पृष्ठम्:अलङ्कारमणिहारः.pdf/४२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
420
अलंकारमणिहारे

लेन सलिलेन गङ्गारूपेणेत्यर्थः । स्तिमितं क्लिन्नं कृतं रचितं पुरा अस्ति आसीदेत्यर्थः । ‘पुरि लुञ्चास्मे’ इति भूतानद्यतने लट् । धरणितलपक्षे तु-त्वत्पदकमलेन त्वच्चरणारविन्देन ‘कमलं सलिले ताम्रे जलजे' इति मेदिनी । अविद्यमानः स्तिः स्तीति वर्णसमुदायो यस्मिंस्तत्तथाभूतं स्तिमितं मितं मानकर्मीकृतमित्यर्थः॥

 एवं प्रागुपदर्शितोदाहरणेषु सर्वेष्वपि सहार्थकशब्दापनयने तान्यपि गम्यसहोक्त्युदाहरणानि भवन्तीति ध्येयम् ॥

॥ इत्यलंकारमणिहारे सहोक्तिसरस्त्रयोविंशः ॥



अथ विनोक्तिसरः

किंचिद्विना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा ।
निबध्यते यदि तदा सा विनोक्तिरलंकृतिः ॥

 वर्ण्यस्य किंचिदभावप्रयुक्तं रमणीयत्वारमणीयत्वान्यतरवर्णनं विनोक्तिरलंकारः । यथा--

 फणिरमणतु शब्दनये कणचरणतु वाऽपिकोपि तर्कनये । गणनां नार्हति मनुजः फणिनाथगिरीश्वरे विना भक्तिम् ॥ ७१५ ॥

 अत्र भगवद्भक्तिविनाकृतस्यारम्यत्वम् ॥

 यथावा--

 सकलामचलामटतु त्रुटतु च शतधा तपोवि-