अलङ्कारमणिहारः (भागः १)/उपमेयोपमालंकारसरः (२)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथोपमेयोपमा.


उपमेयोपमा सा स्यादुपमानोपमेययोः ।
पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते ॥ २३ ॥

 पूर्वोपमायामुपमेयस्य द्वितीयोपमायामुपमानत्वं तत्रोपमानस्योपमेयत्वं च यत्र वर्ण्यते सा उपमेयोपमेत्यर्थः ॥

 यथा--

 श्रीवासहृदयलोला वननिधिबालेव कनति वनमाला । वनमालेव विराजति वननिधिबाला विभासिगुणजाला ॥ १२० ॥  अत्र वननिधिबालावनमालयोर्वाक्यभेदेन उपमानत्वमुपमेयत्वं च वर्णितम् । तत्र प्रथमे वाक्ये श्रिय उपमानत्वं वनमालाया उपमेयत्वं द्वितीये तु व्यत्ययेनेति लक्षणसमन्वयः । लक्ष्मीवनमालयोः कस्याश्चित्कयाचित्सादृश्येऽभिहिते तस्या अप्यन्यया सादृश्यमर्थसिद्धमपि कण्ठरवेणाभिधीयमानं तृतीयसदृशव्यवच्छेदं फलति । अत्रोदाहरणे प्रकृतयोरेवोपमानोपमेयत्वकल्पनं, प्रकृताप्रकृतयोरप्येषा सम्भवतीति कुवलयानन्दे स्थितम् ॥

 तत्रेदमुदाहरणम्-

 घनपतिरिव भुवनपतिर्भुवनपतिरिवैष घनपतिर्लसति। चपलेवैषा कमला कमलेव चकास्ति चपलाऽपि ॥ १२१ ॥

 भुवनपतिः भगवान्, चपला विद्युत् । अत्र भुवनपतिः कमला च प्रकृतौ, एषः एषेति निर्देशात् । इयं च तावद्द्विविधा ‘उक्तधर्मा व्यङ्ग्यधर्मा चेति । उक्तधर्मा तावदनुगाम्यादिभिः प्रागुक्तैर्धर्मैरनेकधा । तत्रानुगामी धर्मस्त्वव्यवहितोदाहरणे लसति चकास्तीत्युक्त एव ॥

 बिम्बप्रतिबिम्बभावापन्नो धर्मो यथा--

 शरदम्बुदपरिवीतः कलशाम्बुधिराजवीचिमध्यगतः । भुज्जगधरो मन्दर इव स मन्दरो भुजगधर इव विभायात् ॥ १२२ ॥

 विभायादिति सम्भावनायां लिङ् । अत्र परिवीतत्वमध्यगतत्वाभ्यां विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां करम्भितः शरदम्बुदकलशाम्बुधिवीचिरूपः परस्परं बिम्बप्रतिबिम्बभावमापन्नो धर्मः ॥

 केवलं वस्तुप्रतिवस्तुभावापन्नो यथा--

 कमलालयाकपोलौ विमलौ सुस्निग्धवज्रमुकुरसखौ । सुस्निग्धवज्रमुकुरौ सुविमलकमलालयाकपोलनिभौ ॥ १२३ ॥

 अत्र विमलत्वसुस्निग्धत्वयोः केवलं वस्तुप्रतिवस्तुभावः ॥

 उपचरितो यथा--

 मधुमथनभक्तचरणा विधुकिरणा इव जगद्विशदयन्ति । विधुकिरणा इव शिशिरिममसृणा मधुमथनभक्तचरणाश्च ॥ १२४ ॥

 अत्र शिशिरिममसृणा इत्येतत्पूर्वार्धेऽप्यन्वेतव्यम् । शिशिरिममसृणा विशदयन्तीति चोपचरितः । भक्तचरणा इत्यत्र चरणशब्दो गुरुचरणा इत्यादाविव पूज्यवाची ॥

 श्लेषात्मको यथा--

 विकसितपुष्करविसृमरतररसशीकरतरङ्गितात्मरुचिः।. करिणी वा पुष्करिणी पुष्करिणीवाहिशैलगा करिणी ॥ १२५ ॥

 अहिशैलगा पुष्करिणी स्वामिपुष्करिणी करिणी वा, वाशब्द उपमावाचकः । विकसितानि यानि पुष्कराणि कमलानि तेभ्यः, अन्यत्र विकसितं यत्पुष्करं शुण्डाग्रं तस्मात् विसृमरतरैः रसशीकरैः मकरन्दकरैः सलिलकणैश्च तरङ्गिता अतिशयिता आत्मनो रुचिः प्रभा स्वादुता च यस्यास्सा तथोक्ता । अत्र विकसितेत्यादिश्लेषरूपः पुष्करिणीकरिण्योस्समानधर्मः ॥

 व्यङ्ग्यधर्मा यथा--

 कल्पलतेवाम्भोनिधिसुताऽब्धिदुहितेव हन्त कल्पलता । नन्दनवनमिव शौरेर्हृदयं हृदयमिव नन्दनवनं च ॥ १२६ ॥

 इयमेव परम्परितरूपाऽपि । एवं घनपतिरिवेति प्रागुदाहृते पद्येऽपि । एषा सर्वाऽपि स्फुटे वाक्यभेदे प्रपञ्चिता ॥

 आर्थे तु वाक्यभेदे यथा--

 यद्वेङ्कटगिरिभाग्यं सौभाग्यं दौग्धसैन्धवं यदपि तन्मिथुनं भवनेऽस्मिन्नुन्मिषति परस्परोपमैश्वर्यम् ॥

 अत्र परस्परोपमैश्वर्यमिति संक्षिप्ताद्वाक्यादिदमीयमैश्वर्यमेतदीयेनैश्वर्येण एतदीयमिदमीयेन च सदृशं भवतीति वाक्यद्वयं विवरणरूपमुन्मिषति । सौभाग्यं दौग्धसैन्धवमित्यत्र हृद्भगसिन्ध्वन्ते’ इत्युभयपदवृद्धिः । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशस्सर्वेऽपि भेदास्सम्भवन्ति ॥

 तत्र दिङ्मात्रमुदाह्रियते--

 नीतिर्यथा विनीतिर्यथा विनीतिस्तथैव नीति- रपि । ख्यातिरिव भूतिरच्युत भूतिरिव ख्यातिरपि तव जनानाम् ॥ १२८ ॥

 आयत्या तुल्याऽऽदृतिरादृत्याऽप्यायतिस्तथा तुल्या । सन्नतिरुन्नतिसदृशी सन्नतिसदृशी तथोन्नतिश्चापि ॥ १२९ ॥

 धृतिवन्मतिर्विजयते मतिवद्धृतिरहिपतिक्षितिधरेन्दो। एतावती समृद्धिस्स्फीता भविता किमभवदीयानाम् ॥ १३० ॥

 इदं पद्यत्रयमेकान्वयत्वाद्विशेषकम् । 'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्श्लोकैर्विशेषकम्' इति लक्षणात् । अन्तिमपद्ये विद्यमानं विजयत इत्येतत् पूर्वेषु सर्वेष्वपि वाक्येषु समानधर्मतयाऽन्वेति । अत्र श्रौतीं तद्धितगामन्तरेण यथाक्रमं प्रथमेऽर्धे श्रौती वाक्यगा, द्वितीयेऽर्धे श्रौती समासगा इवेन सह समासविधानात्, तृतीयेऽर्धे आर्थी वाक्यगा, तुरीयेऽर्धे आर्थी समासगा, पञ्चमे आर्थी तद्धितगा चेति श्रौत्यार्थी च पञ्चविधा पूर्णोपमेयोपमा द्रष्टव्या । अत्रैव तृतीयश्लोकप्रथमार्धे ‘धृतिदेशीया मतिरपि मतिदेशीया धृतिः फणिगिरीन्द्रा’ इति पठिते धर्मस्यानुपादानात्पञ्चविधाऽपि वाचकलुप्ता भविष्यति । श्रौती धर्मलुप्ता तु तद्धितगा न संभवतीत्यवोचाम ॥

 मेरवति वेङ्कटाद्रिर्मेरुश्श्रीवेङ्कटाद्रयति कामम् । गङ्गायतेऽभ्रगङ्गा सुरपथगङ्गायते गङ्गा ॥ १३१ ॥ अब्भ्रगङ्गासुरपथगङ्गेत्याभ्यां वेङ्कटाद्रिगता आकाशगङ्गोच्यते 'स्वामिपुष्करिणी चैव वियद्गङ्गा ततःपरम्’ इति ब्राह्मोक्तेः । अत्र क्विपि क्यङि च धर्मवाचकलुप्तोपमेयोपमा । अनयैव दिशा प्रतिभाशालिभिरन्येऽपि तत्प्रभेदा यथासम्भवमुन्नेयाः ॥

इत्यलङ्कारमणिहारे उपमेयोपमासरो द्वितीयः.

अलङ्कारमणिहारः.pdf