पृष्ठम्:अलङ्कारमणिहारः.pdf/३०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
303
अतिशयोक्तिसरः (१५)

रूपकातिशयोक्तावभेदस्य द्वितीये प्रभेदेऽन्यत्वस्य तृतीये संबन्धस्य चतुर्थे असंबन्धस्य पञ्चमे सहत्वस्य षष्ठे हेतुप्रसक्तिजन्यत्वस्य सप्तमे पूर्वापरत्वयोश्च तथाविधारोपविषयत्वस्य सद्भावात्सर्वत्र लक्षणानुगतिः । न चैवंविधारोपस्य रूपकस्वभावोक्तिव्यतिरिक्तेष्वलंकारेषु प्रायशस्सत्त्वादतिप्रसङ्ग इति वाच्यं इष्टापत्तेः । चमत्कृतौ प्रधानभूतस्यालंकारान्तरस्याङ्गतयाऽतिशयोक्तेरवस्थानेऽपि तथा व्यपदेष्टुमनर्हत्वात् । प्रधानभूतालंकारस्यैव व्यपदेशार्हत्वाच्च । अत एव काव्यप्रकाशकृता विशेषालंकारप्रस्तावे "सर्वत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते, तां विना प्रायेणालंकारत्वाभावात् । अत एवोक्तं--

सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते ।
यत्नोस्यां कविभिः कार्यः कोऽलंकारोऽनया विना ॥ इति ॥

दण्डिनाऽप्युक्तम्--

अलंकारान्तराणामप्येकमाहुः परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ इति ॥

इत्यभिहितमित्यपि वदन्ति ॥

इत्यलंकारमणिहारेऽतिशयोक्तिसरः पञ्चदशः.



 अथ तुल्ययोगितासरः--

वर्णानामेव वाऽन्येषामेव वा धर्म एककः ।
अन्वितो वर्ण्यते यत्र तत्र स्यात्तुल्ययोगिता ॥

 वाशब्दो व्यवस्थितविकल्पार्थः । तथाच प्रकृतानामेव वा अप्रकृतानामेव वा यत्रैकधर्मान्वयित्वं सा तुल्ययोगिता, तुल्यानां