अलङ्कारमणिहारः (भागः १)/अनन्वयसरः (३)

विकिस्रोतः तः
Jump to navigation Jump to search

अथानन्वयसरः.


 अनन्वयो यदेकस्यैवोपमानोपमेयता ॥

 यत्रैकस्यैवोपमानोपमेयभावो निबध्यते तत्रानन्वयः । वर्ण्यमानमपि स्वस्य स्वेन साधमर्यं नान्वेतीति व्युत्पत्तेः । यथा रुद्ररोदनवपोच्छेदनाद्यर्थवादे स्तुतिनिन्दाभूतस्यासदर्थस्य निबन्धनं स्तुतिनिन्दयोरुपयुज्यते तथैवानन्वयिनोऽपि स्वस्य स्वेन सादृश्यवर्णनं द्वितीयसब्रह्मचारिव्यवच्छेदेनानुपमत्वद्योतनायोपयुज्यते । एवं च द्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतमेकोपमानोपमेयकं सादृश्यमनन्वय इति पर्यवस्यति । स च कस्याप्युपस्कारकत्वेऽलंकारः। अन्यथा तु स्ववैचित्र्यमात्रविश्रान्तः । एवमलंकारान्तरेष्वपि ॥

 सविधे विचरति भगवति समुदितमेचकिमवृषशिखरिशिखरम् । प्रावृषि विजृम्भमाणैरम्भोदैरिव करम्भितं भाति ॥ १३२ ॥
 अत्र श्रीनिवासदिव्यविग्रहरुचिमेचकितं भुजगशिखरिशिखरं स्वेनैव प्रावृषि नीलाम्बुदैः करम्भितेनोपमीयत इति तत्सादृश्यवारणाय भूतान्तं विशेषणम् । न ह्यत्र सादृश्यवर्णनस्य फलं द्वितीयसब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः ॥

 वदने पृदाकुगिरिवरसदनस्य हरेस्स्मितप्रभा लसति । शारदरविकरविकसितनीरज इव चन्द्रचन्द्रिका सान्द्रा ॥ १३३ ॥

 इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गवारणायैकोपमानोपमेयकमिति । अत्रासत उपमानस्य कल्पनया सदुपमानमं अस्तीति द्वितीयसदृशव्यवच्छेदस्यास्ति प्रतीतिः ।

 उदाहरणं--

 विधुतत्रिविधावधिकं वेदस्त्वां वदतु निस्समं भगवन् । निपुणं विचिन्तने पुनरूपमा भवतोऽस्ति ननु भवानेव ॥ १३४ ॥

 विधुतः त्रिविधोऽवधिः देशकालवस्तुपरिच्छेदो यस्य तं तथोक्तं ‘सत्यं ज्ञानमनन्तम्' इति श्रुतेः । त्वां वेदः 'न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतिः निस्समं द्वितीयसदृशवस्तुरहितं वदतु । उपमासदृश इत्यर्थः ‘प्रतिकृतिरुपमोपमानं स्यात्' इत्यमरः । ‘सहकार न प्रपेदे मधुपेन तवोपमा जगति' इति प्रयोगश्च ॥

 यथा वा --

 अखिलं भुवनं विचितं तेषां स्वरूपमपि विदि- तम् । अर्थिजनेप्सितदाने तीर्थेगिरीश त्वमेव तव सदृशः ॥ १३५ ॥

 तीर्थगिरिरिति शेषाद्रेरेव नामान्तरम् । “सर्वतीर्थमयत्वाच्च तीर्थाद्रिं प्राहुरुत्तमाः' इति वाराहे तन्नामनिर्वचनात् । पूर्वस्मिन् पद्ये सर्वोत्कृष्टत्वरूपो धर्मोऽनुगामी व्यङ्ग्यः, इह तु अर्थिजनेप्सितदाने इति वाच्य इति वैलक्षण्यम् । उभयत्रापि भगवद्विषयकरत्युपस्कारकत्वादलंकारोऽयम् । बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति, तस्मिंश्च सति किंचिद्धर्मावच्छिन्नेन स्वेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदाप्रतिपत्तेश्चानन्वय एव न स्यात् । अयं चानन्वयः पूर्णो लुप्तश्चेति तावद्द्विविधः । पूर्णस्तूपमावत् षड्विधोऽपि संभवति ॥

 यथा--

 श्रीश्श्रीर्यथा घनकृपा कमला कमलेव पूर्णसौभाग्या । नाथोऽच्युतेन सदृशोऽच्युत एव हरिर्हितो हरिसदृक्षः ॥ १३६ ॥

 श्रीवेङ्कटाद्रिपतिवद्ध्येश्श्रीवेंकटाद्रिपतिरेव । श्रीश्रीनिवासपदवद्भक्तिर्नश्श्रीनिवासपद एव ॥

 अत्र युग्मे आद्यपादे श्रौतः पूर्णो वाक्यगोऽनन्वयः । द्वितीयपादे समासगश्श्रौतः पूर्णः । इवेन सह समासविधानात् । नाथ इत्याद्यच्युत एवेत्यन्ते आर्थस्समासगः पूर्णः। शिष्टे तुरीयपादे हरिरित्यादौ समासग आर्थः पूर्णः । द्वितीयश्लोकाद्यार्धे ‘तेन तुल्यम्' इति वतेस्सत्त्वादार्थस्तद्धितगः पूर्णः । तद्द्वितीयार्धे ‘तत्र तस्येव' इति वतेस्सत्त्वाच्छ्रौतस्तद्धितगः पूर्ण इति ध्येयम् । लुप्तेष्वपि धर्मलुप्तः पञ्चविधोऽपि संभवति, स च प्रागुक्तपद्ययोरेव धर्मवाचकपदमपनीय कमला यथैव कमलेत्यादिरीत्या पदान्तरन्यासे भविष्यति ॥

 वाचकलुप्तोऽपि तथा संभवति, यथा--

 वेङ्कटभूमिधरोऽयं वेङ्कटभूमीधरायते सुमहान् । तत्र वसन् भगवानपि तत्रवसद्भगवदुज्ज्वलो जयति ॥

 अत्र क्यङ्समासयोर्वाचकलुप्तः--

 वृषभाद्रिनाथदर्शं वृषभाचलनाथमग्रतः पश्यन् । विततप्रमोदबाष्पस्सततं नन्दामि मन्नन्दम् ॥ १३९

 वृषभाद्रिनाथमिव वृषभाद्रिनाथदर्शं पश्यन् अहमिव सन्नन्दं नन्दामि । अत्र कर्मकर्तृणमुलोर्वाचकलुप्तः ॥

 कौस्तुभति कौस्तुभोऽयं लक्ष्माणति लक्ष्म हारति च हारः। वक्षसि फणिगिरिबन्धोस्सिन्धोर्दुहिता च सिन्धुदुहितरति ॥ १४० ॥

 अत्र धर्मवाचकयोर्लोपः। अयमेव मालारूपोऽप्यनन्वयः ॥

 सलिलनिधिं गाम्भीर्ये तुलयन्तस्सन्ति कति कति न देवाः । एष तु शेषगिरीशश्शेषगिरीशानुगाम्भीर्यः ॥ १४१ ॥  अत्र वाचकधर्मोपमानानां लोपः । अत्र चोपमानलुप्तादयोऽन्ये भेदास्त्वसंभवादचारुत्वाच्च नोदाहृताः ॥

 इदं तावदत्रावधेयम्--प्रायेणोपमादिरलङ्कारो यदा समग्रेण वाक्येन प्रधानतया ध्वन्यते तदा परास्तालङ्कारभावो ध्वनिव्यपदेशभाग्भवति । अस्मिंश्चालंकारव्यपदेशः कदाचिदप्यलङ्कारभावमनापन्नेषु समुद्गकाद्यन्तर्निहितेषु हारकेयूरकटककुण्डलादिष्विवालंकुर्वाणहारादिगतधर्ममात्रसंस्पर्शनिबन्धनः । तत्रादावुपमाध्वनिरुदाहार्या । एषा चोपमा क्वचिच्छब्दशक्तिमूलानुध्वननविषयः, क्वचिदर्थशक्तिमूलानुध्वननविषयः ॥

 तत्राद्या यथा--

 कटकोज्ज्वलपुन्नागो गन्धर्वकुलैरुदीर्णसौभाग्यः ।धरणीभृच्चूडामणिरनणीयश्श्रीनिवासतां धत्ते ॥

 कटकेषु सानुषु राजधानीषु च उज्ज्वलाः पुन्नागाः तरुविशेषाः पुंगजाश्च यस्य स तथोक्तः । ‘कटकं वलये सानौ राजधानीनितम्बयोः' इति विश्वः । गन्धर्वाणां देवयोनिविशेषाणां तुरगाणां च कुलैः । धरणीभृतां गिरीणां नृपाणां च चूडामणिः अनणीयान् श्रीनिवासो यस्मिन् तस्य भावं अनणीयस्याः श्रियः संपदः निवासतां धत्ते ॥

 यथा वा--

 तापातुरा निकामं तमसा प्रत्यस्तदृष्टयः स्थित्वा । दैवाद्विधूदये सति नन्दन्तितरां द्विजाः कतिचिदेव ॥ १४३ ॥  निकामं तापैः आध्यात्मिकादिभिः आतपजनितैश्च आतुराः, तमसा तमोगुणेन तिमिरेण च प्रत्यस्ता निरस्ता दृष्टिः ज्ञानं चक्षुश्च येषां ते तथोक्ताः स्थित्वा कंचित्कालमिति भावः । दैवात् भाग्यविशेषात् विधोः भगवतः उदये अनवरतभावनामूलकप्रत्यक्षतापत्तौ । पक्षे--विधोः चन्द्रमसः आविर्भावे सति कतिचिदेव द्विजाः भाग्यशालिनो विप्रादय एव नान्ये भाग्यदवीयांस इति भावः । पक्षे--चकोरादयः खगविशेषा एव नन्दन्ति अत्रोदाहरणद्वयेऽनेकार्थानामपि पदानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य महाराजरूपस्य खगविशेषरूपस्य चार्थान्तरस्थाप्रस्तुतस्याभिधानं मा प्रसाङ्क्षीदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते । अत्र श्लिष्टानां कटकादिशब्दानां नितम्बादिशब्दपारवृत्त्यसहिष्णुतया शब्दशक्तिमूलानुध्वननविषयोऽसावुपमा ॥

 अर्थशक्तिमूलानुध्वननविषयो यथा--

 असमानरोचिरहमित्यभिमानस्तव घनाघन महीयान् । ननु नामाढौकिष्ठा न मनागपि वा फणाभृदचलशिखाम् ॥ १४४ ॥

 यथा वा--

 रत्नाकर इति गर्वं यत्नाद्विजहीहि मम गिरोदन्वन् । न चलसि पदात्पदं वा ना(क्वा)द्राक्षीश्श्रीनिवासकोशगृहम् ॥ १४५ ॥

 अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययात्प्राधान्येनार्थशक्त्या उपमैव ध्वन्यते ॥  एवम्--

 गङ्गां कुतो जिगमिषस्यङ्गात्र विसृत्वरीमिमां स्वैरम् । सङ्गाहस्व वृषाचलशृङ्गारदयाझरीमिमां गाढम् ॥ १४६ ॥

 इत्यत्राप्यर्थशक्तिमूलोपमाध्वनिर्द्रष्टव्या ॥

 अलङ्कारेणोपमाध्वनिर्यथा--

 फणिशिखरिणि विलसन्तं वीक्ष्य हरिं तं रमासमाश्लिष्टम् । सचपलजलदनिरीक्षणनिरास्थतां दध्रिरे मयूरगणाः ॥ १४७ ॥

 अत्र मयूराणां सविद्युज्जलदनिरीक्षणास्थासम्बन्धेऽपि तदसंबन्धोक्तिरूपातिशयोक्त्या भगवतश्श्रीनिवासस्य तदुपमा ध्वन्यते एवमुपमाध्वनिदिगुदाहृता ॥

 अथोपमेयोपमाध्वनिदिगुदाह्रियते--

 शरदिजविकर्तनस्य हि मुरवैरिसुदर्शनो द्वितीयोऽयम् । मुररिपुसुदर्शनस्य तु शरदुदितविकर्तनोऽपि तथा ॥ १४८ ॥

 अत्र द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद्व्यक्तिरेव ॥

 यदि तु लक्षणा तदेदमुदाहरणम्--

 हरिपदयुगनखरेखा शरदुदितसुधामयूखरेखा च । गर्वायेतेऽन्योन्यं लावण्याध्यापनाय भृशमन्तः ॥  अत्र हरिपदयुगनखरेखादिकर्तृकस्यान्योन्याध्यापनस्य बाधाल्लावण्यसंक्रान्तिविशेषस्य लक्षणया प्रतीयमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभाव इति ध्येयम् ॥

 अथानन्वयध्वनिरुदाह्रियते--

 दर्शंदर्शं सम्यङ्मर्शंमर्शं मयाऽद्य विश्रान्तम् । भिन्नतया पन्नगपतिसन्नगनेतुस्तुला यतो नैक्षि ॥

 अत्र भिन्नतया तुला नैक्षीत्यनेन अभिन्नतया ऐक्षीति ध्वन्यते ॥

 यथा वा--

 कति कति न सन्ति गिरयः कतमो दध्रेऽच्युतेन चरमाङ्गे । प्रादुरकरोच्च कमलां येनान्ये मन्दरस्य सदृशास्स्युः ॥ १५१ ॥

 अत्र को वा मन्दरेतरो महीधरो भगवता चरमाङ्गे धृतः को वा श्रियमब्धेः प्रादुरभावयत् येनान्ये गिरयो मन्दरसदृशास्स्युरित्यर्थेन तस्य पुनर्भगवता चरमाङ्गधृतत्वे श्रीप्रादुर्भावयितृत्वे च स एव तत्तुल्य इत्यर्थोऽनन्वयात्मा मन्दरनिरुपमत्वपर्यवसायी अन्यपदमहिम्ना व्यज्यते ॥

 एवं--

 परमं पदमपि हित्वा चिरमवसत्कस्य शिख- रिणशिशखरे । परमस्सरमस्स पुमान् फणिधर यस्मिंस्तवोपमां विद्मः ॥ १५२ ॥

 इत्यत्राप्यनन्वयध्वनिर्द्रष्टव्यः । अत्र ‘मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम्' इत्याद्यर्थोऽनुसंहितः ॥

इत्यलङ्कारमणिहारे अनन्वयसरस्तृतीयः.

अलङ्कारमणिहारः.pdf