पृष्ठम्:अलङ्कारमणिहारः.pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
94
अलंकारमणिहारे


 द्वितीयो यथा--

 अन्तर्बहिरपि कमलाकान्त समन्तात्त्वयैव परिपूर्णम् । जगदिदमखिलं भवतो जगदीश तुला पदं क्व निदधीत ॥ १६५ ॥

 हे जगदीश! भवतस्तुला उपमा कर्त्री क्व पदं निदधीत । सर्वस्य जगतस्त्वयैवान्तर्बहिश्च परिपूर्णत्वात्त्वदुपमायाः पदन्यासस्यापि नावकाश इति भावः ॥

इत्यसमालंकारसरश्चतुर्थः.

अथोदाहरणालंकारसरः.


सामान्योक्तसुबोधाय तदेकांशनिरूपणात् ।
उक्ते तयोरवयवावयवित्व उदाहृतिः ॥ २५ ॥

 सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोस्सामान्यैकदेशयोरवयवावयविभावे उक्ते उदाहृतिः उदाहरणं नामालंकारः । अत्रार्थान्तरन्यासवारणायोक्त इति । वचनं च इवयथानिदर्शनदृष्टान्तप्रमाणोदाहरणसाक्ष्यादिशब्दैः काव्येषु व्यक्तम् । अर्थान्तरन्यासे ह्यवयवावयविभावो व्यङ्ग्यः । न च इवयथाशब्दयोस्सादृश्यवचनयोरवयवावयविभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायास्साम्राज्यात् । अन्यथा ह्युत्प्रेक्षाबोधकताऽपि दुर्घटा स्यात् । अत्रालंकारे सामान्यविशेषयोर्विशेषणानि पृथग्वा सकृद्वा निर्दिश्यन्त इति ध्येयम् ॥