अलङ्कारमणिहारः (भागः १)/उपमालंकारसरः (१)

विकिस्रोतः तः
Jump to navigation Jump to search

अथोपमालङ्कारसरः(१).


उद्भूता भाति साम्यश्रीरुभयोर्यत्र सोपमा ।

 यत्र काव्ये उभयोरुपमानोपमेययोस्सहृदयहृदयाह्लादिनी सादृश्यलक्ष्मीः चारुसादृश्यमिति यावत्, उद्भूता व्यङ्ग्यभावमन्तरेण स्फुटतमा सती भाति निषेधाप्रतियोगितया लसति तत्रोपमालङ्कार इत्यर्थः । अत्र यत्र द्वयोस्सादृश्यं वर्ण्यते तत्रोपमालङ्कार इत्येतावदुक्तौ ‘ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्' इत्यादौ उपमालङ्कारापत्तिः, तत्र काव्यशशिनोरर्थरश्मीनां च सहृदयहृदयाह्लादिधर्मसाम्येन सादृश्यप्रतीतेः । अत उपमानोपमेययोरित्युक्तम् । कविसमयप्रसिद्ध्या उपमानोपमेयत्वयोग्ययोरित्यर्थः । न हि काव्यशशिनोरुपमानोपमेयत्वयोग्यताऽस्तीत्यदोषः । ‘गोसदृशो गवयः' इत्यादौ गोगवययोस्तथात्वेऽपि नोपमालङ्कार इति तत्रातिव्याप्तिवारणाय सहृदयहृदयाह्लादिनीति । इदं सहृदयहृदयाह्लादित्वविशेषणं सर्वालङ्कारलक्षणानुयायि । अतएव 'गौर्वाहीकः' इत्यादौ न रूपकं, 'स्थाणुर्वा पुरुषो वा' इति न सन्देहः' ‘इदं रजतम्’ इति न भ्रान्तिमान्, ‘नेदं रजतं किं तु शुक्तिः' इत्यादौ नापह्नव इत्याद्याहुः । उद्भूतेति व्यङ्ग्योपमाव्यावृत्त्यर्थम्—-

समराङ्गणमारूढं भवन्तं पश्यतां नृणाम् ।
भवं कल्पान्तसंक्रुद्धं द्रष्टुं नोत्कण्ठते मनः ॥

इत्यादौ तथाभूतं त्वां दृष्टवतस्तथाभूतभवदर्शनमासीदिति प्रतीतेः किञ्चित्कुर्वतोऽशक्यवस्त्वन्तरकृतिरूपविशेषालङ्कारः । तेन च तथाभूतो भव इव तदा त्वं स्थित इत्युपमा व्यज्यते ।  अत्रोपमाया व्यङ्ग्यायाः प्राधान्येनालङ्कार्यता, न त्वलङ्कारता । अत उद्भूतेत्यस्याव्यङ्ग्यत्वपर्यवसानादस्य न व्यङ्ग्योपमायामतिव्याप्तिः। निषेधाप्रतियोगित्वविवक्षणात् व्यतिरेकव्युदासः । ततश्च सहृदयहृदयाह्लाददायित्वे सत्यव्यङ्ग्यं सादृश्यमुपमेत्येतावदेव लक्षणमिह विवक्षितम्, न तूपमानोपमेयत्वयोग्ययोरित्यपि, ‘ग्रथ्नामि काव्यशशिनम्’ इत्यादौ चारुत्वाभावादेवातिव्याप्त्यसंभवात् । अतएव उभयोस्साम्यश्रीरित्येवोक्तं, तदप्यनन्वयेऽतिव्याप्तिनिरासाय ।


 न चैवमप्युपमेयोपमाप्रतीपयोरतिव्याप्तिः। तयोरुक्तसादृश्यवर्णनसत्त्वेनोपमालङ्कारान्तर्भावस्येष्टत्वात्, तृतीयसदृशव्यवच्छेदस्य प्रसिद्धोपमानप्रातिलोम्येन प्रसिद्धोपमेयोत्कर्षस्याधिकस्य तत्र फलस्य सद्भावेन तत एव तयोरुपमायाः पृथगुक्तेः, उपमेयोपमायां प्रकृताप्रकृतगोचरोपमाद्वयरूपतया प्रतीपे अप्रकृतविषयतया च तस्याः प्रतीतेः । अन्यथा अप्रकृतविषयस्मृत्यादेरपि प्रकृतवषयस्मरणादितोऽलङ्कारान्तरत्वापत्तेश्च । अतएव 'प्रतीपमुपमेयोपमा चेत्युभयमपि सङ्ग्राह्यमेवेति न तद्व्यापनं लक्षणस्य दोषः' इति चित्रमीमांसायामुपमालक्षणपरिष्करणावसरे कण्ठरवेणैव प्रतिपादितम् ।


 केचित्तु--सादृश्यप्रतीतिमात्रोद्देश्यककविसंरम्भविषयीभूतचारुसादृश्यमुपमेति विवक्षितम् । तेन अनन्वयोपमेयोपमाप्रतीपेषु न क्वाप्यतिव्याप्तिः, तत्र सादृश्यस्यानुपमत्वद्योतनतृतीयसदृशव्यवच्छेदोपमेयोत्कर्षफलकत्वेन कविसंरम्भगोचरतया सादृश्यबोधमात्रोद्देश्यककविसंरम्भविषयत्वविरहादित्याहुः ॥  इदं कुवलयानन्दकृदनुरोधेन । रसगङ्गाधरकृदनुरोधेन त्वेवं लक्षणम्--

वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा ॥ २ ॥

 सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालङ्कृतिः । चारुत्वं च चमत्काराधायकत्वं, चमत्कारश्चानन्दविशेषस्सहृदयहृदयसाक्षिकः। ‘सागरस्सागरोपमः' इत्याद्यनन्वये सादृश्यस्य द्वितीयसतीर्थ्यनिवर्तनमात्रार्थमुपात्ततया स्वयमप्रतिष्ठानादचमत्कारित्वमेव । अतएव तस्यान्वयाभावादनन्वयं तमभिदधते । ‘नाथत्वद्वदनौपम्यं कथं धत्तां सुधाकरः' इत्यादिव्यतिरेके चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनस्सादृश्यस्य निरूपणमचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापह्नुतिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तूपमादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकत्वेनावस्थितस्यापि सादृश्यस्य चमत्कारितावैधुर्येण नास्त्युपमालङ्कारत्वम् । 'मुखमिव चन्द्रः' इति प्रतीपे, ‘चन्द्र इव मुखं मुखमिव चन्द्रः' इत्युपमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसङ्गश्शङ्क्यः, तयोस्सङ्ग्राह्यत्वात् ॥


 ननु--‘त्वयि कोपो ममाभाति सुधांशाविव पावकः' इत्यादावुपमानस्यातिमात्रमसम्भाविततया न तावत्सादृश्यमेव शक्यं प्रतिपत्तुं, चमत्कारः पुनर्दवीयानेवेति चेत्-कविना हि खण्डशः पदार्थोपस्थितिमता यथेप्सितं संभावितत्वेनाकारेण सुधाकराधिकरणकं पावकं परिकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात् । न च कल्पितमसत्सादृश्यं कथंकारं चमत्कारमारचयेदिति वाच्यम् । सुकुमारसुन्दरतरसुवर्णप्रतिमात्वेन । भावनया पुरतस्स्थिताया वनितायाः परिरम्भस्य प्रियम्भावुकतादर्शनात् । उपमानोपमेययोस्सत्त्वस्य लक्षणे प्रवेशाभावान्नात्र दोषगन्धोऽपि ॥ अतएव--

स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥

इत्यादावपि नानुपपत्तिः ॥

 परे तु–-अस्याः कल्पितोपमाया उपमानान्तराभावफलकत्वेनालङ्कारान्तरतामाहुः । तन्न-- सादृश्यस्य चमत्कारितयोपमान्त र्भावस्यैवोचितत्वात्, सन्निरूपितत्वस्य लक्षणे प्रवेशाभावात् । उपमानान्तराभावफलकत्वं ह्युपमाविशेषत्वे साधकं न तूपमाबहिर्भावे इति ॥

पूर्णा लुप्तेत्यलंकारतत्त्वज्ञैस्सा द्विधोदिता । उपमानं चोपमेयं धर्मो वाचकमित्यदः ।
चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता ॥ ३ ॥

 यथा--

 आनन्दनिलयनामनि विमानधामनि विभासमानं तत् । धाम चिरत्नं रत्नं श्यामलमिव हैमसंपुटे जयति ॥ २६ ॥

 अत्र श्यामलं रत्नं चिरत्नं धाम विभासमानं इवशब्दश्चेत्येतेषामुपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाना दियं पूर्णोपमा । इदं कुवलयानन्दानुसारेणोदाहरणम् ॥

 रसगङ्गाधरानुसारेण तु यथा--

 कृपया सुमहाजालाकृष्टान्मीनानिवाहिशैलमणे । मोचयसि मोहजालाविष्टान्दीनान्कदा नु खल्वेनान् ॥ २७ ॥

 अत्र प्रतीयमाना उपमा समग्रवाक्यार्थस्य कदेति शान्तरसस्य सूचितचिन्तोपस्करणद्वारा उपस्कारकतयाऽलङ्कारः ॥

वर्ण्योपमानयोर्धर्मोपमावाचकयोरपि ।
एकद्वित्र्यनुपादाने भवेल्लुप्तोपमाऽष्टधा ॥ ४ ॥

 वर्ण्यमुपमेयं उपमेयादीनामेकस्य द्वयोस्त्रयाणां वाऽनुपादाने लुप्तोपमा । सा चाष्टविधा भवेत् ॥

वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा ।
वर्ण्यवाचकयोर्लोपे तत्तल्लुप्ताः खलूपमाः ॥ ५ ॥
उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता ।
प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदैः ॥ ६ ॥
धर्माोपमानलुप्ताऽन्या लाेपे धर्मोपमानयोः ।
अष्टमी धर्मोपमानवाचकानां विलोपने ॥ ७ ॥

 तामेव विभजते--अत्र वाचकादीनां लोपे तत्तल्लुप्ताः । तथाहि--१. वाचकलुप्ता । २. धर्मलुप्ता । ३. धर्मवाचकलुप्ता । ४.उपमेयवाचकलुप्ता । एवमुपमानलोपरहिताश्चत्वारो भेदाः । ५.उपमानलुप्ता । ६.वाचकोपमानलुप्ता । ७. धर्मोपमानलुप्ता । ८.धर्मोपमानवाचकलुप्ता । एवमुपमानलोपसहिताश्चत्वारो भेदाः इति लुप्तोपमा अष्टविधाः ॥

 तत्र वाचकलुप्ता यथा--

 चन्दिररुचिरनिटालं सुन्दरतरवार्षिकाम्बुदविनीलम् । मन्दरधरमहिगिरिपतिकन्दरधामास्तु नाम हृदि धाम ॥ २८ ॥

 अत्र चन्दिररुचिरनिटालं सुन्दरतरवार्षिकाम्बुदविनीलमित्युभयत्रापि वाचकलोपः चन्दिर इव रुचिरं वार्षिकाम्बुदमिव विनीलमित्यर्थे “उपमानानि सामान्यवचनैः' इति समासविधायकशास्त्रनिबन्धनः ॥

 धर्मलुप्ता यथा--

 शरदिन्दुसदृशवदनं स्फुरदिन्दिरमहिगिरीन्द्रकृतसदनम् । कुन्दसुमोपमरदनं बृन्दं महसां धुनोतु भयकदनम् ॥ २९ ॥

 भयकदनं भवभयसंमर्दं ‘कदनं मर्दने पापे' इति विश्वः । अत्र शरदिन्दुसदृशवदनं कुन्दसुमोपमरदनमित्युभयत्रापि धर्मलोपः। स त्वैच्छिकः न तु शास्त्रविहितः आह्लादनादिना शरदिन्दुसदृशवदनमित्यादेरपि सुवचत्वात् ॥ यथा वा--

 कुसुमसमे लावण्ये सरिज्झरीवेगसदृशि तारुण्ये । आयुषि तृणानलनिभे फणाभृदद्रीश नैव विश्वसिमः ॥ ३० ॥

 अत्र क्षिप्रम्लानत्वमेकथाऽनवस्थानं सद्योनिर्वाणत्वं च समानधर्मा अनुपात्ताः ॥

 धर्मवाचकलुप्ता यथा--

 चन्दनगिरिकन्दरचरसुन्दरतरगन्धवाहशाबन्ती । भिन्तामपाङ्गरेखा सन्तापं दन्दशूकगिरिनेतुः॥ ३१

 अत्र गन्धवाहशाबन्तीत्यत्र धर्मवाचकलुप्ता । गन्धवाहशाब इवाचरन्तीत्यर्थे विहितस्य गन्धवाहशाबवदानन्दनात्मकाचारार्थकस्य क्विपः इवशब्देन समं लोपात् । अत्र धर्मलोप ऐच्छिकः आनन्ददायितया गन्धवाहशाबन्तीति तदुपादानस्यापि सम्भवात् । भिन्तां भिनत्तु । भिदेः रौधादिकस्य स्वरितेत्त्वात्तङि लोट् ॥ ३१ ॥

 उपमेयवाचकलुप्ता यथा --

 मुनिमनसामपि दूरे स्वकृतविहारेऽलमुपनिषत्सारे। परमपदीयति विभवैः परमे न रमेत फणिगिरौ को वा ॥ ३२ ॥
 उपनिषत्सारत्वेनाध्यवसिते श्रीनिवासे स्वकृतविहारे सति--

मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥

इत्युक्तप्रकारेण स्वस्मिन्विहरमाणे सतीत्यर्थः । परमपदीयतीत्यत्र वाचकोपमेयलोपः आत्मानमित्युपमेयस्योपमावाचकेन सहानुपादानात्। नच - 'उपमानादाचारे’ इत्युपमानादाचारार्थे क्यचो विधानात्परमपदमिवाचरतीत्यर्थावगमेऽप्यात्मानमित्यस्य कथं निर्णयः अन्यस्यापि तत्सम्भवादिति वाच्यम् ।परमपदानुरूपाचरणस्य विभवकरणकत्वरूपविशेषणसामर्थ्येन तदवगमात्, तथाविधाचरणे विभवानां स्वारसिकतया स्वकीयत्वावगतेः । अयं च लोप ऐच्छिकः, स्वात्मानं परमपदीयतीत्युपमेयोपादानस्यापि सम्भवात् ॥ ३२ ॥

 उपमानलुप्ता वाचकोपमानलुप्ता च यथा-

 द्विरदसमालसगमनं सुरगिरिगुरुधैर्यमखिलभयशमनम् । हरिमीडे रिपुदमनं द्विरसनगिरिसदनमिन्दिराकमनम् ॥ ३३ ॥

 अत्राद्ये पादे द्विरदसमालसगमनमित्यत्र द्विरदगमनस्योपमानस्यानुपादानादुपमानलुप्ता । द्वितीयपादे सुरगिरिगुरुधैर्यमित्यत्र वाचकस्य इवादेस्सुरगिरिधैर्यस्योपमानस्य चानुपादानाद्वाचकोपमानलुप्ता ॥

 धर्मोपमानलुप्ता धर्मोपमानवाचकलुप्ता च यथा--

 जलनिधिनिभगाम्भीर्यं कलये हृदि कल्पका- गमौदार्यम् । निलयितशेषाहार्यं जलधिसुताचित्तहारि सौन्दर्यम् ॥ ३४ ॥

 सौन्दर्यमितीदं भिन्नं पदं, तत्त्वेनाध्यवसितो भगवान्श्री निवास इत्यर्थः । अत्र जलनिधिनिभगाम्भीर्यमित्यत्र निरवधिकत्वादेस्साधारणधर्मस्य जलनिधिगाम्भीर्यस्योपमानस्य चानुपादानाद्धर्मोपमानलुप्ता । कल्पकागमस्यौदार्यमिवौदार्यं यस्य तदितिविग्रहे निरवशेषाभीष्टार्थपरिपूरणादेर्धर्मस्य कल्पकागमौदार्यस्योपमानस्य इवादेर्वाचकस्य चानुपादानाद्धर्मोपमानवाचकलुप्ता । अन्यदग्रे वक्ष्यते ॥

एवं कुवलयानन्दप्रकारेणोपमोदिता ।
प्राचां मते विभागोऽस्या उपमायाः प्रपञ्च्यते ॥
पूर्णा लुप्तेति भेदेन द्विविधा सा तयोः पुनः ॥
श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा ।
तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक् ॥८

 प्राचीनानामालंकारिकाणां मते उपमा पूर्णा लुप्तेति द्विविधा । तयोर्मध्ये पूर्णा श्रौती आर्थीति द्विविधा ते श्रौत्यार्थ्यौ द्वे अपि पृथक्पृथक् वाक्यगा समासगा तद्धितगेति त्रेधा स्यातामिति पूर्णोपमा षड्विधा भवतीत्यर्थः ॥

यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् ।
उपादाने भवेच्छ्रौतीत्याहुश्शास्त्रविचक्षणाः ॥ ९ ॥

ये धर्मिव्यवधानेन सादृश्यप्रतिपादकाः ।
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगतः ॥ १० ॥

 श्रौतीमार्थीं च लक्षयति । यथेत्यादिना-- साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती श्रुत्या सादृश्यप्रतिपादनात् । वादीत्यादिशब्देन 'तत्र तस्येव' इति विहितवतेर्ग्रहणम् । तस्य इवार्थे विहितत्वात् । सादृश्यविशिष्टधर्मिपर्यन्ततुल्यसदृशसदृङ्निभसङ्काशादिशब्दानां प्रयोगे आर्थी, अर्थसिद्धत्वात् । निभादीत्यादिशब्देन 'तेन तुल्यं’ इति विहितवतेर्ग्रहणम् । तस्य तुल्यार्थे वािहितत्वात् । यद्यपि यथेववादिपदानि यस्माच्चन्द्रादिपदात्पराणि प्रयुज्यन्ते, तानि तदर्थस्य चन्द्रादेरुपमानत्वप्रतीतेरुपमानविशेषणानि सन्ति स्वसमभिव्याहृतपदार्थस्योपमानत्वप्रतीतिप्रयोजकानि । न तु मुखादेरुपमेयत्वप्रतीतिप्रयोजकानि । तथाऽपि यथा राज्ञः पुरुष इत्यत्र षष्ठ्यास्स्वसमभिव्याहृतप्रातिपदिकार्थे राज्ञः स्वार्थभूतसम्बन्धप्रतियोगित्वप्रतीतिप्रयोजकत्वेऽपि पुरुषपदसमभिव्याहारे सति व्युत्पत्तिमहिम्ना तदनुयोगित्वप्रतीतिरपि तथा मुखादिसमभिव्याहारे मुखाद्यनुयोगित्वप्रतीतिरपि सम्भवति । एतेन पद्ममिव मुखमित्यत्र पद्मसादृश्यं मुखमिति प्रतीतिस्स्यात्, न तु पद्मसदृशं मुखमिति परास्तम् । यथा राज्ञः पुरुष इत्यत्र प्रकृतिप्रत्ययपुरुषपदैः राजा संबन्धः पुरुष इति प्रतीतावपि समभिव्याहारवशाद्राजसम्बन्धी पुरुष इति प्रतीतिः, तथैव व्युत्पत्तेः। एवमत्रापि विशिष्टप्रतीत्युपपत्तिरित्याहुः प्राञ्चः ।

 वस्तुतस्तु—इवार्थस्सादृश्यमेव । तच्च नोपमानस्य चन्द्रादेर्विशेषणम् । किं तु उपमानभूतश्चन्द्रादेरेव सादृश्ये प्रतियोगितासम्बन्धेन विशेषणम् । चन्द्रादिविशेषितं च सादृश्यं मुखादावनुयोगितासम्बन्धेनान्वेति । चन्द्रप्रतियोगिकसादृश्यानुयोगिमुखमित्याकारकश्चन्द्र इव मुखमित्यादौ बोध इति बोध्यम् ॥

 तत्र श्रौती त्रिविधा यथा--

 गगनं यथा फणीश्वरनगपतिहृदयं विनीलमुज्ज्वलति । तारावळिरिव हारावळिरार्द्रावच्च कौस्तुभे शोभा (कौस्तुभस्य श्रीः) ॥ ३५ ॥

 अत्र गगनं यथेत्यादिविनीलमित्यन्ते श्रौती वाक्ये पूर्णा यथेत्यसमस्तस्य वाचकस्य गगनमित्युपमानस्य फणीश्वरनगपतिहृदयमित्युपमेयस्य विनीलमिति साधारणधर्मस्य चोपादानात् । तारावळिरिव हारावळिरित्यत्र समासे श्रौती पूर्णा । 'इवेन सह समासो विभक्त्यलोपश्च' इति इवशब्दयोगे समासस्य विभक्त्यलोपस्य च स्मरणात् । वाचकादीनां चतुर्णामुपादानाच्च । आर्द्रावत्कौस्तुभे शोभेत्यत्र तद्धिते श्रौती पूर्णा । सप्तमीसमर्थाद्वतेः 'तत्र तस्येव' इति सूत्रेण इवार्थविहितवतेर्वाचकस्य उपमादीनां त्रयाणां चोपादानात् आर्द्रायामिव आर्द्रावदिति विग्रहः । कौस्तुभस्य श्रीरिति पाठे आर्द्राया इवेति विग्रहः षष्ठीसमर्थादप्युक्तसूत्रेणैव वतेर्विधानात् ॥ ३५ ॥

 आर्थी त्रिविधा, पूर्णा यथा--

 शशधरबिम्बेन समो विशदतया कुन्दबृन्दसङ्काशः । धवळसरोरुहवदयं प्रविलसति करोदरे हरेश्शङ्खः ॥ ३६ ॥  शशधरबिम्बेन समो विशदतयेत्यत्रार्थी पूर्णा वाक्ये । विशदतयेत्येतत्सर्वत्रान्वेति । कुन्दबृन्दसङ्काश इत्यत्रार्थी समासे पूर्णा । धवळसरोरुहवदित्यत्रार्थी तद्धिते पूर्णा ‘तेन तुल्यं क्रिया चेद्वतिः' इति तुल्यार्थविहितस्य तद्धितस्य वतिप्रत्ययस्योपादानात् । एवं षड्विधाऽपि पूर्णा संक्षेपत उदाहृता ॥

 अथ लुप्तास्सामान्यतो विभजते--

त्रिविधा स्यादेकलप्ता द्विलुप्ता तु चतुर्विधा ।
एकरूपा त्रिलुप्तेति लुप्ता सामान्यतोऽष्टधा ॥ ११ ॥
धर्मस्याथोपमानस्य वाचकस्य विलोपने ।
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा ॥ १२ ॥
धर्मवाचकयोर्लोपे तथा धर्मोपमानयोः ।
वर्ण्यवाचकयोस्तद्वद्वाचकावर्ण्ययोरपि ॥ १३ ॥
त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपतः ॥

 धर्मलुप्ता, उपमानलुप्ता, वाचकलुप्ता चेति त्रिविधा एकलुप्ता । द्विलुप्ता तु- धर्मवाचकलुप्ता, धर्मोपमानलुप्ता, उपमेयवाचकलुप्ता, वाचकोपमानलुप्ता चेति चतुर्विधा । त्रिलुप्ता तु--धर्मवाचकोपमानलुप्तेत्येकविधेति सामान्यतो लुप्ताऽष्टविधा ॥

 यथा--

 त्वं निधिरिव तव सदृशो नैव विभुर्जलदनीलजलजाक्ष । तव सौशील्यमतुल्यं मित्रीयसि नतजनेऽब्धिगाम्भीर्यः ॥ ३७ ॥  त्वं निधिरिवेत्यत्र भोग्यत्वादिधर्मानुपादानाद्धर्मलुप्ता ॥१॥ तव सदृशो विभुर्नैवेत्युपमानस्य सामान्यतो निषेधादुपमानलुप्ता॥२॥ जलदनीलेत्यत्र जलद इवेति वाचकानुपादानाद्वाचकलुप्ता ॥३॥ जलजाक्षेत्यत्र जलजे इवाक्षिणी यस्येति प्रसन्नतादेर्धर्मस्य वाचकस्य चानुपादानाद्धर्मवाचकलुप्ता ॥४॥ तव सौशील्यमतुल्यमित्यत्र लोकोत्तरत्वादेर्धर्मस्य अतुल्यमिति निषेधेनोपमानस्य चानुपादानाद्धर्मोपमानलुप्ता ॥५॥ मित्रीयसि नतजने इत्यत्र मित्रमिवात्मानमाचरसीत्युपमेयभूतस्यात्मनो वाचकस्य चानुपादानादुपमेयवाचकलुप्ता ॥६॥ वाचकोपमानलुप्ता त्वग्रे उदाहरिष्यते । अब्धिगाम्भीर्य इत्यत्र अब्धेर्गाम्भीर्यमिव गाम्भीर्यमित्यस्मिन्नर्थे उपमानस्य वाचकस्य धर्मस्याप्यनुक्तेर्धर्मवाचकोपमानलुप्ता ॥७॥ इति सामान्यतस्सप्त लुप्तोदाहरणानि संगृहीतानि ॥

क्रमेण धर्मलुप्तादेर्विभागोऽथ प्रदर्श्यते ॥१४॥


पूर्णावद्धर्मलुप्ताऽपि श्रौत्यार्थीति द्विधा भवेत् ॥
तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः ॥ १५ ॥

 शुद्धधर्मलुप्ता पूर्णावदेव श्रौती आर्थी चेति द्विधा भवेत् । वाक्य समासे तद्धिते च भवेत् । तत्र श्रौती धर्मलुप्ता तु तद्धिते न सम्भवेत् षष्ठीसमर्थात्सप्तमीसमर्थाद्वा विहितस्य वतेर्धर्मोपादानं विनाऽन्वयसौकर्याभावात् न हि भवति मधुरावत्पाटलिपुत्रे पाटलिपुत्रस्य वेत्यत्र प्राकार इति धर्मोपादानं विनाऽन्वयसौकर्यम्। तद्धिताधिकारविहितकल्पब्देश्यादिप्रयोगेऽपि कृष्णकल्पः कृष्णदेश्य इत्यादौ धर्मिसामानाधिकरण्यप्रतीतेरार्थ्येवेति श्रौत्या धर्मलुप्ताया असंभवात्सा पञ्चविधैव ॥  ननु-'इवे प्रतिकृतौ’ इत्यधिकारे इवार्थविहितच्छादिप्रत्ययान्तानां 'कुशाग्रीया बुद्धिः, शैलेयं दधि' इत्यादीनां पदानां प्रयोगे धर्मोपादानं विना नैराकाङ्क्ष्यसद्भावात्संभवति श्रौती धर्मलुप्ताऽपीति चेन्न । 'इवे प्रतिकृतौ' इत्यधिकारविहितानां प्रत्ययानां तुल्यार्थ एव विधानाभ्युपगमावश्यंभावात् । अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभावेन कुशाग्रीया बुद्धिरित्याद्युपमेयसामानाधिकरण्यासम्भवात्सादृश्यविधानमपि सदृशे पर्यवस्यतीति सूत्रे इवग्रहणं न विरुध्यत इति वदन्ति ॥

 श्रौती धर्मलुप्ता वाक्ये यथा--

 जलदो यथा तथा त्वं नाकिन इह केकिनो यथैव तथा । जलधिर्यथा तथा त्वं नरा ननु सरिज्झरा यथैव तथा ॥ ३८ ॥

 अत्र हे भगवन्निति सम्बुद्धिस्सामर्थ्याल्लभ्यते । जलदो यथा केकिनो यथेत्यादौ यथेत्यसमस्ततया निर्देशाद्वाक्ये श्रौती धर्मलुप्ता, यथाक्रममानन्दावहत्वादेरुल्लासित्वादेश्च । एवं जलधिर्यथेत्यादौ प्राप्यत्वादेः नरा इवेत्यादौ तत्प्रवणत्वादेश्च साधारणधर्मस्यानुपादानात् ॥

 श्रौती धर्मलुप्ता समासे यथा--

 चिन्तामणिधरणीभृति रन्तारं भुवि जगन्नियन्तारम् । चिन्तामणिमिव मनुजास्त्वां तावत्संश्रिता हरे सर्वे ॥ ३९ ॥  अत्राभीप्सितदातृत्वादिधर्मानुपादानात् चिन्तामणिमिवेति समासे श्रौती धर्मलुप्ता । तद्धिते त्वियं न सम्भवतीत्यवोचाम । चिन्तामणिधरणीभृदिति वेङ्कटाद्रेरेव नामान्तरम् । तथा चोच्यते वामनपुराणे--

 चिन्तिसत्य तु सिद्ध्येमं चिन्तामणिगिरिं विदुः ॥ इति ॥ ब्रह्माण्डपुराणान्तर्गते वेङ्कटाद्रिमाहात्म्ये च--
 श्रीवेङ्कटगिरिर्नाम क्षेत्रं पुण्यं महीतले । इत्युपक्रम्य--
 अञ्जनाद्रिर्वृषाद्रिश्च वेदाद्रिर्गरुडाचलः ।
 तीर्थाद्रिश्श्रीनिवासाद्रिश्चिन्तामणिगिरिस्तथा ।
 वृषभाद्रिर्वराहाद्रिर्ज्ञानाद्रिः कनकाचलः ।
 आनन्दाद्रिश्च नीलाद्रिः क्रीडाद्रिः पुष्कराचलः ।
 सिंहाचलश्च श्रीशैलस्तथा नारायणाचलः ॥
 वैकुण्ठाद्रिश्शेषशैल इति नामानि विंशतिः ॥ इति ॥

 आर्थी धर्मलुप्ता वाक्यसमासतद्धितगा यथा--

 वृषशिखरिशिखरधरणी सदृशी रमणीमणेर्मुरारातिः । मृगमदतिलकनिकाशः पुष्करिणी दर्पणीकल्पा ॥ ४० ॥

 अत्र सदृशी रमणीमणेरिति वाक्यगा, मृगमदतिलकनिकाश इति समासगा, दर्पणीकल्पेति तद्धितगा चार्थी धर्मलुप्ता; रामणीयकश्यामलिमनैर्मल्यादिधर्माणामनुपादानात् ॥

 क्वचित्पटुपटुरित्यादौ द्विर्भावेऽपि धर्मलुप्ता दृश्यत इति चित्रमीमांसाकाराः । तदेदमुदाहरणम्- आभाति मधुरमधुरं स्वर्गादिफलं न जातु तन्मधुरम् । फणधरधराधरधुरंधरं भजत तज्जनाश्चिरं मधुरम् ॥ ४१ ॥

 अत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानाद्यत्स्वभावतोऽमधुरमेवापाततो मधुरवद्भाति तद्वचनोऽयं मधुरशब्दो मधुरसदृशे वर्तत इत्यार्थी धर्मलुप्ता। न चैषा वाक्ये समासे वा, मधुरमधुरमित्येकपदत्वात् ॥

 रसगङ्गाधरकारस्तु--पटुपटुरित्यादौ वाचकस्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधिक्यमुद्भावयितुमुचितं, न तु धर्मलुप्तायां, धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षणात् । अन्यथा एकलुप्तात्वेन द्विलुप्तानां त्रिलुप्तायाश्च ग्रहणात्पृथगुपादानमसंबद्धमेव स्यात् । न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोपः अपि तु धर्ममात्रस्यैवेति शक्यं वक्तुं, द्विर्भावस्य भाष्यकैयटादौ सादृश्यद्योतकताया एवाङ्गीकारेण तद्वाचकताया असम्भवादित्यवादीत् ॥

 लुप्तोपमाना द्विविधा वाक्यगा च समासगा ॥

 लुप्तोपमाना वाक्यगा यथा--

 विचिते निखिलेऽपि जगत्युचितं श्रीवेङ्कटाद्रिणा सदृशम् । नूनं नोपलभेत स्थानं जातोऽथ जायमानो वा ॥ ४२ ॥

 अत्र सदृशनिषेधादुपमानलुप्ता वाक्ये । अत्र ‘वेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन’ इति वचनं स्मर्तव्यम् । न चात्रोपमानाभावेन साद्दश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वादलङ्कारान्तरमेव नोपमानलुप्तेति वाच्यम् । वेङ्कटाद्रिणा सदृशं स्थानं जातो वा जायमानो वा नोपलभेतेत्युक्त्या जनिष्यमाणेन येन केनचित् किमपि स्थानमेतत्तुल्यमुपलप्स्येतेति सादृश्यपर्यवसानमस्तीत्युपमानलुप्तैवेयमुपमा, नालङ्कारान्तरमिति वक्तुं युक्तत्वात् ॥

 उपमानलुप्ता समासगा यथा--

 नास्तीह वस्तु धन्यं कस्तूरीसदृशमिति वयं विद्मः । भुजगगिरीशस्य मुखं त्रिजगत्तिलकस्य तिलकितं ह्यनया ॥ ४३ ॥

 अत्र सदृशनिषेधादुपमानलुप्ता समासे ॥

वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्यङि ।
कर्मकर्त्रोर्णमुलि च णिनौ क्विपि च तद्धिते ॥
एवं नवप्रकारैषा ज्ञेया वाचकलोपिनी ॥ १७ ॥

 वाचकलुप्तां विभजते–-वादिलुप्ता उपमानवाचकवायथेवादिलुप्ता समासे 'उपमानादाचारे’ इति विहितकर्मक्यचि, 'अधिकरणाच्च' इति विहिते अधिकरणक्यचि, ‘कर्तुः क्यङ्सलोपश्च' इति कर्तृक्यङि, 'उपमाने कर्मणि च' इति कर्मणमुलि, चात्कर्तृणमुलि, ‘कर्तर्युपमाने' इति विहिते णिनौ, ‘सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इत्याचारार्थविहिते क्विपि च तद्धिते च भवन्ती नवविधा भवति ॥  अत्र वाचकलुप्ता समासगा यथा--

 विदलितवलरिपुमणिवरशकलविनीलं श्रयन्तमहिशैलम् । वारं वारं हृदये स्मेरं कलयेय कमपि शृङ्गारम् ॥ ४४ ॥

 अत्र शकलविनीलमित्यत्र समासे वाचकलोपः । ‘चन्दिररुचिरनिटालम्’ इति पूर्वमुदाहृतमप्यस्योदाहरणम् ॥

 कर्मक्यचि वाचकलुप्ता यथा--

 हर्यङ्के विहरन्ती पर्यङ्कीयति तमेतमुत्तुङ्गम् । उपधानीयति कमला तस्य भुजं भुजगभोगसुकुमारम् ॥ ४५ ॥

 अत्र पर्यङ्कीयति उपधानीयतीत्युभयत्रापि पर्यङ्कमिवाचरति उपधानमिवाचरतीत्यर्थे कर्मक्यचि हर्यङ्कपर्यङ्कयोः भुजोपधानयोश्च उत्तुङ्गं भुजगभोगसुकुमारमिति साधारणो धर्मः । पर्यङ्कीयतीत्यादौ 'उपमानादाचारे’ इति कर्मणस्सुबन्तादाचारार्थे क्यचि 'क्यचि च' इत्याकारस्य ईत्वम् । हर्यङ्कं पर्यङ्कमिवाचरतीत्यत्र वाक्ये प्रक्रान्तं कर्मद्वयं, तत्रोपमानकर्मणोऽन्तर्भूतत्वात्तदपेक्षयाऽसावकर्मको धातुः । तदुक्तं--

धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मका क्रिया ॥

इति । अन्यकर्मापेक्षया तु सकर्मक एव । यदाह भगवान् भाष्यकारः- 'द्वे ह्यत्र कर्माणी उपमानकर्मोपमेयकर्म चेति । उपमानकर्मान्तर्भूतं उपमेयकर्मणा सकर्मको भवति' इति । एवमन्यत्रापि द्रष्टव्यम् ।

 यथा वा--

 इन्द्रीयन्ति दृशस्ते स्पृशन्ति यांस्तान्विशो भृशं विभवैः । चन्द्रीयन्ति दिशस्ते यशःप्रकाशा विशालविशदिम्ना ॥ ४६ ॥

 इदमपि कर्मक्यचि वाचकलुप्ताया एवोदाहरणम् । इन्द्रीयन्ति चन्द्रीयन्तीत्युभयत्रापि इन्द्रमिवाचरन्ति चन्द्रमिवाचरन्तीत्यर्थे कर्मक्यचि इन्द्रस्य विशां च विभवैरिति साधारणो धर्मः चन्द्रस्य दिशां च विशालविशदिम्नेति साधारणो धर्मः। विशः मनुजानित्यर्थः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । द्वितीयपादे भृशं विभवैरित्यत्र ‘भृशमुदाराः' इति, चतुर्थचरणस्य ‘यशः प्रकाशास्तु काशनीकाशाः' इति ‘शेषशैलेन्दोः' इति वा निर्माणे उभयत्रापि धर्मस्याप्यनुपादानाद्धर्मवाचकलुप्ताऽपीयं भविष्यतीति ध्येयम् ॥ एवंचात्र धर्मोपादानानुपादाने ऐच्छिके इति ध्येयम् । अस्य पूर्वोदाहरणादयमेव विशेषः ॥

 अधिकरणक्यचि वाचकलुप्ता यथा--

 जलधौ जननगृहीयति जलजे केळीगृहीयति मनोज्ञे । सौधीयति वेङ्कटपतिविशङ्कटोरस्थलेऽमले कमला ॥ ४७ ॥  मनोज्ञे इत्येतज्जलधावित्यत्राप्यनुषञ्जनीयम् । अत्र जलधौ जननगृहीयतीत्याद्यधिकरणक्यचि जलधिजननगृहयोः जलजकेळीगृहयोश्च मनोज्ञे इति, भगवद्वक्षस्थलसौधयोः अमले इति च साधारणधर्मः। मनोज्ञे इत्यस्य जलधावित्यत्रानन्वये धर्मवाचकलुप्तायास्तदुदाहरणं भविष्यति इतरद्वाचकलुप्तायाः । एवं चात्रापि धर्मोपादानानुपादाने वैवक्षिके एवेति ध्येयम् ॥

 कर्तृक्यङि वाचकलुप्ता यथा--

भगवन्भवच्चरित्रं भवतप्तानां विधूयते नॄणाम् ।
अदसीयरसज्ञानां तदसीम मधूयते रसज्ञानाम् ॥

 अदसीयरसज्ञानां एतद्भगवच्चरित्रसम्बन्धिरसविदां जनानां सम्बन्धसामान्ये षष्ठी रसज्ञानां रसनानां असीम अनवधिकं तच्चरित्रं मधूयते इत्यन्वयः । अत्र विधुरिवाचरति मध्विवाचरतीत्यर्थे विधूयते मधूयत इति क्यङि भगवच्चरित्रस्य विधुमधुनोश्च आचारस्साधारणो धर्मः, स चोपात्तः । आचारमात्रार्थकतया क्यच्क्यङोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिपत्तिरितिनये सादृश्यवाचकाभावाद्वाचकलुप्ता । पर्यङ्कीयतीत्यादिसमुदायस्यैव पर्यङ्कादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमितिनयेऽपि सादृश्यसादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ॥

 यथावा--

राधायन्ते भामाः कामाधिकरूप तव विलोकनतः ।
वेधायन्ते पुरुषाः पुरुषोत्तम वृषगिरीश तत एव ॥

 तत एव विलोकनत एवेत्यर्थः । आदौ कर्मणि षष्ठी । ततः कर्तरीति विशेषः । अत्रापि राधेवाचरन्ति वेधा इवाचरन्तीत्यर्थे राधायन्ते वेधायन्ते इति क्यङि भामापुरुषयोराचारस्साधारणो धर्मः। कामाधिकरूपेति सम्बुद्धिर्भामानां राधावदाचरणौपयिकी, पुरुषोत्तमेत्येतत्तु पुरुषाणां वेधोवदाचरणौपयिकी । वेधायन्त इत्यत्र ‘कर्तुः क्यङ् सलोपश्च' इति क्यङस्सलोपो विशेषः । इदं तु आचारस्य साधारणधर्मतामभ्युपयतां प्राचां मते उदा हरणद्वयम् । ये तु क्यजाद्यर्थ आचारो न साधारणो धर्मः धर्ममात्ररूपस्याचारस्य उपमाप्रयोजकत्वाभावात् ‘नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य ललितानि सपत्नसेना' इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाऽध्यवसितस्याचारस्योपमानिष्पादकत्वात् । यदि च क्यजाद्यर्थं आचारमात्रमुपमानिष्पादकस्स्यात् तदा ‘त्रिविष्टपं तत्खलु भारतायते' इत्यादौ सामान्येनाचारोपस्थितावप्युपमालङ्कृतेरनिष्पत्तिः तस्यैव ‘सुपर्वभिश्शोभितमन्तराश्रितैः' इति चरणान्तरनिर्माणे तस्या निष्पत्तिश्च न स्यात् तस्मात् क्यजाद्यर्थस्साधारणोऽपि नोपमां प्रयोजयति उपमाप्रयोजकतावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशब्देनाभिधानात्, अन्यथा ‘मुखरूपमिदं वस्तु प्रफुल्लमिव पङ्कजम्’ इत्यादौ पूर्णोपमापत्तेरित्याचारमात्रस्य साधारणधर्मतां नाभ्युपगच्छन्ति, तेषां मते तु नेदं वाचकमात्रलुप्ताया उदाहरणं भवितुमर्हति धर्मस्यापि लुप्तत्वात् । किन्त्वन्यदेव ॥

 यथा--

 त्रिभुवनलोभनविभवं विभुमहिशैले भवन्तमाभान्तम् । अनिमेषमीक्षमाणास्सनिमेषा अपि न रास्सुरायन्ते ॥ ५० ॥  अत्र सुरनरयोरनिमेषेक्षणं साधारणो धर्म उक्त इति कर्तृक्यङि वाचकमात्रस्य लोप इति बोध्यम् ॥

 कर्मकर्तृणमुलोर्वाचकलुप्ता यथा--

गर्भनिधायंनिदधद्गर्भे भुवनान्यनन्यशरणानि ।
जननीरक्षंरक्षसि घननीरदनील नीरजाक्ष त्वम् ॥

 अत्र गर्भानिव निदधदित्यर्थे गर्भनिधायमिति कर्मणमुलि गर्भाणां भुवनानां च निधानमनन्यशरणत्वं च साधारणो धर्मः 'गर्भे भुवनानि युगविगमसमये’ इति द्वितीयपादे पठितेऽपि निधानं साधारणो धर्मः । जननीव रक्षसीत्यर्थे जननीरक्षमिति कर्तृणमुलि रक्षसीति भगवज्जनन्योस्साधारणो धर्मः 'उपमाने कर्मणि च' इति णमुलि ‘कषादिषु यथाविध्यनुप्रयोगः’ इति णमुल्प्रकृतेर्धातोरनुप्रयोगः ॥

 णिनौ वाचकलुप्ता यथा--

मदमधुरद्विपगामी कामी कस्यांचिदम्बुधिविभूतौ।
मदकलहंसालापी कोपीहापीनदोश्श्रियं दत्ताम् ॥

 कस्यांचिदम्बुधिविभूतौ अम्बुधिविभूतित्वेनाध्यवसितायां लक्ष्म्यामित्यर्थः । कामी कामुको भगवान् मदकलहंसालापी ‘मत्तहंसस्वरो युवा' इति श्रीरामायणोक्तेः । आपीनाः अतिमात्रपीवराः दोषः भुजाः यस्य तथोक्तः । अत्र द्विपगामी हंसालापीत्युभयत्रापि द्विप इव गच्छति हंस इवालपतीत्यर्थे ‘कर्तर्युपमाने' इति विहितणिनौ वाचकलुप्ता । गमनं आलपनं च समानधर्मः । केचित्तु--कोकिलालापिनीत्यादिस्थले ‘उपपदमतिङ्' इति समासस्य सद्भावेन समासगणनयैवैतस्यापि क्रोडीकाराद्वाचकलुप्ताविभागे णिनेः पृथग्ग्रहणं नाद्रियन्ते ॥५२॥

 क्विपि वाचकलुप्ता यथा--

 अळिबालति हरिनीलति घनजालति सन्ततं तमालति च । नीला तव रुचिमाला नीलाचलमौलिविहृतिलोलात्मन् ॥ ५३ ॥

नीलाचल इति वेङ्कटाद्रेरेव नामान्तरम्--
नलस्य वानरेन्द्रस्य यस्मान्नित्यमवस्थितिः ।
तस्मान्नीलाचलं नाम्ना वदन्त्येनं महर्षयः ॥

इति वाराहीयवेङ्कटाचलमाहात्म्योक्तेः । अत्र अळिबालतीत्यादौ अळिबाल इवाचरतीत्यर्थे क्विपि नीलत्वं भगवद्रुचिमालायास्तेषां च साधारणो धर्मः । आत्मन्निति पृथक्पदं परमात्मन्निति भगवतस्सम्बोधनम् ॥

 तद्धिते वाचकलुप्ता यथा--

 वेङ्कटपतिपदपङ्कजकिङ्करतायां न जातु यस्य रुचिः । दुर्विषयेष्वेव सदा वर्वर्ति नरोऽशुचिः खरकुटी सः ॥ ५४ ॥

 खरकुटी खरनिवासक्षुद्रतमस्थानविशेषः । अत्र खरकुठीव पुरुष इत्यस्मिन्नर्थे ‘इवे प्रतिकृतौ’ इति विहितस्य कनः ‘लुम्मनुष्ये' इति मनुष्यार्थे सुब्विधानात् खरकुटीत्यत्र वाचकलोपस्तद्धिते । ‘लुपि युक्तवद्व्यक्तिवचने' इति युक्तवद्भावेन प्रकृतिलिङ्गता । अशुचित्वं साधारणो धर्मः । ‘वर्वर्ति स एष खरकुटीमनुजः इति चतुर्थचरणनिर्माणे तदनुपादानेन धर्मवाचकलोपश्चात्र संभवति । ‘लुम्मनुष्ये’ इति सूत्रे चञ्चेतिवत् खरकुटीत्यप्युदाहृतं काशिकादौ ॥

धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयोः ॥ १८ ॥

 यथा--

 हृदये तव माऽलासीत्तदपाङ्गाळिस्तु परममालासीत् । त्वं पितरसि मातरसि भ्रातरसि च देवपुङ्गव नतानाम् ॥ ५५ ॥

 तव हृदये वक्षसि मा लक्ष्मीः अलासीत् अराजीत् तस्याः अपाङ्गाळिः कटाक्षरेखा तु परं अतिशयितं यथातथा अमालासीत् मालेवाचारीत् मालातुल्याऽभूदित्यर्थः । मालाशब्दादाचारार्थे क्विपि लुङि सिचि ‘यमरमनमातां सक्च' इति इट्सकौ ॥ पितेवाचरसि पितरसि । एवमन्यदपि । अत्र ‘माता पिता भ्राता’ इत्यादिश्रुतिरनुसंहिता । अत्र मालेवाचारीत् पितेवाचरसीत्याद्यर्थे अमालासीत् पितरसीत्यादौ मालादिशब्दाः क्वौ लुप्ते धातवः । तत्र मालादिशब्दाः लक्षणया मालादिसादृश्यं बोधयन्ति । लुप्तोपि स्मृतः क्विबाचारं बोधयतीति पक्षे वाचकधर्मलोपस्स्पष्ट एव । मालादिशब्दा एव लक्षणया सादृश्याभिन्नमाचारं बोधयन्तीति पक्षेऽपि सादृश्यस्येव धर्मस्यापि तन्मात्रबोधकाभावाल्लोप एवेति वदन्ति । देवः पुङ्गव इवेति समासे वाचकलोपसाधारणधर्माप्रयोगश्चेति धर्मवाचकलुप्ता । इयं च कर्माधिकरणक्यचोः खरकुटीत्यत्र तद्धितेऽपि धर्माप्रयोगे सम्भवतीत्यवोचाम ॥
धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते ॥

वृत्तौ समासे इत्यर्थः ॥

 वाक्ये धर्मोपमानलुप्ता यथा--

 येन समानः कश्चन मानवलाके क्वाऽपि न लुलोके । तेन मयाऽपि दयाब्धे श्रीनिलय प्रार्थ्यसेऽपवर्गमहो ॥ ५६ ॥

 अत्र येन मया समानो मानवलोके न लुलोके इति विशिष्योपमानानुपादानाद्धर्मानुपादानाच्च वाक्ये धर्मोपमानलुप्ता ॥

 समासे धर्मोपमानलुप्ता यथा--

 क्वापि सुदर्शनसदृशो नादर्शि न दृश्यते न च द्रष्टा । येन पुरा वनमाली मालिशिरस्तत्सुमालिवदलावीत् ॥ ५७ ॥

 अत्र क्वापि सुदर्शनसदृशो नादर्शीत्यादिना उपमानस्य समासगतस्य निषेधात्समासगा धर्मोपमानलुप्ता । द्रष्टेति कर्मणि लुट् । तत् दुश्छेदतया प्रसिद्धं मालिनः तन्नाम्नोऽसुरस्य शिरः। सुमालिवत् सुमानां कुसुमानां आळिवत् पङ्क्तिवत् सुमालिनामासुरशिरोवत् इत्यपि प्रतीयते । अलावीत् अच्छिनत् । अनयोश्च नोपमानस्वरूपमेव प्रतिषिध्यते । किन्तूपमानदर्शनमिति नानन्वयालङ्कृतिभ्रमः कार्यः । नापि वक्ष्यमाणचतुर्थप्रतीपशङ्कायुक्ता, तस्य वर्ण्येनान्यस्योपमाया अनिष्पत्तौ चमत्कारितया उपमानदर्शननिषेधेन चमत्कारिणोऽस्माद्वैलक्षण्यादिति दिक् ॥  तद्धिते धर्मोपमानलुप्ता यथा--

 मुचुकुन्दस्य गुहायां यदिह मुकुन्देन मेळनं यदपि । वरलाभोऽस्यामुष्मान्मन्येऽन्धकवर्तकी यमेतदिति ॥ ५८ ॥

 अन्धकवर्तकीयमित्येतत् काकताळीयशब्दतुल्यतया ‘समासाच्च तद्विषयात्’ इति सूत्रे काशिकायामुदाहृतम् । वर्तको नाम कश्चित्पक्षिविशेषः ‘तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः’ इत्युपक्रम्य ‘वर्तको वर्तिकादयः’ इति खगविशेषवाचिषु नामलिङ्गानुशासनात् । अत्र तद्धिते धर्मोपमानलुप्ता । तथा हि--अन्धकवर्तकीयमित्यत्र समासाविषये अन्धकवर्तकशब्दौ तत्समवेतक्रियावर्तिनौ । ततश्च अन्धकावस्थानमिव वर्तकागमनमिवेतीवार्थे ‘समासाच्च तद्विषयात्’ इति ज्ञापकात्समासः ।'सुप्सुपा' इति वा । उभयत्रोपमेयं क्रमेण मुचुकुन्दस्य गुहायां क्वचिदवस्थानं तत्रैव मुकुन्दस्य गमनं च । तेन मुचुकुन्दस्य मुकुन्दस्य च समागमः अन्धकवर्तकसमागमसदृश इति पर्यवस्यति । ततः पुनरन्धकवर्तकमिव अन्धकवर्तकीयमिति द्वितीयस्मिन्निवार्थे ‘समासाच्च तद्विषयात्' इति सूत्रेण ‘इवे प्रतिकृतौ' इत्यधिकारस्थेन छप्रत्ययः । ततश्च–अकस्मादागतो वर्तको यथा निरुद्यमेनान्धकेनासादितः तथा यदृच्छयागतो मुकुन्दो निश्चेष्टतया निद्राणेन मुचुकुन्देनासादित इति निष्पद्यते । तथाचात्र प्रत्ययार्थोपमायां अन्धककृतवर्तकोपादानरूपस्योपमानस्य साधारणधर्मस्य चानुपादानाद्धर्मोपमानलोपः । धर्मलोपस्त्वैच्छिकः ।

 अत्र-

यन्मेळनं गुहायां मुकुन्दमुचुकुन्दयोर्यदस्यास्मात् ।
वरलाभो यादृच्छिकमासान्धकवर्तकीयमेवेदम् ॥

 इति पद्यस्य प्रकारन्तरेण निर्माणे तु यादृच्छिकत्वरूपधर्मोपादानात्प्रत्ययार्थोपमायां केवलोपमानलोपस्यापि तद्धिते इदमेवोदाहरणं भविष्यति । अन्धकावस्थानमिव वर्तकागमनमिवेति समासार्थोपमायां तु मुचुकुन्दावस्थानमुकुन्दागमनमेळनोपमानभूतस्यान्धकावस्थानवर्तकागमनसमागमस्यानुपादानादुपमानलोपः । तथा समासवशाद्वाचकलोपः धर्मानुपादानाद्धर्मलोपश्चेति धर्मवाचकोपमानलोपस्यापीदमेवोदाहरणं भविष्यतीत्यवहितचित्तैरन्तेवासिभिरनुसन्धेयम् ॥

क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता ॥१९

 यथा--

 श्रीवासीयति सर्वोप्यावासं प्राप्य तस्य वृषशैले । अतसीसुमसमतद्रुचिकृतसीमातीतकालिमा कामम् ॥ ५९ ॥

 सर्वोऽपि जनः वृषशैले तस्य श्रीनिवासस्य आवासं दिव्यालयं प्राप्य प्रविश्य कामं यथेप्सितं अतसीसुमसमया तस्य श्रीनिवासस्य रुच्या प्रभया कृतस्संपादितः सीमातीतः अनवधिकः कालिमा श्यामता यस्य तथाभूतस्सन् श्रीवासीयति आत्मानं श्रीनिवासमिवाचरति नीलवर्णतया तद्वदाचरतीत्यर्थः । अत्र आत्मानं श्रीनिवासमिवाचरतीति सामर्थ्याद्गम्यमानतया स्वात्मन उपमेयस्य वाचकस्य च अनुपादानाद्वाचकोपमेयलोपः । इहात्मानमित्यपि सुवचत्वादुपमेयलोप ऐच्छिकः । न चात्र सर्व इत्युपमेयोपादानमस्तीति कथमुपमेयलोप इति वाच्यम् । कर्मविभक्त्यभावेन सर्व इत्यस्य श्रीवासीयतीत्यत्रोपमेयसमर्पकत्वाभावात् । न चैतदनुसारेण श्रीवासीयतीत्यत्र श्रीवास इवाचरतीति समानविभक्तिकत्वकल्पनं घटते । कर्तृक्यचोऽननुशासनादिति दिक् ॥

 क्वचित्समास एव स्याद्वाचकावर्ण्यलोपिनी ॥

 अवर्ण्यमुपमानम् । वाचकोपमानलुप्ता तु समास एव स्यादित्यर्थः ॥

 यथा--

 रहसि व्रजसुन्दर्यास्समागमो यश्च यस्तदुपभोगः। लोलम्बाम्बुरुहीयं तदिदं शौरेर्यदृच्छयोपनतम् ॥ ६० ॥

 लोलम्बाम्बुरुहीयमित्यत्र काकताळीयमित्यत्रेव विग्रहः । तथाहि--लोलम्बाम्बुरुहशब्दौ वृत्तिविषये तद्गतक्रियार्तिनौ । तेन लोलम्बागमनमिव अम्बुरुहविकसनमिव लोलम्बाम्बुरुहमिति पूर्वोक्तदिशा समासः । उभयत्रोपमेयं क्रमेण शौरेर्यत्रक्वचिन्निश्शलाकप्रदेशे गमनं तत्रैव व्रजसुन्दर्या अवस्थानं च । तेन शौरिव्रजसुन्दरीसमागमो लोलम्बाम्बुरुहसमागमसदृश इति समासार्थोपमायाः पर्यवसानात्तत्र लोलम्बागमनस्याम्बुरुहविकसनस्य च उपमानस्यानुपादानात्समासे वाचकलोपाच्च वाचकोपमानलोपः । यदृच्छयोपनतमिति धर्मोपादानान्न तल्लोपोऽपि ॥ या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा ॥२०

 धर्मवाचकोपमानलुप्ता तु समासगा भवति । अवर्ण्यमुपमानम् ॥

 यथा--

 घनविद्युल्लावण्यं विनतसुरासुरनरावळिशरण्यम् । विलसतु किमपि वरेण्यं वृषगिरिपतिहृदयधाम तारुण्यम् ॥ ६१ ॥

 तारुण्यमिति पृथक्पदम् । तारुण्यत्वेनाध्यवसिता श्रीरित्यर्थः। अत्र विद्युतो लावण्यमिव देदीप्यमानं लावण्यं यस्येत्यस्मिन्नर्थेऽनुशिष्टो विद्युल्लावण्यमित्यत्र धर्मोपमानवाचकानां लोपः । सर्वोप्ययं लोपः 'सप्तम्युपमान’ इति शास्त्रकृतः । अयं च त्रिलोपः--यन्मेळनं गुहायामित्यत्र समासार्थोपमायामपि भवतीत्यवोचाम प्राक् । ततश्च त्रिलोपे धर्मलोपः क्वचिदैच्छिकोऽपि भवतीति द्रष्टव्यम् । नन्वत्र विद्युतो लावण्यमिव देदीप्यमानं लावण्यं यस्येति विग्रहे सति समासे उपमेयभूतलावण्यपदस्यैव लोपः किं न स्यात् तथा च वाचकोपमेयलुप्तैवेयं सम्पद्यतां न तु धर्मवाचकोपमानलुप्तेति चेत् उपमेयलोपेऽपि न त्रिलोपवत्त्वहानिरित्येके ॥

 वस्तुतस्तु—‘अनेकमन्यपदार्थे’ इति सूत्रस्थ ‘सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च' इति भाष्यवार्तिकानुरोधेनोपमानपदस्यैवात्र लोपो युक्तः । तथाहि वार्तिकस्यायमर्थः--सप्तम्युपमानपूर्वपदस्येत्यत्र सप्तमी कण्ठे स्थ इत्याद्येकदेशभूता कण्ठे इत्यादिका सप्तमी उपमानं उष्ट्रमुखादिशब्दघटकं उष्ट्रेत्यादिकं उपमानं वा पूर्वपदं यस्य तत् सप्तम्युपमानपूर्वपदमिति बहुव्रीहिः । तस्य पदान्तरेण बहुत्रीहिः, उत्तरपदस्य पूर्वसमासचरमावयवभूतस्य स्थ इत्यस्य मुखमित्यस्य च लोपश्च वाच्य इति । तथाच तत्र भाष्यम् । ‘सप्तमीपूर्वस्योपमानपूर्वस्य च बहुव्रीहिर्वक्तव्यः । उत्तरपदस्य च लोपो वक्तव्यः। कण्ठेस्थः कालो यस्य कण्ठेकालः उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः’ इति । अत्र वार्तिके उपमानशब्देन मुख्योपमानभूतस्य उष्ट्रमुखस्याश्रय उष्ट्रो लक्ष्यते । अन्यथा उष्ट्रमुखमित्यस्योपमानपूर्वत्वं न स्यात् । अतएव ‘उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः' इति प्रकृतवार्तिकोदाहरणभाष्यप्रतीकमादाय ‘अवयवधर्मेण समुदायस्य व्यपदेशादुष्ट्रस्योपमानतेत्युपमानपूर्व उष्ट्रमुखशब्दः’ इति कैयटे व्यव्रियत । एवंचात्र यथा कण्ठेस्थः कालो यस्य स इति बहुव्रीहौ कण्ठशब्दोत्तरवर्तिस्थशब्दस्य लोपः यथा वा उष्ट्रमुखमिव मुखमित्यत्र षष्ठीतत्पुरुषचरमावयवभूतमुखशब्दलोपश्च, तथा घनविद्युल्लावण्यमिव लावण्यं यस्येति बहुव्रीहौ विद्युच्छब्दोत्तरवर्तिमुख्योपमानवाचकलावण्यपदस्यैव लोपः न तूपमेयभूतलावण्यपदस्येति धर्मवाचकोपमानलुप्ताया एवेदमुदाहरणं बोध्यम् । इदं सर्वमपि हंससन्देशरसास्वादिन्यामादिमपद्ये कल्पाकारामित्यस्य व्याख्यानावसरे निरूपितमस्माभिः ॥

 प्राञ्चस्तु केचित्--अयश्शूलसदृशेन क्रूरेणाचारेण स्वार्थमन्विच्छति खले प्रयुज्यमाने आयश्शूलिकः खल इत्यत्र क्रूराचाररूपस्योपमेयस्य तैक्ष्ण्यादेर्धर्मस्य इवादेर्वाचकस्य चाप्रयोगाद्धर्मोपमेयवाचकलुप्ताऽपि त्रिलोपे सम्भवतीत्याहुः ।तन्न चतुरश्रम् -अयश्शूलपदेन क्रूराचारं निगीर्याध्यवसानेनातिशयोक्त्या उपमेयस्योपादानात्तत्र नोपमेयलोप इति वदन्ति । आयश्शूलिक इत्यत्र ‘पार्श्वेनान्विच्छति’ इत्यधिकारे 'अयश्शूलदण्डाजिनाभ्यां ठक्ठञौ’ इत्यन्वीच्छतीत्यर्थे ठक् । तीक्ष्ण उपयोऽयश्शूलं ते नान्विच्छतीत्यर्थः । एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशास्त्रव्युत्पत्तिवैदग्ध्यप्रदर्शनमात्रप्रयोजनो नातिमात्रमलङ्कारशास्त्रेऽर्हति व्युत्पादनीयतामित्याहुः ॥

एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः॥२० ॥

 एवं मालोपमारशनोपमासावयवनिरवयवोपमादयोऽनेके भेदास्सम्भवन्तोऽप्युक्तभेद एवान्तर्गतत्वान्न लक्षणीयाः पृथक् । अथापि कांश्चिल्लक्षयामः--

एकस्यैवोपमेयस्य यद्यनेकोपमानता ।
तदा मालोपमामेतामाहुः केचिद्विचक्षणाः ॥ २१ ॥

 मालायां यथा एकेन पुष्पेणापरस्य पुष्पस्य ग्रथनं तथा उपमानां परस्परसम्बन्धान्मालोपमेत्येषा व्यवह्रियते । तथा च दण्डी--

पूष्ण्यातप इवाह्नीव पूषा व्योम्नीव वासरः ।
विक्रमस्त्वय्यधालक्ष्मीमिति मालोपमा मता ॥ इति ॥

एवंविधवैचित्र्य एवैषा । केवलमुपमानबाहुळ्ये तु वक्ष्यमाणा बहूपमैव ॥

 यथा-

 व्यालीशति कालीशति काशति राकाशशिप्र- काशति च । कनकनगेशनखाभा कर्पूरति गाङ्गपूरति च ॥ ६२ ॥

 व्यालीशश्शेषः । कालीशश्शम्भुः । कनकनगेशः वेङ्कटाद्रीशः। अत्रैकस्या एवोपमेयभूतायाश्श्रीनिवासनखप्रभायाः मालारूपेण व्यालीशाद्यनेकोपमानोपादानान्मालोपमेयम् । अत्र पूर्वं वाचकलुप्तोदाहरणतयोक्तः ‘अलिबालति हरिनीलति’ इत्यादिश्लोकोऽप्युदाहरणं, तत्र नीलेतिधर्मोपादानं विशेषः । सादृश्यनिमित्तधर्मोपादाने च धर्मस्यैक्ये भेदे चेयं मालोपमा भवति ॥

 तत्र धर्मैक्ये यथा--

 निकष इव कनकरेखा विद्रुमलतिकेव विलसति समुद्रे। अञ्जनगिरिपतिहृदये किञ्जल्कशिखेव कुवलये कमला ॥ ६३ ॥

 राज्यश्रियेव राजा प्राज्यतमप्रतिभयेव कविराजः । कुसुमसमृद्ध्येव मधुर्माधवभक्त्या विराजते मनुजः ॥ ६४ ॥

 प्रातरिव पद्मलक्ष्मीश्शीतज्योतिःकलेव सितपक्षे । सायमिव कुवलयश्रीः प्रायश्श्रीशाश्रिते विभाति श्रीः ॥ ६५ ॥

 मधुमासीव हिमानी विधुभासीवास्तमेति ता- पर्द्धिः। शरदीव च जलदाभा वरद तवालोकने दुरितविततिः ॥ ६६ ॥

 धान्येषु पुलाका इव पतगेषु पतङ्गिका इव श्रीमन् । मशका इव कीटेषु च वशिका नृषु ते त्वयीश ये विमुखाः ॥ ६७॥

 अत्रोदाहरणपञ्चकेऽपि लक्ष्मीप्रभृतीनामेकैकोपमेयानां कनकरेखाद्यनेकोपमानोपादानान्मालोपमा । निकष इवेत्यादिना धर्मस्य बिम्बप्रतिबिम्बभावेन विलसतीत्यादिना अनुगामितया च निर्देशः पूर्वोदाहरणापेक्षया विशेषः । वशिका इत्यस्य तुच्छा इत्यर्थः । ‘वशिकं तुच्छरिक्तके' इत्यमरः । अत्राप्याद्योदाहरणत्रितये श्लाघ्यान्युपमेयानि । अन्तिमोदाहरणद्वितये गर्ह्ये उपमेये इति वैलक्षण्यं बोध्यम् । इयमेव स्तबकोपमा मालारूपा । यथोक्तं दण्डिना-

अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा ।
श्रितोस्मि चरणे विष्णोर्भृङ्गस्तामरसे यथा ॥

इति । नच विधुभासीव पतङ्गिका इवेत्यादौ लिङ्गभेद उपमादोष इति शङ्क्यम् । सहृदयहृदयानुद्वेगदायितया तस्यादोषत्वात् । यथाऽऽह दण्डी--

न लिङ्गवचने भिन्ने न हीनाधिकते अपि ।
उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥
स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव ।
प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता॥

भवानिव महाराज देवराजो विराजते ।
अलमंशुमतः कक्ष्यामारोढुं तेजसा नृपः ॥
इत्येवमादि सौभाग्यं न जहात्येव जातुचित् ।
अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥
हंसीव धवळश्चन्द्रस्सरांसीवामलं नभः ।
भर्तृभक्तो नरश्श्वेव खद्योतो भाति भानुवत् ॥
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् । इति ।

 धर्मभेदे यथा--

 जलधिवदतिगम्भीरा जलरुहदळवन्नितान्तसुकुमाराः । कल्पागमवदुदाराः कल्पन्तां नश्शुभाय हरिदाराः ॥ ६८ ॥

 पूर्वोदाहरणेषु सर्वत्र साधारणधर्म एक एव । इह तु भिन्नभिन्नः । पूर्वत्र समासगा वाक्यगा च पूर्णोपमा । इह तु तद्धितगा सेति भेदः । मालारूपत्वं तु तुल्यमेव ॥

 रुद्रटस्तु धर्मभेदे सत्येव मालोपमां मन्यते । तथा च काव्यालंकारे--

मालोपमेति सेयं यत्रैकं वस्त्वनेकसामान्यम् ।
उपमीयेतानेकैरुपमानैरेकसामान्यैः ॥

इति । उदाजहार च-

श्यामा लतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे ।
हंसीव कलालापा चैतन्यं हरति निद्रेव ॥ इति ।

मते त्वस्मिन् ‘जलधिवत्' इत्यादिकमेव मालोपमोदाहरणं

बोध्यम् ॥

 भरतस्तु--

एकस्यैकेन सा कार्याऽनेकेनाप्यथवा पुनः ।
अनेकस्य तथैकेन बहूनां बहुभिस्सह ॥

इत्युपमायाश्चातुर्विध्यं प्रादर्शयत् । सा उपमेत्यर्थः । तत्र एकस्यैकेनोपमारूपः प्रथमप्रकारः ‘गगनं यथा फणीश्वरनगपतिहृदयम्’ इत्यादिप्रागुदाहृतपद्येषु द्रष्टव्यः ॥

 एकस्य बहुभिरुपमारूपो द्वितीयप्रकारस्तु तेनेत्थं प्रदर्शितः

तथाहि--

श्येनबर्हिणभासानां तुल्याक्ष इति या भवेत् ।
एकस्य बहुभिस्साम्यादुपमा सा प्रकीर्तिता ॥

इति । दण्डी च इममेव प्रकारं बहूपमेति व्यवाहार्षीत् । तथाच काव्यादर्शे--

चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः ।
स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ॥

इति । तदनुरोधेनेदमुदाहरणम् । यथा--

 कुवलयजलधरयमुनातमालसब्रह्मचारिरुचिररुचिः। सरसिजकिसलयविद्रुमसहचरचरणो ममाच्युतश्शरणम् ॥ ६९ ॥

 अत्र सब्रह्मचारिसहचरशब्दौ उपमानार्थकौ। तथाच दण्डी--

इववद्वायथाशब्दास्समाननिभसन्निभाः ।
तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः ॥

प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः ।
सदृक्सदृशसंवादिसजातीयानुवादिनः ॥

प्रतिबिम्बप्रतिच्छन्दसरूपसमसम्मिताः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥

कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि ।
सवर्णतुलितौ शब्दौ ये वाऽ(चा)न्यूनार्थवाचकाः ॥

समासश्च बहुव्रीहिश्शशाङ्कवदनादिषु ।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥

आक्रोशत्यवजानाति कदर्थयति निन्दति ।
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति ॥

तस्य पु(मु)ष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ॥
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥

तत्पदव्यां पदं धत्ते तस्य कक्ष्यां विगाहते ।
बन्धुश्चोरस्सुहृद्वादिसतीर्थ्यसहचारिणः ॥

तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ।
तस्य वाऽनुकरोतीति शब्दास्साधर्म्यबोधकाः ॥

उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ इति ॥

 अत्र तस्य वाऽनुकरोतीत्यत्र इतिशब्दः प्रकारवाची । एवंप्रकाराश्शब्दास्साधर्म्यबोधका इत्यर्थः । तेन सगोत्रसब्रह्मचारिदायादप्रभृतीनामप्युपमानबोधकत्वं सिध्यति । अत्र इवादयो निपाताः । वदिति इवार्थे तुल्यार्थे च विहितो वतिप्रत्ययः । कल्पदेश्यदेशीयास्तद्धितप्रत्ययाः । यद्यप्येते ईषदसमाप्त्यर्थे विहिताः तथाऽपि तुल्यार्था एव । ईषदसमाप्तेरपि सादृश्ये पर्यवसानात् । यथोक्तं कैयटेन–-'गुड इवेषदसमाप्ता द्राक्षा गुडकल्पा । यद्यप्यत्रोपमानं नोपात्तं, तथाऽपि सामर्थ्यादुपमानोपमेयभावः' इति । तत्र प्रत्ययानामुपमानोत्तरमेव प्रयोगः तस्यैव तत्प्रकृतित्वात् । निभादीनां पदानां तु-– 'वाच्यलिङ्गास्समस्तुल्यः’ इत्यारभ्य ‘स्युरुत्तरपदे त्वमी । निभसङ्काशनीकाशप्रतीकाशोपमादयः' इति नित्यसमासविषयतानुशासनात् चन्द्रेण समं चन्द्रनिभमित्यस्वपदेन विग्रहः प्रदर्शनीयः । तदुक्तं क्षीरस्वामिना-- 'उत्तरपदे इत्युक्तेश्चन्द्रेण निभमिति न भवति' इति । वैरिसुहृद्वाचकास्सादृश्यार्थाः ।शशाङ्कवदनेत्यादौ उपमानपूर्वपदो बहुव्रीहिः । प्रतिबिम्बः स्पर्धत इत्यादयस्सादृश्याक्षेपका इत्यलम् । प्रकृतमनुसरामः । अनेकस्यैकोपमारूपस्तृतीयप्रकारश्च भरतेनैवं प्रदर्शितः-

चन्द्रवत्सम्प्रकाशन्ते ज्योतिर्भाजो द्विजोत्तमाः ।
एकेन सा त्वनेकेषामुपमा संप्रकीर्तिता ॥ इति ॥

 तत्रेदमुदाहरणम्--

 अमृतमयलोकबान्धवदृष्टिप्रथिता जगत्स्थितिकृतास्थाः । हृदि सच्छ्रियं दधाना भगवत्तुल्या विभान्ति भागवताः ॥ ७० ॥

 अमृतमयलोकः अप्राकृतलोकः परमं पदमित्यर्थः । तस्य बान्धवी प्रापयित्रीति यावत् । दृष्टिः ज्ञानं दर्शनं वा येषां ते तथाविधा इति प्रथिताः निश्श्रेयसप्रदाननिदानज्ञानपौष्कल्यवत्तया प्रसिद्धाः तथाविधदर्शना इति प्रसिद्धा इति वाऽर्थः । पक्षे-अमृतमयश्चन्द्रमाः लोकबान्धवो भानुः तावेव दृष्टी अक्षिणी यस्य तथोक्त इति प्रथित इति वचनविपरिणामेन योज्यम् । जगतः स्थितिः वर्णाश्रमादिधर्ममर्यादा ‘स्थितिः स्त्रियामवस्थाने मर्यादायां च सीमनि' इति मेदिनी । तस्यां कृतास्थाः ‘अविप्लवाय धर्माणां मर्यादास्थापनाय च' इत्यारभ्य ‘मनीषी वैदिकाचारं मनसाऽपि न लङ्घयेत्’ इत्युक्तरीत्या स्वानुष्ठानादिना जगन्मर्यादापालयितार इत्यर्थः । पक्षे -जगतां स्थितौ पालने कृतास्थः ॥

नहि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् ।
स्थितौ स्थितं महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥
सृजत्येष जगत्स्रष्टा स्थितौ पाति सनातनः ॥

इत्युक्तेः । हृदि मनसि सतां श्रीः सच्छ्रीः तां त्रयीमित्यर्थः । ‘ऋचस्सामानि यजूँषि । सा हि श्रीरमृता सताम्' इतिश्रुतेः । दधाना हृद्गतसकलवेदतदर्था इत्यर्थः । पक्षे-सतीं श्रियं लक्ष्मीं दधान इति । भागवताः भगवत्तुल्याः विभान्ति । अत्रानेकेषां भागवतानां भगवानेक एवोपमानं समानधर्मश्श्लेषमूलकः । भगवत्तुल्या इत्यत्रोपमानवाचिपदगतवचनस्य वृत्तिलुप्ततयाऽनुद्वेजकत्वान्न भिन्नवचनतालक्षणदोष इति ध्येयम् । इयं सामान्यधर्मस्यैक्य एव भवति उपमानस्यैकत्वादिति ध्येयम् ॥

 बहूनां बहुभिरुपमारूपस्तुरीयः प्रकारस्तु पूर्वमुदाहृते ‘धान्येषु पुलाका इव’ इत्यादौ द्रष्टव्यः ॥

पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम् ।
उपमानत्वमेषोक्ता कविभी रशनोपमा ॥ २२ ॥

 प्रथमोपमायां यदुपमेयं तच्चेदुत्तरोपमायामुपमानं भवति सा रशनोपमेत्यर्थः ॥  यथा--

 हृदयमिव हारि वदनं वदनमिवानन्ददायि तव वचनम् । वचनमिव ललितवर्णं नयनं नयनश्रुतीन्द्रशिखरिमणे ॥ ७१ ॥

 अत्र पूर्वपूर्वं प्रत्युपमेयत्वेनोपात्तस्य वदनादेरुत्तरोत्तरं प्रत्युपमानत्वेनोपादानमुत्तरोत्तरस्य शृङ्खलायामिव पूर्वपूर्वसम्बन्धितयेति रशनोपमा । हृदयवदनयोः हारीति हारवत्त्वमनोहरत्वरूपार्थद्वयक्रोडीकारेण समानधर्मः । एवं वचननयनयोरपि ललितवर्णमिति मधुराक्षरत्वरमणीयविशदतादिवर्णवत्त्वरूपार्थद्वयाभेदा ध्यवसायेन । वदनवचनयोस्तु आनन्ददायीत्यनुगामितयेति वैलक्षण्यमनुसन्धेयम् ॥ इयं धर्मभेदे रशनोपमा ॥

 धर्मैक्ये यथा--

 ऐश्वर्यमिव स्थैर्यं स्थैर्यमिवौदार्यमहिगिरिसुरद्रोः । औदार्यमिवावार्यं शौर्यं शौर्यमिव हन्त गाम्भीर्यम् ॥ ७२ ॥

 अत्रावार्यमित्येक एव धर्मः । एवं धर्मलोपेऽप्युदाहार्यम् ॥

 इयमुपमाऽपि रूपकवत्केवलनिरवयवा मालारूपनिरवयवा समस्तवस्तुविषयसावयवा एकदेशविवर्तिसावयवा केवलश्लिष्टपरम्परिता मालारूपश्लिष्टपरम्परिता केवलशुद्धपरम्परिता मालारूपशुद्धपरम्परिता चेत्यष्टधा । तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम् । इयं च बहुधा पूर्वमेवोदाहृता । मालारूपनिरवयवाऽपि 'अलिबालति हरिनीलति, व्याळीशति कालीशति’ इत्यादावुदाहृतैव ॥

 समस्तवस्तुविषया सावयवा यथा--

 रचितोदया कळिन्दाद्रुचिरोदारा गिरेरिव मुकुन्दात् । सरिदिव सुषमालहरिर्हरते परितापमिव घनं पापम् ॥ ७३ ॥

 यथा वा--

 यमुनाह्रदमिव हृदयं कमलमिवावैमि कौस्तुभममुष्मिन् । डिण्डीरा इव हाराः कुण्डलिशिखरीन्द्रमण्डन तवैते ॥ ७४ ॥

{{gap}]समस्तानि वस्तूनि अवयवी अवयवाश्च विषया यस्यास्सा समस्तवस्तुविषयेत्यर्थः । अत्र श्लोकद्वयेऽपि अवयविनोऽवयवानां चोपमानानां शब्दैरेव सामस्त्येनोपादानात्समस्तवस्तुविषयताऽस्याः, अवयवोपमाननिष्पाद्यमानत्वाच्च सावयवता च । अत्राद्ये पद्ये धर्मस्योपादानं द्वितीये तु तन्नेति विशेषः । इयमनेकेवशब्दा वाक्यार्थोपमेति दण्डी । यथोक्तं काव्यादर्शे तेन--

वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते ।
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा ॥
त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमद्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥
नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम् ।

 मया मधुव्रतेनेव पायंपायमरम्यत ॥

इति । एकेवशब्दवाक्यार्थोपमा त्वग्रे प्रदर्शयिष्यते ॥

 एकदेशविवर्तिनी सावयवा यथा-

 ननु भवदाहितगर्भा प्रकृतिः प्रासूत नाथ हंसीव । कोशमिव ब्रह्माण्डं श्रीश ततोऽजनि विधातृकादम्बः ॥ ७५ ॥

 अत्र--

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवस्सर्वभूतानां ततो भवति भारत ॥
सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्ति याः।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ।

इति गीताश्लोकार्थोऽनुसंहितः । ‘कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत् या प्रकृतिः तस्मिन् गर्भं दधामि ‘इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम्’ इति निर्दिष्टाचेतनपुञ्जरूपा या परा प्रकृतिः सेह सकलप्राणिबीजतया गर्भशब्देनोच्यते । तस्मिन्नचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः । ततः तस्मात्प्रकृतिद्वयसंयोगान्मत्सङ्कल्पकृतात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति । सर्वासु योनिषु देवगन्धर्वादियोनिषु तत्तन्मूर्तयो यास्सम्भवन्ति तासां ब्रह्म महद्योनिः कारणं मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणमित्यर्थः । अहं बीजप्रदः पिता तत्रतत्र तत्तत्कर्मानुगुण्येन चेतनवर्गस्य संयोजकश्चाहमित्यर्थः” इति भाष्यम् । कोशमिव अण्डमिव ‘पेशी कोशो द्विहीनेऽण्डम्' इत्यमरः । अत्रोत्तरार्धे विधातृकादम्ब इत्यत्र उपमितसमास एव, विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् । उपमानप्रायपाठाच्च । 'श्रीश ततोऽजनि मराळ इव धाता' इति तुरीयपादपाठे तु स्पष्टैवोपमा । अत्र भगवतः कलहंसोपमा शब्देनानभिहिताऽप्यङ्गोपमाभिराक्षिप्ता प्रतीयत इत्येकदेशविवर्तिनीयमुपमा । अवयवावयविनोरेकदेशे विशेषेण वाच्यतया वर्तत इत्येकदेशविवर्तिनीति ध्येयम् । अत्र विधातृकादम्ब इति जीवसमष्टिभूतचतुर्मुखजननवर्णनादन्येषामपि जननमर्थसिद्धमित्युदाहृतवचने ‘सम्भवस्सर्वभूतानां’ इति सर्वभूतोत्पत्तिकथनेनेदं न विरुध्यते । एवं सति—

अप एव ससर्जादौ तासु वीर्यमपासृजत् ।
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।

इति मनुवचनमप्यनुगुणं भविष्यतीति द्रष्टव्यम् ॥

 केवलश्लिष्टपरंपरिता यथा--

 आदित्याभ्युदयस्य प्रत्यूष इव प्रकाशभूमानम् । विदधानो घनधामा श्रीमानाभाति शेषगिरिधामा ॥ ७६ ॥

 आदित्यानां देवानां आदित्यस्य भानोश्च अभ्युदयः ऐश्वर्यं उदयश्च । अत्र श्लेषोपस्थापितेन देवाभ्युदयेन सुर्योदयस्योपमा भगवतः प्रत्यूषोपमोपाय इति केवलश्लिष्टपरंपरिता । अन्योन्योपायतारूपस्यैव परंपरितत्वस्येह परिभाषणात् माला रूपताविरहाच्च ॥

 केवला मालारूपा श्लिष्टपरंपरिता यथा-

 सत्त्वस्य हिमालय इव रजसस्त्वं प्रावृषेण्यजलद इव । तमसो महसां निधिरिव कमलेक्षण भासि कनकशिखरीन्दो ॥ ७७ ॥

 सत्त्वस्य सत्त्वगुणस्य मृगादिजन्तुजातस्य च । जात्यभिप्रायकमेकवचनम् । हिमालय इव यथा हिमाद्रिस्सर्वसत्त्वषोषणधुरीणः तथाऽयं भगवान् स्वाश्रितानां सत्त्वपोषणधुरीण इति भावः । ‘महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः' इति हि श्रूयते । रजसः रजोगुणस्य पांसोश्च प्रावृषेण्यजलद इव निर्वापक इति भावः । तमसः तमोगुणस्य तिमिरस्य च महसां निधिरिव निश्शेषनिवर्तक इति भावः । अत्र श्लेषोत्थापितैः जन्तुपांसुतिमिरैस्सत्त्वरजस्तमोगुणानामुपमाः हिमाचलप्रावृषेण्यजलदभानुभिर्भगवत उपमानामुपायाः । नन्वत्र जन्तुपांसुतिमिराणामिव सत्त्वरजस्तमसामित्येतादृशी उपमा कथमिव सुशका प्रत्येतुम्। उपमानोपमेयशब्दानां पृथगदर्शनादिति चेत्-- श्लेषस्थले ह्येकपदोपात्तत्वेन रूपेणाभेदाध्यवसानस्येव तेनैव साधर्म्येण सादृश्याध्यवसानस्यापि सुवचत्वात् । तस्यैव प्रकृते प्रयोज्याया उपमाया उपायत्वादिति वदन्ति ॥

 यथा वा--

 शाखिकुलामोदानां माधव इव माधवाहिधर- धामन्। सुकविरिवास्तोकानां श्लोकानां घन इवासि भुवनानाम् ॥ ७८ ॥

 अहिधरधामन् हे माधव श्रीनिवास माधव इति श्रीनिवासस्य नामान्तरं 'माधवं वेङ्कटगिरौ’ इति भगवच्छास्त्रोक्तेः । शाखा एषां सन्तीति शाखिनः तरवः वेदभेदाध्येतारो द्विजाश्च तेषां कुलस्य आमोदाः परिमळाः आनन्दाश्च तेषां ‘शाखा पक्षान्तरे बाहौ वेदभागद्रुभागयोः' इति मेदिनी । माधव इव वसन्त इव प्रवर्तक इति भावः । अस्तोकानां श्लोकानां पद्यानां यशसां च सुकविरिव निदानभूत इति भावः । ‘तस्य नाम महद्यशः' इति श्रुतेः । 'पद्ये यशसि च श्लोकः इत्यमरः । भुवनानां जलानां जगतां च घन इव आधारभूत इति भावः । अत्र श्लेषोन्मीलितैः तरुकुलपरिमळपद्यजलैः वैदिकपरिषदानन्दयशोलोकानामुपमाः वसन्तसुकविघनाघनैर्भगवदुपमानामुपायाः ॥

 यथा वा--

 उल्लासयसि निकामं शरदागम इव शुचिद्विजान् श्रीमन् । कल्याणानां महतामाधारस्त्वं सुमेरुरिव भूमन् ॥ ७९ ॥

 हे भूमन् भगवन् 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इति श्रुतेः । शुचिद्विजान् हंसान् । पक्षे--

योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिश्शुचिः ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥

इत्युक्तप्रकारसर्वविधशुद्धिमतो विप्रान् कल्याणानां सुवर्णानां

मङ्गळानां च 'कल्याणं हेम्नि मङ्गळे’ इति हेमचन्द्रः । अत्र श्लेषोपस्थापिताभ्यां हंससुवर्णाभ्यां शुद्धविप्रमङ्गळयोरुपमे शरदागमसुमेरुभ्यां भगवत उपमयोरुपायः । पूर्वोदाहरणयोर्धर्मोनुक्तः इह तूक्त इति भिदा । यद्यपि ‘सत्त्वस्य’ इति प्राथमिकोदाहरणे भासीत्यनेन साधारणधर्म उपात्त इव भाति । तथाऽपि तत्रावश्यं विवक्षितानां पोषणनिर्वापणनिश्शेषनिवर्तनानामेव समानधर्मतायास्स्वारसिकतया केवलभानस्यातथात्वेनाचमत्कारितया च स न विवक्षित इति ध्येयम् । किं च पूर्वोदाहरणयोर्बहूनां मालारूपता अन्तिमोदाहरणे द्वयोरिति भेदः। आद्ययोरपि परस्परं भेदः अनुपदमेव स्फुटीभविष्यति ॥

 केवलं शुद्धपरंपरिता यथा--

 अहिपतिगिरिपतिहृदये प्रहसितलसितासिताम्बुजात इव अलिसंहतिरिव विलसति तुलसीदलसम्भृता माला ॥ ८० ॥

 प्रहसितेति भावे क्तः । प्रहसितेन विकासेन लसिते असिताम्बुजे इन्दीवर इत्यर्थः । तुलसीदलमालाया अलिसंहत्या उपमा भगवद्वक्षस्थलस्येन्दीवरोपमायास्साधिकेत्युपमाद्वयमपि संजातपरंपरम् ॥

 केवला मालारूपा शुद्धपरंपरिता यथा--

 पुंगवसि गवन्तीनां पुरा करेणवसि करिणयन्तीनाम् । नन्दव्रजसुदतीनां चन्दनसि मुकुन्द वल्लयन्तीनाम् ॥ ८१ ॥  पुरा पुंगवसि पुंगव इवाचरसि ‘पुरि लुङ्चास्मे' इति पुराशब्दयोगाद्भूते लट् । गाव इवाचरन्त्यः गवन्त्यः तासाम् । करेणुरिवाचरसि करेणवसि करिण्य इवाचरन्त्यः करिणयन्त्यः तासाम् । वल्ल्य इवाचरन्तीति वल्लयन्त्यः तासाम् । सर्वत्राचारार्थे क्विप् । अत्र गोपिकानां गवादिभिरुपमा भगवतः पुंगवाद्युपमाया उपाय इत्युपमा एतास्संजातपरम्परा मालारूपाः केवलं शुद्धाः ॥

 यथा वा--

 नयगहनस्य पथीनति परविद्याजलनिधेर्मथीनति च । कृतमतिदिविषद्विततेः कृष्ण ऋभुक्षीणति त्वयि प्रणतः ॥ ८२ ॥

 हे कृष्ण त्वयि प्रणतो जनः नयः शास्त्रं तत् गहनमिव दुरवगाहं वनमिव नयगहनमित्युपमितसमासः, पथीनतीत्युपमानाल्लिङ्गात् । न तु मयूरव्यंसकादिः । तस्येहानुपयोगात् । तस्य पथीनति पन्था इवाचरति पथीनति ‘उपमानादाचारे' इति क्विप् । ‘अनुनासिकस्य क्विझलोः' इत्युपधादीर्घः । एवमग्रेऽपि । अनेन ‘तत्रापरा ऋग्वेदः' इत्याद्युक्तापरविद्याप्रवक्तृत्वं सूचितम् । परविद्या ‘अथ परा यया तदक्षरमधिगम्यते’ इत्युक्ता ब्रह्मविद्या । जलधिरिवेति पूर्ववत्समासः । तस्य मथीनति मन्था इवाचरति । अनेन ब्रह्मविद्यासर्वस्वपरामर्शित्वं सूचितम् । अत एव कृतमतयः वैज्ञानिकाः दिविषद इव तेषां विततेः ऋभुक्षा इवाचरतीति ऋभुक्षीणति । अत्र नयपरविद्याकृतमतीनां गहनजलनिधिदिविषदुपमाः भगवत्प्रणतस्य पथिमथिलऋभुक्ष्युपमानामुपाया इत्युपमा एताः पूर्ववदेव परंपरिताः मालारूपाश्शुद्धाश्च । अत्र ‘पथिमथ्यृभुक्षाम्’ इति सूत्रनिबद्धपथ्यादिशब्दार्थानामुपमानविधया क्रमेण निबन्धनाद्वक्ष्यमाणरत्नावळ्यलङ्कारेण सङ्कीर्णत्वं पूर्वोदाहरणाद्विशेषः ॥

 एवमुपमानयोरन्योन्यमुपमेययोश्चानुकूल्ये उपमेययोरेषोपायता निरूपिता ॥

 प्रातिकूल्ये उपायता यथा--

 जलदायते सदा खलु निदाघदावाग्निदाहते महते । द्विपदां कुलाय विपदां पृदाकुवरगिरिमदावळेन्द्रोऽयम् ॥ ८३ ॥

 निदाघदावाग्निदाहवदाचरते महते द्विपदां मनुजानां सम्बन्धिने विपदां कुलाय जलदायते जलद इवाचरति । पृदाकुवरगिरिश्शेषाद्रिः तस्य मदावळेन्द्रः तत्त्वेनाध्यवसितश्श्रीनिवास इत्यर्थः । अत्रोपमानयोर्दवाग्निदाहजलदयोरन्योन्यमुपमेययोश्च मनुजविपत्फणिशिखरिनाथयोः प्रातिकूल्येऽपि उपमयोः परस्परमानुकूल्यादुपायतैव ॥

 इयं मालारूपतायामपि भवति । यथा--

 सुत्रामाणसि महतां सपक्षशेखरीणतां सुरद्विषताम् । पूषाणसि हिमतामिह राजानसि तमसतां च शौरे त्वम् ॥ ८४ ॥

 सुत्रामेवाचरसि सुत्रामाणसि सुत्रामन्शब्दात् 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इति क्विपि ‘अनुनासिकस्य क्विझलोः' इत्युपधादीर्घः । एवं शिखरीणतामित्यादावपि । सपक्षशिखरिण इवाचरन्तीति सपक्षशिखरीणन्तः तेषाम् । क्लिबन्ताच्छता । पूषेवाचरसि पूषाणसि हिमानीवाचरन्तीति हिमन्तः तेषाम् । राजेव चन्द्र इवाचरसि राजानसि तमांसीवाचरन्तीति तमसन्तः तेषां । सर्वाणि षष्ठ्यन्तपदानि सुरद्विषामित्यस्य विशेषणानि । एवं केवलश्लिष्टपरंपरितमालारूपोपमाया उदाहरणे ‘सत्त्वस्य हिमालय इव' इति प्राथमिकपद्ये 'रजसस्त्वं प्रावृषेण्यजलद इव' इत्यादौ प्रातिकूल्ये उपायता द्रष्टव्या । एवं च सा आनुकूल्यप्रातिकूल्यमिश्रेति सिद्धम् । इतश्चान्येऽपि भेदाः कुशाग्रीयमतिभिः कृतिभिस्स्वयमेव विभावनीया इति विस्तरभयादुपरम्यते ॥

 अत्रोपमायां पूर्णायां धर्मः क्वचिदनुगाम्येव निर्दिश्यते । क्वचित्केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिद्वस्तुप्रतिवस्तुभावेन करम्भितं बिम्बप्रतिबिम्बभावमापन्नः । क्कचिच्छुद्धवस्तुप्रतिवस्तुभावमापन्नः। क्वचिदसन्नप्युपचरितः । क्वचिच्छब्दात्मकः, अयमेव श्लेषात्मकः । क्वचित्समासान्तराश्रयणमूलकः । क्वचिदेषां यथासम्भवं मिश्रणेन ॥

 तत्रानुगामी धर्मो यथा

 ज्योत्स्नाचन्द्रमसाविव वृषगिरिकलितौकसौ महामहसौ । सुतरौ जगतां पितरौ बुद्धौ निदधीय नित्यसम्बद्धौ ॥ ८५ ॥

 अत्र नित्यसंबद्धाविति सकृन्निर्देशात् ज्योत्स्नाचन्द्रमसोः श्रीश्रीनिवासयोश्च साधारणो धर्मोऽनुगामी॥  यथा वा--

 कादम्बिनीव नीला काकोदरगिरिदरीविहृतिलोला । आप्याययति सुमहती काऽप्येषा देवताऽद्भुता जगतीम् ॥ ८६ ॥

 अत्र नीलेति आप्यायतीति च सकृन्निर्देशात्परदेवताकादम्बिन्योस्साधारणधर्मोऽनुगामी ॥

 यथा वा--

 निधिमनवधिमिव फणिगिरिनिहितपदं हितपदं । विधुतविपदम् । निर्विश्य नीरजाक्षं नितरां को नाम भवति दीनात्मा ॥ ८७ ॥

 हितपदं हिताधायकं अत्र हितपदत्वादिर्धर्मोऽनुगामी ॥

 यथा वा--

 तावकपदपद्मयुगीसेवकतां येन जात्वपीप्सन्ति । नाशायैव हि जाताश्श्रीशाब्धेर्बुद्बुदा इव त एते ॥

 यथा वा--

 सुकृतेक्षणजनुषान्धास्सकृदपि न नमन्ति ये रमाकान्तम् । अकृतहिता व्यर्थममी शकृदुदिताः क्रिमय इव विनश्यन्ति ॥ ८९ ॥

 सुकृतेक्षणे पुण्यदर्शने विषये जनुषान्धाः जात्यन्धाः ‘पुंसानुजो जनुषान्ध इति च' इत्यलुक् । सुकृतव्युत्पत्तिशून्या इत्यर्थः । अत्र भगवदप्रणतानां निन्दायामेव तात्पर्यादुपमानस्य निहीनत्वं न दोषः । प्रत्युत गुण एव । उभयत्र नाशोऽनुगामीधर्मः ॥

 केवलं बिम्बप्रतिबिम्बभावमापन्नो धर्मो यथा--

 कमलाभुजयुगळाञ्चितपरितःपरिरम्भमद्भुतं किमपि । कनकशलाकावलयितमरकतनिभमस्तु मनसि मम वस्तु ॥ ९० ॥

 कमलाभुजयुगळेन अञ्चितः प्राप्तः परितः परिरम्भः सर्वतस्संश्लेषो यस्य तत् किमपि अद्भुतं वस्तु श्रीनिवासः अत्र कमलाभुजयुगळकनकशलाकादेर्बिम्बप्रतिबिम्बभावेन साधारणधर्मता ॥

 ननु कमलाभुजयुगळादेरसाधारणत्वात्कथमुपमेति चेत्--अत्राहुः- उपमेयगतानामुपमानगतानां च असाधारणानामपि धर्माणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पनादुपमासिद्धिः । न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कमलाभुजयुगळकनकशलाकादेर्वस्तुतो भिन्नस्य साधारणत्वसिद्धयेऽत्यन्तमसन्नभेदश्शक्नुयात्सेद्धुम्, भ्रमेणार्थसिद्धेरयोगादिति वाच्यम् । ‘तव कोपो समाभाति सुधांशाविव पावकः' इत्यादावप्युपमानोपमेययोरतिमात्रमसत्त्वेऽपि यथा कल्पनामात्रेण निष्पत्तिः तथैव प्रकृते साधारणधर्मस्यापीति ध्येयम् । अयमेव हि 'वस्तुतो भिन्नयोर्धर्मयोः परस्परसादृश्यादभिन्नतयाऽध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः' इति प्राचीनैरभिधीयते ॥

 वस्तुप्रतिवस्तुभावेन करम्भितं बिम्बप्रतिबिम्बभावमापन्नस्तु धर्मस्त्रिविधः विशेषणमात्रयोः विशेष्यमात्रयोः तद्युगळयोर्वा वस्तुप्रतिवस्तुभावेन करम्भितः ॥  तत्राद्यो यथा--

 उपरिचरन्मधुकरकुलकमलनिभं वृषभशैलशिखरशशिन् । उपरिष्टाच्चलदलकं वदनं तव विश्वसम्पदां सदनम् ॥ ९१ ॥

 अत्र उपरिचरत्वोपरिष्टाच्चलत्वयोर्वस्तुत एकविधयोरपि पृथक्छब्दाभ्यां निर्देशाद्वस्तुप्रतिवस्तुभावः तद्विशेषणकयोर्मधुकरकुलालकयोर्बिम्बप्रतिबिम्बभाव इति तत्करम्भितत्वं धर्मस्य ॥

 द्वितीयो यथा--

 स्मितरुचिमसृणितमधरं फणधरधरणीधराधिनेतुर्नः । दुग्धोदधिमुग्धोर्मिस्निग्धं विद्रुममिवावलेढि मनः ॥ ९२ ॥

 अत्र मसृणत्वस्निग्धत्वयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादानाद्वस्तुप्रतिवस्तुभावः तद्विशेष्यकयोः स्मितरुचिदुग्धोदधिमुग्धोर्म्योर्बिम्बप्रतिबिम्बभाव इति तत्करम्भितोऽयं साधारणधर्मः ॥

 यथा वा--

 जाम्बूनदाद्रिशृङ्गे जम्बूतरुमिव चकासतं सततम् । कनकाभिधगिरिशिखरे कनन्तमीडीय कमपि शुभराशिम् ॥ ९३ ॥

 अत्र चकासत्त्वकनत्त्वयोर्वस्तुप्रतिवस्तुभावः तद्विशेष्यकयोर्जाम्बूनदाद्रिशृङ्गकनकाभिधगिरिशिखरयोर्बिम्बप्रतिबिम्बभाव इत्ययमपि तत्करम्भित एव । कनकाभिधगिरिर्वैकटाद्रिः। शुभराशित्वेनात्र भगवतोऽध्यवसानम् ॥  यथा वा--

 हीरकुरुविन्दहारप्रसृमररुचिशबलिता तनुलता श्रीः । देव तव गाङ्गसारस्वतपूरविचित्रितेव मित्रसुता ॥ ९४ ॥

 अत्रापि शबलितत्वविचित्रितत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकयोः हीरकुरुविन्दहाररुचिगाङ्गसारस्वतपूरयोश्च बिम्बप्रतिबिम्बभाव इत्ययमपि तत्कम्भित एव ॥

 तृतीयो यथा--

 शिशिरतरसलिलरुचिरा शशिशेखरमकुटवाहिनीवैषा । शीतलतरकरुणारसमधुराऽहिधुरंधराद्रिनाथवधूः ॥ ९५ ॥

 अत्र विशेषणयोश्शिशिरतरत्वशीतलतरत्वयोः विशेष्ययोः रुचिरत्वमधुरत्वयोश्च वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितस्सलिलकरुणारसयोर्बिम्बप्रतिबिम्बभाव इत्ययमपि तत्करम्भित एव ॥

 यथा वा--

 सुन्दरकुरुविन्दमणीसमुद्गकान्तस्थहीरहारलताम् । मञ्जुलरदनच्छदयुगमध्यगता जयति नाथ दशनाळी ॥ ९६ ॥

 अत्रापि विशेषणयोस्सुन्दरत्वमञ्जुलत्वयोः विशेष्ययोश्चान्तस्थत्वमध्यगतत्वयोः वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितः कुरु विन्दमणीसमुद्गकदशनच्छदयुगयोर्बिम्बप्रतिबिम्बभाव इत्ययमपि तत्कम्भितः ॥  यथा वा--

 असितैः कुसुमैर्मसृणाश्शालाबिभ्रत्तमालसाल इव । नीलैर्मणिभिर्निबिडा बाहा दधदहिगिरेःपतिर्जयति ॥ ९७ ॥

 अत्र कुसुममणिविशेषणयोरसितत्वनीलत्वयोस्तद्विशेष्ययोश्च मसृणत्वनिबिडत्वयोः एवमेव शालाबाहाविशेषणत्वमापन्नयोः मसृणत्वस्निग्धत्वयोः तद्विशेष्ययोर्बिभ्रत्त्वदधत्त्वयोश्च वस्तुप्रतिवस्तुभावेनोभयतस्संपुटितः कुसुमानां मणीनां शालानां बाहानां च बिम्बप्रतिबिम्बभाव इत्ययमपि वस्तुप्रतिवस्तुभावकरम्भित एव । पूर्वत्र संपुटित एको बिम्बप्रतिबिम्बभावः इह तु द्वाविति विशेषः । शालाः स्कन्धशाखाः ‘स्कन्धशाखाशाले’ इत्यमरः । स्कन्धान्निर्गता शाखा स्कन्धशाखा स्कन्धो नाम मूलाच्छाखावधिः प्रकाण्डः ‘अस्त्री प्रकाण्डस्स्कन्धस्स्यान्मूलाच्छाखावधेस्तरोः' इत्यमरः । स्कन्धशाखा शाला चेत्येतौ शब्दौ उक्तशाखावाचिनौ । अयं तृतीयः प्रकारो रसगङ्गाधरकारेणोक्तः। चित्रमीमांसायां तु प्रागुक्तौ द्वावेव प्रकारौ दर्शितौ । यथोक्तं तत्र- 'एकस्यैव धर्मस्य सम्बन्धिभेदेन द्विरुपादनं वस्तुप्रतिवस्तुभावः । स तु शुद्धो न सम्भवति किं तु विशेषणतया विशेष्यतया वा सर्वत्र बिम्बप्रतिबिम्बभावकरम्भितः' इति । एवं च शुद्धवस्तुप्रतिवस्तुभावापन्नो धर्मो न संभवतीत्येव ते मन्यन्ते ॥

 रसगङ्गाधरकारस्तु— ‘विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति' इत्यत्र वैमल्यनिष्कलङ्कत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्धवस्तुप्रतिवस्तुभावापन्नोप्येष षष्ठो धर्म इत्यवादीत् । एतदभिप्रायानुरोधेनैवास्माभिश्शुद्धवस्तुप्रतिवस्तुभावापन्नोऽपि भेदोऽधस्तात्परिगणितः ॥

 स यथा--

 विमले विलोचने तव विशदशरद्विकसिताम्बुजायेते । मृगराजाह्वयविलसन्नगराजाधीश्वरस्य जायेते ॥ ९८ ॥

 मृगराजाह्वयविलसन्नगराजाधीश्वरस्य श्रीवेंकटाद्रिनेतुः जाये सहधर्मिणि ते विमले विलोचने विशदे स्वच्छे शरद्विकसिताम्बुजे इवाचरतः विशदशरद्विकसिताम्बुजायेते, क्यङन्ताल्लट्प्रथमपुरुषद्विवचनम् । अत्र विमलत्वविशदत्वयोर्वस्तुत एकरूपयोर्बिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वमिति शुद्धवस्तुप्रतिवस्तुभावापन्नता धर्मस्यति ध्येयम् ॥

 न च ‘कमलभुजयुगळाञ्चितपरितःपरिरम्भम्' इत्यादौ मरकतभगवतोरुपमायां धर्मान्तरस्यानवगमात्कमलाभुजयुगळ कनकशलाकयोः परिरब्धत्ववलयितत्वयोश्च बिम्बप्रतिबिम्बभावो यथाऽवश्यमभ्युपेयः प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः, विलोचनाम्बुजयोर्मनोहरत्वरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम् । एवं तर्हि ‘यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या' इति भवभूतिपद्येऽपि प्रतीयमानेन सौन्दर्येणैव सामान्येन निर्वाहे कन्धरावृन्तयोर्बिम्बप्रतिबिम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सर्वैरालंकारिकैस्स्वीकारो विरुध्येत । अतो यथाऽवस्थितमेव साधु ॥

 असन्नप्युपचरितो यथा--  द्रुहिणस्मरहरमुखसुरमहिमानोऽप्यहह तावकमहिम्नि । जलजविलोचन जलधौ कुलाचला इव किलाभिमज्जन्ति ॥ ९९ ॥

 अत्र मज्जनं मूर्तद्रव्यधर्मो महिमसूपचरितः ॥

 यथा वा--

 प्रसभं प्रवेशितमपि प्रायश्चरिते तवेश शठहृदयम् । नैव द्रवति समुद्रेऽप्ययो घनतरं पयोजनयन यथा ॥ १०० ॥

 प्रसभं प्रवेशितमित्यस्य उत्तरार्धे समुद्रे इत्यत्राप्यन्वयः । घनतरं अयो यथा कालायसमिवेत्यर्थः । अत्र प्रवेशनद्रवयोर्मूर्तद्रव्यधर्मतया हृदये उपचारः ॥

 श्लेषात्मको यथा--

 मञ्जुलतमालसर्च्छ्रीरञ्जनधरणीधरेशहृदयगता। वनमालेव विचित्रा वनमाला प्रसृमरामोदा ॥ १०१॥

 मञ्जुलैः तमालैः तापिञ्छैः सती प्रशस्ता श्रीश्शोभा यस्यास्सा तथोक्ता । पक्षे– मञ्जुलतमा लसर्च्छ्रीरिति छेदः, मञ्जुलतमा अतिमनोज्ञेत्यर्थः । लसन्ती श्रीः लक्ष्मीः यस्यां सा । अञ्जनधरणीधरेशस्य अञ्जनाख्यगिरिवरस्य । पक्षे--वेङ्कटाद्रिनाथस्य भगवतः हृदयं मध्यभागं वक्षश्च गता प्राप्ता । प्रसृमरः विसृत्वरः आमोदः परिमळविशेषो यस्यास्सा । अन्यत्र प्रकृष्टः सृमराणां महाचमरीमृगाणां आमोदो हर्षः यस्यां सा । ‘सृमरो गवयश्शशः’ इति मृगविशेषनामस्वमरः। वनमालेव विपिनपङ्क्तिरिव वनमाला वैजयन्ती विभिः पक्षिभिः चित्रा विस्मयावहा । पक्षे ‘पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः’ इत्युक्तरीत्या पञ्चवर्णतया शबलेत्यर्थः । अत्र वनपङ्क्तिवैजयन्त्योश्लेषकृतस्साधारणो धर्मः । अत्र उपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव साधारणधर्म इत्यन्ये ॥

 यथावा--

 निजविभवमहिमगायकमयूरविभ्राडुदात्तघनतेजाः । वर्षासमय इवायं तर्षाञ्शमयति रमासखो जगताम् ॥ १०२ ॥

 निजविभवमहिमगायकाः मयवः किन्नराः यस्य स तथोक्तः । 'स्यात्किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः' इत्यमरः । रविभ्राट् सूर्य इव भ्राजमानः । उदात्तं श्रेष्ठं घनं सान्द्रं तेजो यस्य स तथोक्तः इति भगवत्पक्षे । वर्षासमयपक्षे तु -निजविभवमहिम्नः गायकाः केकारवैः प्रकाशकाः ये मयूराः तैः विभ्राट् भ्राजिष्णुः । उदात्तं घनानां तेजो यस्मिन् तथोक्तः । तर्षान् आशाः उदन्याश्च शमयति । अत्रापि श्लेषकृतस्समानधर्मः ॥  समासभेदाश्रयणमूलको धर्मो यथा--

 मांसलशङ्खसुदर्शनहंसावर्ता सनाभिनाळीका । शमितामितभवदमुना यमुनालहरीव तव तनुश्शौरे ॥ १०३ ॥

 मांसलो पृथुलौ शङ्खसुदर्शनौ हंसावर्ताविव शङ्खसुदर्शनहंसावर्तौ यस्यां सा तथोक्ता । अन्यत्र- शङ्खसुदर्शनाविव हंसावर्ताविति समासः । नाभेर्नाळीकं तेन सह वर्तत इति तथोक्ता । अन्यत्र नाभ्या मध्यस्थकर्णिकया सह वर्तन्त इति तथोक्तानि नाळीकानि पद्मानि यस्यां सेति वा नाभितुल्यं नाळीकं तेन सह वर्तत इति वा समासः । भवः दमुनाः अग्निरिवेति । पक्षे--भवसदृशः दमुनाः इति समसः । एवं समासभेदाश्रयणेन समानधर्मता । केचिदिमं साधारणधर्मं पृथङ्नाद्रियन्ते, समासभेदनिबन्धनयोरर्थयोश्लेषभित्तिकाभेदाध्यवसायेनैकधर्मतासम्पादनात् । श्लेषात्मके समानधर्म एवास्याप्यन्तर्भाव इति तेषामाशयः ॥

 मिश्रणेष्वनुगामित्वबिम्बप्रतिबिम्बभावापन्नधर्मयोर्मिश्रणं यथा-

 फलवानिव धरणिरुहो जलवानिव जाह्नवीह्रदो जगति । बलवानिव धरणिपतिर्जलजेक्षणभक्तिमान् जनश्श्लाघ्यः ॥ १०४ ॥

 अत्र भगवद्भक्तिमत्त्व फलवत्त्वादि च बिम्बप्रतिबिम्बभावमापन्नौ धर्मौ श्लाघ्यत्वे अनुगामिनि धर्मे अभेदमासाद्य स्थितौ ॥  यथावा--

 अपि सुमनःकुलजाताः खेटास्त्वन्महिमसम्पदनभिज्ञाः । अपि सुमनःकुलजाताः कीटा इव दूरतस्त्याज्याः ॥ १०५ ॥

 सुमनःकुले विद्वद्वंशे द्वितीयार्धे कुसुमसमुदये जाताः खेटाः गर्ह्या जनाः ‘कुपूयकुत्सितावद्यखेटगर्ह्याणकस्समाः' इत्यमरः । अत्र भगवन्महिमसम्पदनभिज्ञानां गर्ह्यजनानां कीटानां च दूरतस्त्याज्यत्वरूपोऽनुगामी धर्मः विद्वद्वंशजातत्वकुसुमसमूहभवत्वयोर्बिम्बप्रतिबिम्बभावमपेक्ष्य लब्धात्मकः ॥

 यथावा--

 परतासौशील्याभ्यां दुरधिगमो नाथ भवसि सुगमश्च । उच्चैस्त्वफलित्वाभ्यामुत्तमनग इव नृणां खगगिरीन्दो ॥ १०६ ॥

 अत्र दुरधिगमत्वं सुगमत्वं च परत्वसौशील्ययोरुच्चैस्त्वफलित्वयोश्च बिम्बप्रतिबिम्बभावमपेक्ष्य लब्धात्मकमनुगामी साधारणो धर्मः । अत्राद्यं मालारूपं, द्वितीयं यमकेन तृतीयं यथासङ्ख्येन सङ्कीर्णमिति विशेषः ॥

 यथा वा--

 सम्राज इवानम्रा भूपालातित्यमप्यनतिवेलाः । शिरसा दधते शासनमरविंदासनमुखाश्च तव भूमन् ॥ १०७ ॥

 सम्राज इति षष्ठ्यन्तं पदम् । अत्रानम्रत्वादिकं सामान्यधर्मस्सम्राड्भगवतोर्बिम्बप्रतिबिम्बभावमुपजीव्याधिगतसत्ताकमिति ध्येयम् ।

 यथावा--

 फणिशैलनाथ मसृणितमणिवरमौक्तिकसरो हरे भवतः । प्रतिभाति हृदयदेशः प्रतिबिम्बितचन्द्रतार इव सिन्धुः ॥ १०८ ॥

 मणिवरः कौस्तुभः । एवं पूर्वमुदाहृते ‘आनन्दनिलय ’ इति पद्येऽपि मिश्रणं द्रष्टव्यम् । इदं शुद्धबिम्बप्रतिबिम्बभावानुगामिनोर्मिश्रणम् ॥

 अनुगामित्ववस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभावयोर्धर्मयोर्मिश्रणं यथा--

 उपसृप्यते जनैरभ्युदितस्त्वज्ज्ञानभजनवैराग्यैः। पादप इव परमात्मन्प्रसूनफलपल्लवैस्समुल्लसितः ॥

 अभ्युदितः अभ्युदयं प्राप्तः । अत्राभ्युदितत्वसमुल्लसितत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकाणां भगवज्ज्ञानभजनवैराग्याणां प्रसूनफलपल्लवानां च बिम्बप्रतिबिम्बभाव इति तत्करम्भितोऽय धर्म उपसर्पणे अनुगामिनि धर्मे अभेदमापन्नः ॥

 यथावा--

 वृजिनव्रजविनिमग्नो गज इव सीदामि मकरमुखलग्नः । त्वामन्तरेण को मे कामं क्षेमंकरो हरे भविता ॥ ११० ॥  हरे इति करिवरदत्वाभिप्रायकं, हर्यवतार एव गजेन्द्रमोक्षणात् । अत्र विनिमग्नत्वलग्नत्वयोर्वस्तुप्रतिवस्तुभावः, तद्विशेष्यकयोः वृजिनव्रजमकरमुखयोर्बिम्बप्रतिबिम्बभावः । तदवलम्बनेनसीदामीत्यनुगामी प्राप्तसत्ताक इत्यनयोर्मिश्रणम् । न च विनिमग्नत्वलग्नत्वयोर्विभिन्नत्वान्न वस्तुप्रतिवस्तुभावस्सम्भवतीति वाच्यम् । वृजिनव्रजे निमज्जनस्यासम्भवात्तत्रापि सम्बन्धमात्रस्यैव विवक्षणेन तयोरेकरूपत्वात् ॥

 यथावा--

 अविरळदळकुसुममयस्तबकस्तिमितो द्विरेफराज इव । घनघृणिहरिमणिमयफणिशिखरिविलीनो हरिर्मनो हरति ॥ १११ ॥

 अत्र अविरळत्वघनत्वयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादानाद्वस्तुप्रतिवस्तुभावः । तद्विशेषणकानां दळानां घृणीनां च । एवं स्तिमितत्वविलीनत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकयोः कुसुममयस्तबकहरिमणिमयफणिशिखरिणोश्च बिम्बप्रतिबिम्बभाव इति तत्करम्भितोऽयं धर्मो मनोहरणे अनुगामिनि धर्मे अभेदमासाद्य स्थित इत्यनयोर्मिश्रणम् । पूर्वोदाहरणद्वये विशेष्ययोर्वस्तुप्रतिवस्तुभावः । इह तु विशेष्यस्य विशेषणस्य चेति द्विविधो वस्तुप्रतिवस्तुभाव इति भिदा ॥

 क्वचिद्धेतुहेतुमद्भावेन यथा--

 सौलभ्यजनिस्थानं सेव्यस्सर्वैर्नरैस्सरोजाक्षः । सौरभ्यजन्मभूमिस्सरसीरुहनिवह इव मधुकरौघैः ॥  अत्र जनिस्थानत्वजन्मभूमित्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यके सौलभ्यसौरभ्ये बिम्बप्रतिबिम्बभावापन्ने सरोजाक्षसरसीरुहनिवहयोस्सेव्यत्वेऽनुगामिनि हेतुः । इदं मिश्रणं शुद्धबिम्बप्रतिबिम्बभावेऽपि भवतीति ध्येयम् ॥

 अनुगामित्वश्लेषयोर्मिश्रणं यथा--

 नरसिंहगिरिवरोऽयं शिरसा सुकलाभिपूर्णविधुबिम्बम् । उदयाद्रिरिव दधानः प्रददात्यानन्दमखिललोकानाम् ॥ ११३ ॥

 सुकलाभिपूर्णं ‘मन्त्रमन्त्रेश्वरन्यासात्साऽपि षाड्गुण्यविग्रहा’ इत्युक्तरीत्या सकलकलापरिपूर्णमिति भगवद्बिम्बपक्षेऽर्थः । अन्यत्र तु स्फुट एव विधुबिम्बं श्रीनिवासार्चां

सर्वातिशायि षाड्गुण्यं संस्थितं मन्त्रबिम्बयोः ।
तेनार्च्यो भगवान् साक्षान्नोपचारधिया क्वचित् ॥

इति भगवच्छास्त्रवचनान्यत्रानुसन्धेयानि । अन्यत्र चन्द्रबिम्बमित्यर्थः । अत्र सुकलाभिपूर्णविधुबिम्बशब्दश्लेषोपजीवनेन प्राप्तात्मस्थितिकमखिललोकानन्दप्रदत्वमनुगामी साधारणो धर्मः ॥

 श्लेषवस्तुप्रतिवस्तुभावबिम्बप्रतिबिम्बभावमिश्रणं यथा--

 वैशद्यं नैति नरो विद्यां संशिक्षितोऽप्यसुरशीलः। शाणोल्लिखितोऽप्यच्युत मलिनप्रकृतिर्यथेङ्गालः ॥ ११४ ॥  असुरशीलः--

द्विविधो भूतसर्गोऽयं दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥

इत्युक्तप्रकारेणासुरप्रकृतिरित्यर्थः । विद्यां ‘सा विद्या या विमुक्तये’ इत्युक्तां ब्रह्मविद्यां संशिक्षितोऽपि सम्यगनुशिष्टोऽपि वैशद्यं परतत्त्वबोधनं नैति ।

जन्मान्तरसहस्रेषु या बुद्धिर्भाविता पुरा ।
तामेव भजते जन्तुरुपदेशो निरर्थकः ॥

 नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ।

इत्याद्युक्तेरिति भावः । पक्षे--वैशद्यं धावळ्यं अन्यत्सुगमम् । अत्रासुरशीलत्वमलिनप्रकृतित्वयोर्वस्तुप्रतिवस्तुभावकरम्भितः बिम्बप्रतिबिम्बभावः शीलप्रकृत्योर्वस्तुत एकरूपयोर्विभिन्नशब्दाभ्यां निर्देशात्, तद्विशेष्यकयोः असुरमलिनयोर्वस्तुतोऽभिन्नयोरपि सारूप्येणैकत्वाध्यवसानाच्च । विद्यासंशिक्षितत्वशाणोल्लिखितत्वयोः केवलं बिम्बप्रतिबिम्बभावः । वैशद्यं नैतीति श्लिष्टस्समानधर्मस्ताभ्यामुत्तेजित इति द्रष्टव्यम् ॥

 श्लेषोपचारबिम्बप्रतिबिम्बभावमिश्रणं यथा--

 प्रेक्षावत इव साक्षात्परमस्य ब्रह्मणो वृषगिरीन्दोः । विद्येव श्रीर्हृद्या चेतोहृत्पद्यमुज्ज्वलयतीयम् ॥

 प्रेक्षावतः प्रज्ञाशालिनो जनस्येव साक्षात्परमस्य ब्रह्मणः श्रीनिवासस्य विद्येव काव्यच्छन्दोव्याकरणादिविद्येव श्रीः लक्ष्मीः हृदयस्था चित्तधृता अयातयामा सतीत्यर्थः । भवार्थे हृदयशब्दाद्दिगादित्वाद्यत् । अन्यत्र हृदयप्रिया सती ‘हृदयस्य प्रियः' इति यत् । उभयत्र ‘हृदयस्य हृल्लेखयदण्लासेषु’ इति हृदादेशः । चेतोहृत् मनोहरं पद्यं श्लोकं काव्यमित्यर्थः । उज्ज्वलयति प्रवर्तयतीति यावत् ॥

 श्रीपक्षे- च इतः हृत् इति त्रिपदतया छेदः । चशब्दो भिन्नक्रमः । इत इति सार्वविभक्तिकस्तसिः। अस्य श्रीनिवासस्येत्यर्थः । हृत् वक्षः पद्यं पदं चरणमस्मिन् दृश्यमिति पद्यं, यावकविलिप्तनिजचरणतलाङ्कितं सदित्यर्थः । पद्यं यथा स्यात्तथेति वा । ‘पदमस्मिन् दृश्यम्’ इति पदशब्दादुक्तार्थे यत् । उज्ज्वलयति च कौस्तुभाद्यपेक्षया उत्कृष्टत्वेन प्रकाशयति चेत्यर्थः । ज्वलतेर्णिजन्ताल्लटि घटादित्वेन मित्वाद्ध्रस्वः । अत्र ‘पूर्णं तेजस्स्फुरति भवतीपादलाक्षारसाङ्कम्' इत्यादिकमनुसन्धेयम् । अत्र प्रेक्षावत्परब्रह्मणोर्बिम्बप्रतिबिम्बभावः । हृद्या चेतोहृत्पद्यमिति श्लेषः, उज्ज्वलयतीत्युपचार इत्येतेषां मिश्रणम् ॥

 केवलबिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभावश्लेषानुगामितानां यथा--

 भवन इवाखिलभुवने सुदीप्तिनिधयस्सुकीर्तिशेवधयः। दीपा इवाभिरूपाश्श्रीपरिबृढ संचरन्ति भवदीयाः ॥ ११६ ॥

 सुदीप्तिनिधयः दीपा इव सुकीर्तिशेवधयः भवदीयाः अभिरूपास्सन्तः भवनेष्विव भुवनेषु संचरन्तीति योजना । अभिरूपाः मनोहराः विद्वांसश्च । ‘प्राप्तरूपसुरूपाभिरूपा बुधमनोज्ञयोः' इत्यमरः । अत्र भवनभुवनयोः केवलं बिम्बप्रतिबिम्बभावः, निधिशेवध्योः वस्तुप्रतिवस्तुभावः, तद्विशेष्यकयोः दीप्तिकीर्त्योर्बिम्बप्रतिबिम्बभावः तत्करम्भितः अभिरूपा इति श्लेषः, संचरन्तीत्यनुगामित्वमित्येतेषां मिश्रणम् ॥

 अनुगामित्वश्लेषबिम्बप्रतिबिम्बभावोपचाराणां मिश्रणं यथा--

 जगति समन्तात्प्रथितं प्रविततसारस्वतोदितं नियतम् । अमृतमिव त्वच्चरितं सुरा इव नराः पिबन्ति मुरवैरिन् ॥ ११७ ॥

 सारस्वतं सरस्वत आगतं ‘तत आगतः’ इत्यर्थे प्राग्दीव्यतीयोऽण् । उदितं उदयः आविर्भावो यस्य तत्, प्रविततं च तत् सारस्वतोदितं चेति विग्रहः, विस्तृतं दुग्धोदधिजनितं चेत्यर्थः । पक्षे- प्रविततानि यानि सारस्वतानि सरस्वतीविभूतिभूतानि शास्त्राणि ‘यत्सारस्वतदुग्धसागर’ इत्यादिप्रयोगात् । तैः उदितं उदीरितम् । अत्र समन्तात्प्रथितत्वमनुगामी, प्रविततसारस्वतोदितमिति श्लिष्टः, अमृतचरितयोर्बिम्बप्रतिबिम्बभावापन्नः पिबन्तीत्युपचरितस्साधारणधर्म इत्येतेषां मिश्रणम् । एवमन्यैरपि व्यामिश्रणं सुधीभिरुन्नेयमतिभूमित्वादेषां दिङ्मात्रमुदाहार्ष्म । तथाचोक्तं काव्यालोके--

अर्पयन्तो विकल्पनां रूपकोपमयोर्यतः ।
दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ इति ॥

 'पूर्णायामेवेमे धर्मभेदाः । लुप्तायां तु नैवं भेदाः तस्यां साधारणधर्मस्यानुगामित्वनियमात्’ इति चित्रमीमांसाकृतः । रसगङ्गाधरकारस्तु नेमं नियममभ्युपैति । तथाच तद्ग्रन्थः— "यच्चाप्पदीक्षितैः लुप्तायां तु नैवं भेदाः तस्यां साधारणधर्मस्यानुगामितानियमादिति । तन्न– ‘मलय इव जगति पाण्डुर्वल्मीक इवाधिधरणि धृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानां सर्पाणां दुर्योधनादीनां बिम्बप्रतिबिम्बभावस्यैव प्रतिपत्तेः । न च शब्देनोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचितः, श्रौतत्वार्थत्वाभ्यां बिम्बप्रतिबिम्बभावस्य द्वैविध्यौचित्यात् । अतएवाप्रस्तुतप्रशंसादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयवबिम्बप्रतिबिम्बभावमूलं संगच्छते” इत्यभाणीत् । अयं चात्र विशेषः-'उभयमध्ये प्रतिबिम्बस्यैवोपादाने उपमाने धर्महानिर्दोषः तत्र तत्स्थानीयधर्मानुक्तेः । बिम्बमात्रोपादाने तूपमाने धर्माधिक्यं दोषः उपमेये तत्स्थानीयधर्मानुक्तेः । तस्माद्बिम्बप्रतिबिम्बभावापन्नयोर्द्वयोरेव शाब्दत्वं द्वयोरेव वाऽर्थत्वं विवक्षितं, न त्वेकस्य शाब्दत्वमन्यस्यार्थत्वमिति तत्त्वम्’ इति वदन्ति । एवंच क्वचिदर्थगम्योऽपि बिम्बप्रतिबिम्बभावापन्नो धर्मस्सम्भवतीति सिद्धम् ॥

 यथा--

 संक्रन्दननन्दनवनभूमिरिवानन्दभूमिधरभूमिः । व्यालेशाचलरमणः प्रालेयाचलवरेण्य इव ॥ ११८

 आनन्दभूमिधरश्शेषाद्रिः आनन्दाद्रिरिति तन्नामसु पाठात् । वचनं त्वेकोनत्रिंशे ‘चिन्तामणिधरणीभृति’ इति श्लोके उदाहाष्मर्धस्तात् । अत्र नन्दनवनशेषाचलभूम्योः हिमाचलश्रीनिवासयोश्चानुगाम्यादिधर्मान्तराप्रत्ययेन कल्पतरोश्श्रीनिवासस्य च गङ्गाया दयायाश्च बिम्बप्रतिबिम्बभावस्यैव गम्यमानत्वादुपमानिष्पत्तिः ॥  यथावा--

 पवनाशनाचलाग्रं धनाधिनाथस्य कोशभवनमिव । खनिरिव जलनिधितनयाप्रणयवती देवता परा सैषा ॥ ११९ ॥

 जलनिधितनयायां प्रणयवती परा देवता श्रीनिवास इत्यर्थः। अत्र शेषाचलाग्रधनदकोशभवनयोः खनिपरदेवतयोश्चानु गाम्यादिधर्मान्तराप्रतीत्या भगवतो निधेश्च गुणानां मणीनां च बिम्बप्रतिबिम्बभावस्यैव प्रतीयमानत्वान्निष्पत्तिरुपमाया इति ध्येयम् ॥

इत्यलङ्कारमणिहारे उपमासरः प्रथमः.

अलङ्कारमणिहारः.pdf