पृष्ठम्:अलङ्कारमणिहारः.pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
98
अलंकारमणिहारे

द्यांशमात्रे विशेषत्वम् । विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्या उदाहरणालङ्कारस्य विषयः । द्वितीया त्वर्थान्तरन्यासभेदस्य । एवं च ‘मृगनाभिस्सुरभितया भगवत इव निटिलफलकसीमायाम्' इत्युदाहरणालङ्कारगते विशेषे मान्यतामेतीति प्राचीनसामान्यार्थगतैव यथोक्तरूपेण क्रिया विधेया । 'भगवद्वदने बिभर्ति तिलकत्वम्’ इति तुरीयपादपाठेनार्थान्तरन्यासगते तु पृथगुपात्तविशेषरूपेण । एवं—‘यत्र क्ववाऽस्तुजातस्तेजस्वी भवति भूषणं महताम्' इत्याद्युदाहरणालङ्कारश्लोकेष्वपि ‘यदयं जनिमानुदधौ हृदये प्रचकास्ति कौस्तुभोऽच्युत ते’ इत्याद्युत्तरार्धपाठे उदाहरणार्थान्तरन्यासविशेषयोर्वैलक्षण्यं बोध्यमिति । यदि चायमल्पो विशेषो नार्थान्तरन्यासविशेषस्योदाहरणलङ्कारात्पृथगलङ्कारतामीष्टे साधयितुं, अपि तु तद्विशेषतामित्युच्येत, तदा उदहरणालङ्कारोऽर्थान्तरन्यासस्य, प्रतिवस्तूपमा दृष्टान्तस्य, अतिशयोक्ती रूपकस्य च विशेषः, उपमैव चार्थी स्मरणभ्रान्तिमत्सन्देहा इत्यपि सुवचं स्यात्, तत्रापि विशेषस्याल्पत्वात् । उपमयैवेमं गतार्थं मन्वानाः प्राञ्चस्तु विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विनाऽन्यत्र नेष्टे प्रवेष्टुमित्यभिप्रयन्तीति दिक् ॥

इत्यलकारमणिहारे उदाहरणालङ्कारसरः पञ्चमः.

अथ प्रतीपालङ्कारसरः.


 प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता ॥ २६ ॥

 प्रसिद्धोपमानवैपरीत्येन वर्ण्यमानमौपम्यं प्रतीपम् । तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया । अत्र प्रसि-