पृष्ठम्:अलङ्कारमणिहारः.pdf/४१३

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
407
सहोक्तिसरः (२२)

 निर्धूतं पलाशानां पत्राणां क्रव्यादानां च कुलं येन स तथोक्तः । शालानां शाखानां ईक्षणं दर्शनं तद्विगतं यस्य स विशालेक्षणः । शाखावलोकनमप्यस्य नास्ति किमुत तत्परिष्कृतत्वमिति भावः । ‘शाखाशाले' इत्यमरः । अन्यत्र विपुलनयनः । विधुताः कलिकाः कोरकाः येन । पक्षे विधुतः कलिर्येन स तथोक्तः, परास्तकलिदोष इति यावत् । ‘कलिमलसंहतिकालनोऽखिलेशः' इत्याद्युक्तेः । ‘शेषाद्विभाषा' इति कप् ! सदा अनन्दनतां नन्दनवनसंबन्धवैघुर्यं, पक्षे आनन्दयतीत्यानन्दनः सतामानन्दनः सदानन्दनः तस्य भावं भजसि। एवं सति कथं त्वां मन्दार इति वदेम ॥

इत्यलंकारमणिहारे व्यतिरेकसरो द्वाविंशः.



 अथ सहोक्त्यलंकारसरः--

गुणप्रधानताभाजोरर्थयोरुभयोर्यदा । वर्ण्यस्सहार्थसंबन्धस्सहोक्तिं तां तदा विदुः ॥

 गुणप्रधानभावावच्छिन्नयोरर्थयोः सहार्थसंबन्धस्सहोक्तिः । इयमपि भेदप्राधान्य एव । गुणप्रधानभावनिबन्धनमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः ‘सहयुक्तेऽप्रधाने' इत्यनुशासनात् । उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा । सहार्थबलाद्धि तयोस्तुल्यकक्ष्यत्वं, अतुल्यकक्ष्ययोरुपमानोपमेयभावायोगात् । तत्र च तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थात्परिशिष्टस्योपमेयत्वम् । गुणप्रधानभावोऽप्यत्र शाब्द एव, न त्वार्थः वस्तुतो विपर्ययस्यापि संभवात् । साहित्यं चात्र कर्त्रादिनाना