अलङ्कारमणिहारः (भागः १)/अपह्नुतिसरः (१३)

विकिस्रोतः तः
Jump to navigation Jump to search

अथापह्नुतिसरः.



आहार्याभेदबुद्धेश्चेन्निषेधोऽङ्ग्यङ्गमेव वा ।
एतां सामान्यतः प्राहुरपह्नुतिमलंकृतिम् ॥

 आहार्याभेदप्रतिपत्तिनिरूपिताङ्गाङ्गिभावान्यतरवन्निषेधत्वमपह्नुत्यलंकारसामान्यलक्षणम् । निषेधश्च नञाद्युपादाने वाच्यः, क्वचित्तु तदभावात्कैतवच्छलादिपदैः परमतत्त्वोपन्यासादिभिश्च व्यङ्ग्यः, तथा क्वचिदभेदप्रतिपत्तिसमानाधिकरणः क्वचित्तु त- द्व्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्यमाणः, क्वचित्तु स्वाभाविकः । एवं तत्प्रतिपत्तिरपि क्वचिद्व्यञ्जनया प्रायशस्तु वाच्यवृत्त्यैवेति ध्येयम् । निषेधोऽपह्नुतिरित्येतावदुक्तौ 'न द्यूतमेतत्कितव क्रीडनं निशितैश्शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिः । अतोऽभेदप्रतिपत्तिनिरूपितेत्यादिविशेषणम् । तत्र हि समरप्रवृत्तं कितवं प्रति समरे द्यूतत्वाभावो निर्ज्ञातोऽपि कण्ठरवेणोच्यमानो द्यूत एव तव वैदग्ध्यं न समरे इत्युपहासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम्, तस्यास्तदुपन्यासं विनाऽपि सिद्धत्वात् । नाप्यङ्गी, निर्ज्ञातत्वे नैव तदुपायानपेक्षणात् । अभेदप्रतिपत्तिनिरूपिताङ्गित्वमात्रोक्तौ शुद्धापह्नुतिहेत्वपह्नुतिपर्यस्ताप्ह्नुतिकैतवापह्नुतिष्वव्याप्तिः, तत्र सर्वत्र नायं सुधांशुरित्यादेर्निषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तदङ्गतयाऽङ्गित्वाभावात् । अभेदप्रतिपत्तिनिरूपिताङ्गत्वमात्रोक्तौ भ्रान्तापह्नुतिच्छेकापह्नुत्योरव्याप्तिः, तयोर्भ्रान्तिशङ्कावारणरूपनिषेधस्य प्राधान्येनाभेदप्रतिपत्त्यङ्गत्वाभावात् । अतस्तदन्यतरत्वनिवेशः । यदाहुः--

साम्यायापह्नवो यत्र सा विज्ञेया त्वपह्नुतिः ।
अपह्नवाय सादृश्यं यस्मिन्नेषाऽप्यपह्नुतिः ॥

इति । सर्वं चैतत्तदुदाहरणविवरणावसरे स्फुटीभविष्यति । 'न पञ्चविशिखः कामः किंत्वलङ्ख्यशिलीमुखः' इत्यादावतिप्रसङ्गवारणाय प्रतिपत्तेरभेदविषयकत्वविशेषणम् । अत्र हि नासङ्ख्यशिलीमुखशब्दाभिलपनीयस्य कस्यचिदभेदसमारोपः क्रियते तथाविधस्य कस्यचिद्वस्तुनः क्वाप्यप्रसिद्धेः । नाप्यन्यत्राप्रसिद्धस्य ‘अङ्कं केऽपि’ इत्यादाविव इहैव कल्पितस्य वस्तुनस्तथाविधस्याभेदेन समारोप इति शक्यं प्रतिपत्तुं, तथाकल्पनायामिह कवेरसंरम्भात् । तस्मादसंख्यशिलीमुखशब्देनापि काम एव विवक्षित इति विषयभूते कामे पञ्चविशिखत्वं प्रसिद्धं प्रतिषिध्यासंख्यशिलीमुखत्वं धर्म एव भेदेन समारोप्यत इत्यभ्युपेत्यम् । तथाचेह विवक्षितायाः भेदसंसर्गकप्रतीतेरेवाङ्गं प्रतिषेधो नाभेदप्रतीतेरित्यतिप्रसङ्गवारणम् । 'नायं सुधांशुः' इत्यादौ तु सर्वत्रापह्नवोदाहरणे व्योमगङ्गासरोरुहादेर्धर्मिण एव तत्तद्धर्मविशिष्टतयाऽन्यत्र प्रसिद्धस्य कविकल्पितस्य वा विषये अभेदेन प्रतीतिर्विवक्षितेति लक्षणसंगतिः । ‘अपह्नुतिरपह्नुत्य किंचिदन्यार्थरोपणम्’ इति प्रतिपत्तेरभेदविषयकत्वमनादृत्य केवलापह्नुतिपूर्वकान्यार्थारोपस्यैवापह्नुतित्वं लक्षयतो दण्डिनो मते तूदाहृते 'न पञ्चविशिखः' इत्यत्रापि नैवातिप्रसंगः ॥

संग्रामाङ्गणसंमुखागतकियद्विश्वंभराधीश्वर-
व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा ।
अङ्गारप्रखरैः करैः कबळयन् सद्यो जगन्मण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥

इत्यादौ विरहिजनवाक्ये नायं शशाङ्कः अपितु सच्छिद्रमार्तण्ड इति प्रतीयमानेऽर्थे शशाङ्कनिषेधो मार्तण्डाभेदप्रतिपत्तेरेवाङ्गमिति तत्रातिव्याप्तिवारणायाभेदप्रतिपत्तेराहार्येति विशेषणं, अत्र च मार्तण्डारोपस्य दोषविशेषजन्यतयाऽनाहार्यत्वात् । अत एव ‘अत्र छायामात्रमपह्नुतेः न त्वपह्नुत्यलंकारः तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात्, किंतु 'भ्रान्त्यलंकारएव' इति रसगङ्गाधरकृदुक्तिस्संगच्छते । अस्य च विरहिजनवचनताविरहेण केवलकविमतिविकासजन्यत्वे तु भवत्येवेदमपि शुद्धापह्नुतेरुदाहरणमिति रहस्यम् । अत एव ‘नेन्दुस्तीव्रो न निश्यर्कस्सिन्धोरौर्वोऽयमुत्थितः' इत्यस्य हेत्वपह्नुतेरुदाहरणत्वं च संगच्छते । अन्यथाऽस्यापि विरहिजनवचनताभिसंधौ अलक्ष्यतापातात्प्राक्तनैः कृतस्य तदुदाहरणस्यासंगतिः स्पष्टैव ॥

 न चैवमपि सामान्यलक्षणेऽस्मिन्नाहार्यविशेषणोपादानं न युज्यते, भ्रान्तापह्नुतावव्याप्तिप्रसंगात् । तत्र हि ‘तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः' इत्यादौ तात्विकस्मराभेदप्रतीतेराहार्यत्वविरहादिति वाच्यं, आहार्यत्वस्यानाहार्यत्वभ्रमत्वोभयाभावपर्यवसितस्यैव निवेशनीयतया सकलदोषनिवारणात् । भ्रान्तापह्नुतौ ह्यभेदप्रतिपत्तेरनाहार्यत्वेऽपि भ्रमत्वाभावेनैव एकसत्त्वे द्वयं नास्तीति न्यायेन उभयाभावविशेषणमहिम्ना लक्षणसंगतिः । इतरेष्वपह्नुतिप्रभेदेषु तु अभेदप्रतिपत्तेर्भ्रमत्वेऽप्यनाहार्यत्वविरहेणैवोभयाभावस्सूपपाद इति तत्रापि स्यादेव लक्षणसंगतिः । उपदर्शिते विरहिजनवाक्ये तु मार्तण्डाभेदप्रतीतेरनाहार्यतया दोषविशेषजन्यभ्रमरूपतया च तदुभयस्यैव सद्भावेन तदुभयाभावो दुर्घट इति नोक्तातिप्रसङ्गशङ्कावकाशः । तथाच--अनाहार्यत्वभ्रमत्वोभयाभाववती या अभेदप्रतीतिः तद्विशिष्टप्रतीतिविषयत्वे सति प्रतिषेधत्वमपह्नवालंकारसामान्यलक्षणम् । प्रतीतौ तादृशप्रतीतिवैशिष्ट्यं च स्वनिष्ठाङ्गतानिरूपिताङ्गितावत्त्वस्वनिष्ठाङ्गितानिरूपिताङ्गतावत्त्वान्यतरसंबन्धेनेति ध्येयम् । चारुत्वविशेषणं त्वधिकारलब्धमेवेति न विशिष्यात्रोपादातव्यमित्यलं बहुना ॥

 इत्थमपह्नुतेस्सामान्यलक्षणमभिहितम् । अथ तद्भेदान् लिलक्षयिषुस्तत्रादौ शुद्धापह्नुतिं लक्षयति

अन्यारोपफलो यस्स्यात्प्रकृते धर्मनिह्नवः ।
अलंकृतिरियं शुद्धापह्नुतिर्नाम गद्यते ॥ ४९ ॥

 प्रकृते वर्ण्ये वस्तुनि अप्रकृतधर्मारोपफलकस्तदीयधर्मनिह्नवश्शुद्धापह्नुतिरलंकारः । तथाच उपमेये उपमानारोपफलक उपमेयधर्मत्वेनाभिमतस्य निषेधश्शुद्धापह्नुतिरिति पर्यवस्यति लक्षणम् । अत्र चानुक्तनिमित्तत्वेन कैतवच्छलादिपदाव्यङ्ग्यत्वेन च निषेधो विशेषणीयः । तेन हेत्वपह्नुतिकैतवापह्नुत्योर्नातिप्रसंगः । 'कान्तः किं न हि नूपुरः' इति छेकापह्नुतौ उपमेयधर्मस्य कान्तत्वस्य निषेधसद्भावादतिप्रसङ्गस्स्यादिति तद्वारणाय प्राथमिकविशेषणम् । तत्र हि न कान्तत्वनिषेधो नूपुरारोपफलकः अपि तु नूपुरारोप एव शङ्कितकान्तत्वनिषेधफलक इति तद्व्यावृत्तिः । पर्यस्तापह्नुतिवारणायोपमेयधर्मेत्युक्तम् । तत्रोपमानधर्मस्यैव सुधांशुत्वादेर्निषेध इति नातिव्याप्तिरिति । अत्र च निह्नवारोपयोर्न पौर्वापर्यनियमः, लक्षणे धर्मनिह्नवस्यान्यारोपफलकत्वमात्रोक्तेः । न ह्यत्र-–'निह्नुत्य विषये धर्ममन्यदारोप्यते यदि' इत्यस्माभिर्निबद्धं लक्षणं, येन क्त्वाप्रत्ययोवलम्बनं निह्नवस्य पौर्वकालिकत्वमेवेति नियम्येत, तेन वक्ष्यमाणे आरोपपूर्वकापह्नवे नाव्याप्तिः ॥

 दण्डी तु--'अपह्नुतिरपह्नुत्य किंचिदन्यार्थरोपणम्’ इत्यारोपस्य सादृश्यमूलकत्वं प्रकृते वस्तुनि धर्मनिह्नवं चानादृत्य यत्किंचिन्निह्नवपूर्वकयत्किंचिद्धर्मारोपमात्रमपह्नवं लक्षयति स्म । तन्मते वक्ष्यमाणानि पद्यान्यप्यपह्नुतेरुदाहरणान्येव । अत्रापह्नुत्येति क्त्वाप्रत्ययार्थो निषेधस्य पूर्वकालता न विवक्षिता । तेन वक्ष्यमाणोदाहरणानि संगंस्यन्ते ॥  यथा--

 एत्य रुचिं जेतुं तव घनस्सचापस्त्वया विलूनज्यः । मूतस्तयैव शौरे ज्यामूतोऽयं ततो न जीमूतः ॥ ३२० ॥

 घनः तव रुचिं जेतुं सचाप एत्य त्वया विलूनज्यः छिन्नमौर्वीकः तयैव ज्ययैव मूतः बद्धः 'मूङ् बन्धने' कर्मणि क्तः 'बद्धे संदानितं मूतम्' इत्यमरः । ततः तस्मात् अयं घनः ज्यामूतः ज्यामूत इति व्यवहर्तुमर्हः न तु जीमूत इतीत्यर्थः ॥

 यथा वा--

 नाथ तव चरितसारं नानाप्तस्सादरो भवन्नादौ । यः प्रददे लोकानां न नारदस्सारदोऽयमिति युक्तम् ॥ ३२१ ॥

 यः मुनिः अनाप्तो न भवतीति नानाप्तः ‘संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ’ इति वामनः । अत्याप्ततमः अनाप्ततासंभावनाऽप्यस्य न संभवतीत्यर्थः । तदुक्तेः प्रामाणिकताद्योतनार्थमिदं विशेषणम् । सादरो भवन् भवपथगतागतपरिश्रान्ता एते लोका उज्जीव्यासुरिस्यादरवान् सन् आदौ पूर्वं प्राचेतसादीनामपि भगवच्चरितसाराधिगमस्य तन्मूलकत्वादिति भावः । हे नाथ! तव चरितसारं लोकानां प्रददौ, अयं न नारदः--

नारं पानीयमित्युक्तं तत्पितृभ्यस्सदा भवान् ।
ददाति तेन ते नाम नारदेति भविष्यति ॥

इति,

नारं नराणां संघातं कलहेनैव यो द्यति ।
तस्मान्नारदनामाऽसौ लोके विख्यायते मुनिः ॥

इति वा निरुक्तशब्दवाच्यो न, किंतु सारद इति युक्तम् । उपपादितरीत्या भगवच्चरितसारदत्वादिति भावः । अत्र नारदशब्दः आदौ प्रथमं नानाप्तः ना इत्याकारकवर्णेनाननुषक्तः त्यक्तनाकार इत्यर्थः, अथ सादरः तत्रैव सा इत्याकारकवर्णे आदरो यस्य स तथोक्तः । आदौ साकारघटित इति यावत् । एवंचेन्नारदशब्दस्सारद इति निष्पद्यत इति वैचित्र्यं च गर्भितम् ॥

 यथा वा--

 कृष्णायाः स्फीताम्बरदानात् स्फीताम्बरेति वक्तव्ये । अमहाप्राणोच्चारणपटवः पीताम्बरेति जगदुस्त्वाम् ॥ ३२२ ॥

 अमहाप्राणोच्चारणपटवः महाप्राणवर्णोच्चारणाशक्ताः केचित् पीताम्बरेति त्वां जगदुः । स्फीताम्बर पीताम्बरेति संबुद्ध्यन्ते पदे । स्फीताम्बरेत्यत्र सकारफकारौ हि महाप्राणौ अन्ये अल्पप्राणाः । 'वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणः अन्ये महाप्राणाः' इत्युक्तेः । एषु पद्येषु ज्यामूतत्वसारदत्वस्फीताम्बरत्वारोपफलकः जीमूतत्वनारदत्वपीताम्बरत्वनिह्नवो न सादृश्यमूलकः ॥

 एवं--

 रश्मिभिराबध्य रविं कौस्तुभवसुविभवभारचोर इति । चारयति प्रकटयितुं शौरिर्न तु कालमिह परिच्छेत्तुम् ॥ ३२३ ॥  इत्यत्राप्यसादृश्यमूलकत्वमनुसन्धेयम् । पूर्वोदाहरणेषु धर्मनिह्नवोऽन्यधर्मारोपार्थः, इह तु कालपरिच्छेदफलापह्नवश्चोरताप्रकटनरूपफलारोपार्थ इति विशेषः ॥

 नियतं न कलङ्कोऽयं शशाङ्कबिम्बे यदेतदानीलम् । त्वन्मुखरुचिविजिततया हृन्मध्ये धृतमनेन भयशल्यम् ॥ ३२४ ॥

 अत्राप्रकृत एव कलङ्के भगवन्मुखरुचिविजितत्वनिबन्धनहृदयधृतभयशल्यत्वारोपफलकः कलङ्कत्वनिह्नवो निबद्धः ॥

 एवम्--

 इन्दोरेकः किरणः परत्वमिच्छुस्तव स्मितादम्ब । मध्येऽभिहतोऽपरतां गतः किणोऽभूत्तमाहुरङ्क इति ॥

 इत्यत्राप्यप्रकृत एव कलङ्के किरणत्वारोपफलकः कलङ्कत्वनिह्नवः । हे अम्ब! इन्दोः एकः किरणः सारभूतो मध्यस्थित इति भावः । तव स्मितादपि परत्वमुत्कर्षं इच्छुः 'न लोक' इति कर्मणि षष्ठ्या निषेधः । अत एव मध्ये इच्छाफलावाप्त्योरन्तराळ एव अभिहतः तव स्मितेनेति भावः । अत एव अपरतां अनुत्कर्षं गतस्सन् किणः अभूत् । तं किणमेव अङ्क इत्याहुः । अयं किण एव नाङ्क इति भावः । अत्र किरणकिरणशब्दः मध्ये अभिहतः अत एव अपरतां अपगतरेफतां गतस्सन् किणः अभूत् । किरणशब्दे रेफापनयने किण इति निष्पद्यत इत्यर्थोऽपि चमत्कारी ॥

 काव्यप्रकाशाद्यनुयाय्यस्मदुपदर्शितशुद्धापह्नुतिलक्षणस्य तु नेदं लक्ष्यम्, अपि तु वक्ष्यमाणमेवेत ध्येयम् । अस्यां च नञादिभिस्साक्षात्परमतत्वाद्युपन्यासैश्च किंचिद्व्यवधानेन प्रकृतस्य निषेधे बोध्यमाने प्रायेण वाक्यस्य भेदः। विषयासत्यत्वप्रतिपादकमिष-छल-छद्म-कपट-व्याजादिपदैर्विषयासत्यत्वपर्यवसायिरूपवपुर्नामात्मभङ्ग्यादिशब्दैश्च निषेधे बोध्यमाने तु एकवाक्यता । क्वचिदपह्नवपूर्वकत्वं क्वचिच्चारोपपूर्वकत्वं क्वचिदप्रकृतताद्रूप्यप्रकृतनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्वचिदुभयोश्शाब्दत्वमथोभयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेत्येवमनेके प्रकारास्संभवन्तोऽपि चमत्कृतिविशेषानाधायकतया न गणनीयाः । एवमपि दिङ्मात्रमुदाह्रियते--

 न मुखमिदं लावण्याम्बुधिरेष न चाधरः प्रवाळस्ते । नेमे दशना मुक्ता न नयनयुगमेतदीश मीनयुगम् ॥ ३२६ ॥

 हे ईशेति संबुद्धिः । ते तव इदं सर्ववाक्यान्वयि । इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा । अत्रापह्नवपूर्वकत्वमुभयोश्शाब्दत्वं विधेयत्वं वाक्यभेदश्च ॥

 यथा वा--

 यदिह त्वद्वदनेऽसितमुदितमिदं भ्रूयुगं वदन्त्वज्ञाः। नाथ वयं निगदामो नासावंशाङ्कुराद्यदळयुग्मम् ॥ ३२७ ॥

 इयं निरवयवा । अत्र वक्तृगताज्ञत्वकथनेन तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः । ताद्रूप्यं शाब्दम् । विधेयत्ववाक्यभेदापह्नवपूर्वकत्वानि पूर्ववदेव ॥  यथा वा--

 हरिकरनिहितं शङ्खं कतिचन हंसं परे सिताम्भोजम् । अभिदधतु व्रजमुषितं नवनीतं ब्रूमहेऽधुनाऽपि धृतम् ॥ ३२८ ॥

 इयमपि निरवयवा । अत्राप्यपह्नवपूर्वक आरोपः। अपह्नवस्तु परपक्षोपन्यासादार्थिकत्वेन व्यवहितः ॥

 यथा वा--

 मणिमकुटतरणितक्षणजनिता यमुनैव भाति तव वदने । मृगपतिगिरिवरशेखरमृगमदतिलकं वदन्त्यमूं मुग्धाः ॥ ३२९ ॥

 यथा वा--

 हरिचरणविमुखमनसां निलयं सन्तो विदुर्निरयमेव । रलयोरभिदाश्रयणाद्वदन्त्यनुद्वेजनाय निलय इति ॥ ३३० ॥

 अत्रोदाहरणद्वयेऽप्यपह्नुतिर्निरवयवैव । अपह्नवस्त्वारोपपूर्वक इति विशेषः । ताद्रूप्यस्य शाब्दत्वं निषेधस्यार्थत्वं विधेयत्ववाक्यभेदौ पूर्ववदेव । हरिचरणविमुखमनसां निलयं सन्तो निरयमेव विदुः । तर्हि निरय इत्येव कुतो न व्यवहरन्तीत्यत आह--रलयोरिति । रलयोरभेदमाश्रित्य निरयमेव निलयं वदन्तीत्यर्थः । तदपि कुत इत्यत आह--अनुद्वेजनायेति । निरय इत्युच्यमाने उद्विजेरन्निमे लोका इति निलय इति वदन्ति । ‘ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत्’ इति निषेधादिति भावः ॥

 एवम्--

 स्वात्येवैषा जननि त्वन्मुखचन्द्रेण गाढमुपगूढा । अधररूचिरोहिणीयं नासामुक्तेति मुग्धजनवादः ॥ ३३१ ॥

 इत्यत्राप्यारोपपूर्वकत्वादिकं द्रष्टव्यम् । स्वातीनक्षत्रस्य पद्मरागवर्णतया तदारोपः । रोहिणी रोहिता । ‘वर्णादनुदात्तातोपधात्तो नः’ इति ङीप्, तत्सन्नियोगशिष्टं नत्वं, ततो णत्वम् ॥

 आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वेति विमर्शिनीकारः । सादृश्येऽप्यस्यास्साधारणधर्मा उपमायामिव द्रष्टव्याः । तत्रानुगामी धर्मः ‘नियतं न कलङ्कोऽयं शशाङ्कबिम्बे यदेतदानीलम्’ इत्यादौ प्रागुदाहृतपद्ये निर्दिष्टः ॥

 शुद्धसामान्यरूपं यथा--

 अधिवृषगिरिनाथाङ्गं यदिह पिशङ्गं न हेमवसनं तत् । मुनिजनमानससरसिजनिवसनलग्नं सुपिङ्गळं हि रजः ॥ ३३२ ॥

 अत्र पिशङ्गपिङ्गळत्वयोश्शुद्धसामान्यरूपत्वम् । अयमेव वस्तुप्रतिवस्तुभावः ॥

 वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभावेनानुगामितयाच्च यथा--

 तपनीयविमानान्तर्न परमपुरुषोऽयमहिगिरे- श्शिखरे । कनकसरोरुहजठरे कनति विलग्नो मधुव्रतवरेण्यः ॥ ३३३ ॥

 अत्र तपनीयकनकयोः अन्तर्जठरयोश्च वस्तुप्रतिवस्तुभावः । तत्करम्भितो विमानस्य सरोरुहस्य च बिम्बप्रतिबिम्बभावः कनतीत्यस्यानुगामित्वं चेति द्रष्टव्यम् ॥

 संबन्धान्तराद्यथा--

 न भगवदाविर्भावः फणिशिखरिणि यद्विभाव्यते मुनिभिः । अपि तु जगतां विनमतामशुभपिशाचीतिरोभावः ॥ ३३४ ॥

 अत्र भगवदाविर्भावस्य कारणस्य निषेधेन अशुभपिशाचीतिरोभावस्य कार्यस्य विधिः । एवमारोपगर्भा सप्रपञ्चं प्रदर्शिता । अध्यवसानसगर्भा पुनः प्रदर्श्यते, यथा--

 न निगममयबिम्बत्वान्न भास्वरत्वान्न लोकबन्धुत्वात् । सन्ध्यासु वन्द्यतेऽर्कः किंतु वृषाद्रीश हृदयमणिदास्यात् ॥ ३३५ ॥

 वृषाद्रीशहृदयमणिः कौस्तुभः, तस्मिन् दास्यात् तदनुवर्तितेजस्त्वादिति यावत् । अत्रार्कस्य वन्द्यत्वे ‘उद्यन्तमस्तंयन्तमादित्यमभिध्यायन्’ इत्यादिप्रमाणावबोधितप्रभावहेतुकत्वं निगीर्य तत्र हेत्वन्तरमध्यवसितम् ॥

 यथा वा--

 नायं सुशीतलत्वान्न कोमलत्वान्न वा सचपल- त्वात् । अभिनन्द्यो लोकानामभिनवजलदो । हरे तवौपम्यात् ॥ ३३६ ॥

 अत्राभिनन्द्यत्वस्य जीवनदानादिहेतुकत्वं निगीर्य तत्र हेत्वन्तरमध्यवसितम् ॥

 यथा वा--

 हृदये कौस्तुभरत्नं न भूषणार्थं स्वभूरयं धत्ते । बहुमानयितुं कमलासहजन्मेत्यहिधुरंधराद्रीशः ॥ ३३७ ॥

 अत्र कौस्तुभरत्नहृदयधारणस्य--

आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥

इत्युक्तं जीवतत्त्वाभिमानित्वप्रयुक्तसत्करणत्वं फलं निगीर्य फलान्तराध्यवसायः कृतः ॥

 सावयवारोपाऽपीयं दृश्यत इति रसगङ्गाधरकृत् ॥

 यथा--

 हृदयह्रदान् बुधानां प्रसादयन्ती रमास्यराकेन्दुम् । सुस्मेरं विदधाना शरदेषा न तु हरेरपाङ्गरुचिः ॥ ३३८ ॥

आरोपमात्रोपायत्वे परंपरिताऽप्येषा संभवतीति स एवाह ॥

 यथा--

 तदिदं तव नवपल्लवमदविदळनकृत्पदं वदन्त्व- धियः । तिग्मभवातपवारणनवातपत्रं ब्रवाण्यहं तु हरे ॥ ३३९ ॥

 एवं प्रागुदाहृते ‘मणिमकुटतरणि’ इति पद्येऽपि परंपरिताऽनुसंधेया ॥

 अस्याश्च ध्वनिर्यथा--

 एषा न वैजयन्ती पुरो लसन्ती महेन्द्रचापलता । नैषाऽपि जलधिदुहिता परं तु विद्युल्लता समुन्मिषिता ॥ ३४० ॥

 अत्र नैषा वैजयन्ती अपि तु इन्द्रधनुर्वल्ली, नाप्येषा लक्ष्मीः अपि तु विद्युल्लतेति पूर्वोत्तराभ्यां द्वे अपह्नुती तावत् स्पष्टमेव निर्दिष्टे । ताभ्यां च नायं भगवान् किं तु प्रावृषेण्यघनाघन इति तृतीयापह्नुतिर्व्यञ्जनया प्राधान्येनावेद्यते । तदीयवस्तुप्रतिषेधारोपयोः तत्प्रतिषेधारोपावेदकताया न्याय्यत्वात् ॥


अलङ्कारमणिहारः.pdf

अथ हेत्वपह्नुतिः.


 स एवापह्नवो युक्तिपूर्वश्चेद्धेत्वपह्नुतिः ॥ ५० ॥

 यथा--

 नेयं श्रीरुरसि हरेर्न हि निवसेन्नित्यमत्र चपला सा । अपि तु हरिहृदयसौधस्थिरतरकुरुविन्ददीपरेखैव ॥ ३४१ ॥  अत्र चपलत्वहेतुकनित्यनिवासासंभवसंभावनारूपयुक्त्या लक्ष्म्यां लक्ष्मीत्वनिह्नवः स्थिरतरकुरुविन्ददीपरेखात्वारोपार्थः ॥

 यथा वा--

 नाङ्कोऽयमुरसि शौरेर्निसर्गतोऽमुष्य निष्कलङ्कत्वात् । रतिखेदसुप्तकमलानयनाञ्जनबिन्दुरिह न संदेहः ॥ ३४२ ॥

 अत्र भगवतो निष्कलङ्कत्वरूपयुक्त्या अङ्के अङ्कत्वनिह्नवः अञ्जनबिन्दुत्वारोपार्थः ॥

अलङ्कारमणिहारः.pdf

अथ पर्यस्तापह्नुतिः.


पर्यस्तापह्नुतिर्यत्र क्वचित्तद्धर्मनिह्नवः ।
वर्णनीये तदारोपफलको वर्ण्यते यदि ॥ ५१ ॥

 यत्र क्वचिद्वस्तुनि तदीयधर्मापह्नवो वर्णनीये वस्तुनि तस्य धर्मस्यारोपार्थो वर्ण्यते चेत्सा पर्यस्तापह्नुतिः ॥

 यथा--

 यदिह परस्ताद्रजसस्स्थानं पदमामनन्ति परममिति । परमं न पदं तत्स्यादपि तु फणाधरपतिक्षितिभृदेव ॥ ३४३ ॥  यथा वा--

 सिंहळसंभूतमणिर्न महानीलो हरिर्महानीलः। नीलयति स हि स्वल्पं क्षीरं क्षीराब्धिमेव तत्स्थोऽयम् ॥ ३४४ ॥

 सः सिंहळसंभूतमणिः । अयं श्रीहरिः तत्स्थः क्षीरस्थः क्षीराब्धिमध्यस्थश्च । अत्र--

सिंहळस्याकरोद्भूता महानीलास्तु ते स्मृताः ।
क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेत् ॥
महानील इति ख्यातं रत्नं तदतिदुर्लभम् ।

इति रत्नशास्त्रार्थोऽनुसंहितः ॥

 यथा वा--

 इन्दुर्न सतां नेता सन्नेता पन्नगाद्रिपतिरेव । सच्चक्रखेदमोदप्रदयोर्वद को भवेत्सतां नेता ॥ ३४५ ॥

 सच्चक्रस्य सत्पुरुषनिवहस्य सतश्चक्रवाकस्य च । खेदप्रद इन्दुः मोदप्रदो भगवान् ॥

 यथा वा--

 अरुणकिरणो न तरणिस्तरणिः फणिधरणिधरशरण एव । कमतीतरत्स संसृतिजलनिधिमेष तु जगन्ति तारयति ॥ ३४६ ॥

 तरणिः द्युमणिः नौश्च । 'तरणिर्द्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम्' इति मेदिनी । अतीतरत् तारयति स्म । तरतेर्ण्यन्ताल्लङि चङ् । सः अरुणकिरणः । एषः वेङ्कटगिरिनिलयः ॥

 यथा वा--

 नापांनिधिर्नदीनो नदीन एष श्रितो हरे यस्त्वाम् । क्षुभितस्स सर्वतो मुखभङ्गादेत्येष नैकमपि भङ्गम् ॥ ३४७ ॥

 नदीन इति नशब्देन समास । अदीनः नेत्यन्वयः, किंतु दीन एवेत्यर्थः । नदीनां इन इति वस्तुस्थितिः । भगवदाश्रित एव नदीनः अदीनः । सः अपां निधिः सर्वतोमुखभङ्गात् विश्वतोमुखात्पराजयात्, पक्षे जलतरङ्गात्, भङ्गं पराजयं ‘भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु' इति मेदिनी । अत्र 'यदिह परस्तात्' इति प्राथमिकोदाहरणे रजसः परस्मिन् स्थाने परमपदत्वनिह्नवो वर्णनीये शेषाद्रौ तदारोपार्थः । अन्येषु त्रिषु सिंहळेत्यादिषु महानीलमणित्वाद्यपह्नवः प्रस्तुते भगवति तदारोपार्थः प्रथमोदाहरणे निह्नवे हेतु्र्नोक्तः द्वितीयादिषु हेतुरुक्तः । तत्रापि सिंहळेतिद्वितीयपद्ये शुद्धः, तृतीयचतुर्थपद्ययोश्श्लेषसंकीर्णः । पञ्चमे 'नापांनिधिः' इतिपद्ये समुद्रे नदीनत्वनिह्नवो भगवदाश्रितेषु प्रकृतेषु तत्समारोपार्थः । हेतूक्त्यादिकं तु पूर्ववदेव । ततश्च शुद्धापहृुतिवदत्रापि द्वैविध्यमनुसन्धेयम् । अयमपह्नुतिभेदः कुवलयानन्दानुरोधेनोक्तः । रसगङ्गाधरे तु-- "अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिश्च सः' इत्येतदुपादाय 'नायमपह्नुतेर्भेदो वक्तुं युक्तः अपह्नुतिसामान्यलक्षणानाक्रान्तत्वात् । तथा हि-–‘प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः' उप मेयमसत्यं कृत्वा उपमाने सत्यतया यत् स्थाप्यते साऽपह्नुतिः' इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत् स्फुट एव । एवं ‘विषयापह्नवे वस्त्वन्तरप्रतीतावपह्नुतिः' इत्यलंकारसर्वस्वोक्तलक्षणमपि नात्र प्रवर्तते ॥

प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।
साम्यादपह्नुतिर्वाक्यभेदाभेदवती द्विधा ॥

इति चित्रमीमांसागतं लक्षणमपि तथैव । तस्मात् ‘नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति नापह्नुतिः । उपमेयतोपमानतावच्छेदकयोस्सामानाधिकरण्यस्य निष्प्रत्यूहं भानात् । तदुक्तं विमर्शिन्याम्--'न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते’ अत्र विषस्य निषेधपूर्वकं ब्रह्मस्वे आरोप्यमाणत्वात् दृढारोपं रूपकमेव नापह्नुतिरिति” इति ॥

 तर्हि दीक्षितानां कथमिदं परस्परविप्रतिषिद्धवादित्वमितिचेच्छृणु--चित्रमीमांसालक्षणं प्राचामनुरोधेन, इदं तु रत्नाकराद्यनुरोधेनेति न विरोधः ॥

अलङ्कारमणिहारः.pdf


अथ भ्रान्त्यपह्नुतिः.


 भ्रान्तेर्निवारणेऽन्यस्य शङ्कायां भ्रान्त्यपह्नुतिः ॥

 अन्यस्य भ्रान्तेर्निवारणे तत्त्वाख्याने सति भ्रान्त्यपह्नुतिः । इमां भ्रान्तापह्नुतिरित्यप्याहुः । तदा भ्रान्तमिति भावे क्तः । तस्यापह्नुतिः । एवं च तत्त्वकथनहेतुकभ्रान्तिविषयनिषेधो भ्रान्त्यपह्नुतिरिति लक्षणं बोध्यम् ॥  यथा--

 शिशिरयते मम हृदयं किं घनसारोऽथ गन्धसारो वा । न हि न हि सपदि स्मृतिपथमहिगिरिनेता सखे समानीतः ॥ ३४८ ॥

 अत्र शिशिरयते मम हृदयमिति भगवद्वृत्तान्ते गदिते तस्य हृदयशब्दप्रतिपाद्यचित्तवक्षोरूपार्थद्वयश्लेषमूलकाभेदाध्यवसायेन घनसारादिसाधारण्यात्केवलबाह्यविषयप्रवणेन केनचित्सख्या किं घनसारोऽथ गन्धसारो वेत्यनुयुक्ते नहिनहीत्यादिना भ्रान्तिवारणं कृतम् । इदं संभवद्भ्रान्तिपूर्विकायां भ्रान्तापह्नुतावुदाहरणम् ॥

 कल्पितभ्रान्तिपूर्वा यथा--

 न घनततिः कबरीयं न विद्युदेषा चकास्ति सीमन्तः। शैलधृतौ संनह्यसि किं कृष्णेत्याह फणिगिरिपतिं श्रीः ॥ ३४९ ॥

 सीमन्तः केशवीधी ‘सीमन्तमस्त्रियां स्त्रीणां केशमध्यस्थ पद्धति:' इति वैजयन्ती । शैलधृतौ गोवर्धनधारणे, अत एव कृष्णेति संबोधनम् । शैलत्वेनाध्यवसितस्तनग्रहणे च । अत्र कल्पिता भ्रान्तिः न घनततिरित्यादिनिषेधमात्रोन्नेया पूर्ववत्प्रश्नवैधुर्यात् । दण्डी तु ईदृशस्थले तत्त्वाख्यानोपमेत्युपमाभेदममन्यत । यदाह--

न पत्रं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
इति विस्पष्टसादृश्यात्तत्वाख्यानोपमा मता ॥

इति । वस्तुतस्त्वत्रोपमाबोधकस्य इवादेरभावादुपमाप्रभेदो न युक्तः । तदभावेऽप्युपमाभ्युपगमे रूपकस्याप्युपमात्वापत्तेः ।

 यथा वा--

 न तटिदियं जलधिसुता न तटित्वानेष शेषगिरिनेता । हंसानन्दविधायी किं सीदसि चित्तहंस शंस मम ॥ ३५० ॥

 अत्रापि कल्पिता भ्रान्तिः निषेधमात्रोन्नेया प्रश्नविरहात् । न तटित्त्वानिति निषेधे हंसानन्दविधायीति हेतूक्तिः चित्तहंसेति रूपकसंकीर्णत्वं च पूर्वस्माद्विशेषः ॥

अलङ्कारमणिहारः.pdf


छेकापह्नुतिः.


अन्यस्य शङ्कया छेकापह्नुतिस्तथ्यनिह्नुतौ ॥ ५३ ॥

 कस्यचित्कंचित्प्रति रहस्यकथने इतरेण श्रुते स्ववचनस्याशयान्तरपरिकल्पनेन सत्यस्यापलापे छेकापह्नुतिरित्यर्थः । छेकाः विदग्धाः ‘छेको विदग्धे विश्वस्ते' इति हेमचन्द्रः । तत्कृता अपह्नुतिः छेकापह्नुतिरिति लक्ष्यनिर्देशः । वाक्यान्यथायोजनहेतुकः शङ्किततात्विकवस्तुनिषेध इति लक्षणम् । अन्यस्य शङ्कयेत्यन्यशङ्काया निवर्तनीयत्वेन हेतुतया व्यपदेशः क्षुधाऽन्नमत्तीतिवत् । अत्र च

कस्य वा न भवेद्रोषः प्रियायास्सव्रणेऽधरे ।
सभृङ्गं पद्ममाघ्रासीर्वारिताऽपि मयाऽधुना ॥

 इति व्याजोक्तावतिप्रसङ्गवारणायाद्यं विशेषणम् । यद्वक्ष्यते-'छेकापह्नुतेरस्याश्चायं विशेषः--यत्तत्र वचनस्यान्यथानयनेनापह्नवः अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनम्' इति ॥

 उदाहरणम्--

 नीलरुचिर्मम चित्ते खेलति सततं किमञ्जनाद्रीशः । न हि न हि सुरवरमणिरिति चतुरा पद्मावती सखीमाह ॥ ३५१ ॥

 अत्र पद्मावत्या नर्मसखीं प्रति नीलरुचिर्मम हृदये खेलतीति स्वप्रियतमश्रीनिवासवृत्तान्ते निवेद्यमाने तन्निशमय्य किमञ्जनाद्रीश इति शङ्कितवतीमन्यां प्रति न हि न हि सुरवरमणिरिति सत्यस्यैवापह्नवः ॥

 यथा वा--

 अभिमुखमेत्याभिमृशन्नमृततुषारेण मां सखिकरेण । अधिनिशमजीहृषदलं श्रीवत्साङ्कः किमाळि न मृगाङ्कः ॥ ३५२ ॥

 अमृतेन अमृतमिव च तुषारश्शीतलः तेन करेण किरणेन हस्तेन च अधिनिशं रात्रौ अजीहृषत् हर्षयति स्म । हृषेर्ण्यन्तात्कर्तरि लुङि चङ् । अत्रापि कयाचिद्व्रजललनया क्रीडासखीं प्रति अभिमुखमेत्येत्यादिना नन्दनन्दनोदन्ते निवेद्यमाने तदाकर्ण्य श्रीवत्साङ्कः किमिति शङ्कितवतीमन्यां प्रति न मृगाङ्क इति तथ्यस्यैवापह्नवः । इदमर्थयोजनया सत्यनिह्नुतावुदाहरणद्वयम् । वस्तुतस्तु द्वितीयमुदाहरणं वक्ष्यमाणरीत्या शब्दार्थोभययोजनयाऽपह्नुतेरेवोदाहरणं भविष्यति ॥

 अर्थयोजनया निह्नुतिर्नाम विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबन्धित्ववर्णनया तस्यापलापः । शब्दयोजनया सा तु शब्दश्लेषमात्रेण तत्संबन्धित्ववर्णनयाऽपलापः ॥

 यथा--

 कमले विपुले नयने ध्यायामि तवाहमिति हठाद्गदिते । कुपितायां नीलायां तत्परतां तस्य वर्णयति शौरिः ॥ ३५३ ॥

 अत्र कमले विपुले इत्यनयोरर्थभेदेऽपि शब्दश्लेषमात्रेणान्यथा योजनया तत्थ्यनिह्नवः । हे कमले ! लक्ष्मि ! विपुले विशाले तव नयने ध्यायामीति वा, हे विपुले ! धरणि ! तव नयने कमलसदृशी ध्यायामीति वा प्रत्येकं संबध्यते । नीलापरत्वे तु हे नीले ! इति संबुद्धिरर्थाल्लभ्यते । तदा तव नयने कमले विपुले च ध्यायामीति योजना । अत्र रमाभूमिसंबोध्यकस्तन्नयनध्यानरूपो न वाक्यार्थः किंतु त्वत्संबोध्यकः कमलरूपविपुलत्वन्नयनध्यानरूप इत्यपह्नवस्तत्परतां तस्य कल्पयति शौरिरित्यनेन प्रकाश्यते । तस्य उक्तवचनस्येत्यर्थः । न चात्र लक्ष्मीभूमीनीलासाधारण्यमर्थस्य, अपि तु कमले विपुले इति लिङ्गवचनश्लिष्टशब्दयोजनैवेति ॥

 यथा वा--

 प्रियहृदये हारिणि निशि सुप्ता न विवेद कि- मपि सुभगेऽहम् । किं शौरिहृदि न हीमां बहुधा संबाोध्य शयनसुखमवदम् ॥ ३५४ ॥

 हारिणि मुक्ताहारवति सुभगे सुन्दरे प्रियस्य भगवतो नन्दनन्दनस्य हृदये वक्षसि । पक्षे—-हे हारिणि मनोहरे! हे प्रियहृदये! प्रियं हृदयं चित्तं यस्यास्सा मत्प्रियकारिणीति यावत् । हे सुभगे! सौभाग्यशालिनीति सख्यास्संबुद्धयः । किं शौरिरिति तटस्थायाः प्रश्नः । न हीत्यादिकं तथ्यनिह्नवोत्तरं नायिकायाः । अत्रापि प्रियहृदये इत्यादीनामर्थभेदेऽपि शब्दश्लेषमात्रेणान्यथायोजनया तथ्यनिह्नवः । न विवेदेति सुखपारवश्यकृतः परोक्षनिर्देशः । ‘बहु जगद’ इत्यादिवत् ॥

 एवम्--

 निशि तमसि निमीलन्तीं स्वकरेण हृदि स्पृशा समुन्निद्राम्। भृशमुदितस्समतानीत्किं शौरिस्त्वां न कुमुदिनीमिन्दुः ॥ ३५५ ॥

 इत्यत्रापि शब्दयोजनया तथ्यनिह्नवो ज्ञेयः । निशि रात्रौ तमसि तिमिरे निमीलन्तीं सुप्तां निमीलितकुमुदां च । हृदिस्पृशा वक्षसि स्पृशता, पक्षे--मनोहरेण विकासकेनेति वा । 'हृद्युभ्यां च' इति सप्तम्या अलुक् । स्वेन निजेन करेण हस्तेन किरणेन च । जातावेकवचनम् । भृशमुदितः अतिवेलप्रहृष्टस्सन्, पक्षे—भृशं उदित इति छेदः उदयं प्राप्तस्सन् । भृशमित्येतत् उन्निद्रामित्यनेनान्वेति । उन्निद्रां निद्राया डद्गतां त्यक्तनिद्रामित्यर्थः । पक्षे--विकसितां ‘तथा पुष्पितमुन्निद्रम्' इत्यमरः । समतानीदिति नर्मसखीं प्रति नायिकाया निशि स्वप्रियविरचितविलासवृत्तान्तवर्णनम् । किं शौरिस्त्वामिति तटस्थायाः प्रश्नः । कुमुदिनीमिन्दुरिति नायिकायास्तथ्यनिह्नवोत्तरम् ॥

 शब्दार्थोभययोजनया यथा--

 व्रणयत्यधरं वपुषो वेपथुकुन्मम विशेषतोऽधिनिशम् । आरादसौ हिमानी शौरिः किं न सखि हिमततिर्महती ॥ ३५६ ॥

 असौ हिमानीत्यत्र शब्दयोज़नया निह्नवः अन्यत्रार्थयोजनयेति ध्येयम् । तथ्यार्थे हि मानी इति पदच्छेदः, निह्नवपक्षे हिमानीत्येकं पदम् । असावित्येतत्पुंस्त्रीलिङ्गसाधारणम् । अत्रासौ हि मानीति शौरिपरतया पुंलिङ्गेन निर्दिष्टस्य शब्दस्यैव असौ हिमानीति स्त्रीलिङ्गतया हिमानीपरतावर्णनाच्छब्दयोजनयाऽपह्नव इति । महद्धिमं हिमानी ‘हिमारण्ययोर्महत्त्वे’ इति 'इन्द्रवरुण' इति सूत्रप्राप्त आनुगागमसन्नियोगशिष्टो ङीष् नियम्यते ॥

 यथा वा--

 एहि सखि सत्यभामे रुक्मिणि दयिता त्वमिति हठादुक्ते । रुष्टां राधां तत्परमारचयंस्तत्प्रसादयति शौरिः ॥ ३५७ ॥

 राधापरत्वे हे सति ! साध्वि ! हे अभामे! अकोपने! हे रुक्मिणि! रुक्ममस्या अस्तीति तथोक्ते! सुवर्णाभरणवतीत्यर्थः । हे सखि! त्वमेव मे दयितेति योजना । तत् स्वोक्तं वचनं तत्परं राधापरं आरचयन् । सत्यभामे रुक्मिणीत्यत्र शब्दयोजनया सखि दयितेत्यत्रार्थयोजनयाऽपह्नव इति द्रष्टव्यम् ॥  सर्वमिदं विषयान्तरयोजनायामुदाहरणम् । विषयैक्येऽप्यवस्थाभेदेन योजनायां यथा--

 कृष्णो मम कमन इति ब्रुवती भर्त्रे सखीभ्रमादथ तम् । ज्ञात्वा सखि किं जगद स्वप्नादहमित्यपूरि धूर्तैका ॥ ३५८ ॥

 अत्र विवक्षितं श्रीकृष्णविषयकानुरागवृत्तान्तं निद्राजागर्याव्यतिकरजातात्सहशयाने भर्तरि सखीभ्रमादुदीरितवत्या कयाऽपि गोपिकया तावतैव जागरूकतया भर्तृज्ञानजनितभयसंभ्रान्तया तद्वृत्तान्ततत्परस्य वाक्यस्य स्वप्नावस्थागततद्वृत्तान्तपरत्वं सखि किं जगद स्वप्नादहमिति शेषपूरणेन तत्रापि जगदेति पारोक्ष्याभिधायिलि़डुत्तमप्रयोगेण च स्फुटीकृतम् । अत्र नायिकाविवक्षितश्रीकृष्णानुरागवृत्तान्तस्य यथार्थभूतजागरावस्थागतत्वनिह्नवोऽर्थसिद्ध इति लक्षणानुगतिः कार्या । जगदेत्यत्र 'णलुत्तमो वा' इति णित्त्वस्य वैकल्पिकत्वान्नोपधावृद्धिः । अपूरीत्यत्र कर्तरि लुङि 'दीपजनबुधपूरि' इत्यादिना वैकल्पिकश्चिण् । अपूरयदित्यर्थः ॥

 यथा वा--

 स्वैरं व्यहरावाहं शौरिश्चेति प्रमादतो गदितम् । काऽपि वधूर्गुरुनिकटे बाल्यमयन्त्रणमिति स्म पूरयति ॥ ३५९ ॥

 काऽपि वधूः गोपस्नुषा अहं शौरिश्च स्वैरं व्यहराव विहृतवन्तौ इति विपूर्वकाद्धरतेर्लङुत्तमद्विवचनम् । गुरुनिकटे श्वश्रूप्रभृतिगुरुजनसंनिधौ प्रमादतः अनवधानात् गदितं आत्मनोक्तं वचनं बाल्यं बालकर्म बालैः क्रियमाणोऽनभिसंधिकव्यापार इत्यर्थः । अयन्त्रणं यथेष्टं बालव्यापारे इदमेवंकर्तव्यमिदमेवं नेति निर्बन्धो न शक्यः कर्तुमिति भावः । इति पूरयति स्म । अनतिचिरानुभूतनन्दनन्दनस्वच्छन्दोपभोगरसायनाविरतास्वादैकतानान्तरङ्गया कयाचिद्व्रजललनया तेनैव संस्कारेण प्रमादवशाद्गुरुजनसंनिधौ स्वैरं व्यहरावेति गदितस्य वृत्तान्तस्य बाल्यावस्थागतश्रीकृष्णसहकृतधूळीकेळिप्रभृतिवृत्तन्तपरत्वं बाल्यमयन्त्रणमिति शेषपूरणेन स्फुटीकृतम् । पूर्वोदाहरणे स्वप्नावस्थाभेदेन योजना । अत्र तु बाल्यावस्थाभेदेनेति विशेषः ॥

 यथा वा--

 सरजस्कां स्नातामथ शौरिर्मामाह्वयत्समं भोक्तुम् । इत्यवशादुक्त्वैका बाल्ये मैत्री ह्यकृत्रिमेत्यगदीत् ॥ ३६० ॥

 अत्र ऋतुस्नातस्वकर्मकोपभोगफलकशौरिकृताह्वानरूपं वाक्यार्थं तथ्यभूतं गुरुजननिकटे प्रमादादुदीर्य तावतैव प्रबुद्धया बाल्ये मैत्री ह्यकृत्रिमेति वदन्त्या कयाचन विदग्धया नायिकया बाल्यनिर्वर्तितधूळीकेळीधूसरितत्वनिमित्तकस्नानकर्तृस्वकर्मकसहभोजनक्रियाफलकतादात्विकशौरिकृताह्वानरूपतया स एवान्यथा योजितः । अत्राप्यवस्थाभेदेन योजना पूर्ववदेव । श्लेषोपस्कृतत्वं तु विशेषः । तात्त्विकार्थपक्षे शौरिः रजसा आर्तवेन सह वर्तत इति सरजस्का तां, अन्यत्र सधूळिकाम् । अथ आर्तवानन्तरं धूळीलेपानन्तरं च । स्नातां मां समं परस्परानुरूपं भोक्तुं उपभोक्तुं अन्यत्र सहभोजनाय, माणवकदशायां पुमांसः कन्याभिस्सह स्वैरं भुञ्जत इति प्रसिद्धमेवेदम् । आह्वयत् आहूतवान् इति अवशात् प्रमादात् उक्त्वा बाल्ये शैशवे मैत्री सख्यं अकृत्रिमा निर्व्याजेत्यगदीत् अवादीदित्यर्थः । बाल्ये मैत्रीत्याद्युक्तिस्स्वोक्तस्यार्थस्य बाल्यनिर्वर्तितत्वद्योतनाय ॥

कैतवापह्नुतिः--

छलच्छद्मनिभाद्यैश्च वपुरात्मादिकैः पदैः । निह्नुतिश्चेदभिव्यङ्ग्या कैतवापह्नुतिर्हि सा ॥ ५४ ॥

 अत्र छलादिशब्दा विषयासत्यत्वप्रतिपादकाः । वपुरादिशब्दास्तु विषयासत्यत्वपर्यवसायिन इति विवेकः ।छलादीत्यादिपदेन कपटकैतवव्याजमिषापदेशोपधिदम्भादिशब्दा गृह्यन्ते । वपुरात्मादीत्यादिपदेन रूपनामरीतिभङ्ग्यादिशब्दा इति ध्येयम् ॥

 यथा--

 धरणीनिभरमणीमणिफणिशिखरिच्छलकुचाग्रविन्यस्तः । हरिकैतवमृगमद इह हरतां स्वगुणेन जडतां नः ॥ ३६१ ॥

 स्वगुणेन ज्ञानशक्तिवात्सल्यादिना अन्यत्र औष्ण्येन जडतां अज्ञतां शैत्यं च हरतां अपनयतात् । प्रसिद्धं ह्यज्ञानहारित्वं हरेः शैत्यहारित्वं मृगनाभेश्च । अत्र विषयासत्यत्वप्रतिपादकनिभच्छलकैतवशब्दैर्नेयं धरणी किंतु रमणीत्यादिनिषेधबोधनादेकवाक्यत्वं निषेधताद्रूप्ययोरार्थत्वं विधेयत्वं च, जडताहरणस्य विधेयत्वात् । सावयवा चेयं अनुग्राह्यानुग्राहकभावापन्नावयवकसंघातरूपत्वात् ॥  यथा वा--

 शितभानुरपि प्रथयति सितभानुरिव द्विजन्मराजत्त्वम् । मणिनूपुरयुगवपुषा फणिनायकशैलनाथपदयुग्मे ॥ ३६२ ॥

 अत्र नेदं मणिनूपुरयुगं अपितु द्विजन्मराजत्त्वं प्रकाशयंस्तिग्मभानुरेवेत्यसत्यपर्यवसायिवपुश्शब्दबलान्निषेधः प्रतीयते । एकवाक्यत्वादिकं पूर्ववत् । निरवयवा चेयम् । द्विजन्मराजत्वं द्विजराजत्वमित्यर्थः । ‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः' इति श्रुतेश्चन्द्रमसो द्विजराजत्वम् । राजत्त्वमित्यत्रार्थान्तरानुरूप्याय ‘अनचि च' इति तकारस्य द्वित्वम् । पक्षे-–राजतो भावः राजत्त्वं द्विविधे जन्मनी द्विजन्मनी ताभ्यां राजत्त्वं प्रकाशमानत्वमित्यनयोरर्थयोः श्लेषेणाभेदाध्यवसायः ॥

 विमर्शिनीकारस्तु छलादीत्यादिशब्देन तृतीययाऽपि क्वचिदसत्यत्वं प्रतिपाद्यत इत्यभाणीत् । तत्रेदमुदाहरणं--

 फणिगिरिमिषोदयाद्रौ मधुमथनच्छलसुधाकराभ्युदये । तदुपत्यकावनच्छलजलधिः फेनायते स्म कुसुमौघैः ॥ ३६३ ॥

 फेनमुद्वमति फेनायते “फेनाच्चेति वक्तव्यम्' इति वार्तिकेन उद्वमनार्थे क्यङ् । अत्र कुसुमौघैरिति तृतीयया नायं कुसुमौघः किंतु फेन एवेत्यपह्नवनिबन्धनम् । यद्यपीदृशस्थले ‘नद्या शेखरिणे’ इत्यादाविव वैयधिकरण्येनारोपरूपं रूपकमेवेति युक्तम्, अथाप्यपह्नवोपक्रमानुरोधेनान्तेऽप्यपह्नवस्य तृतीयया प्रतिपादितत्वं विमर्शिनीकारानुरोधेनोक्तम् । वस्तुतस्तु कैतवापह्नुत्यनुप्राणितं व्यधिकरणरूपकमेवेदं भविष्यति । अत एव विमर्शिनीकारानुरोधिनाऽपि रसगङ्गाधरकारेणायं पक्षोऽनादृत इति ध्येयम् ॥

 इयं मालारूपाऽपि भवति । तत्रापि बहून्निषिध्य एकस्यारोपे एकं निषिध्य बहूनामारोपे चेति द्विधेति कौस्तुभकारादयः ॥

 तत्राद्या यथा--

 मणिसानुमिषाद्धरणौ फणिशय फणिमणिमिषेण पाताळे । सुरसरणौ द्युमणिमिषात्प्रतापराशिः कृतावतारस्ते ॥ ३६४ ॥

 मणिसानुः सुमेरुः । फणिशयेति भगवत्संबुद्धिः । अन्यत्सुगमम् ॥

 विद्रुममिषेण जलधौ कलधौताम्बुजमिषेण सुरसरिति । करुविन्दबृन्दमिषतो द्विषतां मौळिष्वभात्प्रभावस्ते ॥ ३६५ ॥

 कलधौतं हेम ‘कलधौतं रूप्यहेम्नोः' इत्यमरः । मन्दाकिन्यां हेमारविन्दस्थितिः प्रसिद्धा । प्रभावः प्रतापः । 'स्यात्प्रतापः प्रभावश्च' इत्यमरः । अत्र पीतवर्णतया प्रथितस्य कनकाचलादेः लोहिततया प्रसिद्धस्य विद्रुमादेश्च लोहिततयैव कविसमयसिद्धं प्रतापं प्रत्युपमानतावर्णनं पीतलोहितयोर्वर्णयोरभेदस्यापि कविसमयसिद्धत्वादित्यवधेयम् । तथाचोक्तमलंकारशेखरे-

कमलासंपदोः कृष्णहरितोर्नागसर्पयोः ।
पीतलोहितयोस्स्वर्णपरागाग्निशिखादिषु ॥
चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः।
दानवासुरदैत्यानामैक्यमेवाभिसंहितम् ॥ इति ॥

 शीतांशुरुचिमिषाद्दिवि शीताद्र्यनिमिषधुनी मिषादवनौ । पाताले शेषमिषात्ख्यातानि यशांसि तव विभान्ति विभो ॥ ३६६ ॥

 शीताद्रिः हिमगिरिः । अनिमिषधुनी गङ्गा । तयोर्मिषात् व्याजात् । हे विभो भगवन् !॥

 ऊर्ध्वं नभस्तलनिभादधश्च वसुधातलच्छलाद्भगवन् । जलधिच्छलात्समन्ताद्विभा विभक्ता विभाति तव भूमन् ॥ ३६७ ॥

 वसुधातलस्य नैल्यं 'यत्कृष्णं तदन्नस्य’ इति श्रुत्यनुरोधिना ‘क्ष्मामण्डलं कुवलयाकरकोमलाभम्' इतिवर्णनेन सिद्धमिति ध्येयम् ॥

 क्वचिदिह मरकतरूपं क्वचिदब्भ्रनिभं क्वचित्तमालनिभम् । क्वचिदिन्दीवरदम्भं महोज्ज्वलं तव महो जगति भाति ॥ ३६८ ॥

 निभशब्दोऽत्र व्याजवाची ‘निभस्तु कथितो व्याजे' इति मेदिनी । अत्र श्यामलत्वेन प्रसिद्धस्य भगवन्महसः हरिद्वर्णमरकतोपमानकथनं अनुपदोदाहृतप्रमाणेन नीलहरिद्वर्णयोरभेदप्रतिपादनात् ॥  हीरमिषात्ताटङ्के हारमिषादम्ब कंधरायां ते । माल्यमिषाद्धम्मिल्ले स्मितरुचिशकला हरेर्विभान्त्यमलाः ॥ ३६९ ॥

 एषूदाहरणेषु सुमेरुप्रभृतीन्बहून्निषिध्य तत्र प्रतापादेरेकस्यारोपः ॥

 द्वितीया यथा--

 वेदांस्तत्प्रतिपाद्यान्पुरुषार्थांस्तत्कृते नृभिरूपास्यान् । चतुरो भगवद्व्यूहान्बाहाव्याजाद्बिभर्षि जननि त्वम् ॥ ३७० ॥

 चतुर इत्येतत् वेदपुरुषार्थभगवद्व्यूहानां त्रयाणामपि विशेषणम्। वेदाः ऋग्यजुस्सामाथर्वाख्याः पुरुषार्थाः धर्मार्थकाममोक्षाख्याः । भगवद्व्यूहाः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्याः । अत्र लक्ष्मीबाहानिषेधपूर्वकं तत्र वेदादीनां बहूनामैक्यारोपः ॥

 भुवनत्रयीं त्रयीं वा त्रिगुणां वा प्रकृतिमहिगिरिद्युमणे । कुक्षौ निधायभगवन्रक्षस्यविरळवळित्रयीव्याजात् ॥ ३७१ ॥

 त्रयीं ऋगादिवेदत्रयं 'स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी' इत्यमरः । त्रिगुणां सत्त्वरजस्तमोगुणात्मिकाम् । अत्रापि वळित्रयीनिषेधपूर्वकं तस्यां भुवनत्रय्यादीनामनेकेषामैक्यारोपः ॥

इत्यलंकारमणिहारे अपह्नवसरस्त्रयोदशः

अलङ्कारमणिहारः.pdf