पृष्ठम्:अलङ्कारमणिहारः.pdf/३४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
338
अलंकारमणिहारे

 अत्रापि इन्धे इत्यादिक्रियावाचिपदभेदेऽपि तदर्थस्य प्रकाशस्याभेद इति ध्येयम् । इदं च उत्कृष्टव्यक्तिसमुचितोत्त मस्थानतत्तुल्यकक्ष्यासमिन्धानापकृष्टव्यक्तिभागधेयप्रशंसालक्षणव्यवहारसमारोपरूपसमासोक्तिसंकीर्णमिति विभावनीयम् ॥

 यथावा--

 प्राप्नोति जयं लभते श्रियं ह्रियं विन्दते नयं भजते । प्रियमयतेऽपिच नियतं श्रियःपते त्वां श्रयन्नयं लोकः ॥ ५८५ ॥

 ह्रियं अकार्येभ्यो लज्जां विन्दते । अयं महान्गुणः। यथोच्यते तत्रतत्र ‘ह्रीनिषेवी’ इति । आद्योदाहरणद्वये कर्तॄणामावृत्तक्रियान्वयः, इह तु जयमित्यादिकर्मणामिति विशेषः ॥

 नन्वत्र धर्मनिर्देशस्य प्रस्तुताप्रस्तुतोभयविषयत्वाभावात्कथं दीपकशब्दव्यपदेश इति चेन्न, अनेकोपकारकत्वसाम्येन तदुपपत्तेः । अत एव कुवलयानन्दे- 'आवृत्तीनां प्रस्तुताप्रस्तुतोभयविषयत्वाभावेऽपि दीपकच्छायापत्तिमात्रेण दीपकव्यपदेशः’ इत्युक्तम् । अत्र मात्रपदं प्रयुञ्जानैर्दीक्षितैः पृथगेवायमलंकारो न तु दीपकप्रभेद इति सूचितम् । अत एवोक्तं दण्डिना-

अर्थावृतिः पदवृत्तिरुभयावृत्तिरित्यपि ।
दीपकस्थानमेवेष्टमलंकारत्रयं यथा ॥

इति । त्रिप्रकारोऽयमलंकारो दीपकसदृश इति तदर्थः ॥

इत्यलंकारमणिहारे आवृत्तिदीपकसरोऽष्टादशः