श्रीपतित्वं च । 'माधवोऽजे मधौ राधे’ इति मेदिनी । व्यञ्जयितुमिव उपवनमालं वनराजीसमीपे वैजयन्तीसमीपे च । हृद्या हृदयस्य प्रिया वक्षसि स्थिता च । अतिमृद्व्यश्च ताः लताश्च तासां श्रीस्समृद्धिः, पक्षे अतिशयिता मृदुलता सुकुमारता यस्यास्सा श्रीः लक्ष्मीः आमोदं सौरभं हर्षं च प्रापिता । अत्र भगवता स्वत एवातिमृदुलताश्रीरामोदं प्राप्यते न तु स्वं माधवत्वमभिव्यञ्जयितुमित्यफलस्य तद्व्यञ्जनस्य फलत्वेन संभावनाफलोत्प्रेक्षा तादृशव्यञ्जनस्यासिद्धत्वादसिद्धविषया । इयं सभङ्गश्लेषेणोत्तम्भिता । पूर्वा त्वभङ्गश्लेषेणेति भिदा ॥
यथावा--
सरसहिततामवाप्तुं विहाय तामरसतां स्वतस्सिद्धाम् । उरगवरगिरिपते भवदुरसि सरसिजानि माल्यतां प्रापुः ॥ ३८८ ॥
सरसेभ्यो रसिकेभ्यः हिततां सरसतां हिततां वा अवाप्तुं तां तथाविधां अरसतां अरसिकत्वं, पक्षे तामरसतामिति समस्तं पदम् । तामरसत्वमित्यर्थः । अत्र सरसहिततावाप्तेश्शशशृङ्गायमानायास्सरसिजकर्तृकमाल्यतावाप्तिं प्रत्यफलस्यापि फलतया संभावना असिद्धविषया फलोत्प्रेक्षा इयमपि पूर्ववत्सभङ्गश्लेषदत्तहस्तैवेति ध्येयम् ॥
यथावा--
न्यसितुं पदमहिशिखरिण्यकृतकनगरात्त्वरान्वितोऽवतरन् । क्षुभितं वलग्नमच्युत संवाहयितुं किलात्र करमदधाः ॥ ३८९ ॥
अत्र परमव्योमावधिकसत्वरावतरणप्रयोज्यक्षोभाश्रयस्वावलग्नकर्मकसंवाहनस्य भगवत्कर्तृकस्य तत्कर्तृकस्वाभाविकनिजावलग्नाधिकरणकसव्यपाणिन्यसनं प्रत्यफलस्यापि फलत्वेन संभावना फलोत्प्रेक्षा संवाहनस्य विषयस्यासिद्धत्वादसिद्धविषया । इयं शुद्धा पूर्वास्तु संकीर्णा इति वैलक्षण्यम् ॥
अत्रैवं बोधप्रकारः--वस्तूत्प्रेक्षोदाहरणे ‘सुरगिरिशिशुरिव महाकिरीटः' इत्यत्र सुरगिरिशिशुत्वावच्छिन्नस्य इवार्थे संभावनायां प्रकारतयाऽन्वयः । संभावनायाश्च विषयतासंबन्धेन महाकिरीटेऽन्वयः । तथा च सुरगिरिशिशुप्रकारकसंभावनाविषयो महाकिरीट इति बोधः । महाकिरीटविषया सुरगिरिशिशुप्रकारिका च संभावना तादात्म्यसंसर्गेणैव, तथाऽनुभवात्, चमत्कृतिप्रयोजकस्य संसर्गान्तरस्याभावाच्च । न त्वेवं सुरगिरिशिशुत्वप्रकारिका, तस्य सुरगिरिशिशूपसर्जनत्वात् । एवं ध्रुवं नूनमित्यादिशब्दसमभिव्याहारेऽपि बोध्यम् । ‘मुखं चन्द्रं मन्ये' इत्यादौ तु चन्द्राभिन्नमुखविषया संभावनेति बोधः, नामार्थयोरभेदान्वयव्युत्पत्तेः । एवं ‘मुखं चन्द्रं संभावये तर्कये' इत्यादावपीति ध्येयम् । अभिषिञ्चतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु अभिषिञ्चतिना साध्यवसानलक्षणया अभिषेचनानन्दोभयसाधारणेनाप्यायकत्वादिना रूपेणोपस्थापिते आनन्दने अभिषेचनसंभावनान्वयादाप्यायकं भगवत्कर्तृकस्वकर्मकाभिषेचनप्रकारकसंभावनाविषय इति बोधः । एवमनक्तीवेत्यादावपि ज्ञेयम् । "लिम्पतीव तमोङ्गानि’ इत्यत्र व्यञ्जनयोपस्थापिते व्यापने तादृशसंभावनान्वयः” इति काव्यप्रदीपकारः ॥
हेतूत्प्रेक्षोदाहरणे ‘अञ्जनशिखरिणि सततासञ्जनतो नूनमसित एष हरिः' इत्यत्र पञ्चमीस्थानिकतसेर्हेतुरर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः हेतोश्च स्वप्रयोज्यतासंबन्धेनासितत्वविशिष्टेऽन्वयः । विशेषणस्य प्रयोज्यत्वे विशिष्टस्यापि तत्प्रयोज्यत्वाव्याहतेः। यद्वा स्वप्रयोज्याश्रयत्वसंबन्धेनान्वयः। तस्य प्रकारतासंबन्धेन संभावनायां तस्याश्च विषयतया हरावन्वयः । तथाचाञ्जनगिर्यधिकरणकसततासञ्जनाभिन्नहेतुकासितप्रकारकसंभावनाविषयो हरिरिति बोधः । न च तादात्म्यसंबन्धेन हेतु विधेयकत्वाभावान्नेयं हेतूत्प्रेक्षा स्यात् । किंतु तादात्म्येन तथाविधासितस्वरूपोत्प्रेक्षैवेति वाच्यम् । विवक्षितविवेचनयाऽञ्जनगिरिसततासञ्जने हेत्वभेदस्योत्प्रेक्षणीयतया सततासञ्जनं प्रति विशेष्यभूतस्यापि हेतोर्विधेयत्वाभ्युपगमात् । मुखचन्द्र इति रूपक इवानुयोगित्वमुखस्याभेदस्य सततासञ्जनसंसर्गत्वाभ्युपगमेन च सततासञ्जने हेत्वभेदभानसंभवात् । हेतुविशिष्टस्वरूपोत्प्रेक्षाया मुखतः प्रतीयमानत्वेऽपि विवक्षावशेन हेतूत्प्रेक्षात्वेनैव व्यपदेशः । यथा ‘दध्ना जुहोति' इत्यत्र मुखतो दधिविशिष्टहोमप्रतीतावपि विवक्षितविवेचनया होमे दधिविधित्वव्यपदेश इति ज्ञेयम् । न च स्वप्रयोज्यत्वसंबन्धेन स्वप्रयोज्याश्रयत्वसंबन्धेन वा हेतुरूपधर्मोत्प्रेक्षैव असितपदार्थे स्वीक्रियतां किमेतादृशकल्पनायासेनेति वाच्यं, धर्मोत्प्रेक्षाभ्युपगमे दूषणस्य पूर्वमेवोदीरितत्वात् । अत एव हर्षाल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः' इति हेतूत्प्रेक्षामुदाहृतवतः काव्यप्रकाशकृतोऽपि तत्र हर्षहेतुकलगनतादात्म्यसंभावनमेव स्वाभाविके लगनेऽभिमतम् । अस्मदुक्तरीत्या तु लक्ष्मीरूपे विषये यथोक्तहर्षहेतुकलग्नतादात्म्यसंभावनमुचिते लगनस्य धर्म्युपसर्जनत्वेन संभावनायामन्वयायोगादिति दिक् । एवमुदाहृतासिद्धविषयहेतूत्प्रेक्षायामपि द्रष्टव्यं, विषयस्य सिद्धत्वासिद्धत्वाभ्यां बोधे विशेषाभावादित्यलम् ॥
विनतानां जनतानामिति फलोत्प्रेक्षोदाहरणे तमसामवसादनायेति चतुर्थ्यर्थः फलम् । तत्र चाभेदेन प्रकृत्यर्थान्वयो हेतूत्प्रेक्षावदेव । फलस्य च प्रयोजकतासंसर्गेण कौस्तुभधारणे स्वप्रयोजकाश्रयतासंबन्धेन तदाश्रये वाऽन्वयः । तत्तादात्म्यसंसर्गकसंभावनायाश्शौरौ विषयतया । एवंच तमोऽवसादनाभिन्नफलककौस्तुभवहनाश्रयसंभावनाविषयश्शौरिरिति बोधः। एवं तुमुन्नन्तस्थले फलं तुमुनोऽर्थः बोधस्तु तुल्य एव । फलोत्प्रेक्षात्वं चोक्तरीत्योपपादनीयमिति दिक् । एवं कुवलयानन्दानुसारेण उत्प्रेक्षायाष्षड्विधत्वं दर्शितम् ॥
प्राचां मते तु--उत्प्रेक्षा तावद्द्विविधा, वाच्या प्रतीयमाना च । इव नूनं शङ्के संभावयामि मन्ये जाने तर्कये ऊहे उत्प्रेक्षे अवैमि प्रत्येमि वेद्मि ध्रुवं प्रायः किलेत्यादिभिः प्रतिपादकैश्शब्दैस्सहिता यत्र संभावनासामग्री तत्रोत्प्रेक्षा वाच्या । यत्र च प्रतिपादकशब्दरहितं सामग्रीमात्रं तत्र प्रतीयमाना । यत्र तत्सामग्रीविधुरं प्रतिपादकशब्दमात्रं तत्र संभावनामात्रमेव नोत्प्रेक्षा । सापि प्रत्येकं त्रिधा--स्वरूपोत्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षा चेति। तत्र जातिगुणक्रियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्येनेतरेण वा संबन्धेन जातिगुणक्रियाद्रव्यात्मकैर्व्येस्तैस्समुच्चितैः उपात्तैरनुपात्तैः निष्पन्नैः निष्पाद्यैर्वा निमित्तभूतैर्यथासंभवं जातिगुणक्रियाद्रव्यात्मकेषु विषयेषूत्प्रेक्षणं स्वरूपोत्प्रेक्षा । तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षा चोच्यते । उक्तविधेषु पदार्थेषु प्रागुक्तप्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतूत्प्रेक्षा फलोत्प्रेक्षा चोच्यते । एताश्च क्वचिन्निष्पन्नशरीराः क्वचिन्निष्पादनीयशरीराश्चेत्येवमाद्यनल्पविकल्पास्संपद्यन्ते । तत्र दिङ्मात्रं प्रपर्श्यते ॥ तत्र उपात्तजातिनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा- वृषशैलेशकटाक्षश्रियोऽनवरतं निवाससरसिरुहम् । अम्ब मुखं तव मन्ये भ्रमरकनिकरेण भृशमुपरि चलता ॥ ३९० ॥
कटाक्षस्य श्रीश्शोभैव श्रीः लक्ष्मीः तस्याः । भ्रमरकाः द्विरेफाः ललाटगतचूर्णकुन्तलाश्च, तेषां निकरेण । अत्र मुखत्वजात्यवच्छिन्ने सरसिरुहत्वजात्यवच्छिन्नं तादात्म्येन संभाव्यते । तत्र श्लेषसम्पादिताभेदोपरिचलद्भ्रमरकनिकररूपजातिर्निमित्तमुपात्तम् ॥
उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--
निश्वसनप्रोत्क्षिप्तानधरोष्ठनिरोधपङ्क्तिभावगतान् । गळशङ्खजान्विजाने विशदान्मौक्तिकमणींस्तवाम्ब रदान् ॥ ३९१ ॥
निश्वसनेन निश्वासमारुतेन प्रौत्क्षिप्तान् ऊर्ध्वं प्रणुन्नान् अधरोष्ठयोः निरोधेन पङ्क्तिभावं श्रेणीभूयावस्थानं गतान् प्राप्तान् 'द्वितीया श्रित' इत्यादिना समासः । यथा मारुतोत्कृतानि धान्यानि यत्किञ्चिद्व्यवधायकवस्तुप्रतिघातेन श्रेणीभूयावतिष्ठन्ते तथेति भावः । अत्र दन्तत्वजात्यवच्छिन्नेषु मौक्तिकत्वजात्यवच्छिन्नास्तादात्म्येनोत्प्रेक्ष्यन्ते, तत्र विशदत्वगुणो निमित्तमुपात्तम् ।
यथावा--
लावण्यजलनिधौ तव वदनेऽहिगिरीश भाति गङ्गेव । मृगनाभितिलकयमुनामिळिता मौक्तिकललाटिका धवला ॥ ३९२ ॥ ललाटे भवा ललाटिका ‘कर्णललाटात्कनलङ्कारे' इति कन् । ललाटे लम्बतया निबद्धः पत्रपाश्याख्याभरणविशेषः 'पत्रपाश्या ललाटिका' इत्यमरः । अत्र मौक्तिकललाटिकात्वजात्यवच्छिन्ने गङ्गात्वजात्यवच्छिन्नं तादात्म्येनोत्प्रेक्ष्यते । तत्र धवलेति गुणो निमित्तमुपात्तम् ॥
यथावा--
तपनात्मभवाऽभूवं तुहिनांशोरपि सुता भवेयमिति । असिता वदनेन्दौ तव जनिता यमुनेव तिलकरेखैषा ॥ ३९३ ॥
अत्र यमुनेवेति जात्युत्प्रेक्षायां असितेति गुणो निमित्तमुपात्तम् । गङ्गायमुनयोर्द्रव्यत्वेन विवक्षायां द्रव्योत्प्रेक्षाया एवेदमुदाहरणद्वयं भविष्यतीति ध्येयम् ॥
उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--
वृषगिरिपतिहृदि सौधे नायकमणिना दृढोपगूढायाः । मुक्ताहारलतायाः पुलका इव भान्त्युदित्वराः किरणाः ॥ ३९४ ॥
अत्र किरणरूपजातौ पुलकत्वरूपजात्यवच्छिन्नानां तादात्म्येन संभावनम् । तत्रोपगूहनक्रियाया निमित्तता ॥
उपात्तद्रव्यनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा--
फणिशिखरिशिखरभास्वन्विकस्वराम्भोरुहं भवद्वदनम्। संभावयामहे ननु लक्ष्म्याऽनारतमिहैवविहरन्त्या ॥ ३९५ ॥ इहैव वदन एव विहरन्त्या लक्ष्म्या सुषमया श्रिया च भवद्वदनं विकस्वराम्भोरुहं संभावयामहे निरन्तरलक्ष्मीविहाराश्रयत्वात्प्रफुल्लकमलत्वेनोत्प्रेक्षामहे इत्यर्थः । अत्र मुखत्वजात्यवच्छिन्ने अम्भोरुहत्वजात्यवच्छिन्नतादात्म्योत्प्रेक्षणम् । तत्र श्लेषसंपादितसुषमाभेदरमारूपद्रव्यं निमित्तमुपात्तम् । अत्र लक्ष्मीशब्दस्यैकव्यक्तिवाचित्वात् द्रव्यत्वम् । एतेनोत्प्रेक्षायां जातिद्रव्ययोर्निमित्तत्वमपरिगणयन्त उपेक्षणीयाः । उक्तं च चित्रमीमांसायाम्--
उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि । |
इति । इमां निमित्तगणनां प्राचीनोक्तमित्यर्थः । उदाहृतं च तत्र जातिद्रव्यनिमित्तकोत्प्रेक्षाद्वयम् ॥
अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--
भ्रूयुगळधनुर्लस्तकसंहितनासाकरीरसंलग्नम् । मधुरिपुमृगमदतिलकं ननु भुवनजिगीषुमदनशरफलकम् ॥ ३९६ ॥
अत्र मृगमदतिलकत्वजात्यवच्छिन्ने मदनशरफलकत्वजात्यवच्छिन्नतादत्म्यसंभावनायां असितत्वसूक्ष्माग्रत्वादिनिमित्तमनुपात्तम् । वस्तुतस्तु प्रथमार्धप्रतिपादितो धर्मः वक्ष्यमाणरीत्या रूपकेण विषयविषयिसाधारणीकृत इत्युपात्त एव । असितत्वादिरेवानुपात्तः तस्मादिदं पद्यमुपात्तानुपात्तनिमित्तकजातिभावस्वरूपोत्प्रेक्षाया एव वक्ष्यमाणरीत्या उदाहरणं भवितुमर्हति । न तु केवलानुपात्तनिमित्तायाः ॥ शुद्धानुपात्तनिमित्ता यथा--
हरफालनयनवितनुं स्मरममुनैवोपजीवयितुमनसा । हरिणा स्वफालकलितं नयनमिवोर्ध्वाञ्चलं जयति तिलकम् ॥ ३९७ ॥
हरस्य फालनयनेन वितनुं विगतशरीरं स्मरं अमुनैव फालनयनेनैव उपजीवयितुमनसा हरिणा श्रीनिवासेन स्वस्य फाले ललाटे कलितं सृष्टं 'कवीनां कलिः कामधेनुः'इत्याहुः । ऊर्ध्वं अञ्चलं अग्रं यस्य तत्तथोक्तं नयनमिव तिलकं कस्तूरीचित्रकं जयति लोके नयनयोर्वर्तुलमूलत्वकुञ्चितसूक्ष्माग्रत्वदर्शनेन तिलकस्य तत्संभावनालाभाय ऊर्ध्वाञ्चलं नयनमित्यभिहितम् । न हि नयनस्योर्ध्वाञ्चलत्वमन्तरेण वर्तुलमूलाकुञ्चितसूक्ष्माग्रकस्तूरीतिलकतादात्म्यसंभावनं संभवति । अत्र हरहरिशब्दाभ्यां हरणरूपप्रवृत्तिनिमित्तकाभ्यामुभयोस्तौल्यनिमित्तकस्पर्धा द्योत्यते । सा चोपपादिताया उत्प्रेक्षाया उपस्कुरुत इत्यवधेयम् । अत्र नयनत्वजात्यवच्छिन्नतादत्म्यसंभावनायां नैल्यादिनिमित्तमनुपात्तम् ॥
यथावा--
शिखरगशिखिपिञ्छाञ्चलचन्द्रकमाला रमानिवासगिरेः । फणिभूभृत्त्वं प्रथयितुमुन्मिषिता लसति नयनमालेव ॥ ३९८ ॥
फणिभूभृत्त्वं भुजगराजत्वं शेषाद्रित्वं च । अत्र चन्द्रकमालायां जातौ नयनमालाजात्यवच्छिन्नं संभाव्यते । श्यामारुणत्वादिनिमित्तमनुपात्तम् ॥ एवं शुद्धा उपात्तनिमित्तका अनुपात्तनिमित्तका अपि जातिभावस्वरूपोत्प्रेक्षाः प्रदर्शिताः ॥
अथ मिश्रास्ता उदाह्रियन्ते--
हृदयास्पदया रमया प्रसारिता नाभिकमलगं स्वसुतम् । उद्वोढुं भुजयुगळी किल शौरेर्भाति यष्टिरालम्बा ॥ ३९९ ॥
यष्टिर्नाम-
एकावळी नाम यथेष्टसंख्या हस्तप्रमाणा मणिभिः प्रयुक्ता ।
संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्ता ॥
इति वराहमिहिरोक्तलक्षण एकावळ्यपरनामधेयो मुक्ताहारविशेषः । आलम्बत इत्यालम्बा लम्बमानेत्यर्थः । अत्र भगवतो हारयष्ट्यां जातौ तद्वक्षस्स्थलावस्थितलक्ष्मीसंबन्धिभुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते । तत्र च हारयष्टिगतानां लावण्यप्रसारितत्वलम्बत्वानां धर्माणां निमित्ततानिष्पत्तये विषयिलक्ष्मीभुजयुगळीगतत्वमवश्यं संपादनीयम् । तेषां च मध्ये अनुपात्तस्य लावण्यस्य जक्ष्मीदिव्यविग्रहसंबन्धित्वादेव भुजयुगळीगतत्वं संपन्नम् । इतरयोरपि संपादनाय भगवन्नाभीकमलगतस्वसुतचतुराननसमुद्वहनं फलमुत्प्रेक्षितम् । तत्साधनताज्ञानस्य प्रसारितत्वलम्बत्वानुकूलयत्नजनकत्वात् । एवं च विषयगतताद्दशोद्वहनफलकप्रसारितत्वलम्बत्वाभ्यां विषयगतयोस्स्वाभाविकप्रसारितत्वलम्बत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ सत्यां निमित्तता भवति । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति युक्तं वक्तुम्। उत्प्रेक्ष्यमाणफलनिष्पादितनिमित्तोत्तम्भितायां स्वरूपोत्प्रेक्षायामेव विधेयत्वेन चमत्कृतेर्विश्रमात् उत्प्रेक्षाप्रतिपादकस्य किलशब्दस्य फलेनानन्वयाच्च तयैवात्र व्यपदेशो युक्तः । अनिगीर्णविषया चेयमुपात्तानुपात्तक्रियागुणात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा तादात्म्योत्प्रेक्षा । लक्ष्मीभुजयुगळ्यास्स्वतस्सिद्धत्वेऽपि प्रसारितत्वविशिष्टायास्तस्याः कविनैव निष्पादितत्वात् ॥
यथा वा --
सोदरकमलालालनमोदगळत्कौस्तुभाश्रुभरबिन्दून् । धाराकारान् शौरेर्हारानानाभिलम्बिनो मन्ये ॥ ४०० ॥
अत्र शौरिहारे जातौ तद्वक्षस्स्थलावस्थितकौस्तुभानन्दबाष्पबिन्दुत्वजात्यवच्छिन्नस्य तादात्म्येनोत्प्रेक्षणम् । तत्र च धाराकारत्वानाभिलम्बित्वथाळथळ्यानां धर्माणां निमित्तत्वनिष्पत्त्यै विषयिकौस्तुभानन्दबाष्पबिन्दुगतत्वसंपादनमावश्यकम् । तेषां च मध्ये अनुपात्तस्य थाळथळ्यस्यानन्दबाष्पसंबन्धितयैव तद्बिन्दुगतत्वं संपन्नम् । अन्ययोर्धाराकारत्वलम्बित्वयोरपि संपादनाय सोदरकमलालालनमोदगळत्त्वं हेतुत्वेन संभावितम् । एवं च विषयिगततादृशगळनहेतुकधाराकारत्वलम्बत्वाभ्यां विषयगतयोस्स्वाभाविकधाराकारत्वलम्बत्वयोरभेदाध्यवसानमूलातिशयोक्त्या सत्यां साधारण्यसंपत्त्यां स्यान्निमित्तता । उक्तविषया चेयमुपात्तानुपात्तक्रियागुणनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा, कौस्तुभाश्रुबिन्दूनां कविनैव निष्पादितत्वात् ।
यथा वा--
नाथ तव नाभिसरसीमग्ननिजस्वसृरमाहृदुद्धृ- तये । हृदयगकौस्तुभलम्बीकृता भुजयुगीव भाति हारलता ॥ ४०१ ॥
अत्रापि हारलतायां जातौ भुजयुगीत्वजात्यवच्छिन्नं तादात्म्येन संभाव्यते । तत्र च लम्बत्वप्रकाशवत्त्वयोर्धर्मयोर्निमित्ततानिर्वृत्तये विषयिभूतकौस्तुभभुजयुगीगतत्वमवश्यसंपाद्यम् । तयोर्मध्ये अनुपात्तस्य प्रकाशवत्त्वस्य कौस्तुभानुबन्धित्वेनैव भुजयुगीगतत्वं संपन्नम् । लम्बत्वस्यापि तद्गतत्वसंपादनाय भगवन्नाभीसरसीनिमग्ननिजस्वसृरमामानसोद्धरणं फलत्वेनोत्प्रेक्षितम् । एवंच विषयिगततादृशोद्धरणफलकलम्बत्वेन विषयगतस्य स्वाभाविकलम्बत्वस्याभेदाध्यवसायमूलकातिशयोक्त्या साधारण्ये संपन्ने निमित्तत्वं निष्पद्यते । अन्यत्सर्वं पूर्वतरोदाहरणवदेव । इयमप्युपात्तानुपात्तक्रियागुणात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षैव, कौस्तुभभुजयुगस्य कविनैव निष्पादितत्वादिति ॥
यथा वा--
निरवधिपरिमळलोभान्नासाचम्पकनिभालनभयाच्च । मृगमदतिलको माधववदनाब्जे निश्चलः किल भ्रमरः ॥ ४०२ ॥
निभालनं दर्शनम् । अत्रापि नैश्चल्यविशिष्टे श्रीनिवासकस्तूरीतिलके जातौ विषये नैश्चल्यविशिष्टभ्रमरजात्यवच्छिन्नस्य तादात्म्येनोत्प्रेक्षणम् । तत्र तिलकरातस्य नैश्चल्यस्य भ्रमरगतत्वमन्तरेण तिलकभ्रमरयोरभेदस्य दुरुपपादतया तत्सिद्ध्यर्थं तस्य विषयगतत्वं साध्यम् । तत्र नैल्यस्यानुपात्तस्य उत्प्रेक्ष्य माणे विषयिणि सिद्धत्वान्निश्चलत्वस्य निष्पादनाय निरवधिपरिमळलोभः नासाचम्पकनिभालनभयं चेत्येतदुभयं हेतुत्वेनोत्प्रेक्षितम् । इहापि पूर्ववत्स्वाभाविककल्पितयोरभेदाध्यवसानात्साधारण्यम् । पूर्वं हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरुत्प्रेक्षणे न हेतूत्प्रेक्षेति ध्येयम् ॥
यथा वा--
चिबुके विसृत्वरास्तव हारलताघृणिशिखा जननि भान्ति । ह्रीनमितमुखोन्नमनप्रसारिता इव तदीयकरशाखाः ॥ ४०३ ॥
अत्र हारलताकिरणशिखारूपजातौ अङ्गुळिरूपजात्यवच्छिन्नतादात्म्यसंभावना । तत्र च अनुपात्तस्यौज्ज्वल्यस्य धर्मस्य उपात्तयोः विसृत्वरत्वप्रसारितत्वयोर्धर्मयोर्वस्तुप्रतिवस्तुभावापन्नयोरभेदाच्च विषयविषयिसाधारण्यम् । अन्यत्सर्वं पूर्ववदेव । एवमन्यत्राप्यूह्यम् ॥
एवं जातिभावस्वरूपोत्प्रेक्षा दिगुदाहृता ॥
तदात्म्येन गुणभावस्वरूपोत्प्रेक्षा यथा--
नीलगुणेनाक्रान्ते सुवर्णवर्णस्य तव वपुषि शौरे । बहिरुद्गतं विजाने पीतं गुणमुज्ज्वलं कनकवसनम् ॥ ४०४ ॥
हे शौरे! तव कनकवसनं सुवर्णवर्णस्य ‘आप्रणखात्सर्व एव सुवर्णः । रुक्माभं स्वप्नधीगम्यम्’ इत्यादिश्रुतिस्मृतिभिस्सुवर्णवर्णत्वेनोक्तस्य तव वपुषि नीलगुणेन आक्रान्ते सति बहिरुद्गतं तत्रानवकाशाद्बहिरुत्सृत्वरमित्यर्थः । पीतं गुणं विजाने उत्प्रेक्षे । अत्र कनकवसने जातौ पीतगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र उज्ज्वलत्वं गुण उपात्त इत्युपात्तगुणनिमित्तकगुणभावस्वरूपोत्प्रेक्षेयम् ॥
यथा वा--
मधुरतमां सर्वेषां महागसां मज्जनाय सुनिषेव्याम् । जाने तव करुणां श्रीजाने स्वामिंस्त्वदीयपुष्करिणीम् ॥ ४०५ ॥
मधुरतमां अतिप्रियां अतिस्वाद्वीं च ‘स्वादुप्रियौ तु मधुरौ' इत्यमरः । महत् आगः पापं येषां ते तथोक्तानां ‘पापापराधयोरागः' इत्यमरः । सर्वेषां सर्वैर्जनैरित्यर्थः । ‘कृत्यानां कर्तरि वा’ इति कर्तरि षष्ठी । मज्जनाय स्नानार्थं सुनिषेव्याम् । अन्यत्र महतां आगसां अपराधानां मज्जनाय अदर्शनायेति यावत् । सर्वेषां अखिलैरपराधिजनैरित्यर्थः । सुनिषेव्यां सुखेन सेवनीयाम् ! अत्र स्वामिपुष्करिणीरूपद्रव्ये करुणारूपगुणतादात्म्यसंभावनायां श्लेषोत्तम्भितो माधुर्यगुणः सेव्यत्वरूपक्रिया च निमित्ते उपात्ते इति विशेषः ॥
एवं जात्यादिनिमित्तकगुणभावस्वरूपोत्प्रेक्षा अप्युदाहार्याः.
अनुपात्तनिमित्तकगुणभावस्वरूपोत्प्रेक्षा यथा--
ऊर्ध्वप्रसरनिरोधकसरोजबान्धवविलोकनक्रोधात् । आरुण्यमिवोद्भिन्नं फणिशिखरिशिखासु मणिकुलं कनति ॥ ४०६ ॥ मणयोऽत्र पद्मरागा विवक्षिताः । अत्र पद्मरागकुले जातौ आरुण्यगुणस्तादात्म्येन संभावितः । औज्ज्वल्यादिकं निमित्तमनुपात्तम् ॥
यथा वा--
रसनारुण्याक्रमणाद्दशनाळ्यां स्थातुमन्तरमलब्ध्वा । तत उद्गतं प्रतीमस्सितगुणमखिलाम्ब तव मितं हसितम् ॥ ४०७ ॥
अत्र स्मिते जातौ सितगुणस्य तादात्म्येन संभावनं, तत्र निमित्तं किमप्यनुपात्तम् ॥
यथा वा--
अन्तरमानादुच्चैरुद्वान्तं हस्तयोरिवारुण्यम् । तत्रोल्लसदब्जयुगं चित्ते करवाणि भुवनजननि तव ॥ ४०८ ॥
अत्र पद्मे जातौ आरुण्यगुणोत्प्रेक्षा अनुपात्तनिमित्ता ॥
यथा वा--
मन्ये कौस्तुभरत्नं प्रतियत्नं श्रीशवक्षसोऽनूत्नम् । श्रीतनुसर्जनशेषं धात्रा लावण्यराशिमुपनिहितम् ॥
अत्र कौस्तुभरत्नस्य लावण्यराशिरूपगुणभावस्वरूपोत्प्रेक्षायां दर्शनीयत्वादिर्गुणोऽनुपात्तः ॥
एवम्--
मूर्तिमदिव सौशील्यं स्फूर्तिमदिव भावयामि वात्सल्यम् । धाम किमप्यतिनैल्यं श्रीमत्फणिशिखरिशिखरगमतुल्यम् ॥ ४१० ॥
इत्यादावपि गुणभावस्वरूपोत्प्रेक्षा अनुपात्तनिमित्ता बोध्या । महतो मन्दैस्सह नीरन्ध्रसंश्लेषणस्वभावत्वं सौशील्यत्वम् । दोषतिरस्कारिप्रीतित्वं वात्सल्यत्वम् । अतिनैल्यमिति बहुव्रीहिः ॥
एवं गुणभावस्वरूपोत्प्रेक्षा दिक्प्रदर्शिता । अथ क्रियाभावस्वरूपोत्प्रेक्षा ।
तत्र उपात्तजातिनिमित्तकक्रियाभावस्वरूपोत्प्रेक्षा यथा--
शृङ्गाग्रपतिनिजझरशीकरनिकरैर्मरुत्प्रसरनुन्नैः । अर्पयति वियद्गङ्गा पुष्पाञ्जलिमिव फणीशगिरिपतये ॥ ४११ ॥
अत्र पुष्पाञ्जलिसमर्पणरूपक्रियाभावस्वरूपोत्प्रेक्षायां मरुत्प्रसरनुन्नशीकरनिकररूपजातिर्निमित्तमुपात्तम् । पुष्पाञ्जलिमर्पयतीत्यत्राञ्जलावर्पणस्य बाधात्तद्विशेषणेषु पुष्पेष्वन्वयः । स्वर्गी ध्वस्त इत्यादिवत् । अञ्जलिस्थपुष्पाणि विकिरतीत्यर्थः । 'सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे विशेषणमुपसंक्रामतः' इति हि न्यायविदः । अत एव 'सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः' इत्यादिप्रयोगास्संगच्छन्ते । वक्तव्यान्तरं तु लक्ष्मीसहस्रप्रादुर्भावस्तबकरत्नप्रकाशिकायां निरूपितमस्माभिः ॥
उपात्तगुणनिमित्तकक्रियाभावस्वरूपोत्प्रेक्षा यथा--
पटुतरशशधरविशदस्फटिकशिलाप्रचुरशिख- रधवलिम्ना । स्फुटमपहसति महीध्रान् स्फटाधरगिरिर्हरिं वहन्नन्यान् ॥ ४१२ ॥
अत्रापहसनक्रियाभावस्वरूपोत्प्रेक्षायां स्फटिकशिलाशिखरधावळ्यरूपगुणो निमित्तमुपात्तम् ॥
उपात्तक्रियानिमित्तकभावस्वरूपोत्प्रेक्षा यथा--
तुङ्गेभ्यश्शृङ्गेभ्यस्समुद्गिरन्निर्झरानुदारतरान् । स्वस्मिन्मुकुन्दवासानन्दाद्बाष्पायते किल वृषाद्रिः ॥
बाष्पमुद्वमति बाष्पायते ‘बाष्पोष्मभ्यामुद्वमने’ इति क्यङ् । अत्र बाष्पोद्वमनरूपक्रियाभावस्वरूपोत्प्रेक्षायां निर्झरोद्गिरणक्रियानिमित्तमुपात्तम् ॥
एवमुपात्तद्रव्यनिमित्ताऽप्युदाहार्या ।
यथा वा--
करपद्मेन द्वेषान्मध्ये भित्वा प्रकोष्ठके प्रोतम् । क्रन्दति सितकरबिम्बं शिञ्जन्मणिवलयमम्ब तव मन्ये ॥ ४१४ ॥
अत्र प्रथमान्तविशेष्यकशाब्दबोधवादिनामभेदसंसर्गेण शिञ्जद्विशिष्टे मौक्तिकवलये करपद्मकर्तृकद्वेषहेतुकमध्यच्छिद्रीकरणपूर्वकप्रकोष्ठाधिकरणकप्रवयनकर्माभिन्नोत्प्रेक्षितसितकरबिम्बतादत्म्योत्प्रेक्षणपूर्वकं क्रन्दनकर्तृत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, संबन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमिति स्थिते प्रस्तुते क्रन्दनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधिकरणप्रवयनकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धये अनुवाद्यतया मौक्तिकवलयतादात्म्यमनुपात्तधावळ्यनिमित्तकमुत्प्रेक्ष्यते । तत्र यथा विशिष्टोपमायामुपमानोपमेयविशेषणानामार्थमौपम्यं एवमत्रापि विषयभूतमौक्तिकवलयविशेषणस्य प्रवयनस्य मूलोत्प्रेक्षाविषयिभूतसितकरबिम्बविशेषणेन प्रवयनेनाभेद आर्थः । ततश्च सितकरबिम्बकर्मकप्रवयने सिद्धे मुख्योत्प्रेक्षा निर्व्यूढा भवति । क्रन्दनशिञ्जनयोरपि बिम्बप्रतिबिम्बभावेनाभेदः । तेन प्रकोष्ठकप्रोतशिञ्जदभिन्नो मौक्तिकवलयः प्रकोष्ठकप्रोतसितकरबिम्बाभिन्नः क्रन्दनक्रियानुकूलव्यापारवानिति बोधप्रकारः । आख्याते भावनाप्राधान्ये तु अभेदेन क्रोशनक्रियोत्प्रेक्षा । तत्र शाब्दवृत्तौ वलयविशेषणतया प्रतीयमानमपि शिञ्जनं संभावनाविषयतयाऽवतिष्ठते अध्यवसानवशात् । क्रन्दनक्रियायां च तादृशवलयो विशेषणम् । तादृशवलये चाभेदेन तादृशसितकरबिम्बम् । न तु सितकरबिम्बमेव साक्षात्क्रियायाम् । तथा सति वलयस्यानन्वयापत्तेः । विषयिविषयविशेषणयोः प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्तिरिति ॥
एवं क्रियाभावस्वरूपोत्प्रेक्षामार्गः प्रदर्शितः ॥
अनुपात्तनिमित्तकक्रियाभावस्वरूपोत्प्रेक्षा यथा--
तत्तादृशि फणिशिखरिणि क्लप्तावसथस्य कस्यचिद्धाम्नः । स्मरणं तदीयमूर्तेश्चित्ते मम वज्रलेपमिव दत्ते ॥ ४१५ ॥
अत्र वज्रलेपनदानक्रियोत्प्रेक्षायां अविश्लेषेण संनिधापनं निमित्तं नोपात्तम् ॥ अथ द्रव्यभावोत्प्रेक्षा--
तत्र उपात्तजातिनिमित्तकद्रव्यभावोत्प्रेक्षा यथा--
भगवति मधुरिपुमहिळे भवतीमुखमस्य संमुखीनेन । द्रवता विधुकान्तेन स्वान्ते संतर्कयेत को नेन्दुम् ॥ ४१६ ॥
अस्य मुखस्य सम्मुखीनेन अभिमुखावस्थायिना द्रवता दयार्द्रेण रागद्रुतहृदयेन वा पक्षे जलस्राविणा । विधुकान्तेन विधुर्भगवानेव कान्तः वल्लभः तेन । पक्षे--
अमृतांशुकरस्पर्शाद्यत्क्षरत्यमृतं क्षणात् ।
चन्द्रकान्तं तदाख्यातं दुर्लभं स्यात्कलौ युगे ॥
इति स्कान्दोक्तलक्षणश्चन्द्रकान्तमणिः तेन । अत्र मुखरूपजातौ इन्दुरूपद्रव्यतादात्म्योत्प्रेक्षणे श्लेषकल्पिताभेदश्चन्द्रकान्तमणिरूप जातिर्निमित्तमुपात्तम् ॥
उपात्तगुणनिमित्तकद्रव्यभावोत्प्रेक्षा यथा--
करचरणाद्यवयववत् स्फुरदाकाशं विनीलमहिशैले । उदितं ब्रह्म विजाने यदिदमनन्तं वदन्ति निगमान्ताः ॥ ४१७ ॥
अत्र श्रीनिवासे परब्रह्मणि द्रव्ये नीलत्वानन्तत्वगुणनिमित्तकमाकाशरूपद्रव्यतादात्म्योत्प्रेक्षणम् । आकाशस्य एकत्वादिदं द्रव्यम् । निगमान्ताः ‘सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्या उपनिपदः । अनन्तं त्रिविधपरिच्छेदरहितं ब्रह्म । पक्षे अन्तरिक्षं 'अनन्तं गगने क्लीबे पुमान्केशवशेषयोः' इति रत्नमाला । अत्र नीलत्वादिर्गुण उपात्तः ॥
उपात्तक्रियानिमित्तकद्रव्यभावोत्प्रेक्षा यथा--
स्वात्युज्ज्वलत्वहेतोः प्रमोदवर्षं ददात्यलं यदयम् । त्वन्नासामणिमेनं शुक्रं मन्ये ततोऽम्बुनिधिकन्ये ॥
यत् यस्मात् अयं त्वन्नासामणिः नासिकाभरणमौक्तिकं 'रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च' इत्यमरः । स्वात्यां स्वातीनक्षत्रे उज्ज्वलत्वं अनस्तगत्वेन प्रकाशमानत्वं तस्माद्धेतोः । पक्षे स्वस्य आत्मनः अत्युज्ज्वलत्वहेतोः औज्ज्वल्यसद्भावाद्धेतोः अलं पर्याप्तं प्रदत्तो मोदो येन तत् प्रमोदं ‘प्रादिभ्यो धातु जस्य वाच्यो वा चोत्तरपदलोपः' इति दत्तशब्दस्य लोपः । वर्षं वृष्टिं ददाति ।
वरुणस्य दिशि स्वात्यां चरन्कविरनस्तगः।
संपूर्णां तनुते वृष्टिं जगदानन्ददायिनीम् ॥
इत्युक्तेरिति भावः । पक्षे प्रमोदवर्षं अविच्छिन्नमानन्दमित्यर्थः । ददाति । ततः कारणात् त्वन्नासामणिं शुक्रं भार्गवं मन्ये । अत्र नासामणौ जातौ शुक्रो द्रव्यं तादात्म्येन संभाव्यते । तत्र च उपपादितश्लेषकल्पिताभेदस्वात्युज्ज्वलत्वहेतुकप्रमोदवर्षदानलक्षणक्रियारूपं निमित्तमुपात्तम् ।
उपात्तद्रव्यनिमित्तकद्रव्यभावस्वरूपोत्प्रेक्षा यथा--
शार्ङ्गं यदेतदहिगिरिशृङ्गविहारिन्विभाति तव भूमन् । संभावयाम्यनन्तं तदेतदधिरूढया ज्यया शिरसि ॥ ४१९ ॥ तदेतत् शार्ङ्गं शिरसि मूर्ध्नि अग्रे च ‘शिरः प्रधाने सेनाग्रे द्रुमाद्यग्रेषु मूर्ध्नि च' इति रत्नमाला । अधिरूढया ज्यया भूम्या मौर्व्या च । ‘ज्या मौर्वीभूमिमातृषु' इति रत्नमाला । अनन्तं शेषं संभावयामि उत्प्रेक्षे । अत्र शार्ङ्गे द्रव्ये शेषो द्रव्यं तादात्म्येन संभाव्यते । तत्र च ज्याशब्दप्रतिपाद्यमौर्वीभूमिरूपार्थद्वयाभेदाध्यवसायेन शिरोधिरूढभूमिरूपद्रव्यं निमित्तमुपात्तम्
अनुपात्तनिमित्तद्रव्यभावोत्प्रेक्षा यथा--
भित्वा द्वेषाद्भानोर्बिम्बं मध्ये ततो विनिर्गच्छन् राहुरिव बाहुरच्युत तव मणिकेयूरवेष्टितो भाति ॥
अत्र भगवतः केयूरवेष्टिते बाहौ मध्यभेदनपूर्वकभानुमण्डलविनिर्गतो राहुर्द्रव्यं तादात्म्येन संभाव्यते । तत्र न किंचिदपि निमित्तमुपात्तम् ॥
एवं जात्यादिभावस्वरूपोत्प्रेक्षादिक्प्रदाशता । अथाभावाभिमानवत्यस्स्वरूपोत्प्रेक्षाः दिङ्मात्रमुदाह्रियन्ते ॥
तत्र जात्यभावस्वरूपोत्प्रेक्षा यथा--
नीलैर्निजरुचिजालैर्दिनकरशून्यामिवाचरन्वन्याम् । फणिपतिशिखरिणि तस्यां रमयति रात्रिंदिवं रमां शौरिः ॥ ४२१ ॥
तस्यां वन्यायामित्यर्थः । अत्र दिनकरशून्यामिति जात्यभाव उत्प्रेक्ष्यते । तत्र नीलरुचिरूपगुणो निमित्तम् ॥
यथा वा--
कञ्चुकिगिरिमहिमभरैः कञ्चुकितं वसुमतीतलं निखिलम् । दृश्येऽपि गिरिसहस्रे निश्शैलमिवातिवेलमाभाति ॥ ४२२ ॥
अत्र निश्शैलमिति जात्यभावोत्प्रेक्षायां शेषाद्रिमहिमव्याप्तत्वलक्षणक्रियारूपं निमित्तमुपात्तम् । एवं उपात्तजातिद्रव्यनिमित्तके जात्यभावस्वरूपोत्प्रेक्षे अप्युदाहार्ये ॥
यथा वा--
महिमा विजृम्भतेऽसावहिमूर्धन्याचलावतंसस्य । सकलमपि दैवतान्तरविकलं किल भुवनमाचरन्कोऽपि ॥ ४२३ ॥
अत्र दैवतान्तरविकलमिति जात्यभावोत्प्रेक्षायां निमित्तमनुपात्तम् ॥
गुणाभावस्वरूपोत्प्रेक्षा यथा--
विमलविशृङ्खलविसृमरकमलारुचिनिचयपरिचयपिशङ्गम् । फणिगिरिमस्तकरत्नं प्रत्यस्तमितात्मनीलिमेवासीत् ॥ ४२४ ॥
अत्र नीलगुणाभावोत्प्रेक्षायां कमलारुचिनिचयपरिचयपिशङ्गत्वगुणो निमित्तमुपातम् ॥
एवमुपात्तजातिक्रियाद्रव्यनिमित्तकाः अनुपात्तनिमित्तका च गुणाभावस्वरूपोत्प्रेक्षा उदाहार्याः ॥
क्रियाभावस्वरूपोत्प्रेक्षा यथा--
कन्दर्पकोटिकोटिप्रयुतायुत दिव्यरूपलावण्यम् । निर्वर्ण्य वृषाद्रीन्दुं निस्पन्द इवाभवन्निखिललोकः ॥ अत्र निस्पन्द इति क्रियाऽभावोत्प्रेक्षाया निर्वर्णनरूपक्रियात्मकं निमित्तमुपात्तम् । निस्पन्द इत्यत्र सस्य न षत्वम् । अषोपदेशत्वेन तदप्राप्तेः । तथाच वामनः–‘निष्पन्द इति षत्वं चिन्त्यं लक्षणादर्शनात्’ इति । लक्षणं शास्त्रमिति । हंससन्देशरसास्वादिन्यां 'दत्तनिस्पन्ददृष्टिः' इत्यस्य व्याख्यानावसरे निरूपितमस्माभिः ॥
एवमुपात्तजातिगुणद्रव्यरूपनिमित्ताः अनुपात्तनिमित्ताश्च क्रियाऽभावस्वरूपोत्प्रेक्षा अप्युदाहार्याः ॥
द्रव्याभावस्वरूपोत्प्रेक्षा यथा--
विशदयताऽखिलभुवनं यशसा भुजगेशशिखरिशेखर ते । अशशाङ्कमिवाकाशं न कलङ्की भाति भात्यपकलङ्के ॥ ४२६ ॥
अपकलङ्के निष्कलङ्के भाति सति कलङ्की न भातीति योजना । अत्राशशाङ्कमिति द्रव्याभावोत्प्रेक्षायां यशसेति जातिर्निमित्तमुपात्तम् । यशसो गुणत्वविवक्षायां इयमुपात्तगुणनिमित्तेति ध्येयम् ॥
यथा वा--
सत्यज्ञानानन्दे नित्यं वृषशैलशिखरतोऽस्पन्दे । परिरमति रमावासे परमपदं भवति नूनमब्रह्म ॥
अत्र परमपदे अब्रह्मत्वमुत्प्रेक्ष्यत इति द्रव्याभावस्वरूपोत्प्रेक्षेयं वृषशैलाधिकरणकपरिरमणक्रियारूपनिमित्तोपादानादुपात्तनिमित्ता । ब्रह्म द्रव्यं एकत्वात् । वृषशैलशिखरतः अस्पन्दे अकृतकिञ्चिच्चलने परिरमति परितो विहरति सति । ‘व्याङ्परिभ्यो रमः' इति परस्मैपदम् ॥
यथा वा--
तावकमहसेवनमिळदनवधिजनचरणहतिजरेणुनिभात् । धरयोर्ध्वं विसृमरया विगगनमिव खगगिरीश जगदासीत् ॥ ४२८ ॥
मह: उत्सवः 'मह उद्धव उत्सवः' इत्यमरः । अदन्तोऽयम् । रेणुनिभात् परागव्याजात् । खगगिरिरिति शेषाद्रेरेव नामान्तरम् । अत्र विगगनमिति द्रव्याभावोत्प्रेक्षायां रेणुव्याजेनोत्सृत्वरी भूमिर्द्रव्यं निमित्तमुपात्तम् ॥
एषा मालारूपाऽपि संभवति, यथा--
मरकतमणिरिव विचरन् करचरणमनोहरोऽम्बुराशिरिव । स्फुरदङ्ग इवानङ्गो व्रजभुवि विजहार यदुकुलकुमारः ॥ ४२९ ॥
अत्र भगवद्गतानां संचारित्वादीनां मरकतादितादात्म्यविरोधिनां विरोधोपशमाय विषयिषु मरकतादिष्वारोपेण साधारणीकरणम् । न चेहोपमा शक्या निरूपयितुम्, विचरत्त्वादीनामुक्तेर्नैष्फल्यापत्तेः । न चोपमानिष्पादकं तेषां साधारण्यं तदभावेऽपि नैल्यादिभिर्धर्मैः प्रतीयमानैस्तस्या निष्पत्तेरचारुत्वादुपमानिष्पादकत्वेन कवेरविवक्षितत्वाच्च । न ह्यत्र विचरत्त्वादिभिर्धर्मैर्मरकतादिसादृश्यं भगवतः कविसंरम्भविषयः । एवं विचरत्त्वादीनां मरकतादिष्वारोपोऽपि सत्यामुपमायां निष्प्रयोजन एव भवेत् । अभेदप्रतिपत्तौ तु अविचरता अकरचरणेनानङ्गेन च तेन तेन कथमस्याभेदस्संभवेदिति प्रतिकूलमतिमपनेतुं विषयिगतानां विचरत्त्वाद्यारोपाणामस्त्येवोपयोगः । अत्रैव इवशब्दस्याभावे दृढारोपं रूपकम् । विषयिगतविशेषणानामभावे उपमा । इवशब्दविशेषणयोरेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः ॥
एवं जात्यादिभावाभावस्वरूपोत्प्रेक्षाः दिङ्मात्रेणोदाहृताः । अथ हेतूत्प्रेक्षा । तत्र जातिभावे हेतूत्प्रेक्षा यथा--
वृषगिरिनेतुर्मणिमयसौधेनेवोरसाऽब्धिराजसुता । विस्मारिता निवासं मकरन्दपरागपङ्किले कमले ॥ ४३० ॥
अत्र सौधेनेति जातिः कमलनिवासविस्मरणं प्रति हेतुत्वेनोत्प्रेक्ष्यते तदेवोत्प्रेक्ष्यमाणहेतोर्निमित्तमित्युपात्तगुणनिमित्ता जातिभावहेतूत्प्रेक्षा । हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव, न त्वनुपादानम् । तथाहि--साध्ये अनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति तथा साधने अनुपात्ते साध्यत्वेन निर्देशोऽपि । तयोरितरेतरसापेक्षत्वात् हेतूत्प्रेक्षायां हि निमित्तं फलम् । तस्यानुपादाने कं प्रति हेतुता संगच्छताम् । फलोत्प्रेक्षायां हि साधनं निमित्तम्, तस्मिन्ननुपात्ते कं प्रति फलत्वं संघटताम् । एवं च निमित्तनैमितिकयोरन्यतरोपादानेऽन्वयपरिपोषविरहादुभयोपादाननियमे निमित्तोपादानं नियतमेवेत्यवधेयम् । तथाच उदाहृतेऽस्मिन्पद्ये उत्प्रेक्षाया निमित्तस्य कमलनिवासविस्मारणस्यानुपादाने सौधेनेति हेतूत्प्रेक्षा न शोभते । एवं वक्ष्यमाणफलोत्प्रेक्षायामप्यूह्यम् । तस्मात् स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादने । न तु हेतुफलोत्प्रेक्षयोरिति द्रष्टव्यम् ॥
गुणहेतूत्प्रेक्षा यथा--
अच्छाच्छरुचिरयं मम सच्छात्र इति प्रमोदतो नूनम् । स्वाभिमुखे देवेऽनुप्रविशति कौस्तुभमणिं सहस्रांशुः ॥ ४३१ ॥
अच्छाच्छरुचिः अतिस्वच्छद्युतित्वात् अकुटिलप्रीतित्वाच्चेत्यर्थः । हेतुगर्भविशेषणम् । अयं कौस्तुभमणिः मम सच्छात्रः इति प्रमोदतो नूनं देवे श्रीनिवासे स्वाभिमुखे सति सहस्रांशुः कौस्तुभमणिं अनुप्रविशति योगक्षेमादौ तदैकरस्यं भजतीति भावः । तत्र प्रतिबिम्बितो भवतीति वास्तवार्थः । भगवत आभिमुख्ये सत्येव तद्वक्षस्स्थिते कौस्तुभे सहस्रांशुप्रतिफलनसंभवात्स्वाभिमुखे इत्युक्तिः । अत्र सच्छात्रताहेतुकप्रमोदो गुणः कौस्तुभानुप्रवेशं प्रति हेतुत्वेनोत्प्रेक्ष्यते । स एवानुप्रवेशो निमित्तमुपात्तम् ॥
क्रियाहेतूत्प्रेक्षा यथा--
हरिमुखराकाचन्द्रालोकानिशसेवनादिव रमायाः । नयनेन्दीवरयुगळं नित्योत्फुल्लं निमीलनाज्ञमभूत् ॥ ४३२ ॥
अत्र सेचनादिति क्रिया नित्योत्फुल्लतां प्रति हेतुतयोत्प्रेक्ष्यते सैवोत्फुल्लता निमित्तम् ॥ यथावा--
स्वामिंस्त्वन्मुखहिमरुचिधामकृतात्परिभवादिव नितान्तम् । जीवनभङ्गविलोला कमलाळी वहति किं नु साऽरसताम् ॥ ४३३ ॥
हे स्वामिन् ! त्वन्मुखमेव हिमरुचिः आत्मप्रत्यनीकश्चन्द्रमाः कमलाळीध्वंसनोपकरणवत्त्वद्योतनाय हिमरुचिशब्दः । तस्य धाम्ना तेजसा प्रभावेण च ‘गृहदेहत्विट्प्रभावा धामानि' इयमरः । कृतात् परिभवादिव साऽरसतामित्यत्र सा अरसतामिति छेदः, सा अतिरमणीयतया प्रसिद्धा कमलाळी पद्मपङ्क्तिः । जीवनस्य जीवितस्य भङ्गे विलोला विशेषेण सक्ता 'सतां म्लाने माने' इत्याद्युक्तरीत्या जीवितपरित्यजनकृतसंकल्पेत्यर्थः । पक्षे जीवनस्य सलिलस्य भङ्गैस्तरङ्गैः विलोला चञ्चला `लोलश्चलसतृष्णयोः' इत्यमरः । अरसतां सर्वविषयवैरस्यं वहति । परपरिभवदूनानां जीवितत्यजनदत्तदृष्टीनां सर्वत्रानास्थैव भवतीति भावः । अन्यत्र सारसतामिति समस्तं पदम् । सरोजतामिति वास्तवार्थः । अत्र परिभवरूपा क्रिया अरसतावहनं प्रति हेतुत्वेन संभाव्यते । तदेव तत्र निमित्तम् । इयं श्लेषसंकीर्णा ॥
द्रव्यहेतूत्प्रेक्षा यथा--
बलवानपि बहुपादोऽप्यलमहिभूभृन्महागताढ्योपि । नेष्टे पदमपि चलितुं स्वस्मिन्विश्वंभरेण किल वसता ॥ ४३४ ॥ बलवान् सामर्थ्यवानपि । पक्षे स्थौल्यवानपि 'स्थौल्यसामर्थ्यसैन्येषु बलम्' इत्यमरः । बलसत्त्वेऽपि करणविरहे कथं गमनसंभव इत्यत आह--बह्विति । बहुपादोऽपि बहुचरणोपि । पक्षे बहुप्रत्यन्तपर्वतोपि । अत एव महत् श्लाघ्यं गतं गमनं, भावे क्तः । तेन आढ्योपि । पक्षे महान्तः अगाः तरवः यस्मिंस्तथोक्तः तस्य भावः महागता तया आढ्योपि । अहिभूभृत् शेषाद्रिः शेष इत्यपि गम्यते । स्वस्मिन् वसता विश्वंभरेणेव पदमपि चलितुं नेष्टे न शक्नोति । अत्र स्वस्मिन्नवस्थितो विश्वंभरो द्रव्यं अहिभूभृतो निश्चलतां प्रति हेतुत्वेनोत्प्रेक्ष्यते । सा निश्चलतैव निमित्तमुपात्तम् ॥
यथावा--
निर्मलदृष्टिप्रसरणनिरोधनिर्माणनिपुणनिजमहिमा । चन्द्रादपरस्मादिव सान्द्रा शौरेस्तमस्ततिर्गळति ॥ ४३५ ॥
निर्मला भ्रमविप्रलम्भादिसंभावनादवीयसी । पक्षे विशदाया दृष्टिः ज्ञानं, पक्षे दृक् ‘दृष्टिर्ज्ञानेऽक्ष्णि दर्शने' इत्यमरः । तस्याः प्रसरणस्य निरोधनिर्माणे निपुणः निजः महिमा महत्त्वं यस्यास्सा । तमस्ततिः अज्ञानसंततिः । ध्वान्तसंहतिश्च । अत्र तमस्ततिगळनं प्रति चन्द्रो द्रव्यं हेतुतयोत्प्रेक्ष्यते । तमस्ततिगळनमेव निमित्तम् । श्लेषोत्तम्भितेयम् । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं न संभवतीति वदन्तः प्रत्युक्ताः ॥
यथावा--
कलधौतगिरिं भवता सुश्रीकैलासमृद्धमधिवसता । अपरेणेव मुरारे श्रीदेनालंकृतोत्तराशा सा ॥ हे मुरारे! सुश्रीकाः एलाः एलालताः ताभिः समृद्धं, अन्यत्र ऋद्धं समृद्धं सुश्रीश्चासौ कैलासश्च तं तन्नामानं कलधौतगिरिं कनकाचलं शेषाद्रेरेव नामान्तरमिदमित्यवोचामासकृत् । पक्षे रजतगिरिम् । ‘कलधौतं रूप्यहेम्नोः' इत्यमरः । अधिवसता श्रीदेन भवता अपरेण श्रीदेन कुबेरेणेव सा उत्तरा श्रेष्ठा आशा पुरुषार्थविषयकतृष्णा, आशासानानामिति शेषः । अलं पर्याप्ता कृता परिपूरितेत्यर्थः । पक्षे उत्तराशा उदीची दिक् अलंकृता भूषिता । 'भूषणेऽलम्' इति गतिसंज्ञायां ‘कुगति' इति समासः । तदधीशत्वात्तस्येति भावः । अत्र श्रीदेनेति द्रव्यस्य उत्तराशालङ्करणहेतुत्वेन संभावनं श्लेषोत्तम्भितम् । अत्रापरशब्दाप्रयोगे प्राचां मते शब्दमात्रसाधर्म्यात् श्लेष एव स्यात् । नवीनपक्षे अर्थसाधर्म्ये तु श्रीदस्य सिद्धतया उपमैव । तत्प्रयोगे तु प्रकृतो भगवानेवापरश्रीदत्वेनाध्यवसीयते, तस्य इवशब्देन साध्यत्वप्रतीतेरुत्प्रेक्षैव । इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः । इवापरशब्दयोरुभयोरप्यप्रयोगे रूपकमित्यादयो विशेषा यथासंभवमूह्याः ॥
इदमुदाहरणद्वयं विद्यानाथानुरोधेन । तेन हि--
प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम् ।
समुन्मूलितमामूलादपरेणेव वज्रिणा ॥
इति द्रव्यहेतूत्प्रेक्षा उदाह्रियत । यद्यपीदं पद्यं द्रव्यस्वरूपोत्प्रेक्षाया एवोदाहरणं भवितुमर्हति । अत्र हि इवशब्दापनयने प्रतापरुद्रे विषये अपरवज्र्यभेदरूपकमेवेति तावदविवादम् । तथाच सति तत्र इवशब्दयोजने प्रतापरुद्रे अपरवज्रिरूपद्रव्यस्वरूपोत्प्रेक्षैव इवशब्देन प्रत्याय्येत । यत्र असतीवशब्दे यत्पदार्थे यत्पदार्थरूपकं तत्रैव सतीवशब्दे तत्पदार्थे तत्पदार्थस्वरूपोत्प्रेक्षेति नियमदर्शनात् । तथाऽपि यदीह प्रतारुद्रदेवेन समुन्मूलितं अपरवज्रिणेवेत्यन्वयविवक्षया प्रतापरुद्रहेतुके क्ष्माभृत्पक्षविजृम्भितसमुन्मूलने अपरवज्रिहेतुकत्वसंभावनविषयत्वं प्रतिपिपादयिषितं तदा भवतीदं द्रव्यहेतूत्प्रेक्षाया अपि कथंचिदुदाहरणमिति तदाशय उन्नीयते । चित्रमीमांसारसगङ्गाधरकारौ तु ईदृशद्रव्यस्वरूपोत्प्रेक्षागन्धदविष्ठमेव पद्यं द्रव्यहेतूत्प्रेक्षायामुदाहरेताम् । तदनुरोधेन निस्संदिग्धमुदाहरणं तु ‘बलवानपि बहुपादोपि’ इति प्रागेवोपदर्शितमस्माभिरित्यलं बहुना ॥
अथाभावाभिमानवत्यः-- तत्र जात्यभावहेतूत्प्रेक्षा यथा--
गगनतले स्वप्रभया स्थगिते भानोरभावतो नूनम् । घनरुचिरुरसा कौस्तुभमिनकोटिरुचं वहत्यहिगिरीशः ॥ ४३७ ॥
अत्र भानोर्जातेरभावः कौस्तुभधारणहेतुत्वेनोत्प्रेक्ष्यत इत्युपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षेयम् ॥
यथावा--
शौरेर्जययात्रोत्थैर्भूरेणुभरैर्मुहुः कबलितायाम् । द्युसरिति सलिलाभावान्मरुतां स्वपदे ध्रुवं मरुत्त्वमभूत् ॥ ४३८ ॥
स्वपदे स्वस्थाने स्ववाचकपदे च मरुत्त्वं मरुभूमित्वं मरुच्छब्दत्वं च । आद्यपक्षे तकारस्य 'अनचि च' इति द्वित्वम् । ‘मरुतौ पवनामरौ, समानौ मरुधन्वानौ’ इति चामरः । अत्र मरुत्त्वप्राप्तिं प्रति सलिलरूपजात्यभावो हेतुतयोत्प्रेक्ष्यते । श्लेषोज्जीवितेयम् ॥
गुणाभावहेतूत्प्रेक्षा यथा--
विहरति मयि सानन्दं सह रमया स हरिरेव किं मेऽन्यत् । आशास्यमित्यनाकुलभावात्प्रायेण निश्चलोऽहिगिरिः ॥ ४३९ ॥
प्रायेणेत्येतदुत्प्रेक्षाव्यञ्जकम् । अत्र अनाकुलभावादिति गुणभावो नैश्चल्यं प्रति हेतुत्वेनोत्प्रेक्ष्यते । इयं चलनरूपक्रियाभावनिमित्ता गुणाभावहेतूत्प्रेक्षा । एवं जात्यादिनिमित्ता अप्यूह्याः ॥
क्रियाभावहेतूत्प्रेक्षा यथा--
मध्यमतां त्यक्तुं तव मध्यममर्वाक्छिरः प्रतप्यापि । तदलाभात्क्रशिमानं नूनं प्रापाहिशैलपतिदयिते ॥ ४४० ॥
तव मध्यमं मध्यमतां उत्कर्षापकर्षशून्यतां, पक्षे अवलग्नतां त्यक्तुं अर्वाक्छिरः प्रतप्यापि अधश्शिरस्तपस्तप्त्वाऽपि विलोमतयाऽवस्थानमेवाधश्शिरस्तपस्यात्वेनाध्यवसीयते । तदलाभात् मध्यमतात्यागाप्राप्तेः मध्यममिति वर्णावळेर्विलोमत्वेऽपि मध्यममित्येवावस्थानाच्छब्दार्थयोस्तादात्म्यमुपजीव्य तदलाभादित्युक्तम् । क्रशिमानं प्राप । अत्र लाभक्रियाभावः क्रशिमप्राप्तिं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति क्रियानिमित्तक्रियाभावहेतूत्प्रेक्षेयं श्लेषातिशयोक्त्युत्तम्भिता । एवं जात्यादिनिमित्तक्रियाभावोत्प्रेक्षा अप्यूह्याः ॥ द्रव्याभावहेतूत्प्रेक्षा यथा--
अहिगिरिगा हरिरुचिभिस्स्वदक्षिणार्धाङ्गकेऽपि मेचकिते । काळी गौरी समजनि शर्वाभावादिवात्यर्थम् ॥ ४४१ ॥
काळी निसर्गतो नीलवर्णा हरार्धशरीरस्था पार्वती ‘जानपद’ इत्यादिना ङीष् । अहिगिरिगा भगवत्सेवार्थं शेषाद्रिगता सतीति भावः । हरिरुचिभिः श्यामलाभिरिति भावः । स्वदक्षिणार्धाङ्गकेऽपि भर्तृरूपे स्वदक्षिणार्धावयवेऽपि अर्धनारीश्वरस्य पार्वतीदक्षिणार्धशरीरस्थत्वात् । मेचकिते श्यामलिते सति । अपिशब्दस्स्वशरीरश्यामलिमानं समुच्चिनोति । शर्वाभावादिव स्ववल्लभाभावादिव शरीरदक्षिणवामार्धयोरुभयोरप्यविशेषेण निपद्यमाने कालिम्नि पत्यर्धशरीरेऽपि स्वशरीरार्धान्तरसंभावनया पत्युरभावमाशङ्क्य निर्वेदमश्नुवानेति भावः । अत्यर्थं गौरी बभूव पाण्डुराऽऽसीत् । अन्यथा स्वतः कालवर्णाया अस्याः कथं गौरवर्णता स्यादिति भावः । एकस्या एव पार्वत्याः कालवर्णत्वगौरवर्णत्वविरोधो जन्मभेदेन परिहार्यः । अत्र शर्वरूपद्रव्याभावः काळ्याः निर्वेदपूर्वकगौरतां प्रति हेतुत्वेन संभावित इति गुणनिमित्तेयं द्रव्याभावहेतूत्प्रेक्षा । ‘अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम्' इति द्रव्योत्प्रेक्षोदाहरणे 'वस्तुतोऽर्धनारीश्वरस्यैकत्वात् द्रव्योत्प्रेक्षा' इत्युक्तं चित्रमीमांसायाम् । अतोऽर्धनारीश्वरस्य द्रव्यत्वमव्याहतम् ॥
यथावा--
चिन्तामणेरभावाद्धरणौ चिन्तामणिक्षितिधरेन्द्रम् । सर्वमनोरथवितरणधूर्वहमसृजज्जगत्स्रष्टा ॥ अत्र धरण्यधिकरणकचिन्तामण्यभावश्चिन्तामणिगिरिसर्जनं प्रति हेतुतया संभावितः । क्रियानिमित्तेयं द्रव्याभावहेतूत्प्रेक्षा । चिन्तामणिगिरिरिति शेषाद्रेरेव नामान्तरमित्यवोचाम, तन्न विस्मर्तव्यम् । इति हेतूत्प्रेक्षादिक् ॥
अथ फलोत्प्रेक्षा--तत्र जातिफलोत्प्रेक्षा यथा--
रमया सह वृषशिखरिणि समये विजिहीर्षतो मुरारातेः । पटमण्डपाय नूनं जृम्भन्तेऽम्भोधरास्ससंरम्भाः ॥ ४४३ ॥
अत्र पटमण्डपत्वरूपजात्यवच्छिन्नः अम्भोधरजृम्भणस्य फलतयोत्प्रेक्ष्यत इति क्रियानिमित्तजातिफलोत्प्रेक्षा । न चात्र संपादनक्रियामन्तरा शुद्धाया जातेरफलत्वात्क्रियाया एव फलत्वमिति वाच्यम् । संपादनस्य संसर्गतया तद्द्वारेणैव जात्यादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव ‘यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् , ब्राह्मण्याय तपस्तेपे विश्वामित्रस्सुदारुणम्’ इत्यादयः प्रयोगा उपपद्यन्ते । एवं जात्यादिनिमित्ता अपि जातिफलोत्प्रेक्षा उदाहार्याः ॥
गुणफलोत्प्रेक्षा यथा--
असितघनरुचिर इति मत्सदृशाख्यो हरिरशंसि निगमान्तैः । इति तादृशनीलिम्ने विधुः कलङ्कं दधाति किं स्वाङ्गे ॥ ४४४ ।।
अत्र हरिविधुशब्दौ भगवच्चन्द्रोभयवाचिनौ । असितघनरुचिरः नीलाम्बुदमनोहर इति । निगमान्तैः 'नीलतोयदमध्यस्था' श्यामाच्छबलं प्रपद्ये शबलाच्छयामम्' इत्यादिभिः अशंसि प्राशस्यत । अत्र नीलिमा गुणः फलत्वेनोत्प्रेक्ष्यते कलङ्कधारणं निमित्तमिति क्रियानिमित्तगुणफलोत्प्रेक्षा । एवं जात्यादिनिमित्ता अपि गुणफलोत्प्रेक्षा ऊहनीयाः ॥
क्रियाफलोप्रक्षा यथा--
त्रैविक्रममिव विक्रममभ्यस्यन्तः परं तटित्वन्तः । उद्दामानः प्रावृष्युज्जृम्भन्तेऽहिगिरिमुपर्युपरि ॥
अभ्यस्यन्त इव अभ्यसितुमिवेत्यर्थः । ‘लक्षणहेत्वोः' इति शता । अर्जयन्वसतीत्यादाविव हेतुरिह फलम् । अहिगिरिमुपर्युपरि अहिगिरेस्समीपपरिप्रदेश इत्यर्थः । 'उपर्यध्यधसस्सामीप्ये' इति द्विर्भावः ‘धिगुपर्यादिषु त्रिषु' इति तद्योगे द्वितीया । अत्राभ्यस्यन्त इति क्रिया फलत्वेनोत्प्रेक्ष्यते । उज्जृम्भणक्रिया निमित्तमिति क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । जात्यादिनिमित्ता अप्यमुयैव दिशा प्रतिपत्तव्याः ॥
द्रव्यफलोत्प्रेक्षा यथा--
सुरभिलवनमालामिलदलिकुलतो नाभिकमलपरिलग्नान् । दधदलिनो मधुदलनो धात्रेऽनन्ताय किं नु संनद्धः ॥ ४४६ ॥
वनमालामिलदलिकुलात् नाभिकमले संलग्नान् संबद्धानित्यर्थः । अनेन अळिनां तदारुण्यसंक्रान्तिर्द्योत्यते । मधुदलनः मधुमथन इत्यर्थः । अनन्ताय धात्रे अनेकांश्चतुर्मुखान्निर्मातुमिति यावत् । अत्र धाता द्रव्यं फलतयोत्प्रेक्ष्यते । अळिधारणक्रिया निमित्तमिति क्रियानिमित्तद्रव्यफलोत्प्रेक्षा । एवं जात्यादिनिमित्ता अपि द्रव्यफलोत्प्रेक्षा उदाहार्याः ॥
अथाभावाभिमानवत्यः फलोत्प्रेक्षाः--तत्र जात्यभावफलोत्प्रेक्षा यथा--
यमलार्जुनयोर्हरिपदकमलामर्शाद्विमुक्तिमालोच्य । मन्ये वसन्त्यहिगिरावन्ये तरवोप्यभूरुहत्वाय ॥ ४४७ ॥
अत्राभूरुहत्वायेति जात्यभावः फलत्वेन संभाव्यते । विमुक्त्यालोचनक्रिया निमित्तमिति क्रियानिमित्तजात्यभावफलोत्प्रेक्षा । एवं जात्यादिनिमित्ता अप्यूह्याः । अभूरुहत्वाय अतरुत्वाय भुविजननाभावाय च, निश्श्रेयसायेति यावत् ॥
गुणभावफलात्प्रेक्षा यथा--
तैक्ष्ण्यमिह लोकबन्धोरनुचितमिति कौस्तुभोभवन्भास्वान् । नूनमतैक्ष्ण्याय हरेर्हृदयं श्रयते कृपाझरीशिशिरम् ॥ ४४८ ॥
अत्रातैक्ष्ण्यायेति गुणभाव फलत्वेनोत्प्रेक्ष्यते । कृपाझरीशिशिरहरिहृदयाश्रयणक्रिया निमित्तम् । एवं जात्यादिनिमित्ता अपि ज्ञेयाः ॥
क्रियाभावफलोत्प्रेक्षा यथा--
सर्वेषां स्वदयिततमहृदयस्थित्यनवलोकनायेव । विद्युत्प्रभानिभाभिस्स्वभाभिराच्छादयति दृशो लक्ष्मीः ॥ ४४९ ॥ सर्वेषामित्येतत् दृश इत्यत्रान्वेति । अत्रावलोकनक्रियाया अभावः फलत्वेनोत्प्रेक्ष्यते । आच्छादनक्रिया निमित्तम् । एवं जातिगुणद्रव्यनिमित्ता अपि विभावनीयाः ।
द्रव्याभावफलोत्पेक्षा यथा--
हिमशिखरित्रिदशसरित्कलशोदधिगिरिशशशिविलोपाय । शङ्केऽहिशैलशेखरयशोविलासो दिशो विशो (भ)धयते ॥ ४५० ॥
अत्र हिमशिखरिमुखद्रव्याभावः फलत्वेन संभाव्यते विशो (भ) धनक्रिया निमित्तम् । एवमेवान्यदप्यूह्यम् ।
इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाहृताः । वस्तुतस्तु नैतेषामस्ति चमत्कृतौ वैलक्षण्यमित्यनुदाहरणीया एवैते । चमत्कृतिवैलक्षण्यं स्वरूपहेतुफलात्मकानां त्रयाणां प्रकाराणामेवेति ध्येयम् ॥
एवं— मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः ।
- उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोपि तादृशः ॥
इत्युक्तप्रकारवाचकशब्दघटिताः वाच्योत्प्रेक्षाः पदर्शिताः । तदप्रयोगे गम्योत्प्रेक्षा भवति ॥
तत्र वस्तूत्प्रेक्षा यथा--
ईप्सितसरा निकामं तव सरहिततां मदम्ब गच्छन्ती । प्राप्यातान्तोन्मुखतां सरोजयुग्यलमभूदुरोजयुगी ॥ ४५१ ॥ सरोजयुगी निकामं ईप्सिताः सराः मुक्ताहाराः यया सा ईप्सितसरा । पक्षे– ईप्सितं सरः कासारो यस्यास्सा ईप्सितसराः । सान्तोऽयं शब्दः । तव सरहिततां हारहितत्वं अन्यत्र सवर्णरहितत्वं गच्छन्ती ‘लक्षणहेत्वोः' इति शता । हेतुरिह फलम् । गन्तुमित्यर्थः । अन्यत्र हेत्वर्थे । अत एव अलं अतान्ता अम्लाना सती उन्मुखतां औत्सुक्यं, पक्षे अतान्तोन्मुखतामिति समस्तं पदम् । अतान्तः तवर्णरहितचरमभागः उत् उवर्ण इत्यर्थः । उदित्यत्र तकारोत्सादने उ इत्येवावशेषात् । सः मुखे प्रारम्भे यस्यास्सा तस्याः भावः अतान्तोन्मुखता तां 'शरदः कृतार्थता’ इत्यादाविव सामान्ये नपुंसकं ततस्तल् । प्राप्य तव उरोजयुगी स्तनद्वयी अभवत् तत्त्वेन जातेत्यर्थः । पक्षे उक्तरीत्या सरोजयुगीशब्दः उरोजयुगीशब्दो निष्पन्न इत्यर्थः । अत्र उरोजयुग्यास्सरोजयुगीतादात्म्योत्प्रेक्षायां वाचकश्शब्दो नोपात्त इति प्रतीयमानेयम् ॥
तत्रैव हेतूत्प्रेक्षा यथा--
नीलानयनेन्दीवरविसृमररुचिनिचयसततपरिचयतः । चक्षुश्श्रुतिगिरिशिखरे साक्षाद्ब्रह्मात्तमेचकिम भाति ॥ ४५२ ॥
अत्र परिचयत इति हेतूत्प्रेक्षायां वाचकश्शब्दोऽनुपात्त इतीयमपि प्रतीयमाना अर्थसामर्थ्यावसेयत्वात् ॥
तत्रैव फलोत्प्रेक्षा यथा--
नन्वम्ब कर्णतां स्वामन्वर्थयितुं तव श्रवणयु- ग्मम् । सहजोज्ज्वलमणिकुण्डलसंस्पर्शनतः प्रतीततामेति ॥ ४५३ ॥
नन्वम्ब तव श्रवणयुग्मं कर्तृ स्वां कर्णतां कर्णशब्दवाच्यतां 'श्रोत्रराधेययोः कर्णः' इति रत्नमाला । अन्वर्थयितुं सहजं स्वजन्मसमये सहैव जातं उज्ज्वलं च, पक्षे निसर्गत एव देदीप्यमानं यन्मणिकुण्डलं सहजेनोज्ज्वलमिति समासः । तस्य संस्पर्शनतः वितरणात्, पक्षे अवमर्शात् । 'सहजस्तु निसर्गे ना सहोत्थे पुनरन्यवत्, स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति च मेदिनी । प्रतीततां हृष्टतां एति शरीरेण सह जातमपि मणिकुण्डलमुत्कृत्य याचते द्विजवेषभाजे सुरराजे दत्वाऽपि नान्वतप्यत अपितु हृष्ट एवासीदिति तदौदार्यातिशयप्रशंसनम् ॥
यद्वा--स्पर्शनतः दाने विषये, सप्तम्या आद्यादित्वात्तसिः । प्रतीततां सादरतामित्यर्थः.
याचतो मोदमादत्ते वाञ्छितादधिकप्रदः । |
इत्युक्तेरिति भावः । पक्षे प्रतीततां उक्तविधमणिकुण्डलस्पर्शनेन भूषिततामित्यर्थः । 'प्रतीतस्सादरे ज्ञाते हृष्टप्रख्यातयोस्त्रिषु, प्रतीतः प्रथिते हृष्टे परिज्ञाते विभूषिते' इति मेदिनीरत्नमाले । एति प्राप्नोति । अत एव कर्णशब्दान्वर्थनमिति भावः । महाभारते दानाय सहजकवचकुण्डलयोः कर्तनादेव हि राधेयस्य कृन्ततीति कर्ण इति नाम व्युत्पादितम् । अत्र कर्णतामन्वर्थयितुमिति फलोत्प्रेक्षायां वाचकमनुपात्तम् । एवं प्रागुदाहृतेष्वेव पद्येषु वाचकपरित्यागे तास्सर्वा अपि प्रतीयमाना भवन्तीति नात्र तद्विशेषाः प्रतायन्ते ॥
धर्मस्वरूपोत्प्रेक्षा यथा--
मन्ये भवत्कृपाया मोहमपारं फणीन्द्रशिखरिविधो । पापीयसोपि जन्तोः परमं श्रेयो ददाति याऽकस्मात् ॥ ४५४ ॥
पापीयसोपि जन्तोः गृध्रादेरिति भावः । अत्र पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धे आकस्मिकनिरतिशयश्रेयोदानमुपात्तम् ॥
इदमत्रावधेयम्--उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतयाऽवभासते तदीयोत्प्रेक्षयैव व्यपदेशः प्राधान्यात् । तेन 'अच्छाच्छरुचिः' इति श्लोके सहस्रांशुगततया प्रमोदस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षया व्यपदेशो न्याय्यः । तस्या अङ्गत्वेनानुवाद्यत्वात् किंतु पञ्चम्यर्थोत्प्रेक्षया, तस्या एव नूनशब्दवेद्यत्वेन विधेयत्वात् । तथा ‘त्रैविक्रममिव विक्रमम्' इति पद्ये त्रैविक्रमविक्रमाभ्यसनोत्प्रेक्षयाऽपि व्यपदेशो न युक्तः किंतु शत्रर्थफलोत्प्रेक्षया । एवं ‘हृदयास्पदया’ इति ‘नाथ तव नाभिसरसि' इत्यादिपद्येषु न फलोत्प्रेक्षया व्यपदेशो युज्यते । नापि 'करपद्मेन' इति पद्ये सितकरबिम्बतादात्म्योत्प्रेक्षया तदुन्मीलितया करपद्मकर्तृकद्वेषहेतुकमध्यच्छिद्रीकरणपूर्वकप्रकोष्ठवयनकर्मतादात्म्योत्प्रेक्षया वा, पूर्वोक्तादेव हेतोः । एवमेव सर्वत्रापि 'प्रधानेन व्यपदेशा भवन्ति' इति न्यायात्प्रधानभूतोत्प्रेक्षयैव व्यपदेश इति । धर्मोपि तावदत्र द्विविधः--स्वत एव साधारणः, साधारणीकरणोपायेनासाधारणोपि साधारणीकृतश्च । स चोपायः क्वचिद्रूपकं क्वच्छिलेषः क्वचिदपह्नुतिः क्वचिद्बिम्बप्रतिबिम्बभावः क्वचित्तत्करम्भितवस्तुप्रतिवस्तुभावः क्वचिदुपचारः क्वचिदभेदाध्यवसायरूपोऽतिशयः । तत्र स्वत एव साधारणो धर्मः प्रागुदाहृते 'नीलगुणेनाक्रान्ते' इति पद्ये विषयविषयिणोः कनकवसनपीतगुणयोरौज्ज्वल्यम् । साधारणीकृतस्तु प्रागुदाहृत एव ‘भ्रूयुगळधनुर्लस्तकसंहितनासाकरीरसंलग्नम्’ इति पद्ये प्रथमार्धगतो धर्मः रूपकेण विषयविषयिसाधारणीकृतः ॥
श्लेषेण साधारणीकृतो यथा--
सुरभिस्वैरस्पर्शनलीलाप्यायितसमस्तलोकस्त्वम् । यन्माधवोसि तत्त्वां वसन्तमहिशैलनाथ जानीमः ॥ ४५५ ॥
सुरभेः कामधेनोः स्वैरस्पर्शनं स्वच्छन्दवितरणं तस्य लीलया कामगवीवादान्यकतुल्यवादान्यकेनेत्यर्थः । अन्यत्र सुरभिः घ्राणतर्पणस्सुगन्धिरित्यर्थः ।
सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । |
इति विश्वः । स्वैरः 'मन्दस्वच्छन्दयोस्स्वैरः' इत्यमरः । यः स्पर्शनो मलयमारुत इत्यर्थः । 'स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी । तस्य लीलया विलासेन प्रसरणेनेति यावत् । आप्यायितसमस्तलोकः उभयत्र तुल्योऽर्थः । माधवः श्रीनिवास माधवाख्य ऋतुश्च यत् यस्मात् असि, तत् त्वां वसन्तं जानीमः । अयमुपात्त एव भवति नानुपात्तः अप्रसिद्धत्वात् । श्लेषेतरस्तु अनुपात्तश्चापि भवति यथा ‘मरकतमणिरिव विचरन्' इत्यादौ नैल्यादिः। न चात्र विचरत्वादिरूप उपात्त एव साधारणो धर्मः साधारण्यार्थमेव हि विषयिण्यारोप इति वाच्यम् । तस्यारोपेण कृतेऽपि साधारण्ये असुन्दरत्वेनोत्प्रेक्षोन्मेषकत्ववैधुर्यात् । साधारणीकरणं तु प्रतिबन्धनिरासार्थमित्यवोचामैव ॥
यथा--
सत्पद्मशङ्खकच्छपमकरं घननील तव मुकुन्दपदम् । वरकुन्दनखं मन्ये सुमहापद्मं ततो निधिमयं त्वाम् ॥ ४५६ ॥
हे घननील! मेघश्यामल! पक्षे घनः नीलो निधिविशेषो यस्य स तथोक्तः तस्य संबुद्धिः । हे मुकुन्द! मुक्तिदायिन्! पृषोदरादित्वात्साधुः । पक्षे हे मुकुन्दनिधे! तव पदं चरणं सन्तः पद्मशङ्खकच्छपमकराः यस्मिंस्तत् पद्माद्याकाररेखासंपन्नमित्यर्थः । पक्षे पद्मादिनामनिधिविशेषवदित्यर्थः । वराणि कुन्दानि कुन्दकुसुमानीव नखानि, पक्षे वरकुन्दौ निधिविशेषौ नखेषु यस्य तत्तथोक्तम् । ततः तस्मात् महती पद्म श्रीर्यस्य तं, पक्षे महापद्मनिधिं च । त्वां निधिमयं 'महापद्मश्च पद्मश्च' इत्युक्तनिधिमयं मन्ये । अत्रोत्प्रेक्ष्यमाणस्य निधिमयस्य धर्मेषु पद्मादिनिध्याश्रितचरणत्वादिकेषु विशेषणीभूतैस्तत्तन्निधिभिर्विषयस्य भगवतो धर्मेषु कमलशङ्खादिरेखाश्रितपदत्वादिषु विशेषणानां पद्मादीनां श्लेषेण तादात्म्यसंपादनद्वारा तथाविधधर्माणां साधारण्यसंपत्तिः ॥
यथा वा--
इह भार्गवीसमृद्धिस्सरस्वती भात्युपत्यका दु-
र्गा । अच्युतधात्रीशयितस्त्रिमूर्तिमय इव वृषाद्रिरयमिन्धे ॥ ४५७ ॥
इह अद्रौ भार्गवी प्रपातसंबन्धिनी ‘प्रपातस्तु तटो भृगुः' इत्यमरः । समृद्धिस्संपत् भाति । पक्षे संतता ऋद्धिर्यस्यास्सा समृद्धिः महाविभूतिरित्यर्थः । भार्गवी लक्ष्मीः भाति । उपत्यका आसन्नभूमिः । सरांस्यस्यां सन्तीति सरस्वती । भूम्नि मतुप् । 'तसौ मत्वर्थे’ इति भसंज्ञाविधानान्न पदकार्यरुत्वोत्वे । पक्षे भारतीत्यर्थः। गन्तुमशक्या दुर्गा च । पक्षे गौरी च भाति । अच्युतं यथा स्यात्तथा धात्र्यां भूम्यां शयितः स्थित इति यावत् । शीङः कर्तरि क्तः । पक्षे अच्युतो भगवान् धाता ब्रह्मा ईट् ईशानश्च अच्युतधात्रीशः । इदं द्वितीयाबहुवचनम् । इतः प्राप्तः । इणः कर्तरि क्तः । यद्वा- इतः अस्मिन्गिरौ सप्तम्यास्सार्वविभक्तिकस्तसिः । अच्युतधात्रीश इति प्रथमाबहुवचनं अर्थस्तूक्त एव । भान्तीति वचनविपरिणामेनान्वयः । धात्रीशयित इत्यत्र धात्रीशस् इत इति स्थिते रुत्वयत्वयोः कृतयोः ‘लोपश्शाकल्यस्य’ इति यलोपस्य वैकल्पिकत्वान्नेह यकारलोपः । अत एव अयं वृषाद्रिः त्रिमूर्तिमय इव हरिविरिञ्चिहरमय इव इन्धे दीप्यते । अत्र उत्प्रेक्ष्यमाणस्य त्रिमूर्तिमयस्य धर्मेषु समृद्धिभार्गव्याद्यधिकरणत्वादिषु विशेषणीभूताभिर्भार्गव्यादिभिर्विषयस्य वृषाद्रेर्धर्मेषु भृगुसंबन्धिसमृद्धिमत्त्वादिषु विशेषणीभूतानां भृगुसंबन्धिसमृद्ध्यादीनां श्लेषेण तादात्म्यसंपादनद्वारा तादृशधर्माणां साधारणतासंपत्तिः ॥
यथा वा-
शुभपुष्यरागरुचिजुषि सुमहानीले विदूरभव-
कलिते । अच्युत रत्नमयत्वं त्वयि नियतमवैमि पद्मरागपदे ॥ ४५८ ॥
शुभं पुष्णातीति शुभपुट् तस्मिंस्तथोक्ते अरागेषु विरतेषु रुचिजुषि प्रीतिभाजि । पक्षे शुभाः पुष्यरागाः रत्नविशेषाः तै रुचिजुषि परभागभाजीति यावत् । सुमहानीले अतिमात्रश्यामले । पक्षे मणिविशेषे । विदूरः दवीयान् भवस्संसारो येषां तैः अस्पृष्टसंसारगन्धैर्नित्यमुक्तादिभिः कलिते सेविते । पक्षे विदूरभवैः वैदूर्यैः कलिते पद्मस्य राग इव रागो ययोस्ते पदे चरणे यस्य तस्मिन् । पक्षे पद्मरागाणां मणीनां पदे आश्रये अत एव हे अच्युत ! त्वयि उक्तरूपे त्वयि रत्नमयत्वं अवैमि संभावये । अत्रोत्प्रेक्ष्यमाणस्य रत्नमयस्य धर्मेषु शुभपुष्यरागरुचिभाक्त्वादिकेषु विशेषणीभूतैस्तत्तद्रत्नैः विषयस्य भगवतो धर्मेषु शुभपोषकत्वादिषु विशेषणीभूतानां शुभपोषणादीनां श्लेषेण तादात्म्यसंपादनम् ॥
पूर्वोदाहरणयोराद्ये ‘सत्पद्म’ इति पद्ये अभङ्गश्लेषेण द्वितीये ‘इह भार्गवी' इति पद्ये सभङ्गाभङ्गश्लेषाभ्यां साधारणीकरणं वक्ष्यमाणरत्नवळ्या रूपकेण च संकीर्णता च । अस्मिन् शुभपुष्यराग’ इति पद्ये तूभयविधश्लेषेण साधारणीकृतिमात्रमिति विशेषः ॥
यथावा--
स्वायत्तहेमकूटः प्रायस्संपूज्यते महेन्द्रेण । प्रस्रवणसेवितोसावेते दासाः किमस्य शेषगिरेः ॥
अत्र हेमकूटमहेन्द्रप्रस्रवणशब्दा गिरिविशेषवाचिनः । अर्थान्तरं तु स्पष्टमेव । ‘उत्सः प्रस्रवणम् ' इत्यमरः । एते गिरय इत्यर्थः । अत्र हेमकूटादिशैलेषु विषये शेषाद्रिदासतादात्म्योत्प्रेक्षायां तदायत्तत्वादिलक्षणो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां च कनकशिखरवृत्रारिनिर्ज्झराणामभेदसंपादनद्वारा विषयसाधारणीकृतः ॥
अपह्नुत्या साधारणीकरणं यथा--
हृदयास्पदा तव दया वदनात् स्मितभानिभादुदञ्चन्ती । भुवि फणिगिरिमणिरमणि स्वविषयमखिलं समीक्षते मन्ये ॥ ४६० ॥
यथा अवरोधगता महाराज्ञी-- विलासवशादुच्चैस्सौधान्तरादुदेत्य निखिलं निजदेशं पश्यति तथा तव हृदयगा दया उच्चैर्वदनमधिरुह्य स्वगोचरमखिलं जनं समीक्षत इवेति भावः। अत्र स्वविषयविलोकनस्य दयायामुत्प्रेक्षणे तदर्थमान्तरप्रदेशाद्बहिरुद्गमनमपेक्षितं, तच्च बहिःप्रदेशसम्बन्धरूपं स्मितप्रभामात्रवृति दयायां न संभवतीति स्मितप्रभापह्नवेन दयागतं क्रियते ॥
यथावा--
मकुटादिमणिव्याजात्परितो नानात्वमेत्य भवतो नयने । पश्यत इवेश विष्वक्प्रकाशनायैष विश्वतश्चक्षुरिति ॥ ४६१॥
हे ईश! सर्वेश्वर! भवतो नयने कर्तृणी एषः सर्वेश्वरो भगवान् विश्वतश्चक्षुः सर्वतोमुखलोचनवानिति प्रकाशनाय पश्यत इवेति योजना । अत्र ‘विश्वतश्चक्षुरुत विश्वतोमुखः' इति श्रुत्यर्थोऽनुसंधेयः । इह युगपत् विष्वग्दर्शनस्य नयनयोरुत्प्रेक्षायां तन्निमित्तं तयोर्विष्वग्वृत्तित्वमपेक्षितं, तच्च मकुटादिगतमणिवृत्ति न तु नयनवृत्ति भवतीति मण्यपह्नुत्या नयनगतं वितन्यते ॥
यथावा--
तावकचरित्ररूपं देव श्रवणान्तरात्प्रविश्यान्तः। सिद्धाञ्जनं किमपि नश्शुद्धामन्तर्दृशं व्यनक्तीव ॥
हे देव! तावकचरित्ररूपं किमपि सिद्धाञ्जनं श्रवणयोरन्तराद्विवरात् अन्तः प्रविश्य नः अन्तः दृशं दृष्टिं ज्ञानं च शुद्धां निर्दोषां सतीं सर्ववस्तुसाक्षात्करणक्षमामिति यावत् । व्यनक्ति प्रकाशयति । अत्रान्तर्दृष्टिशोधनस्य सिद्धाञ्जने उत्प्रेक्षायां तन्निमित्तं बहिःप्रदेशादन्तःप्रदेशोऽपेक्षितः। स चान्तःप्रदेशसम्बन्धरूपो भगवच्चरित्रमात्रवृत्तिस्सिद्धाञ्जने न संभवतीति भगवच्चरित्रापह्नवेन सिद्धाञ्जननिष्ठः क्रियते । बिम्बप्रतिबिम्बभावेन साधारणीकरणं तु ‘करपद्मेन द्वेषात् इत्यत्र निरूपितम् ।
यथावा--
उपरिहरिनीलमणिरुचिकवचितहारमणि भगवतो हृदयम् । बीजाकृतमिव विलसति बहुफलदानाय तेन केदारम् ॥ ४६३ ॥
उपरि हरिनीलमणिरुच्या कवचिताः आच्छादिताः हारस्य मणयो मौक्तिकानि यस्य तत्तथोक्तम् । नीलमणिप्रभान्तःप्रकाश मानमौक्तिकमिति भावः। भगवतो हृदयं तेन भगवता जनानामिति शेषः। वहूनि फलानि धान्यरूपाणि, पक्षे ऐहिकामुष्मिकापवर्गिकाखिलप्रयोजनानि । तेषां दानाय बीजाकृतं यावनाळादिबीजेन सहकृष्टं उप्तकृष्टं आदौ बीजान्युप्त्वा उपरि हलविशेषकर्षणेन समीकृतकृष्णमृदिति भावः । ‘कृञो द्वितीयतृतीयशम्बबीजात्कृषौ' इति बीजशब्दात्कृञो योगे कृषिरूपार्थे डाच् । ‘बीजाकृतं तूप्तकृष्टम्' इत्यमरः । केदारं क्षेत्रमिव भाति । अत्र हरिवक्षसः केदारतादात्म्यसंभावनायां उपरिहरिनीलमणिरुचिकवचितहारमणिबीजाकृतयोर्बिम्बप्रतिबिम्बभावापन्नयोरभेदाध्यवसायेन साधारण्यसंपादनम् ॥
एवं 'भित्वा भानोः' इत्यादावपि ॥
बिम्बप्रतिबिम्बभावकरम्भितवस्तुप्रतिवस्तुभावेन यथा--
कमलारुचिपरिवीतः कौस्तुभमणिरेष शोभते सुतराम् । स्वसृपतिविडम्बनाय स्वयमपि पीताम्बरेण किं छन्नः ॥ ४६४ ॥
स्वसृपतेः निजभगिनीजानेर्भगवतः विडम्बनाय परिहासार्थानुकरणाय । अत्र कमलारुचिपीताम्बरयोर्बिम्बप्रतिबिम्बभावः । तत्करम्भितश्च परिवीतच्छन्नयोर्वस्तुप्रतिवस्तुभाव इति तेन साधारण्यम् ॥
उपचारेण यथा--
मधुरामतिगम्भीरां विशदां शिशिरां विगाहमानानाम् । गरुडगिरिशिखरमण्डन गङ्गां मन्यामहे कथां भवतः ॥ ४६५ ॥ अत्र भगवत्कथायां माधुर्यगाम्भीर्यवैशद्यशैशिर्यविगाहनानां मुख्यानामसंभवादास्वादाविक्षोभसुप्रवेशत्वतापहरणश्रवणानाममुख्यानामुपचारेण मुख्यैस्साधारणीकरणम् । लक्षणया शक्याभेदेन लक्ष्यबोधनात् ।
अभेदाध्यवसायमात्रेण यथा--
सरिदधिपसुतासद्मन्युरसि हरेर्नः कुतो निवास इति । हर्षादिव कृतहासा हारा नारायणाद्रिशेखर ते ॥ ४६६ ॥
अत्र प्रकाशप्रकटनहासकरणयोरभेदाध्यवसाय एव हर्षहेतूत्प्रेक्षानिमित्ततयोपात्तस्य हासकरणस्य प्रकटितप्रकाशकृतहासोभयसाधारण्ये बीजम् । एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वा उत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यवोचामासकृत् ॥
एवं क्वचिदुपात्तो धर्म विषयविषयिसाधारण्यविरहादचारुत्वाद्वा स्वयमुत्प्रेक्षां साक्षादुत्तम्भयितुमनीशोऽपि तदुत्तम्भनपटुधर्मान्तरोत्तम्भनेनाकूल्यसंपादनादुपयुज्यते ।
यथा--
मधुभेदनजययात्रादुन्दुभिनिनदैस्तथा दिशो व्याप्ताः। श्रोत्रेन्द्रियसृष्टिकथादूरमिवासीद्यथाऽखिलं भुवनम् ॥ ४६७ ॥
अत्र दिशां दुन्दुभिनिनव्याप्तिरूपो धर्म उपात्तो भुवनस्य श्रोत्रेन्द्रियसृष्टिकथादूरत्वसंभावनायां वैयधिकरण्येनाप्रयोजकोपि स्वप्रयोज्यश्रवणविवरातिमात्रपरिपूरणप्रयुक्तश्रावणज्ञानसामान्यशून्यत्वस्य तथाविधसंभावनानिमित्तस्योत्तम्भनेनानुकूल्यसंपादनादुपयुज्यते ॥
विषयोप्युपात्तः पूर्वोदाहरणेषु प्रतिपादित एव । क्वचिद्विषयोऽपह्नुतोपि भवति । यथा-
मत्सुहृदिन्दुसगोत्रं मुखमिदमित्युत्पलेन नीलेन । सत्कर्तुमर्पितं तद्दळमेकं हरिमुखे नु तिलकनिभात् ॥ ४६८ ॥
अत्र तिलकरूपविषयापह्नवो नीलोत्पलैकदळतादात्म्यसंभावनादार्ढ्यायेति ध्येयम् ॥
इयमेव सापह्नवोत्प्रेक्षेति प्रतिपादयताऽलंकारसर्वस्वकृता स्वरूपोत्प्रेक्षामात्रमुदाजह्रे | कुवलयानन्दचित्रमीमांसयोस्तु हेतुफलोत्प्रेक्षे अपि सापह्नवे दर्शिते । तत्र स्वरूपोत्प्रेक्षा अनुपदमेवोदाहृता । यथावा-
कनति किल रत्नगर्भास्तन इव पवनोदरंभरिगिरीन्द्रः। चूचुकमिव हरिकपटान्मेचकममृतं ददाति निजमुखतः ॥ ४६९ ॥
अमृतं पयः निश्श्रेयसं च निजमुखतः स्वाग्रभागात् । पक्षे स्वेनैवोपायेन । उपायस्थाननिविष्टेनेति भावः । ‘मुखं निस्सरणे वक्त्रे' प्रारम्भोपाययोरपि' इति मेदिनी । ‘उपायस्स्वप्राप्तेरुपनिषदधीतस्स भगवान्’ इति ह्यन्वगृह्यताचार्यैः । यत्र हरित्वमपह्नुतं तत्रैव चूचुकसंभावनाच्छुद्धापह्नुतिगर्भत्वम् । इवशब्दमहिम्ना संभावनं कपटशब्दप्रयोगादपह्नवो गम्यते ॥ यथावा--
वदनेन्दावमृतरसास्वादात्काटवजिहासया लग्ने । निम्बदळे एते नन्वम्ब भ्रूयुगमिषेण तव मन्ये ॥
अत्र भ्रूयुगळनिह्नवेन निम्बदळयुगळस्वरूपोत्प्रेक्षेयम् । यद्यपि अमृतरसास्वादनिमित्तककाटवजिहासाहेतुकत्वमपि निम्बदळयोर्जगज्जननीवदनेन्दुलग्नतायामुत्प्रेक्ष्यते । तथाऽपीयमुक्तस्वरूपोत्प्रेक्षाया अङ्गतया निबद्धेति न प्राधान्यमस्याः । यत्र ह्युत्प्रेक्षाद्वयमङ्गाङ्गिभावेन निबध्यते तत्र प्रधानभूतयैवोत्प्रेक्षया व्यपदेशो न्याय्य इत्यवोचाम, तन्न प्रस्मर्तव्यम् ।
यथावा--
स्वयमपि मुक्ताभिख्यां लब्धुं रदनावळिच्छलाद्वज्राः । जाने मुखरुचिजलधौ जाता मातस्तवास्यशुक्तिपुटे ॥ ४७१ ॥
मुक्ता इत्यभिख्यां अभिधानं शोभां च । अत्र रदनावळिनिह्नवेन वज्रतादात्म्योत्प्रेक्षायाः मुक्ताभिख्यां लब्धुमिति फलोत्प्रेक्षा मुखरुचिजलधावित्यादिरूपकं चाङ्गतया निबद्धे ॥
यथावा--
ब्रह्मादिपावयित्र्याः पादजता नोचिता ममेति तव । वदने स्मितमिषतोऽभून्मन्ये गङ्गा भुजङ्गशिखरीन्दो ॥ ४७२ ॥
ब्रह्मादेः ब्राह्मणादिवर्णस्य चतुर्मुखादिकस्य च । पावयित्र्याः मम पादजता शूद्रता चरणजन्यता च नोचितेति गङ्गा स्मितमिषतः तव वदने अभूत् अजनि । भगवन्मुखजन्यत्वे ब्राह्मण्यसिद्धया पादजताप्रयुक्तसंकोचोऽपयातीति भावः ।
यथावा--
अनुकूलनगभिदोऽमी कनकाद्रौ सर्वतो विसर्पन्तः । तारकजयिशरजाता न निर्झराः किंतु निर्जरा नूनम् ॥ ४७३ ॥
अनुकूलं कूले । विभक्त्यर्थेऽव्ययीभावः । ये नगाः तरवः तान् भिन्दन्ति उन्मूलयन्तीति तथोक्ताः । पदे अनुकूलः नगभित् वज्री येषां ते तथोक्ताः । कनकाद्रौ शेषशैले सुमेरौ च। सर्वतः विसर्पन्तः प्रवहन्तः संचरन्तश्च । तारकाण्युडूनि जयन्तीति तथोक्तानि शराणां काशकुसुमानां जातानि बृन्दानि येषु ते तथोक्ताः । पक्षे तारकमसुरविशेषं जयतीति तथोक्तः शरजातः षण्मुखः येषां ते तथोक्ताः अमी दृश्यमानाः वस्तुविशेषाः निर्झराः वारिप्रवाहाः न किंतु निर्जरा एव नूनम् । इयं श्लेषसंपादितसाधारण्या शुद्धापह्नुतिगर्भा जातिस्वरूपोत्प्रेक्षा ।
यथावा--
अश्रीनिवासनिलयानसर्वतीर्थाश्रयानवेदमयान् । अन्यानचलानहिगिरिरवधीरयतीव हरिनिनादमिषात् ॥ ४७४ ॥
हरीणां सिंहानां निनादमिषात् । इयं सापह्नवक्रियास्वरूपोत्प्रेक्षा । इयं पर्यस्तापह्नुतिगर्भाऽपि संभवतीति दीक्षिताः । यथा--
स्थानेऽयमेव विष्णुर्जानेऽखिलभुवनवर्धनादिन्दुः । इन्दोस्तु स्फुटमस्मादधरत्वं स हि पदेऽस्य परिचरति ॥ ४७५ ॥
अखिलस्य भुवनस्य सलिलस्य न तु जलधिसलिलमात्रस्येति भावः । पक्षे जगतः वर्धनात् उत्सेचनात् समेधनाच्च अयं विष्णुरेव इन्दुरिति स्थाने युक्तं जाने इन्दोस्तु अस्मात् विष्णोः अधरत्वं निहीनत्वं स्फुटम् । हि यस्मात् सः इन्दुः अस्य विष्णोः पदे चरणे सप्तम्येकवचनं, तेन अकारे परतः प्रकृतिभावशङ्काया नावकाशः । परिचरति शुश्रूषते । तस्मादधरत्वं व्यक्तमित्यर्थः । पक्षे अस्मात् वक्ष्यमाणादेतस्माद्धेतोरित्यर्थः। अधरत्वं धरासंबन्धवैधुर्यं स्फुटम् । कुत इत्यत्राह- स इति । हि यस्मात् सः इन्दुः अस्य पदे विष्णोः पदे व्योम्नीत्यर्थः । परिचरति परितस्संचरतीति । अत्र प्रसिद्धेन्दौ इन्दुत्वापह्नवेन सकलभुवनाभिवर्धनान्निमित्ताद्भगवति तत्संभावनेतीयं पर्यस्तापह्नुतिगर्भा॥
यथावा--
विबुधैकाधारश्श्रीवृषगिरिरच्युत न मेरुरिति मन्ये । यदि विबुधैकाधारो मेरुस्स्यात्स हि न कर्बुरमयस्स्यात् ॥ ४७६ ॥
विबुधानां देवानामेकेषामेवाधारः शिवभागवतवत्समासः । पक्षे विबुधानां मुख्याधारः । मेरुः विबुधैकाधारो यदि स्यात् तदा सः कर्बुरमयः रक्षोमयः न स्यात् सुवर्णमय इति तु वस्तुस्थितिः । ‘कर्बुरं सलिले हेम्नि कर्बुर: पापरक्षसोः' इति मेदिनी । अत्र मेरौ विबुधैकाधारत्वनिह्नवेन श्रीवृषगिरौ तदुत्प्रेक्षा पर्यस्तापह्नुतिगर्भा उत्तरार्धोक्ततर्करूपयुक्तिपूर्वा ।
यथावा--
इन्दुर्न द्विजराजो द्विजराजो वाह एव तव नूनम् । स हिनस्ति विप्रयोगिन एष तु कमलाक्ष विप्रमोदकरः ॥ ४७७ ॥
हे कमलाक्ष! इन्दुः द्विजराजः ‘तस्मात्सोमराजानो ब्राह्मणाः' इति श्रुत्युक्तरीत्या ब्राह्मणानां राजा न, किंतु तव वाह एव गरुत्मानेव द्विजराजः उक्तोऽर्थः । नूनम् । अत्र हेतुः स इत्यादिः । सः इन्दुः विप्राश्च ते योगिनश्च तानेव हिनस्ति अतः कथं स द्विजराजो भवेदिति भावः । विरहिणो हिनस्तीति वास्तवार्थः । एषः तव वाहस्तु विप्राणां मोदकरः, पक्षे वीनां पक्षिणां प्रमोदकरः तस्य तदीश्वरत्वात् । अतोऽयमेव द्विजराज इति भावः । अत्रेन्दौ द्विजराजत्वापह्नवेन गरुत्मति तदुत्प्रेक्षा सहेतुकपर्यस्तापह्नुतिगर्भा ॥
यथावा--
न सहस्रांशुर्द्युमणिः कौस्तुभमणिमेव तर्कये द्युमणिम् । स परिष्कुरुतेऽनन्तं दिवैव नक्तंदिवमयं तु ॥ ४७८॥
सः सहस्रांशुः अनन्तं अन्तरिक्षं दिवैव परिष्कुरुते । अयं कौस्तुभमणिस्तु अनन्तं अन्तरिक्षं भगवन्तमिति तु वास्तवार्थः । नक्तंदिवं रात्रिंदिवं परिष्कुरुत इति हेतूक्तिः । अत्र सहस्रांशौ द्युमणित्वापह्नवेन कौस्तुभमणौ तदुत्प्रेक्षा पूर्ववदेव सहेतुकपर्यस्तापह्नुतिगर्भा । सर्वेष्वप्युदाहरणेषु श्लेषसंकीर्णत्वम् ॥
हेतूत्प्रेक्षायां सापह्नवत्वं यथा--
कमलास्तनसुहृदयमिति नूनं शृङ्गारिशेखरोऽ हिगिरौ । वसति सदा नित्ययुवा मृषैव जगदुद्दिधीर्षयेति वचः ॥ ४७९ ॥
अत्र भगवतश्शेषाद्रिनित्यनिवासे जगदुद्दिधीर्षाया हेतुत्वमपहृत्य तत्र कमलास्तनसुहृत्त्वहेतुकतायास्संभावनात्पर्यस्तापह्नुतिगर्भा हेतूत्प्रेक्षा ॥
फलोत्प्रेक्षायां सापह्नवत्वं यथा--
श्रितकामधेनुतां त्वं श्रीवेंकटनाथ सूचयितुमेव। अधिवत्सं श्रीवत्सं धत्से नूनं न तत्परिष्कर्तुम् ॥
श्रीवत्सं श्रीयुक्तं तर्णकम् । पक्षे तन्नाम लाञ्छनम् । अधिवत्सं वक्षसि । 'उरो वत्सं च' इत्यमरः । अत्र श्रीवत्सधारणं प्रति फले वक्षःपरिष्कारे फलत्वनिह्नवपूर्वकमाश्रितकामधेनुत्वसूचनरूपफलोत्प्रेक्षा पर्यस्तापह्नुतिगर्भेत्यलं दूरधावनेन ॥
अलंकारसर्वस्वकारादयस्तु 'क्वचित्पदार्थान्वयवेलायां सादृश्याभिधानादुपक्रान्ताऽप्युपमा वाक्यार्थतात्पर्यसामर्थ्यादुत्प्रेक्षायां पर्यवस्यति' इत्याहुः । तदनुसृत्य प्रागुल्लेखालंकारप्रकरणे 'मृगमदतिलकति' इति पद्ये उपक्रान्ताऽप्युपमा औचित्यादुत्प्रेक्षायां पर्यवस्यतीत्यवोचाम ॥ यथावा--
जङ्घे तव जलजेक्षण जगतीविजिगीषुमनसिजनिषङ्गौ । वपुरुपवनप्रसारिततरुणिमलावण्यकरिकरायेते ॥ ४८१ ॥
हे जलजेक्षण ! तव जङ्घे वपुरेव उपवनं तस्मिन् प्रसारितौ तरुणिमलावण्ये एव करिणौ तयोः करौ ताविवाचरत इत्यर्थः । अत्र करिकरायेते इत्यत्र उपमानात्कर्तुस्सुबन्तादाचारे विहितेन क्यङा आमुखे उपमाप्रतीतावपि वपुरुपवनेत्यादिविशेषणनैरर्थक्यादौचित्येनोत्प्रेक्षायामेव पर्यवसानम् ॥
एवमुपमावाचकानां निभादिशब्दानां कल्पबादिप्रत्ययानां च प्रयोगेऽपि सामग्र्या औचित्यादुत्प्रेक्षायामेव पर्यवसानं बोध्यम् ॥
यथा--
नरहरिभुजाशिखरशिखानखांशवो दितिजहृदयगा व्यरुचन् । तदसुमरुदशनसत्वरविसृमरफणिफणशिखास्ररसननिभाः ॥ ४८२ ॥
वाङ्माधुर्याध्ययनोपसन्नपीयूषवीचिदेश्यमिदम् । वदनविधूत्सङ्गलुठज्ज्योत्स्नाशिशुकल्पमम्ब तव हसितम् ॥ ४८३ ॥
नाभीह्रदकृतमज्जनमदनगजोदस्तहस्तदेशीया । कौस्तुभभानूत्सङ्गच्युतयमुनाभाऽच्युतस्य रोमाळी ॥ रसगङ्गाधरकारस्तु क्यङाचारक्विबादीनामप्युत्प्रेक्षाप्रतिपादकत्वमेवाभाणीत् । तस्यापि पर्यवसाने उत्प्रेक्षाप्रतिपादकत्व एव तात्पर्यम् । यद्वा उत्प्रेक्षावाचका एव ते स्युः । यथोक्तं कल्पतरो
कल्पदेशीयदेश्याद्याः स्पर्धिप्रतिभटादयः ।
निभवद्वादयश्चापि क्वचित्संभावनापराः ॥
इति । विस्तरस्तु हंससंदेशरसास्वादिन्यां 'विष्णोर्वासात्’ इति पद्यव्याख्यावसरे कृतोस्माभिः । एवं रूपकादिप्रतीतिस्थलेष्वप्युत्प्रेक्षायां पर्यवसानं संभवतीति चित्रमीमांसायां प्रतिपादितम् । तदुदाहरणानि विस्तरभयान्नेह प्रदर्श्यन्ते इत्यलम् ॥
ननु गम्योत्प्रेक्षाया अलंकारताकथनमनुचितं, तस्या अलंकारध्वनित्वादिति चेछ्रूयताम्- यत्र विषयविषयिनिमित्तेषूपात्तेषु केवलमिवादिवाचकानुपादानमात्रेणोत्प्रेक्षाऽवगम्यते साऽतिमात्रस्फुटतया वाच्यायमानत्वादलंकारतामेवाश्नुते । यथोदाह्रियत 'ईप्सितसरा निकामं’ इत्यादि । यत्र चोत्प्रेक्षणीयस्य विषयिणोप्यनुपादानं निबद्धेन वस्तुना अलंकारेण वा उत्प्रेक्षाऽवगम्यते तत्रैवोत्प्रेक्षाध्वनिः ॥
यथा--
उपगूढां हरिणीं श्रियमुरसा कृष्णेन वीक्ष्य वृषशैले । अभिवीक्षन्ते शश्वत्कृष्णं निजवल्लभं वनहरिण्यः ॥ ४८५ ॥
कृष्णेन भगवता उरसा उपगूढां हरिणी ‘हिरण्यवर्णां हरिणीम्’ इति हरितवर्णतया श्रुतां हरितशब्दात् 'वर्णादनुदात्तात्' इत्यादिना ङीप्सान्नियोगशिष्टस्तकारस्य नकारादेशः, णत्वं च ‘हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमरः । श्रियं लक्ष्मीं वीक्ष्य वनहरिण्यः विपिनकुरङ्ग्यः । कृष्णं कृष्णसारमित्यर्थः । ‘विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्लोपः’ इति भीमसेनादिशब्दवदुत्तरपदभूतसारशब्दस्य लोपः। अत एव ‘कृष्णाजिनेन संवृण्वन्’ इत्यादयः प्रयोगा निर्विचिकित्साः । निजवल्लभं ईक्षन्ते । श्रीरिव वयमपि हरिणीशब्दवाच्याः भगवानिवास्मद्वल्लभोपि कृष्णशब्दाभिलपनीय इति पश्यन्तीति भावः । अत्र हरिणीकर्तुककृष्णसारकर्मकवीक्षणेन वस्तुना श्रीकृष्णवक्षस्समालिङ्गिता हरिणीशब्दाभिलाप्या श्रीरिव स्वयमपि तथा बुभूषव इवेत्युत्प्रेक्षा ध्वन्यते ॥
यथावा--
प्रणिनंसया सुमनसा मौळिषु नमितेषु सुमनसस्तत्स्थाः । पुर एव ततोप्यपतन्नुरगधराधरशिरोमणेश्चरणे ॥ ४८६ ॥
सुमनसां देवानाम् । तत्स्थाः मौळिस्थाः सुमनसः कुसुमानि । अत्र सुमनःपतनेन वस्तुना नामसाम्यप्रयुक्तस्पर्धया त्रिदशमौळिभ्योप्यग्रे स्वयमेव प्रणिनंसव इवेत्युत्प्रेक्षा ध्वन्यते।
निर्वेलभवदवानलखर्वेतरतापविलुलिता मनुजाः। त्वद्वदनसुधाजलनिधिमुद्वीक्षन्ते मुहुर्मुराराते ॥ ४८७ ॥
अत्र रूपकेण निमङ्क्तुमिवेत्युत्प्रेक्षा ध्वन्यते ॥ यथावा--
अतिवेले भवजलधावरिविजयायावितीर्यमाणपथे । रघुकुलवीर तटस्थं वीक्षन्ते वानरा इव नरास्त्वाम् ॥ ४८८ ॥
अतिवेले भवजलधौ पूर्वं जलधाविवेति भावः । अरीणां कामादीनां द्विषां दशाननादीनामिवेति भावः । विजयाय अवितीर्यमाणः अदीयमानः पन्थाः मार्गः उपायश्च येन तथोक्ते सति, तटस्थं तीरस्थं उदासीनं च त्वां वानरा इव नराः पश्यन्ति कुतोऽयममुं भवजलधिमपि शरैश्शोषयितुं सेतुना बन्द्धुं वा नोद्युङ्क्त इति वीक्षन्त इति भावः । अत एव रघुकुलवीरेति संबोधनम् । अत्र रूपकोज्जीवितया उपमया जलधिमिव भवजलधिमपि शुशोष इषव इवेति वा बिबन्धयिषव इवेति वा उत्प्रेक्षा ध्वन्यते ॥
यथावा--
उद्वेलतरं सुतरामुत्सिक्ते तव यशःपयोराशौ । उरगधराधरभास्वन्नुडुपं क्षणमपि न मुञ्चति ज्योत्स्ना ॥ ४८९ ॥
ज्योत्स्ना कौमुदी उडुपं इन्दुमेव प्लवं न मुञ्चति स्त्रियो हि नितरां भीरव इति भावः । अत्रापि रूपकेण निमज्जनभयेनेवेत्युत्प्रेक्षाया ध्वनिः ॥
ननु अध्यवसायमूलताया अतिशयोक्त्युत्प्रेक्षयोस्तुल्यत्वात्कथमनयोर्भेद इति चेत् शृणु-अध्यवसायो नामाभिन्नत्वेन प्रतिभासनम् । स च द्विविधः सिद्धस्साध्यश्चेति । यत्र लक्ष्यमाणगुणसंबन्धाद्विषयिणो विषयगतत्वेनारोप्यमाणतया भिन्नस्यापि विषयिणो विषयक्रोडीकारेण प्रवृत्तत्वादभिन्नतया प्रतीतिः तत्राध्यवसायस्सिद्धः । एतदाश्रयेणातिशयोक्तेः प्रथमः प्रकारोऽनुपदमेव प्रदर्शयिष्यते । यत्र पुनरुपात्तविषयत्वाद्विषयिणो भिन्नत्वेन प्रतिभानं तत्र व्यञ्जनव्यापारेणाभिन्नत्वप्रतीतेस्साध्यमानत्वात्साध्यः । एतदवलम्बनेन प्रवृत्तिस्संभावनमूहो वितर्क इत्याद्यपरपर्यायाया उत्प्रेक्षाया इत्यनयोर्भद इति ॥
इत्यलंकारमणिहारे उत्प्रेक्षासरश्चतुर्दशः