अलङ्कारमणिहारः (भागः १)/उपोद्घातः

विकिस्रोतः तः

॥ श्रीरस्तु ॥

अलङ्कारमणिहारः

श्रीहयवदनपरब्रह्मणे नमोनमः ॥

श्रीनिवासपरब्रह्मणे नमः ॥

श्रीवासब्रह्मतन्त्रोत्तमकलिमथनाल्लब्धचक्राङ्कभाष्यं
श्रीवासे देशिकेन्द्रे कलिमथनगुरावार्पितात्मीयभारम् ।
रङ्गेन्द्रब्रह्मतन्त्रादिमपदकलिजिद्देशिकेन्द्रात्ततुर्ये
श्रीकृष्णब्रह्मतन्त्राग्रिमपदपरकालार्थवर्यं श्रयामः ॥


 श्रीवेङ्कटधरणीधरशिखरालङ्कारमद्भुताकारम् । वाणी मम परिचिनुतान्नाणीयः किमपि मङ्गळं जगताम् ॥ १ ॥

 अत्रालङ्कारशब्देनास्य प्रबन्धस्यालङ्कारविषयकत्वं सूचितम् ॥

 हृदयभुवं मम हयमुखलक्ष्मीनारायणावलङ्कुरुताम् । राजयुवराजभूतौ परकालास्थानराज्यसीमनि यौ ॥ २ ॥

 सादरमिह वेदगिरिप्रादुर्भूतं सरोजभूदयितम् । घनसारसरसभासं शिरसा हरिमानमामि परमाद्यम् ॥ ३ ॥
 वेदगिरौ वेङ्कटाद्रौ 'वेदाद्रिर्गरुडाद्रिश्च' इति तन्नामसु पाठात् । प्रादुर्भूतं अभिव्यक्तं सरोजभुवः श्रियः ‘साऽहं वै पङ्कजे जाता’ इति महाभारतोक्तेः । दयितं वल्लभं घनसारः जलधरवरः ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः । तमिव सरसभासं आद्यं जगत्कारणं अतएव परं सर्वस्मादुत्तमं हरिं श्रीनिवासं सादरं यथा स्यात्तथा शिरसा आनमामि ।

 पक्षे--सरोजभूर्ब्रह्मा तस्मिन् दयाऽस्य सञ्जाता दयितः तारकादित्वादितच् । तं तथोक्तं, अतएव वेदगिरि निगमवाचि सादरं, अतएव प्रादुर्भूतं मधुकैटभनिर्वर्तितनिगमापहारनिर्विण्णे नीरजासने

एतस्मिन्नन्तरे राजन् देवो हयशिरोधरः। जग्राह वेदानखिलान् रसातलगतान् हरिः ॥

इति हयशिरउपाख्यानोक्तरीत्या वेदोद्धरणाय कृतावतारमित्यर्थः । घनसारः कर्पूरः 'अथ कर्पूरमस्त्रियाम् । घनसारः' इत्यमरः । तमिव सरसभासं रमणीयविशदसुषमं आद्यं शिरसा हरिं हयशिरसमित्यर्थः । 'इत्थंभूतलक्षणे’ इति तृतीया । परं अत्यन्तं आनमामि । अत्र श्रीनिवासहयाननयोरुभयोरपि नन्तव्यत्वेन प्रस्तुतयोरेव श्लेषः ॥ ३ ॥

 अन्योन्यानुगुणाधिकविकस्वरोल्लासिललितमधुरतमम् । विश्वालङ्करणं तद्विभातु मम हृदि सदातनं मिथुनम् ॥ ४ ॥

 अन्योन्यस्य परस्परस्य अनुगुणानि अधिकं विकस्वराणि उल्लासीनि उल्लासवन्ति यानि ललितानि विलासविशेषाः तैः मधुरतमम् । यद्वा-अन्योन्यानुगुणाधिकविकस्वरोल्लासोऽस्या स्तीति तथोक्तं भिन्नं पदम् । ललितमधुरतमं विश्वालङ्करणं सकललोकविभूषणभूतं सदातनं मिथुनं श्रीश्रीनिवासरूपं मम हृदि विभातु ।

 पक्षे--अन्योन्यं अनुगुणः अधिकं विकस्वरः उल्लासश्चेत्येतेऽलङ्कारा अस्मिन् सन्तीति तथोक्तम् । ललितेन ललितनाम्नाऽलङ्कारेण मधुरतमं विश्वं सर्वं अलङ्करणं अलङ्कारशास्त्रमित्यर्थः । यद्वा--‌विश्वानि अलङ्करणानि यस्मिन् विषयविषयिभावसम्बन्धेन सन्ति तत्तथोक्तं तद्रूपं मिथुनमिति योजना । स्पष्टमन्यत् । विवक्षितसूचनायायं श्लेषसंरम्भः ॥ ४ ॥

 युक्त्युल्लेखविचित्रप्रौढोक्तिनिदर्शनातिगम्भीरान् । सपरिकरसमाधिविधीन्वचसाऽलंकृतिमणीन्गुरून्कलये ॥ ५ ॥

 युक्तीनां उल्लेखेन ऊहेन विचित्रा आश्चर्यावहाः याः प्रौढाः प्रगल्भाः उक्तयः तासां निदर्शनेन प्रकाशनेन अतिगम्भीरान् सपरिकरः यमनियमादिपरिकरसहितः समाधिविधिः ध्यानविधानं येषां तान् अनारतपरब्रह्मध्यानबद्धादरानित्यर्थः । विशेषणद्वयेन ‘द्वे विद्ये वेदितव्ये’ इत्युक्तपरावरज्ञानोपादातृत्वं सूचितम् । कृतिमणीन् विद्वद्वरिष्ठान् गुरून् लक्ष्मीनाथाद्यस्मदाचार्यपर्यन्तान् अलं वचसा कलये स्तौमीत्यर्थः ।

 पक्षे--युक्तिः उल्लेखः विचित्रं प्रौढोक्तिः निदर्शनेत्येतैरलङ्कारविशेषेैः अतिगम्भीरान् परिकरः समाधिः विधिरित्येतैरलङ्कारैस्सह वर्तन्त इति तथोक्तान् गुरून् श्रेष्ठान् अलङ्कृतयो मणय इव अलङ्कृतिमणयः तान् वचसा कलये ग्रथ्नामीत्यर्थः । अत्र सूच्यार्थस्य श्लेषेण सूचनम् ॥ ५ ॥

 वकुलसरालङ्कारं सकलभवामयभरागदङ्कारम् । अशठान्तरङ्गसेव्यं शठारिमभ्येम्यहं दृढाभक्तिः ॥

 दृढा भक्तिर्यस्य सः दृढभक्तिः । अत्र दृढाशब्दस्य न पुंवद्भावः ‘स्त्रियाः पुंवत्' इत्यादिना पुंवद्भावविधौ ‘अपूरणीप्रियादिषु’ इति पर्युदस्ते प्रियादौ भक्तिशब्दस्य पाठात् । अत्राप्यलंकारशब्देन वक्ष्यमाणसूचनम् ॥ ६ ॥

 उपमोत्प्रेक्षागोचरमुद्धृतविषमप्रतीपदृष्टान्तम् । नाथमुनिं कलयेऽलं क्रियावतां ब्रह्मवेदिनां मान्यम् ॥ ७ ॥

 उपमोत्प्रेक्षायाः साम्यसम्भावनायाः अगोचरं असदृशमिति यावत् । उद्धृताः निर्मूलिताः विषमैः प्रतीपैः प्रतिमतकथकैः दृष्टाः अन्ताः निश्चयाः तेषां दृष्टान्ताश्शास्त्राणि वा येन तं निरस्तसकलविमतसिद्धान्तमित्यर्थः । ‘अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे’ इति रत्नमाला, ‘दृष्टान्तावुभे शास्त्रनिदर्शने' इत्यमरः । पक्षे--उपमोत्प्रेक्षे अलङ्कृती गोचरौ प्रतिपाद्यौ यस्य तं उद्धृताः स्थापिताः विषमं प्रतीपं दृष्टान्त इत्येतेऽलङ्कारा येन तं, अलं पर्याप्तं यथा स्यात्तथा क्रियावतां अननुसंहितफलकर्मानुष्ठानशालिनां अतएव ब्रह्मवेदिनां ब्रह्मविदां मान्यम्, अनेन 'क्रियावानेष ब्रह्मविदां वरिष्ठः' इति मुण्डकश्रुतिः प्रत्यभिज्ञाप्यते । पक्षे--अलङ्क्रियावताम् आलङ्कारिकाणां, अन्यत्सुगमम् । अत्रापि श्लेषमहिम्ना विवक्षितं सूचितम् ॥ ७ ॥

 साधुकलिताल्पसारावज्ञं यामुनमुनीन्द्रमामनवै । छेकोक्तिपरिग्रन्थितसाक्षेपप्रत्यनीकवक्रोक्तिम् ॥ ८ ॥

 साधु यथा स्यात्तथा कलिता कृता अल्पसारेषु ऐहिकफलसाधनकर्मप्रतिपादकवेदपूर्वभागेषु अवज्ञा तिरस्कारो येन तं 'असारमल्पसारं च सारं सारतरं त्यजेत्’ इत्युक्तरीत्या परित्यक्ताल्पसारमित्यर्थः । अनेन असाररूपबाह्यकुदृष्टिशास्त्रावज्ञानं कैमुतिकन्यायसिद्धम् । इदं आमुष्मिकफलप्रतिपादकवेदभागरूपसारावज्ञायाः आत्मतत्प्राप्तिसाधनमात्रप्रतिपादकांशलक्षणसार‌तरावज्ञायाश्चोपलक्षणम् । अनेनैव 'भजेत्सारतमं शास्त्रे रत्नाकर इवामृतम्' इत्युक्तरीत्या परमात्मतत्प्राप्तिसाधनप्रतिपादकवेदप्रदेशरूपसारतमनिष्ठता चार्थसिद्धा । छेकाः विदग्धाः याः उक्तयः ताभिः परिग्रन्थिताः बाधिताः क्रान्ता इति वा, साक्षेपाः आक्षेपसहिताः प्रत्यनीकानां प्रतिमतकथकानां वक्रोक्तयः अनृजुव्याहाराः येन तं तथोक्तं ‘ग्रन्थितं गुम्भिते क्रान्ते हिंसिते च त्रिलिङ्गकम्' इति मेदिनी । पक्षे--साधु यथा स्यात्तथा क लिताः रचिताः अल्पं सारः अवज्ञा चेत्येता अलङ्कृतयो येन तं, छेकोक्तिः तन्नामालङ्कृतिः तया परिग्रन्थिते गुम्भिते मिश्रिते इत्यर्थः । आक्षेपेण तन्नाम्नाऽलङ्कारेण सह वर्तेते इति साक्षेपे, प्रत्यनीकं च वक्रोक्तिश्चेत्येते अलङ्कृती येन तं तथोक्तम् । यामुनमुनीन्द्रं आमनवै ध्यायानि । मनु अवबोधने, लोट्, उत्तमैकवचनम् । सूचनं पूर्ववत् ।  यश्चक्षुश्श्रुतिनाथस्त्रातुं वेदान्मुनित्वमभिपद्य । श्रुतिचक्षुरग्रगण्यो बभूव तमिमं भजेय भाष्यकृतम् ॥ ९ ॥

 चक्षुश्श्रुतिनाथः शेषः वेदान् त्रातुं अर्थतः शब्दतश्च रक्षितुं मुनित्वं रामानुजमुनित्वं पतञ्जलिमुनित्वं चाभिपद्य प्राप्य श्रुतिचक्षुषां वेदविदां अग्रगण्यो बभूव । आदौ चक्षुश्श्रुतिनाथः मुनित्वे श्रुतिचक्षुरग्रगण्य इत्येतदेव वैलक्षण्यमिति भावः । भाष्यकृतं श्रीभाष्यकारं महाभाष्यकारं च भजेय ॥ ९ ॥

 स्मृतिसन्देहभ्रान्तिमदसंगतिविकल्पमीलनोल्लासी । वेदान्तदेशिकमणिर्मोदान्विदधातु जगदलङ्कारः ॥ १० ॥

 स्मृतिषु मानवादिधर्मसंहितासु सन्देहभ्रान्तिमतां संशयभ्रमवतां कौतस्कुतानां असङ्गतयः सङ्गतिरहिताः असम्बद्धा इत्यर्थः । ये विकल्पाः तेषां मीलने निरासे उल्लासी । पक्षे—स्मृत्याद्युल्लासान्तास्सप्तालङ्काराः ते सन्त्यस्मिन्निति तथोक्तः । इदमुपलक्षणं सर्वालङ्कारवत्तायाः ॥ १० ॥

 श्रीब्रह्मतन्त्रकलिरिपुगुर्वास्थानीधुरन्धरानखिलान् । हृदि भावयेऽत्युदारान्वसुधालङ्कारमणिहारान् ॥ ११ ॥

 वसुधालङ्कारमणिहारानित्यनेन अलङ्कारमणिहार इति विवक्षितप्रबन्धनामसूचनम् ॥ ११ ॥  अतिमात्रा प्रतिपत्तिश्श्रीशे यस्याद्भुता जनैर्ददृशे । सुमहान्परकालमुनिस्स मदन्वयशेखरो गुरुर्जयतात् ॥ १२ ॥

 यस्य गुरोः श्रीशे भगवति विषये अतिमात्रा मात्रामतिक्रान्ता अतिवेला प्रतिपत्तिः गौरवं प्रबोधो वा-

प्रतिपत्तिः प्रवृतौ च प्रागल्भ्ये गौरवेऽपि च ।
संप्राप्तौ च प्रबोधे च पदप्राप्तौ च योषिति ॥

इति मेदिनी । पक्षे–अविद्यमानं तिमात्रं तिवर्णमात्रं यस्यां सा प्रतिपत्तिः प्रपत्तिः भरन्यसनमित्यर्थः । प्रतिपत्तिशब्दे तिवर्णापनयने प्रपत्तिरिति निष्पत्तेः, शब्दार्थयोस्तादात्म्यमिह शरणम् । अद्भुता आश्चर्यावहा सती जनैः ददृशे । भगवति यस्य गौरवं ज्ञानं प्रपदनं चात्याश्चर्यावहतया जनैर्दृष्टानीत्यर्थः । प्रपदनस्याश्चर्यत्वं च अनेनाचार्येणातिमात्रार्ततया प्रपदनमनुष्ठाय स्वाभीप्सित एव समये मोक्षसाम्राज्यस्यासादितत्वादिति तद्वैभवप्रकाशिकादिषु सुस्पष्टम् । ददृशे इत्यनेन सर्वलोकसाक्षिकत्वमीदृशप्रपदनस्य दर्शितम् । मदन्वयस्य विद्यया जन्मना च मद्वंशस्य शेखरः । उभयोरपि श्रीशैलघनगिर्यप्पलार्यवंश्यत्वात्तथोक्तिः ॥ १२ ॥

 वादाः कुदृशां शमिता जलदेनेव प्रतीपताभाजः । येन स गुरुर्विजयतां श्रीवासब्रह्मतन्त्रपरकालः ॥ १३ ॥

 जलदेन प्रतीपताभाजः प्रतिलोमतां प्राप्ता वादाः दावाः इत्यर्थः । त इव, अर्थगतं बहुत्वं शब्दे आरोप्यते । येन आचार्येण प्रतीपताभाजः प्रातिकूल्यभाजः कुदृशां वादाः शमिताः । स्पष्टमन्यत् ॥ १३ ॥

 शरणगतजनपुनर्भवभयापनेता जयाय मे भवतात् । श्रीवासदेशिकेन्द्रोपपदश्रीब्रह्मतन्त्रयतिनेता ॥ १४ ॥

 एकेन येन बुधता गुरुता कविता च दर्शिताविधुता । दुर्ग्रहबाधां शमयतु स श्रीरङ्गेन्द्रकलिरिपुयतीन्द्रः ॥ १५ ॥

 येन एकेनैव विधुता चन्द्रता पक्षे अविधुता अप्रकम्पिता अन्यापरिभावनीयतेत्यर्थः । बुधता सौम्यता प्राज्ञता च, गुरुता वाक्पतिता आचार्यता च कविता भार्गवता काव्यकर्तृता च दर्शिता । दुर्ग्रहबाधां दुष्टग्रहाणां कुजादीनां पीडां दुराग्रहव्यसनितां च शमयतु । एकस्यैवास्य चन्द्रबुधादिशुभग्रहरूपत्वात् दुर्ग्रहबाधाशमनपटीयस्त्वमस्तीति भावः । अन्यत्सुगमम् ॥१५॥

 तातार्यस्य गुरोर्मे ख्यातात्मगुणस्य चरणनळिनयुगे । अतिवेलं लगतु मनः प्रतिलोमं वाऽनुलोमं वा ॥ १६ ॥

 प्रतिलोमं मनः नम इत्यर्थः । प्रतिलोमानुलोमशब्दयोः ‘अच्प्रत्यन्ववपूर्वोत्सामलोम्नः' इत्यच् ॥ १६ ॥

 नवदुर्गतातदेशिककृष्णाम्बासूनुरातनोतीमम् । श्रीशैलान्वयजन्मा कृष्णोऽलङ्कारमणिहारम् ॥ १७  श्रीश्रीनिवासमनुपममुपमाद्यैरखिलजगदल ङ्कारम् । अञ्चामोऽलङ्कारैर्वाञ्छामस्माकमेष सफलयतात् ॥ १८ ॥

 चपलोसावुद्युङ्क्ते विपुलालङ्कारवर्णनव्याजात् । भगवत्स्वरूपरूपप्रभावगुणविभवलेशमभिधातुम् ॥

 वाणीं हरिगुणभणनात्कृतार्थयितुमेव कृतिरियं क्रियते । ललिततया बालानामुपकुर्याच्चेत्प्रकाममुपकुरुताम् ॥ २० ॥

 आरचये कृतिमेतामात्मीयैर्लक्ष्यलक्षणैरेव । यक्षाधिपो नवनिधिर्भिक्षाक इवान्यवसु किमादत्ते ॥ २१ ॥

 आनुष्टुभेन लक्षणमार्याजातेन लक्ष्यजातमपि । वृत्तेन विरचयेऽहं यत्तेन प्रीयतां फणिगिरीशः ॥ २२

 श्रीपतिरहिगिरिनिलयः प्रापयतु नितान्तहृद्यतामेनम् । स्वोपज्ञलक्ष्यलक्षणरूपमलङ्कारमणिहारम् ॥ २३ ॥

 देवच्छन्दोऽनुगुणो दीव्यादुपमादिसरससरशतभाक् । लक्ष्मीवल्लभहृदये ललितोऽलङ्कारमणिहारः ॥ २४ ॥  देवस्य श्रीनिवासस्य छन्दसः अभिलाषस्य अनुगुणः अनुरूपः ‘छन्दः पद्येऽभिलाषे च' इति सान्तनानार्थेष्वमरः । श्रीनिवासप्रीत्युचित इत्यर्थः । पक्षे अनुगतो गुणेन अनुगुणः ‘अवादयः क्रुष्टाद्यर्थे तृतीयया’ इति समासः । उपमादयः अलङ्कारा एव सरसाः रमणीयाः सराः यष्टयः तेषां शतं भजतीति तथोक्तः । 'लतिका लडिका यष्टिस्तुल्यार्थास्स्युस्सरस्सरिः' इत्युक्तेः । अत एव देवच्छन्दः तन्नामा, ‘देवच्छन्दोऽसौ शतयष्टिकः' इत्यनुशासनात् । ललितः अलङ्कारमणिहारः एतन्नामा प्रबन्धः । पक्षे-–अलङ्काररूपश्चासौ मणिहारश्च लक्ष्मीवल्लभस्य हृदये मनसि वक्षसि च दीव्यात् प्रकाशताम् ॥ २४ ॥

 सिन्धुमिवास्मद्ग्रन्थं मन्थानेनेव चेतसा मथ्नन् । विषमिव दोषं हित्वा मणिमिव गुणमाददातु विबुधेन्द्रः ॥ २५ ॥

इत्यलङ्कारमणिहारे अलङ्कारप्रबन्धे उपोद्धातः




जयतु श्रीवृषाद्रिस्थं जगत्रितयरक्षणम् ।
वदान्यं परमं ब्रह्म वक्षोऽलङ्कारलक्षणम् ॥ १ ॥

 वक्षसः अलङ्कारः आभरणभूतं लक्षणं श्रीवत्सचिह्नं यस्य तत् । अनेनालङ्कारलक्षणत्वमस्यानुष्टुभप्रबन्धस्य सूचितम् । अयमलङ्कारलक्षणारम्भश्लोकः ॥