अलङ्कारमणिहारः (भागः १)/भ्रान्तिमदलंकारसरः (११)

विकिस्रोतः तः
               




   

अथ भ्रान्तिमदलंकारसरः.



 चमत्कृतिमती भ्रान्तिर्यस्मिंत्सादृश्यहेतुका । अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति ॥ ४६

 सदृशे धर्मिणि धर्म्यन्तरप्रकारकोऽनाहार्यनिश्चयस्साद्दश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः । सा च सुरनरतिर्यगादिगता यस्मिन् वचनसन्दर्भेऽनूद्यते स भ्रान्तिमान् । अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानिति व्यवहृतिस्त्वौपचारिकी । यदाहुः--

प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते ।
स भ्रान्तिमानिति ख्यातोऽलंकारे त्यौपचारिकः ॥

इति । लक्षणे मीलितसामान्यतद्गुणवारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्य इति । कविभिन्नगत इति वा । संशयवारणाय निश्चय इति, इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः । रङ्गे रजतमिति बुद्धेर्लौकिकतया न कविप्रतिभानिर्वर्तितत्वम् ॥  यथा--

 जलविहृतौ प्रतिवीचि प्रतिबिम्बान्यब्धिजादृशोर्वीक्ष्य। पृथुशफरभ्रमसकलाश्शकुला दूरं द्रवन्ति भयविकलाः ॥ २८७ ॥

 पृथुशफराः महामीनाः इति भ्रमेण सकलाः संपूर्णाः 'समग्रसकलाखण्डपूर्णादीन्यप्यनूनके' इत्यमरः । शकुलाः मत्स्याः अर्भका इति भावः । अत्र शकुलभयावेगोपस्कारकतया तद्गता भ्रान्तिरलंकारः ॥

 यथा वा--

 कमलाकपोलफलके कलितः कनकाचलेश्वरकटाक्षः । दृग्दोषधूतिदत्ताञ्जनबिन्दुभ्रान्तिदश्श्रियं दत्ताम् ॥ २८८ ॥

 अत्राविशेषोक्तेस्सुरनरादिसर्वगता भ्रान्तिरलंकारः । सादृश्यनिमित्तैव भ्रान्तिरलंकारविषयो न निमित्तान्तरोपस्थापिता ॥

 यथा--

 नानेह नास्ति किंचन जाने सर्वान्तरात्मभूतं त्वाम् । भ्राम्यति योऽस्मिन्नर्थे भ्राम्यति स भवेचिरादहिगिरीन्दो ॥ २८९ ॥

 हे अहिगिरीन्दो! इह त्वयीत्यर्थः । नाना भेदः नस्ति, परब्रह्मभूतस्त्वमेक एवेत्यर्थः । तत्र हेतुः जाने इत्यादिः । त्वां सर्वान्तरात्मभूतं सर्वदेशकालवर्तिनां पदार्थानां अन्तरात्मभूतं जाने । अस्मिन्नर्थे यो भ्राम्यति भ्रान्तो भवति सः भवे संसारे चिरात् भ्राम्यति भ्रमणं प्राप्नोति । अनेन--

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।
मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति ॥

इति श्रुत्यर्थोऽनुसंहितः । अत्र भ्रान्तेरसादृश्यनिबन्धनत्वान्नालंकारत्वम् । सादृश्यहेतुकाऽपि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोन्मेषितैव गृह्यते । यथा अनुपदमेव ‘जलविहृतौ' इत्युदाहृते पद्ये । न स्वरसोन्मेषिता शुक्तिरजतवत् । एवं सादृश्यनिमित्तकत्वादनुगाम्यादयोऽस्य साधारणधर्मा यथासम्भवं भवन्ति ।

 तत्रानुगामी धर्मो यथा--

 उपगूहितुमुपसर्पति चपलतया श्रीस्सरीसृपगिरीन्दौ । द्युमणिरिति कौस्तुभमणिं घृणिमन्तं संवृणोति पाणिभ्याम् ॥ २९० ॥

 अत्र घृणिमन्तमित्यनुगामितया निर्दिष्टो धर्मः ॥

 बिम्बप्रतिबिम्बभावापन्नो यथा--

 रोमाळिशिखरलग्ने कौस्तुभरत्ने सनाळनलिनधिया। झगिति लगन्ति भ्रमराः कमलाकर्णावतंसकह्लारात् ॥ २९१ ॥

 झगिति झडितीत्यर्थः । एवमन्यदप्यूह्यं बुद्धिमद्भिः ॥  क्वचिद्भ्रान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः, यथा--

 मरकतशिखामणिं शुकमथ मकुटं शोणमणिमयं शौरेः । तन्निष्कुलाकृतं श्रीर्दाडिममवयन्ति तव विलासशुकाः ॥ २९२ ॥

 हे श्रीः तव विलासशुकाः शौरेः मरकतरूपं शिखामणिं किरीटकोटिगतं शुकं अवयन्ति जानन्ति, अथ अनन्तरमेव शोणमणिमयं पद्मरागप्रचुरं तैः खचितमित्यर्थः । मकुटं तेन शुकेन निष्कुलाकृतं त्रोटीकोटीकुट्टनेन बहिराविष्कृतबीजराजिकं दाडिमफलमवयन्तीत्यनुषज्यते । निष्कुलाकृतमित्यत्र ‘निष्कुलान्निष्कोषणे' इति सूत्रेण निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥

 क्वचित्परस्परविषयभ्रान्तिनिबन्धनेन विच्छित्तिविशेषः, यथा--

 बिभ्यति वीक्ष्य मयूरान् कादम्बा नूतनाम्बुदभ्रान्त्या । तेऽपि निरीक्ष्य मराळान् शारदनीरदधिया वृषाद्रिवने ॥ २९३ ॥

अथास्य ध्वनिः.


 यथा--

 प्रणतमृडमकुटसरिति प्रतिवीचि त्वत्पदप्रतिच्छन्दान् । प्रणमन् विलोक्य गजमुखशिशुस्स्वशुण्डां प्रसारयति शौरे ॥ २९४ ॥
 अत्र भगवच्चरणप्रतिबिम्बेषु पद्मभ्रान्तिर्ध्वन्यते ॥

इत्यलंकारमणिहारे भ्रान्तिसर एकादशः.