पृष्ठम्:अलङ्कारमणिहारः.pdf/३४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
340
अलंकारमणिहारे

 अत्र बिभर्ति दधातीत्येक एव धर्म उपमेयोपमानवाक्ययोः पृथग्भिन्नपदाभ्यां निर्दिष्टः । अयमेव हि वस्तुप्रतिवस्तुभाव इत्युच्यते ॥

 यथावा--

 भजतां कथं नु महता भवताऽल्पा देवता हरे समताम् । काचमणिर्नीचघृणिर्हीरेण सदृक्किमत्युदारेण ॥ ५८७ ॥

 भजतामिति लोट् ॥

 यथावा--

 अहरहरपि गच्छन्तो मूढास्त्वां ब्रह्म नाप्नुवन्ति हरे । विन्दन्त्यक्षेत्रज्ञा उपर्युपरि न हि निधिं चरन्तोपि ॥ ५८८ ॥

 अत्र ‘तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तोपि न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः' इति दहरविद्यागतश्रुत्यर्थोऽऽनुसंहितः । अस्यार्थः—यथा अधस्तान्निक्षिप्तं हिरण्यनिधिं निधिमत्क्षेत्रस्वभावज्ञानहीना निधेरुपर्युपरि संचरन्तोपि न लभन्ते, एवमेवेमास्सर्वाः प्रजाः सुषुप्तिकाले अहरहर्गच्छन्त्यः सुषुप्तौ 'सति संपद्य न विदुः’ इत्युक्तरीत्य अविभागं गच्छन्त्यः एतं दहराकाशाख्यं ब्रह्मरूपं लोकं न विन्दन्ति न लभन्त न जानन्तीत्यर्थः । ब्रह्मलोकशब्दौ निषादस्थपतिन्यायेन समानाधिकरणा । तत्र हेतुमाह-- अनृतेन हि प्रत्यूढा इति। अनृतेन कर्मणा प्रतापं नीताः स्वभावान्तरं प्रापिताः। आच्छादिता