अथ प्रतिवस्तूपमासरः.
पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकारप्रस्तावः । तत्र सामान्यधर्मस्य इवाद्युपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेन सकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते । असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । तथाच तल्लक्षणम्--
सदृश्यावसिते वाक्यद्वये चेद्धर्म एककः । |
अन्योन्यमैकवाक्यलाभार्थमुपमानोपमेयभावपर्यवसन्नयोर्वाक्ययोर्गुणक्रियारूप एक एव धमो वस्तुप्रतिवस्तुभावापन्नतया शब्दान्तरेण पृथङ्निर्दिश्यते चेत्सा प्रतिवस्तूपमा । प्रतिवस्तु उपमानोपमेयभावदिशि उपमा तत्प्रयोजकसाधारणधर्मोऽस्यामिति व्युत्पत्तेरित्यर्थः । अर्थान्तरन्यासवारणाय सादृश्येति । तत्र तु समर्थ्यसमर्थकभावमात्रं विवक्षितं न तु सादृश्यम् । विम्बप्रतिबिम्बभावेन दृष्टान्तेऽपि धर्मोपादानात्तत्रातिप्रसङ्गवारणायैक इति । तत्र हि भिन्न एव धर्म उपादीयत इति न दोषः ॥
यथा--
नारायणगिरिरेव स्फारां कीर्तिं बिभर्ति खलु गिरिषु । ऐरावत एव परं स्मरां दीप्तिं दधाति दिक्करिषु ॥ ५८६ ॥