अलङ्कारमणिहारः (भागः १)/सन्देहसरः (१२)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ सन्देहसरः



सम्भावनानिश्चयान्यतरभिन्ना मनोरमा ।
सादृश्यहेतुका बुद्धिस्सन्देहालंकृतिर्मता ॥ ४७ ॥

 सादृश्यहेतुका संभावनानिश्चयान्यतरभिन्ना रमणीया धीस्सन्देहालंकारः । उत्कटैककोटिकस्संशयस्संभावना । निश्चयत्वं तु विरोधिकोट्यन्तराप्रकारकज्ञानत्वमात्रम् । न तु विरुद्धकोटिद्वयप्रकारकज्ञानभिन्नत्वम् । तथानिवेशे प्रयोजनाभावात् । संभावनेत्यादिविशेषणमुत्प्रेक्षारूपकादावतिप्रसङ्गवारणाय । स्थाणुर्वा पुरुषो वेति लौकिकसंशयवारणाय रमणीयेति, चमत्कारिणीत्यर्थः । एतच्च विशेषणमलंकारसामान्यलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपीति ध्येयम् । अयं च संदेहालंकारस्त्रिविधः, शुद्धो निश्चयगर्भो निश्चयान्तश्च । तत्र शुद्धो यस्य संशय एव पर्यवसानम् ॥

 यथा--

 किंनु तुषारासारः किं घनसारः किममृतसारो वा । शमयति यदिदं क्लममिति समशायि जनैर्हरेर्दृशो विषयैः ॥ २९५ ॥  दृशः कटाक्षस्य । इदमिति सामान्येन नपुंसकेन हरिकटाक्षनिर्देशः । समशायि सन्दिदिहे ॥

 यथा वा--

 तारासारांशो वा तटिल्लतौघस्फुटोल्लसच्छ्रीर्वा । इति मुररिपुहृदयगतां वीक्ष्याब्धिसुतां जनेन संदिदिहे ॥ २९६ ॥

 अयं च संदेहः क्वचिद्विषयिणामेव संदिह्यमानत्वे क्वचिच्च विषयविषयिणोरप्यलंकारो भवति । उभयत्रापि सामान्यलक्षणावगमात् । अनियतोभयांशावलम्बी हि विमर्शस्सन्देहः। उदाहरणद्वये विषयिमात्रसंदेह उक्तः । अत्र हि प्रकृतयोर्भगवत्कटाक्षलक्ष्म्योस्संदेहकोटित्वविरहाद्विषयिणां तुषारासारतारासारां शादीनामेव संदेहः ॥

 विषयविषयिणोर्यथा--

 किं नखरुचिवलयं ज्वलदथवा दोस्तेजसां शिखावलयम् । अरुणरुचि हरिकराब्जे निरुपममेतच्चकास्ति चक्रं वा ॥ २९७ ॥

 अत्र विषयिणो नखरुचिवलयादेरिव विषयस्य चक्रस्यापि संदेहकोटित्वम् ॥

 यथा वा--

 हरितोऽध्यैष्ट गिरिः किं गिरितो वा हरिरिदं महौन्नत्यम् । सर्वोन्नतावुभावपि दर्वीकरशैलतदधिपौ भवतः ॥ २९८ ॥

 निश्चयगर्भः--यस्संशयोपक्रमो निश्चयमध्यस्संशयान्तश्च । स यथा--

 किमियं गङ्गा न हरेर्मुखे भवेत्साऽथवा किमु ज्योत्स्ना । साऽपि तथैवेति जनाश्श्रीपतिहसितं विलोक्य सन्दिहते ॥ २९९ ॥

 साऽपि ज्योत्स्नाऽपि तथैव हरेर्मुखे न भवेदेवेत्यर्थः । अत्रोपक्रमोपसंहारयोस्संशय एव ॥

 निश्चयान्तः--यत्र संशये उपक्रमः निश्चये पर्यवसानम् ।

 यथा--

 जलदभ्रमेण लग्ना तटिन्नु गगनभ्रमान्नु चन्द्रकला । इति संशय्य हरिस्तां स्मयमानां हृदि विनिश्चिनोति रमाम् ॥ ३०० ॥

लग्नेत्येतद्गगनभ्रमादित्यत्राप्यनुषज्यते ॥

 क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन संदेहो दृश्यते । यथा--

 सर्वे नगास्तमालीकृताः किमु खगाश्शिखीकृताः किं नु । जलदीकृता नु ककुभो विसृत्वरेणाच्युतद्युतिभरेण ॥ ३०१ ॥  अत्रारोपविषये अच्युतद्युतिभरे तमालत्वादिर्नगादिभिन्नाश्रयत्वेनारोपितः । नगाः तरवः । एषूदाहरणेषु संदेहस्यैव प्राधान्येनान्यानुपस्कारकत्वात्संपुटादिगतकङ्कणादिष्विव तद्योग्यतामात्रेण गौणोऽलंकारव्यपदेशः । एवंच--

 भगवन्नहिनगवसते जगदीशत्वे तवापि ये सन्दिहते । सत्त्वे तेषामेषां सत्त्वैकधना जनाः परं सन्दिहते ॥ ३०२ ॥

इत्यत्रापि सत्यपि चमत्कारे सादृश्यमूलकत्वविरहान्न सन्देहस्यालंकारता । तेषां सन्दिहानानां जनानां सत्त्वे ब्राह्मण्यादिप्रयुक्तप्राशस्त्ये विषये सत्त्वैकधनाः सात्विका जनाः परं अतिशयितं यथा स्यात्तथा सन्दिहते ॥

विष्णुभक्तिविहीनो यस्सर्वशास्त्रार्थवेद्यपि ।
ब्राह्मण्यं तस्य न भवेत्तस्योत्पत्तिर्विचार्यताम् ॥

इत्युक्तरीत्या संशेरते इत्यर्थः । एवमारोपमूलोऽयं संदेहालंकारः अध्यवसानाश्रयत्वेऽपि भवतीति सर्वस्वकारः । अयं च स्वरूपहेतुफलानां सन्दिह्यमानत्वेन त्रिधा भवतीति विमर्शिनीकारः ॥

 तत्र स्वरूपसंदेहो यथा--

 किं मरकतरुचिपूरैरपूरि किमलेपि हरिमणिमहोभिः । फणिशिखरिमन्दिरान्तरमिति संशयदं हरेर्जयति तेजः ॥ ३०३ ॥  अयं च संदेहो हरितेजोविषयककविगतरतिपरिपोषकत्वेन ललनाकरधृतवलयादिरिव प्राधान्येनालंकारव्यपदेशभाग्भवति । अत्र च विवक्षिते विवेच्यमाने हरितेजसि मरकतरुचिपूरादिकोटिकः पर्यवस्यति सन्देहः । स च न सारोपः, विषयविषयिणोस्तदनुरूपविभक्त्यदर्शनात् । अतः मरकतरुचिपूरत्वादिना संदेहधर्मिहरितेजोऽध्यवसीयत इति ॥

 हेतुसन्देहो यथा--

 स्मयसे यदिदं स्वामिन् किं तन्मच्चरितचिन्तनादथवा । ईदृक्षरक्ष्यलाभात्किं वा मम दुर्लभेप्सितोद्योगात् ॥ ३०४ ॥

 अत्र स्मयनहेतौ निरतिशयानन्दत्वे कविना स्वचरितचिन्तनादिहेतुत्रयमध्यवसितम् ॥

 फलसन्देहो यथा--

 सुखदमिदमेव पदमिति सूचयितुं किं न्विदं हि परमपदम् । इति कथयितुं नु पन्नगपतिगिरिपतिना करोऽवनमितोऽयम् ॥ ३०५ ॥

 हरिणा श्रीनिवासेन वरदानार्थमवनमितः अयं करः दक्षिणहस्त इति भावः । इदं पदं स्वचरणमेव सुखदं जनानामिति सूचयितुं किमवनमितः । इदमेव क्षेत्रं परमपदमिति कथयितुं व्यञ्जयितुमिति यावत् । अवनमितो नु इति योजना । अत्र हस्तावनमनफले वरदाने सूचनादिफलमध्यवसितम् ॥  केचित्तु--ईदृशस्थले इवादिशब्दवत् नु किं इत्यादिशब्दानां संभावनाद्योतकत्वादुत्प्रेक्षामाचक्षते । रसगङ्गाधरकारस्तु नेदृशस्थलेऽध्यवसायस्सम्भवतीति मन्यते । तन्मतेनात्रेदं विचार्यते--'किं मरकतरुचिपूरैः' इति पद्ये तावत् मरकतरुचिपूरादिकरणकपरिपूरितत्वादिकोटिकः फणिशिखरिगतभगवन्मन्दिरान्तरधर्मिकस्सन्देहश्शब्दात्प्रतीयते । तस्मिंश्च सन्देहे किमिदं मरकतरुचिपूरस्स्यात् आहोस्वित् हरिमणिमहस्स्यादिति हरितेजोधर्मिकं सन्देहान्तरमानुगुण्यमाधत्ते, यथा--पुरोवर्तिनि वृषभे स्थाणुर्वा पुरुषो वेति संदेहो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संदेहे । एवंच हरितेजोधर्मिकस्संदेहो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति क्वाध्यवसायमूलता संदेहस्येति । एतेनाध्यवसानमूलतां संदेहस्य निरूपयतामुक्तिः परास्ता ॥

 एवं--

 नयनं किमञ्जनाक्तं मृगमदपङ्कैः किमङ्गमालिप्तम् । इति संशयं जनानां विदधानाऽच्युतरुचिर्धुनात्वशुभम् ॥ ३०६ ॥

 इत्यादिविभिन्नाश्रयाध्यवसायमूलसंदेहेष्वपि द्रष्टव्यम् । अस्मिंश्च संदेहे नानाकोटिषु क्वचिदेक एव समानधर्मः, क्वचित्पृथक् । सोपि क्वचिदनुगामी, क्वचित्केवलबिम्बप्रतिबिम्बभावमापन्नः, क्वचिद्वस्तुप्रतिवस्तुभावकरम्भितं बिम्बप्रतिबिम्बभावमापन्नः, क्वचिदनिर्दिष्टः, क्वचिन्निर्दिष्टः । तत्र 'किमियं गङ्गा न हरेः' इति प्रागुदाहृते पद्ये धावळ्यं धर्मिणो भगवन्मन्दहसितस्य कोट्योर्गङ्गाज्योत्स्नयोश्चैक एवानुगामी धर्मः, प्रतीयमानत्वादनिर्दिष्टः । एवं ‘जलदभ्रमेण लग्ना' इत्यादिपद्येऽपि । निर्दिष्टस्तु 'हरितोऽध्यैष्ट गिरिः किम्' इति प्रागुदाहृत एव श्लोके तत्र महत्त्वं साधारणो धर्मः । धर्मिणो भगवदौन्नत्यस्य कोट्यन्तरस्य गिर्यौन्नत्यस्य च साक्षान्निर्दिष्टः । धर्मस्य पृथङ्निर्देशोपि 'किं नखरुचिवलयं ज्वलत्’ इति प्रागुदाहृतपद्य एव । तत्र हि नखरुचिवलयस्य ज्वलत्त्वं, दोस्तेजश्शिखावलयस्यारुणरुचित्वं च सह चक्रस्य पृथगनुगामी समानो धर्मः । अत्रैव ज्वलत् अरुणरुचीति विशेषणद्वयानुपादाने स एवानिर्दिष्टः ॥

 बिम्बप्रतिबिम्बभावापन्नो यथा--

 प्रतिबिम्बितरविबिम्बं हरिमणिशिखरं सकौस्तुभं च हरिम् । मुनयोऽभिवीक्ष्य फणधरगिरिधरणौ नन्तुमेव सांशयिकाः ॥ ३०७ ॥

 अत्र प्रतिबिम्बितरविबिम्बत्वसकौस्तुभत्वरूपो धर्मः बिम्बप्रतिबिम्बभावापन्नः ॥

 यथावा--

 सहविद्युन्नु तटित्वान् सद्युमणिर्वा हरिन्मणीशिखरः। सकमल इति सन्दिदिहे समणिकिरीटस्सरीसृपगिरीन्दुः ॥ ३०८ ॥

 अत्र विद्युद्द्युमणी बिम्बभूतौ लक्ष्मीकिरीटयोः प्रतिबिम्बकोट्योः पृथङ्निर्दिष्टौ । शिखरशब्दः पुल्लिङ्गोप्यस्ति 'शिखरं वा ना' इत्यमरानुशासनात् । 'अलगितवतो विन्ध्यशिखरान्’ इति मुरारिप्रयोगश्च ॥  आकाशराजनृपतेरालयगर्भं तदा निरीक्ष्य नरैः । जलधेर्जठरं किमिदं कनकाचलसानु वेति सन्दिदिहे ॥ ३०९ ॥

 अत्र तदेति प्रकरणसाह्यवशादाकाशराजगृहेण धर्मिणाऽsक्षिप्तायास्तत्कालावतीर्णायाः भगवत्याः पद्मावत्या जलधिजठरादिसंशयकोटिद्वयाक्षिप्तस्साधारणो मणिः प्रतिबिम्बभूतः । इमौ च बिम्बप्रतिबिम्बभावानिर्दिष्टावपि प्रतीयमानौ सादृश्यं प्रयोजयतः । एतेनानुगाम्येव धर्मो लुप्तस्सम्भवति न तु बिम्बित इति वदन्तः परस्ताः ॥

 अयं च क्वचिदनाहार्यः क्वचिदाहार्यः, यत्र हि कविना परनिष्ठस्संदेहो निबध्यते तत्र प्रायेणानाहार्यः । यथा 'किं नु तुषारासारः’ इत्यादिषु प्रागुदाहृतेषु पद्येषु ॥

 यथा--

 किमु घनलग्ना सौरी मरीचिरथवेन्द्रनीलमणिखचिता । कुरुविन्दलतेति रमा हरिहृदयगता न केन वाऽशङ्कि ॥ ३१० ॥

 अत्राप्यनाहार्य एव संदेहः । तत्र जनस्य संदिहानस्य ग्राह्यानिर्णयात् । अत्र च लग्ना खचितेत्येतयोः गतेत्यस्य च वस्तुप्रतिवस्तुभावः तत्करम्भितो घनेन्द्रनीलमण्योः हरिहृदयस्य च बिम्बप्रतिबिम्बभाव इति विशेषः ॥

 यत्र च स्वनिष्ठ एव संदेहो निबध्यते तत्राहार्यः । यथा 'हरितोऽध्यैष्ट गिरि किम्’ इत्यादिप्रागुदाहृतपद्येषु ॥  यथा वा--

 मिहिरकरमसृणनिजरुचिमरकतशिखरं नु फणभृदचलेऽस्मिन् । कमलारुचिरुचिरं किं ब्रह्म परं कृष्णपिङ्गळं यदिदम् ॥ ३११ ॥

 यदिदं पुरस्तात् दृश्यमानं वस्तु कृष्णं च तत्पिङ्गळं श्यामलपिशङ्गवर्णं ‘वर्णो वर्णेन' इति समासः । ‘पुरुषं कृष्णपिङ्गळम्' इति श्रुतिरत्र स्मारिता । अत्र वक्तुः कवेस्तत्त्वज्ञतया संदेह आहार्य एव । अत्र मिहिरकरकमलारुच्योर्बिम्बप्रतिबम्बभावः मसृणनिजरुचिरुचिरयोर्वस्तुप्रतिवस्तुभावः, कृष्णपिङ्गळमित्यस्यानुगामिता च द्रष्टव्या ॥

 श्लेषात्मकोऽपि धर्मस्संभवति यथा--

 सिंहलसद्गोत्राकरभवनोऽयं किं महामहानीलः । उत भगवानिति कवयोऽप्यतिसांशयिका विलोक्य शौरे त्वाम् ॥ ३१२ ॥

 सिंहलस्य सिंहलद्वीपस्य सती प्रशस्ता गोत्रा भूः तस्यां यः आकरः खनिः तत्र भवनं उत्पत्तिः यस्य स इति महानीलपक्षे । ‘सिंहलस्याकरोद्भूता महानीलास्तु ते स्मृताः’ इत्यगस्त्योक्तेः । भगवत्पक्षे--सिंह इति लसन् प्रकाशमानः गोत्रश्शैलः सिंहाद्रिः शेषगिरिरित्यर्थः । स एवाकर आधारो यस्य तत्तथोक्तं भवनं दिव्यालयः सत्ता वा यस्य स तथोक्तः ॥

 विषयिणां विषयविषयिणोर्वा सादृश्यमूलकसंदेह एवायमलंकारः, न तु केवलसंदेहे । तेन- विधुभद्रश्रीव्यतिकरसुस्मेरमिदं स्पृशेयमिति शौरौ । वदति समशेत राधा स्पृशेन्मुखं वा स्तनद्वयं वेति ॥ ३१३ ॥

इत्यत्र नातिप्रसङ्गः । अत्र हि मुखस्तनद्वयकर्मकं स्पर्शनं विषयविषयिभावानापन्नं संदिह्यते । विधोः चन्द्रमसः भद्रा कल्याणी या श्रीः तस्याः व्यतिकरस्संबन्धः तेन सुस्मेरं स्मयमानं चन्द्रनिभमिति यावत् । अन्यत्र विधोः कर्पूरस्य भद्रश्रियः चन्दनस्य च व्यतिकरेण विलेपनेन सुस्मेरं ‘विधुश्शशाङ्के कर्पूरे’ इति रत्नमाला । ‘भद्रश्रीश्चन्दनोस्त्रियाम्' इत्यमरः । स्पष्टमन्यत् ॥

 परम्परितोप्ययं संभवति, यथा--

 श्रुतिवनमदावलो वा लक्ष्मीवर्षाशिखावलो वऽयम् । दर्वीकरगिरिमणिमिति निर्वर्णयता जनेन संदिदिहे ॥ ३१४ ॥

 अत्र संदेहस्य परंपरितत्वं च परंपरितरूपकपूर्वकत्वम् । न तु संदेहहेतुकसंदेहत्वम् । श्रुत्यादीनां वनत्वादिसंदेहाविषत्वादिति ध्येयम् ॥

 क्वचित्परनिष्ठोपि कविना निबध्यमान आहार्यो भवति, यथा ‘जलदभ्रमेण लग्ना तटित्' इति प्रागुदाहृते पद्ये । तत्र भगवतस्सर्वज्ञस्य संशय आहार्य एव । तत्र च जलदभ्रमेण लग्ना तटिन्नु ? गगनभ्रमाल्लग्ना चन्द्रकला नु? इति कोट्योः हृदयलग्नरमारूपधर्मिसादृश्यदार्ढ्यायाविद्यमानमपि भ्रमाल्लग्नत्वमारोप्यते । एवमादयोऽन्येऽपि प्रकारा उन्नेयाः । उक्तेष्वेतेषूदाहरणेषु सोऽयं संदेहालंकारस्स्वशब्दवेद्यत्वाद्वाच्यः ॥

 लक्ष्यो यथा--

 लीलाजलरुहमचलाबालायाः करमपीक्षमाणस्य । दोलायते स्म हृदयं व्यालाद्रिपतेः करग्रहावसरे ॥ ३१५ ॥

 अचलाबालायाः धरणीगर्भसंभूतायाः पद्मावत्याः करग्रहावसरे पाणिपीडनसमये । अत्र पर्यायेण कोटिद्वयालम्बितया दोलासादृश्यात्संदेहोऽत्र दोलापदेन लक्ष्यते ॥

 व्यङ्ग्यो यथा--

 उत्सवगतस्स भगवानुदयन्तं भानुमन्तमभिवीक्ष्य । वक्षस्सहसाऽस्प्राक्षीदब्जाक्षस्स्वीयमहिधराध्यक्षः ॥ ३१६ ॥

 अत्र भगवतस्सहसा वक्षस्स्थलस्पर्शेन तत्र स्थित एव कौस्तुभमणिस्ततश्च्युतः किं पुरस्तात् दृश्यत इति संदेहो व्यङ्ग्यः ॥

 यथा वा--

 तिलकितनिजमुखवीक्षणकुतुकवतश्श्रीसखस्य नयनयुगम्। यातायातच्छ्रान्तं मुकुरे कमलाकपोलफलके च ॥ ३१७ ॥

 अत्र मुकुरधर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः मुकुरोऽयं वाऽयं वेति भगवन्नयनयुगगतस्संदेहो व्यङ्ग्यः । अत्र भगवद्गतस्य संदेहस्य तन्नयनयुगे उपचारः । न च मुकुराभेदधियो नयनयुगप्रवृत्त्युपायत्वेनापेक्षणादिदंपदार्थाभेदधीर्निष्प्रयोजनेति वाच्यम् । एकपदार्थधर्मिकापरपदार्थधियः अपरपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकतया मुकुराभेदबोधसाम्राज्यात् मुकुरत्वमेतद्वृत्ति तद्वृत्ति वेति संशयाकारः । सोऽयं संदेहध्वनिः ॥

 द्रुतकनकप्रतिमावाऽऽवर्तितविद्युल्लताप्रतिकृतिर्वा । कुरुविन्दलेखिका वा मुकुन्दहृदयेऽरविन्दनिलया वा ॥ ३१८ ॥

 यद्यपीहापि वाचकशब्दानुपादानात्संदेहो व्यङ्ग्य एवार्हति भवितुम्, तथाऽपि विषयनिरूपणेन स्पष्टतयोक्तत्वान्न ध्वनिव्यपदेश्यताया हेतुः, अपि तु गुणीभूतव्यङ्ग्यप्रभेदव्यपदेश्यतायाः ॥

इत्यलङ्कारमणिहारे सन्देहसरो द्वादशः.

अलङ्कारमणिहारः.pdf