अलङ्कारमणिहारः (भागः १)/रूपकसरः (७)

विकिस्रोतः तः
Jump to navigation Jump to search

अथ रूपकम्.


 

यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम् ।
रूपकं तद्विधाऽभेदताद्रूप्यावसितं विदुः ॥ २९ ॥

 विषयि उपमानभूतं चन्द्रादि, विषयस्तदुपमेयभूतं वर्णनीयं मुखादि । विषयिणो रूपेण यद्विषयस्योपरञ्जनं उपरञ्जनमिवोपरञ्जनं स्वोपरक्तबुद्धिविषयीकरणमिति यावत् । तद्रूपकं, अन्यरूपेण रूपवत्त्वनिष्पादनात् । तच्च क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधर्मारोपमात्रे पर्यवसितम् । ततश्च रूपकं तावद्द्विविधं- अभेदरूपकं ताद्रूप्यरूपकं चेति । तदेतदाह--

 

आरोपे सत्यभेदस्याभेदरूपकमुच्यते ।
ताद्रूप्यरूपकं तत्स्यात्ताद्रूप्यस्य स चेद्भवेत् ॥ ३० ॥

 ताद्रूप्यस्य सः आरोपो भवेद्यदि ताद्रूप्यरूपकमित्यर्थः । अभेदारोपश्च 'मुखं चन्द्रः' इत्यादावाहार्यचन्द्राभेदनिश्चयः। ताद्रूप्यारोपस्तु 'मुखमपरश्चन्द्रः' इत्यत्रापर इति भेदस्य स्फुटतया मुखे चन्द्राभेदारोपासंभवाच्चन्द्रकार्यकारित्वरूपताद्रूप्यस्याहार्यनिश्चयः । न च तस्य मुखे सत्त्वात्कथमारोप इति वाच्यम् । चन्द्रकार्यसजातीयकार्यकारित्वस्यैव मुखे सत्त्वात् । यद्यपि नामार्थयोरभेदान्वयानुरोधादिहापि चन्द्रपदलक्षितस्य तत्कार्यकारिणोऽभेदसंसर्गेणैव मुखेऽन्वयादभेदरूपकमेव, तथाऽप्युपमानतावच्छेदकरूपेणाभेदभाने एवाभेदरूपकत्वं, तत्कार्यकारित्वादिरूपेणाभेदभाने तु ताद्रूप्यरूपकत्वमित्याहुः ॥

 तद्द्वयं च त्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः ॥

 द्विविधमपि रूपकं प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन तन्न्यूनतावर्णनेन आधिक्यन्यूनताराहित्योक्त्या चेत्येवं रूपकं षड्विधम् । तत्राभेदरूपकेष्वधिकाभेदरूपकं लक्षयति--

 

पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम् ।
वर्ण्यायां चेदवस्थायामधिकाभेदरूपकम् ॥ ३२

 यथा--

 असुरासुरविक्षुभितादहिराजधरेशजलनिधेरुदितम् । वितरत्यजरामरताममितां स्मितममृतमेतदनुसरताम् ॥ १८४ ॥

 अत्राहिराजधरेशजलनिधेरिति जलधिना सह श्रीनिवासस्याभेदं प्रतिपाद्य असुरासुरविक्षुभितादित्यनेन विशेषणेन जलधेः, एवं स्मितममृतमित्यमृतेन सह वर्णनीयस्य स्मितस्य तादात्म्यं प्रतिपाद्य अमितामजरामरतां वितरतीत्यनवच्छिन्नाजरामरत्वदानोक्त्त्या अमृतस्य च पूर्वावस्थात उत्कर्षविभावनादधिकाभेदरूपकद्वयं परंपरितम् । अत्र प्राथमिकं समस्तं रूपकं, द्वैतीयीकं तु व्यस्तमिति विशेषः ।

 न्यूनता प्रागवस्थातश्चेन्न्यूनाभेदरूपकम् ॥

 यथा--

 अनुपदमनुपमफणिपतिगिरिमणिगुणगरिमम- सृणिता कविता । त्रय्येव पौरुषेयी धुनोति दुरितं तनोति सुखममितम् ॥ १८५ ॥

 अत्र वर्णनीयायाः भगवद्गुणविषयकार्वाक्तनकवितायाः त्रय्येवेति प्रसिद्धत्रयीतादात्म्यं प्रकाश्य पुरुषेयीत्यपौरुषेयत्ववैकल्यप्रतिपादनान्न्यूनाभेदरूपकम् । पुरुषेण कृता पौरुषेयी ‘सर्वपुरुषाभ्यां णढञौ' इत्यत्र ‘पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्' इति ढञि ‘टिड्ढ’ इति ङीप् । भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । न्यूनताप्रतिपादनमप्यभेददार्ढ्यापादकत्वाच्चमत्कारि ॥

 आधिक्यन्यूनताभावेऽनुभयाभेदरूपकम् ॥ ३४ ॥

 यथा--

 षट्पदमन्त्रोद्गीतं सकमलरेखं रसोदयनिकेतम् । कलयामि श्रीशरणं नलिनं साक्षाद्रमापतेश्चरणम् ॥

 षट्पदमन्त्रेण ‘षट्पदोऽयं द्विखण्डः’ इत्युक्तमन्त्ररत्नेन उद्गीतं, तत्र भगवच्चरणयोरुपायताप्रतिपादनात् । अन्यत्र षट्पदानां भ्रमराणां मन्त्रैः गुञ्जितैरिति यावत्, उद्गीतम् । सकमलरेखं कमलाकाररेखाभिसहितं पद्मपङ्क्तिसहितं च । रसायाः भूमेः उदयनिकेतं जनिगृहं ‘पद्भ्यां भूमिः' इति श्रुतेः । अन्यत्र रसस्य मरन्दस्य उदयनिकेतं, श्रियः सौकुमार्यादिलक्ष्म्याः श्रीदेव्याश्च शरणं आश्रयं जन्मनिकेतनं च । अत्र साक्षादिति विशेषणेन नलिनतादात्म्यं भगवच्चरणस्य प्रतिपाद्य षट्पदमन्त्रोद्गीतमित्यादिविशेषणैस्तस्य पूर्वावस्थात उत्कर्षापकर्षयोरवर्णनादनुभयाभेदरूपकम् ॥

 ताद्रूप्यरूपकेऽप्येवं त्रैविध्यं सद्भिरूह्यताम् ॥ ३५

 तत्राधिकताद्रूप्यरूपकं यथा--

 परमन्दरक्षोभं न भजति जात्वपि भुजङ्गगिरिनेतुः । स्वान्तसरित्कान्तोऽस्मिन् जयति समुद्रो बुधान्न रञ्जयति ॥ १८७ ॥

 जात्वपि परमं अधिकं दरेण भयेन संक्षोभम् । पक्षे-- परं अतिशयितं मन्दरेण गिरिणा संक्षोभं मथनं भुजङ्गगिरिनेतुः स्वान्तं सरित्कान्तः न भजति, अस्मिन् स्वान्तसरित्कान्ते जयति सति समुद्रः प्रसिद्धस्सिन्धुः बुधान् देवान् विदुषश्च न रञ्जयति अतथाविधत्वादिति भावः । अत्र स्वान्तसरित्कान्त इत्यत्र सरित्कान्तपदं सरित्कान्तकार्यकारित्वमात्रपरं, समुद्रो बुधान्न रञ्जयतीति प्रसिद्धसमुद्राद्भेदस्य विवक्षितत्वात् । तथाच परमन्दरसंक्षोभं न भजतीत्यनेन स्वान्तसरित्कान्तस्योत्कर्षप्रतिपादनात्प्रसिद्धसमुद्रे तद्वैलक्षण्यस्य स्फुटतया आधिक्यं वर्णितमित्यधिकताद्रूप्यरूपकम् ॥

 यथा वा--

 गर्जन्विषं प्रदत्ते पर्जन्यश्शीतको मलिनवक्त्रः । फणिगिरिपतिपर्जन्यः प्रददात्यमृतमपि सुखसुखेनैव ॥ १८८ ॥

 पर्जन्यः शीतकः अलसः शीतं करोतीति शीतकः 'शीतोष्णाभ्यां कारिणि' इति कन् । 'आलस्यश्शीतकोऽलसः’ इत्यमरः । अन्यत्र शीतं कं उदकं यस्य स इति विग्रहः । मलिनं क्रोधदूषिततया मलीमसं, पक्षे निसर्गतो नीलं मुखं वदनं अग्रभागश्च यस्य स तथोक्तः । गर्जन् तर्जयन् । पक्षे स्तनन् सन् । विषं गरळं जलं च प्रदत्ते । एवमलसः क्रोधमलिनमुखो गर्जन्नप्यन्ततो विषमेव प्रदत्ते न तूपादेयं वस्तु । फणिगिरिपतिपर्जन्यस्तु अमृतं सुधामपि निश्श्रेयसमपि च सुखसुखेनैव अनलसोऽमलिनमुखोऽतर्जयन्नक्लेशेनैवेति भावः । प्रददाति । “अकृछ्रे प्रियसुखयोरन्यतरस्याम्' इति द्विर्वचने कर्मधारयवद्भावात्सुब्लुक् । अत्र प्रसिद्धपर्जन्यापेक्षया भगवत्पर्जन्यस्याधिक्यमुक्तम् ॥

 न्यूनताद्रूप्यरूपकं यथा--

 प्रणमन्ति ये भजन्ति च फणिगिरिकान्तं स्तुवन्ति चाञ्चन्ति । तेऽमी भगवद्भक्ता भूमीजनुषोऽपरे मुक्ताः ॥ १८९ ॥

 अत्र मुक्तेष्वपर इति विशेषणात्प्रसिद्धमुक्तेभ्यो भगवद्भक्तानां भेदाविष्करणाद्भूमीजनितत्वरूपन्यूनताप्रतिपादनाच्च न्यूनताद्रूप्यरूपकम् ॥

 अनुभयताद्रूप्यरूपकं यथा--

 विबुधेभ्योऽमृतवितरणनिपुणमिदं हरिणकिरणजनिशरणम् । फणिधरणिधरशिरोमणिहृदयं जानीमहेऽपरं जलधिम् ॥ १९० ॥

 विबुधेभ्यः देवेभ्यो विद्वद्भ्यश्व अमृतस्य सुधायाः निश्श्रेयसस्य च वितरणे निपुणम् । हरिणकिरणस्य चन्द्रमसः जनिशरणं जन्मगृहम् । अब्धेश्चन्द्रोदयस्य प्रसिद्धेः, पक्षे 'चन्द्रमा मनसो जातः’ इति श्रुतेः । अत्रापरं जलधिमिति प्रसिद्धजलधेर्भेदमाविष्कृत्य तस्य च प्रसिद्धजलधिकार्यकारित्वमात्रवर्णनेनोत्कर्षापकर्षयोरवर्णनादनुभयताद्रूप्यरूपकम् । तदेवं कुवलयानन्दकृतां मतमनुरुध्योभयविधत्वं रूपकस्य तत्राप्येकैकस्य त्रैविध्यं च वर्णितम् ॥

 मङखुक-मम्मट-भामहप्रभृतयः प्राचीनास्तु अभेदरूपकमेवाङ्ग्यकार्षुः न तु ताद्रूप्यरूपकम् । तेषामयमाशय उन्नीयते--अभेदरूपकं ताद्रूप्यरूपकमिति न युज्यते विभागः, 'मुखमपरश्चन्द्र' इत्यादावप्यभेदरूपकस्यैव संभवात् । न चोपमानतावच्छेदकावच्छिन्नाभेदभाने ह्यभेदरूपकं, उक्तस्थले चापरपदेन चन्द्रभेदः स्यैव प्रतीत्या चन्द्राभेदभानासंभवात्कथमभेदरूपकं स्यात् । अतश्चन्द्रपदस्य तत्र चन्द्रकार्यकारित्वावच्छिन्नपरतामाश्रित्य ताद्रूप्यारोपात् ताद्रूप्यरूपकमेवाभ्युपेयमिति वाच्यम् । अपरादिपदस्येदृशस्थले स्वार्थान्वयितावच्छेदकाश्रययत्किश्चिद्व्यक्तिप्रतियोगिकभेदमात्रबोधकत्वव्युत्पत्तेः प्रसिद्धचन्द्रव्यक्तिभेदभानेऽपि चन्द्रसामान्यभेदाभानाच्चन्द्रद्वित्वभ्रममूलकस्य मुखादौ चन्द्रत्वावच्छिन्नाभेदभानस्य संभवात् । अन्यथा चन्द्रपदस्यात्र चन्द्रकार्यकारिपरत्वेऽपि चन्द्रकार्यकारित्वेन प्रसिद्धचन्द्रासाधारणेन रूपेण प्रसिद्धचन्द्रव्यक्त्यभेदभानस्यैवाभ्युपेयतयाऽनुपपत्तितादवस्थ्यात् । चन्द्रकार्यकारितायाः प्रसिद्धचन्द्रेतरसाधारण्ये च मुखे तदारोपस्यैवानावश्यकतया रूपकस्यैवाप्ररोहात् । एवं ‘मुखं चन्द्रकार्यकारि’ इत्यादावपि ताद्रूप्यरूपकप्रसङ्गः । तस्मादभेदारोप एव रूपकं न तु ताद्रूप्यारोप इति । यदि तु अभेदरूपकं ताद्रूप्यरूपकमिति विभागसंगमनमावश्यकमित्यागृह्यते तदा उपमानतावच्छेदकावच्छिन्नारोपे अभेदरूपकं उपमानतावच्छेदकधर्मारोपे ताद्रूप्यरूपकमित्येवाश्रयणीयम् । आद्यस्योदाहरणं ‘मुखं चन्द्रः, मुखमपरश्चन्द्रः’ इत्यादिकं विषयिविषयवाचकपदयोस्सामानाधिकरण्यस्थलं सर्वमेव । द्वितीयस्य तु ‘आस्ये पूर्णशशाङ्कता’ इत्यादीति ध्येयम् । तत्राप्यभेदरूपकं द्विविधम् । अभेदस्य संसर्गत्वे एकं पदार्थत्वेऽपरम् ॥

 यथा--

 चिन्तामणिरसि भजतां सन्तानो वा तरुस्त्वमब्जाक्ष । हरिनीलाद्वैतं तव तनुरेत्यथवा तमालतादात्म्यम् ॥ १९१ ॥

 चिन्तामणेर्हरिनीलाद्वैतं सन्तानतरोस्तमालतादात्म्यमप्याश्चर्यमिति भावः । अत्र त्वं चिन्तामणिः संतानतरुर्वेत्येतदाद्यस्योदाहरणम् । अत्र ह्यभेदस्संसर्गरूपः । द्वितीयस्य तु तव तनुर्हरिनीलाद्वैतं तमालतादात्म्यं वा एतीति । अत्र ह्यभेदः पदार्थरूपः । एवं ‘मुखं चन्द्रः’ इत्यादौ 'चन्द्राद्वैतमेति’ इत्यादावप्यभेदस्य संसर्गरूपता पदार्थरूपता च द्रष्टव्या । अनयोश्चाभेदताद्रूप्यरूपकयोरुपपाद्योपपादकभावोऽपि संभवति ॥

 यथा--

 हारास्तवाम्बुधाराः कनकपटीयं तटित्प्रभारभटी । अम्बुरुहेक्षण तत्त्वय्यम्बुदतां नियतमेव जानीमः ॥ १९२ ॥

 मन्दस्मिते सुधात्वं मन्दारत्वं तवाच्युत कटाक्षे । फाले बालेन्दुत्वं भाति तदम्भोनिधेरभिन्नस्त्वम् ॥  अत्राद्ये पद्ये अभेदरूपकमुपपादकं ताद्रूप्यरूपकमुपपाद्यं, द्वितीये तु तद्विपरीतम् । तत्राप्याद्ये उदाहरणे उपपादके रूपके अभेदस्संसर्गरूपः, द्वितीये तूपपाद्यरूपके स पदार्थरूप इति भिदा । तदेवं कुवलयानन्दकृद्भिः प्रदर्शितस्य रूपकविभागस्य संगमनेऽपि तदुपदर्शितानि ‘वक्त्रेन्दौ तव सत्ययं यदपरश्शीतांशुरुज्जृम्भते । साध्वीयमपरा लक्ष्मीः' इत्यादिपद्यानि ताद्रूप्यरूपकस्यानुदाहरणान्येवेत्यलं दूरधावनेन ॥

प्राचां मते विभागोपि रूपकस्य निरूप्यते ।
त्रिधा साङ्गं निरङ्गं च परंपरितमित्यदः ॥ ३६ ॥
समस्तवस्तुविषयमेकदेशविवर्ति च ।
इति सावयवं चापि द्विविधं तत्र रूपकम् ॥ ३७

 अदः रूपकं साङ्गं सावयवं निरङ्गं निरवयवं परंपरितमिति त्रिधा त्रिप्रकारम् । तत्र उक्तरूपकत्रयमध्ये सावयवं रूपकं समस्तवस्तुविषयं एकदेशविवर्ति चेति द्विविधम् ॥

 सावयवं लक्षयति--

यत्परस्परसापेक्षनिष्पत्तीनां निबध्यते ।
रूपकाणां तु संघातो भवेत्सावयवं हि तत् ॥

 अन्योन्यसापेक्षनिष्पत्तीनां रूपकाणां संघातस्सावयवरूपकमित्यर्थः ॥

 तत्रापि समस्तवस्तुवृत्ति सावयवं लक्षयति--

निरूपणेऽवयविनोऽवयवानां च शब्दतः ।
समस्तवस्तुविषयं भवेत्सावयवं हि तत् ॥ ३९ ॥

 यत्र समस्तान्यवयवावयविरूपवस्तून्यारोप्यमाणानि शब्दोपात्तानि तत्समस्तवस्तुविषयं सावयवरूपकमित्यर्थः ॥

 यथा--

 हरिहृदयपञ्जरे नवमुक्तामणिहारजालके नद्धम् । श्रीवत्सकीरहेतोर्दाडिमफलमेव कौस्तुभमणीन्द्रः ॥ १९४ ॥

 अत्र संघातात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुगत्या समर्थ्यसमर्थकभावस्यान्योन्यं समानत्वेऽपि कवेर्दाडिमफलरूपकस्यैव समर्थ्यतया विवक्षितत्वात्समर्थकतयोपादानमन्येषामिति प्रतीयते । एवं सति समर्थकरूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्यकौस्तुभदाडिमरूपकस्य विषयविषयिणोः पृथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । यथा योधसंघातान्तर्गतस्य प्रधानस्य कस्यचिद्योधस्य विजयपराजयाभ्यां योधसंघातो विजितः पराजितश्चेत्युच्यते । न चैवमादौ प्रतीयमानोत्प्रेक्षा शक्या वक्तुम् । अभेदस्य निश्चीयमानत्वात् । सत्यां चोत्प्रेक्षायां संभाव्यमानता स्यात् । अन्यथा ‘मुखं चन्द्रः' इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकप्रळयापत्तेः ॥

 यथा वा--

 सिंहधराधरशेखरसिंहळसंभूतमसितविद्योतम् । श्रीरुचिकनकोपचितं शौरिमहानीलमाद्रिये हृदये॥ १९५ ॥  श्रीरुचिकनके उपचितं प्रत्युप्तं ‘हेम्नीवोपचितो मणिः’ इत्यादावुपचितशब्दस्य तथाविधार्थकत्वदर्शनात् । सिंहधराधरशेखरः शेषाद्रिश्रेष्ठः स एव सिंक्षळः द्वीपविशेषः तस्मिन् संभूतं ‘सिंहळस्याकरोद्भूता महानीलास्तु ते स्मृताः' इत्यगस्त्योक्तेः । हृदये मनसि वक्षसि च । अस्य सावयवरूपकस्य त्वनुवाद्यत्वमेव, विषयविषयिणोः पृथग्विभक्तेरश्रवणात् । उदाहरणद्वयेऽप्यवयविनोऽवयवानां च समस्तानां वस्तूनामारोप्यमाणानां शाब्दतया समस्तवस्तुविषयं सावयवरूपकम् ॥

 एकदेशविवर्ति सावयवं लक्षयति--

आरोप्यमाणं शाब्दं चेत्क्वचिदार्थं च कुत्रचित् ।
एकदेशविवर्त्याख्यमिदं सावयवं विदुः ॥ ४० ॥

 यत्र क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्याक्षिप्तं तत् एकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात् । स्वस्वरूपगोपनेनान्यथाभावेन वर्तनादेकदेशविवर्तीत्यर्थः । यद्वा--एकदेशे उपात्तविषयिके अवयवे विशेषेण वाच्यतया वर्तनादेकदेशविवर्तीति ।

 यथा--

 भवजलनिधिमतिविपुलं विविधमहावासनानदीशबलम् । लोकोऽयं तरतितरां काकोदरगिरिपतेरुपास्य कृपाम् ॥ १९६ ॥

 अत्र भवादिषु जलध्यादिरूपकैः कृपायां नौत्वमाक्षिप्यत इत्येकदेशविवर्ति रूपकम् ॥  यथा वा--

 विततैश्शुभगुणकिरणैर्वितरन्सत्कोकलोकसम्मोदम् । फणिशिखरिमणिद्युमणिर्धरणिसुतामुखविकासकृज्जयति ॥ १९७ ॥

 धरणिसुता यज्ञार्थं भुवं शोधयता आकाशराजेन लब्धा भूतलादुद्गता धरण्याख्यस्वमहिषीहस्ते दत्ता तया संवर्धिता भगवता श्रीनिवासेन परिणीता पद्मावतीनाम्नी साक्षाल्लक्ष्मीति वाराहे वेंकटाचलमाहात्म्ये प्रसिध्यति । पूर्वस्मिन्नुदाहरणे कवेस्समर्थ्यत्वेनाभिमतस्य कृपायां नौत्वारोपरूपकस्याक्षेपः । इह तु समर्थकत्वेनाभिमतस्य धरणिसुतामुखे पद्मरूपकस्याक्षेप इति विशेषः । एवंच समर्थ्यरूपकस्यैवाक्षेपो न समर्थकरूपकस्येति नाग्रहः कार्यः। एवमेव रसगङ्गाधरादावुदाहृतत्वात् । अत एवैकदेशविवर्तित्वसंज्ञाऽप्यस्य युज्यते । एकदेशे समर्थ्यरूपे अवयविनि समर्थकरूपे अवयवे वा विवर्तत इति तदर्थात् ॥

 इदं सावयवं द्विविधं श्लिष्टमपि दृश्यत इति विमर्शिनीकारः ॥

 तत्र समस्तवस्तुवृत्ति सावयवं श्लिष्टं यथा--

 मणिमयशिरस्सहस्रेणोत्तुङ्गस्साधुगुप्तबहुपादः । मणिकिरणरसनविसरः फणभृद्धरणीधरो भाति ॥

 मणिमयशिरस्सहस्रमेव मणिमयशिरस्सहस्रं तेन उत्तुङ्गः। साधु यथा स्यात्तथा गुप्ताः रक्षिताः गूढाश्च बहवः पादाः प्रत्यन्तपर्वताः येन तथोक्तः बहुपादा एव बहवश्चरणाः यस्य स तथोक्तः । ‘कुण्डली गूढपात्' इत्यमरः । फणभृद्धरणीधरशेषाद्रिरेव फणभृद्धरणीधरश्शेषः । अत्र शिरआदिशब्दाः- श्लिष्टाः ‘शिरः प्रधाने सेनाग्रे द्रुमाद्यग्रेषु मस्तके’ इति रत्नमाला ॥

 यथा वा--

 दुर्विषयगहनविपथे कर्षन्तं मां स्वरूपहरणाय । निगळय निखिलनियन्तर्हृदयैकागारिकं तव पदेऽब्जे ॥ १९९ ॥

 दुर्विषयगहनविपथे दुरिन्द्रियार्थदुःखदुरध्वे एव दुर्देशकान्तारकदध्वनि ‘विषयो गोचरे देशे, गहनं वनदुःखयोः’ इति च रत्नमाला । स्वरूपस्य भगवच्छेषतैकरूपस्य हरणायान्यथाकरणायैव स्वरूपहरणाय प्रशस्तवित्तापहाराय प्रशस्तं स्वं स्वरूपम् । ‘प्रशंसायां रूपप्' इति रूपप्प्रत्ययः । मां कर्षन्तं हृदयमेव एकागारिकं चोरं ‘ऐकागारिकट्चोरे' इति निपातनात्साधुः । एकमसहायमगारं प्रयोजनमस्य मुमुषिषोस्स ऐकागारिक इति विग्रहः । तव अब्जे पद्मसदृशे पदे चरण एव अब्जे जलमध्यस्थिते जलधिमध्यगत इति यावत् । पदे स्थाने कारागार इति यावत् । निगळय । अत्र निश्चलीकरणमेव निगळवत्तासंपादनम् । ‘निखिलनियन्तः' इतिसंबुद्धिरीदृशनिग्रहानुग्रहस्वतन्त्रताभिप्रायिकी । अत्रापि दुर्विषयादिशब्दाश्श्लिष्टाः ॥

 निरवयवरूपकं लक्षयति--

 निरङ्गं तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम्।  तद्द्विधा केवलं मालारूपं चेति सतां मतम् ॥

 निरङ्गं निरवयवम् । अङ्गिमात्रस्य अवयविमात्रस्य ॥

 तत्र केवलं निरवयवं यथा--

 वातंधयगिरिजातं स्फीतं धनमखिलशरणमवदातम् । ख्यातं धनपतिगीतं ध्यातं धवळयति हृत्सरोजातम् ॥ २०० ॥

 स्फीतधनत्वेन भगवानध्यवस्यते । हृत्सरोजातं हृदयकमलं धवळयति प्रसादयतीत्यर्थः । अत्र हृत्सरोजातमिति रूपकं सापेक्षरूपकसंघातात्मकताविरहान्निरवयवम् । मालात्वविरहात्केवलम् ॥

 निरवयवं मलारूपकं यथा--

 सौन्दर्यबृन्दकन्दं मुचुकुन्दानन्दचन्दनं वन्दे। वन्दारुकबृन्दारकमन्दारं दन्दशूकशिखरीन्दुम् ॥

 एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । अन्योन्यसापेक्षताविरहान्निरवयवम् ॥

 विमर्शिनीकारस्तु - अनेकविषयकानेकपदर्थारोपेऽपीदं निरवयवमालारूपकं श्लिष्टाश्लिष्टभेदेन दृश्यत इत्याह ।

 तत्राश्लिष्टानेकविषयकानेकारोपो यथा--

 नयने नलिने वदनं सदनं लक्ष्म्यास्तव स्मितं त्वमृतम् । गण्डौ दर्पणखण्डौ कुण्डलिवेतण्डशिखरिमार्तण्ड ॥ २०२ ॥  अत्र नयनादीनामनेकेषामश्लेषनिबन्धनानेकारोपः ॥

 श्लेषनिबन्धनानेकारोपो यथा--

 तव पुष्करं हि वदनं हृदयं रत्नाकरो द्युतिः कृष्णा । हृत्तापनाशिनी दृक्तत्तीर्थगिरीश भवसि तीर्थमयः ॥ २०३ ॥

 तीर्थगिरिरिति वेङ्कटाद्रेरेव नामान्तरमित्यवोचाम । अत्र पुष्कररत्नाकरकृष्णहृत्तापनाशिनीशब्दाः श्लिष्टा इत्यनेकेषां वदनादीनामनेके श्लिष्टा आरोपाः । तदियं श्लिष्टार्थरूपकमाला । पुष्करं कमलं प्रसिद्धतीर्थविशेषश्च । रत्नानां कौस्तुभादीनामाकरः स्थानं समुद्रश्च । कृष्णा नीला नदीविशेषश्च । हृत्तापनाशिनी मनस्तापनिवर्तिनी वीक्षारण्यक्षेत्रगततीर्थविशेषश्चेत्यर्थः । तीर्थमयः 'सर्वतीर्थात्मकस्सर्वग्रहरूपी' इति हि तन्नामसु पठ्यते ॥

 यथा वा--

 अक्षि तव पुण्डरीकं कुमुदं स्मितमञ्जनं प्रभाविसरम् । चरितं तु सार्वभौमं जानंस्त्वां वेद्मि दिग्गजात्मानम् ॥ २०४ ॥

 अत्रापि पुण्डरीककुमुदाञ्जनसार्वभौमशब्दास्सिताम्भोजाद्यर्थका दिग्गजार्थकाश्चेति श्लिष्टा एवानेके अनेकेष्वक्ष्यादिषु दिग्गजारोपा इति श्लिष्टार्थरूपकमाला । ‘ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तस्सार्वभौमस्सुप्रतीकश्च दिग्गजाः' इत्यमरः । सार्वभौमं सर्वस्यां भूमौ विदितं 'तत्र विदितः' इत्यधिकारे ‘सर्वभूमिपृथिवीभ्यामणञौ’ इत्यण् । अनुशतिकादित्वाहुभयपदवृद्धिः । पक्षे दिग्गजविशेषमित्यर्थः ।

एकं विषयि यद्यन्यविषय्यन्वितमुच्यते ।
कार्यकारणभावेन स्यात्परंपरितं तदा ॥ ४२ ॥

 विषयि आरोप्यमुपमानं हेतुहेतुमद्भावापन्नं एकारोप्यान्वितमन्यदारोप्यं विषये तादात्म्येन निबध्यते चेत्तत्परंपरितरूपकम् ॥

 यथा--

 विनताखिलजनताजलनिधतारानाथ देववर भवता । ननु तादृशभवमयतपजनितातनुतापसंपदुपशमिता ॥ २०५ ॥

 तारानाथश्चन्द्रमाः । तपो ग्रीष्मः । अत्र विनताखिलजनताजलनिधितारानाथेत्यत्र हेतुहेतुमद्भावापन्नजलनिधितारानाथरूपकयोर्मध्ये जलनिधिरूपके आरोप्यभूते जलनिधिनाऽन्वितमेव तारानाथरूपमारोप्यं विषयभूते भगवति तादात्म्येन निबध्यते । जलनिधिसम्बन्धितारानाथत्वेनैव रूपणस्य विवक्षितत्वादिति भवत्यत्र परंपरितरूपकम् । विषयिणि विषय्यन्तरान्वितत्वविशेषणेन सावयवरूपके ‘सिंहधराधरशेखरसिंहळसंभूतमसितविद्योतम् । श्रीरुचिकनकोपचितं शौरिमहानीलमाद्रिये हृदये’ । इत्यादौ नातिव्याप्तिः । तत्र हि शौरौ महानीलरूपकस्य सिंहधराधरादौ सिंहळादिरूपकस्य च हेतुहेतुमद्भावसद्भावेऽपि आरोप्यमाणमहानिले रूपकान्तरप्रविष्टसिंहळादिरूपारोप्यस्यान्वयविरहान्नातिप्रसङ्गः । तत्र शौरेर्महानीलत्वेनैव रूपणं न तु सिंहळादिसंबन्धिमहानीलत्वेनेति ॥

 एतेन--'नियतारोपणोपायस्स्यादारोपः परस्य यत् । तत्परंपरितम्' ॥

इति प्राचीनलक्षणस्य सावयवरूपके ‘ज्योत्स्नाभस्मच्छुरणधवळा' इत्यादौ अतिव्याप्तिर्दुर्वारा । तत्रापि कापालिकीत्वरूपणे भस्मादिरूपणस्य नियमेन हेतुत्वाश्रयणसंभवात् । यथा हि ‘विद्वन्मानसहंस’ इत्यादौ राज्ञि हंसत्वरूपणं विद्वन्मानसे मानससरस्त्वरूपणमन्तरा नोपपद्यते, तथा रात्र्यां कपालिकीत्वरूपणमपि ज्योत्स्नादौ भस्मादिरूपणमन्तरा नोपपद्यत इति साम्यात् ।‘विद्वन्मानसहंस’ इत्यादावेवैकरूपकस्य नियमेन रूपकान्तरसापेक्षत्वं नान्यत्रेत्यस्य तु शपथमात्रसाध्यत्वादिति परास्तम् । तादृशलक्षणस्यास्मदुपदर्शितलक्षण एव पर्यवसानस्याभिमतत्वात् आरोप्ये आरोप्यान्तरान्वयस्थले हि एकारोप आरोपान्तरे नियमेन हेतुर्भवतीति तल्लक्षणस्य तथा पर्यवसानं संभवति ।

 एतेन –‘आरोपद्वयमात्रपर्यवसितं परम्परितं सावयवं तु न तथा' इति केषांचिदुक्तिरनादरणीया । ‘विद्वन्मानसहंस' इत्यादौ प्रकाशाद्युदाहृते परंपरितरूपके आरोपबहुत्वस्यैव वर्तमानतया अव्याप्तिप्रसङ्गात् । न चात्र पद्ये विद्वन्मानसहंसादिभागे प्रत्येकं रूपकद्वयमात्रत्वमस्त्येवेति नाव्याप्तिः । अत एवैतत्पद्यं परंपरितरूपकबाहुळ्यान्मालारूपपरंपरितोदाहरणत्वेनोपात्तमिति वाच्यम् । एवं सति ‘ज्योत्स्नाभस्म' इति पद्येऽपि 'बिभ्रती तारकास्थीनि, रात्रिकापालिकीयम्' इत्यंशे रूपकद्वयमात्रत्वसंभवेनातिप्रसङ्गापातः । न च रूपकान्तरनिरपेक्षहेतुहेतुमद्भावापन्नरूपकद्वयमात्रत्वमेव परंपरितलक्षणम् । तथाच ‘ज्योत्स्नाभस्म’ इत्यादौ कापालिकीरूपके यथा ‘तारकास्थीनि' इति रूपकसापेक्षत्वं तथा ‘ज्योत्स्नाभस्म’ इत्यादिरूपकसापेक्षत्वस्यापि सत्त्वान्नातिप्रसङ्गः । ‘विद्वन्मानसहंस’ इत्यादौ च हंसादिरूपके प्रत्येकं मानसरूपकाद्येकैकरूपकसापेक्षत्वमेवेति लक्षणसंगतिश्चेति वाच्यम् । एवमपि ‘अमुष्मिन्पोतक्ष्मारमणसुतसूरक्षितिपतेर्यशश्शेषे सोऽयं स्वपिति गगनश्रीसहचरः’ इत्यादौ शेषरूपकसापेक्षश्रीसहचररूपके सावयवरूपकत्वेन काव्यदर्पणोदाहृते अतिप्रसङ्गापातात् । न चेष्टापत्तिर्युज्यते, ‘नियतारोपणोपायस्स्यादरोपः परस्य यत्' इति परंपरितं लक्षयतां काव्यप्रकाशकारादीनामनभिमतत्वात् । यशसि शेषत्वमरूपयित्वाऽपि ‘यशोव्याजे शेषे स्वपिति गगनश्रीसहचरः' इति पद्यपाठेन श्रीसहचररूपकोपपादनसंभवात्तत्रत्यरूपकयोर्नियतहेतुहेतुमद्भावासंभवात् । न चैवं सति नियतहेतुहेतुमद्भावापन्नत्वमेव रूपकद्वये निवेश्य परिष्क्रियतां लक्षणमिति वाच्यम् । एवमपि 'चतुर्दशलोकवल्लिकन्दः' इत्यादौ प्रकाशाद्यभिमते परंपरिते अव्याप्तिप्रसङ्गात् । तत्रापि ‘चतुर्दशलोकवल्लिहेतुः' इति वा 'चतुर्दशलोकमूलकन्दः' इति वा निबन्धसंभवेन नियतहेतुहेतुमद्भावस्य दुरुपपादत्वात् । तस्मादेकरूपकीयविषय्यन्वितविषयिकरूपकान्तरत्वमेव परंपरितरूपकलक्षणमास्थेयम् । काव्यप्रकाशसर्वस्वादिप्राक्तनमाननीयनिबन्धोपात्तेषु सर्वेष्वेव परंपरितरूपकोदाहरणेषूत्तररूपके विषयवाचकपदं विषयिवाचकपदेनासमस्ततयैव दृश्यत इति भवति तत्र पूर्वरूपकारोप्यान्वितस्यैवोत्तररूपकीयारोप्यस्य तदीयविषयेऽन्वयः ॥

 एवम्--

 निगममकुटीवधूटीवतंसचरणं श्रयामहे शरणम् । भवजलधितरणिकरुणं तरूणाम्बुदनीलमहिधराभरणम् ॥ २०६ ॥  इत्यादौ परंपरितरूपकोदाहरणे उत्तररूपकद्वये चरणकरुणारूपविषयवाचकपदयोः वतंसतरणिरूपविषयिवाचकपदाभ्यां समस्ततया दर्शनेऽपि पूर्वरूपकीयवधूटीजलध्यारोप्यान्विततयैवोत्तररूपकीयावतंसतरणिरूपारोप्ययोस्तदीयचरणकरुणारूपविषयाभ्यामन्वयः । तथा तदुपात्तेषु सावयवोदाहरणेषु च न क्वचिदप्येकरूपकारोप्ये रूपकान्तरारोप्यान्वयौपयिकस्समभिव्याहारोस्तीति नातिप्रसङ्गशङ्कावकाशः । न चैवं ‘मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्गः' इति रसगङ्गाधरीयपरंपरितोदाहरणे पूर्वरूपकारोप्यस्य दुग्धस्याशनादिपदव्यवधानादुत्तररूपकारोप्ये भुजङ्गे अन्वयासंभवादव्याप्तिरिति वाच्यम् । आरोप्ये आरोप्यान्वितत्वस्य साक्षात्परंपरासाधारणस्यैव निवेशात् ॥

 नन्वेवं सति--

 सुविपुलशुभगुणजलनिधिफणधरगिरिराजपतिकृपागङ्गाम् । अवगाह्य नराश्शिशिरां न विगाहन्ते कदाऽपि तापकथाम् ॥ २०७ ॥

 इत्यत्र पूर्वरूपकारोप्यस्य जलनिधेरुत्तररूपकारोप्यायां गङ्गायां परंपरयाऽत्वयसंभवादतिव्याप्तिरिति चेन्न । लक्षणे रूपकद्वये हेतुहेतुमद्भावापन्नत्वविशेषणोपादानादेव तद्वारणात् । अत्र हि प्रदर्शितरूपकद्वयस्य न हेतुहेतुमद्भावः । यद्यपि ‘पर्यङ्को राजलक्ष्म्याः' इति पद्यं मालापरंपरितोदाहरणतयोपन्यस्य अत्र ‘क्ष्मासौवदल्लः’ इति परंपरितमप्येकदेशविवर्तीति सर्वस्वकारोक्तेस्तादृशैकदेशविवर्तिपरंपरितरूपकेऽव्याप्तिः । तत्र क्ष्मायां राजपत्न्यारोपस्यार्थतया सौविदल्लरूपे उत्तररूपकारोप्ये पूर्वरूपकारोप्यभूताया राजमहिष्या अन्वयाभावात् । तथाऽपि परंपरितस्यैकदेशविवर्तित्वं न सर्वस्वकृतोऽभिमतम् । स्वकीयप्राक्तनविभागव्याघातात् । तत्र हि ‘इदं तु निरवयवम्’ इत्यादिना सावयवावान्तरभेदतयैव एकदेशविवर्तिरूपकं गण्यते, न तु परंपरितावान्तरभेदतयाऽपीति । उपदर्शितसर्वस्ववाक्यं तु अत्र पद्ये 'क्ष्मासौविदल्लः' इत्येतदेकदेशविवर्तिरूपकं ‘पर्यङ्कः' इत्यादिपरंपरितमालासमानाधिकरणमपीत्येतदर्थकतया कथंचित्संगमनीयम् । अन्यथा आक्षिप्तरूपकसंपन्नरूपकद्वयमात्रतया तत्र परंपरितरूपकस्वीकारे 'निरीक्ष्य विद्युन्नयनैः' इति पद्ये एकदेशविवर्तिरूपकप्रतिपादनपरसमासोक्तिप्रकरणस्थतद्वाक्यविरोधप्रसङ्गात् । अत एव प्रकाशादिषु प्राक्तनेषु रसगङ्गाधरादिष्वर्वाक्तनेषु चालंकारनिबन्धेषु परंपरितमध्ये एकदेशविवर्तिविधाया अपरिगणनमुपपद्यत इति ॥

 वस्तुतस्तु--'क्ष्मासौविदल्लः' इत्यत्राक्षेपलभ्यराजमहिषीरूपकेण परंपरितरूपकाभ्युपगमेऽपि नास्मदुपदर्शितलक्षणस्य तत्राव्याप्तिप्रसङ्गः । 'क्ष्मासौविदल्लः’ इत्यस्मादपि क्ष्मामहिषीसौविदल्लः इत्येवान्वयबोधस्याक्षेपसहकृतशब्दजन्यस्य स्वीकारेण प्रथमरूपकारोप्यान्वितत्वस्य द्वितीयरूपकारोप्ये निर्बाधात् । आक्षेपलभ्यस्याप्यर्थस्य उपात्तशब्दार्थेन सह शाब्दबोधे भानं जातिशक्त्याद्यभ्युपगन्तृतान्त्रिकसमयसुप्रसिद्धमेवेति ॥

 एवंच-- सर्वस्वकारीयविभागवाक्यस्योपलक्षणत्वमवश्याश्रयणीयम् । अन्यथा तेन परंपरितमात्रे प्रदर्शितस्य श्लिष्टाश्लिष्टविधाद्वयस्य तद्व्याख्यातृविमर्शिनीकारेण सावयवेऽपि प्रदर्शनं 'क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽन्येऽपि भेदा लेशतस्सूचिता एव' इति सर्वस्वकृत एवोक्तिः, 'एवमादयः’ इति प्रतीकमादाय ‘परंपरितमप्येकदेशविवर्तीत्येवंप्रकाराः' इति विमर्शिनीकृदुक्तिश्च स्वरसतो न संगच्छेत । न संगच्छेऽत च श्लिष्टपरंपरितनिरूपणावसरे ‘विद्वन्मानसहंस' इति पद्यमुदाहृत्य ‘इदं हि एकदेशविवर्त्यपीत्युच्यते’ इति काव्यप्रदीपग्रन्थः, इदं हीति प्रतीकमादाय ‘मूले इदमपीत्यन्वयः । एकपदोपस्थापितयोरन्तःकरणसरोविशेषयोरभेदाध्यवसायेऽपि नैकत्रापरारोपः तस्य भेदेन विषयनिर्देशापेक्षत्वात् । अन्यथा विषयनिगरणात्मिकायामतिशयोक्तावपि तत्प्रसङ्गात् । तस्मादार्थ एवायमारोप इत्येकदेशविर्तित्वमत्रापि युक्तम्' इति प्रभाख्यतद्व्याख्यानं च । तस्मात् अत्र ‘क्ष्मासौविदल्लः' इत्यादिसर्वस्ववाक्यं यथाश्रुतगत्या परंपरितस्याप्येकदेशविवर्तित्वं प्रत्याययतीति स्वीकरणमेव समुचितमित्युक्तावपि न क्षतिः ॥

 नन्वेवं परंपरितस्याप्येकदेशविवर्तित्वाङ्गीकारे--

सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः
कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावासभूः ।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया
प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिस्सा प्रिया ॥

इत्यस्य पद्यस्य चित्रमीमांसायां मालानिरवयवरूपकोदाहरणत्वमुक्तमसङ्गतं स्यात् । तत्र ‘सौन्दर्यस्य तरङ्गिणी’ इत्यादौ सौन्दर्यादौ सलिलत्वाद्यारोपणमन्तरा तरङ्गिणीत्वारोपस्यासौन्दर्यादाक्षेपलब्धसलिलरूपारोप्यस्य तरङ्गिणीरूपारोप्येणान्विततया परंपरितत्वस्याव्याहतत्वादिति चेत्सत्यम् । एतदन्येषां ‘कान्तेः कार्मणकर्म' इत्यादीनां मालानिरवयवरूपकोदाहरणतेत्यदोषः । तत्र हि प्रियायां कार्मणकर्मादिमात्रमारोप्यते न तु कान्त्यादौ किमपि । तथा च परंपरितसंकीर्णमेवेदं मालानिरवयवरूपकमिति ध्येयम् । दृश्यते ह्येकालंकारमुख्योदाहरणेष्वप्यलंकारान्तरसंकीर्णता । यथा--'ज्योत्स्नाभस्म' इति सावयवरूपकोदाहरणादौ ‘लाञ्छनस्य छलेन' इत्यादिकैतवापह्नुत्यादिसंकीर्णता ॥

 इदं तु शुद्धमालानिरवयवस्योदाहरणम्--

 नमदमरमस्तमकुटं कमलाभूमीकराग्रलीलाब्जम् । तच्चरितश्रोतृजनश्रोत्रवतंसं श्रये हरेश्चरणम् ॥ २०८ ॥

 नीलाम्बुजसंवननं कालाम्बुदकार्मणं तमालश्रीः । व्यालाचललीलारसलोला मूर्तिर्हरेर्हरत्यार्तिम् ॥ २०९ ॥

 संवननं वशक्रिया । कार्मणं मूलकर्म ‘वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । श्रीः संपत् । अत्राद्ये उदाहरणे हरिचरणे विषये मकुटलीलाब्जवतंसमात्रारोपः । द्वितीये तु हरिमूर्तौ नीलाम्बुजसंवननकालाम्बुदकार्मणतमालसंपन्मात्रारोप इति शुद्धमालानिरवयवम् । एवमेव वैयधिकरण्येनारोपे ‘द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यम्’ इत्यादावपि शुद्धमालानिरवयवत्वं बोध्यमित्यलं पल्लवितेन ॥

 तत्परंपरितं च विभजते--

श्लिष्टाश्लिष्टविभेदेन तत्परंपरितं द्विधा ॥
केवलं मालिका चेति तद्द्वयं द्विविधं भवेत् ।

 एवमष्टविधं प्राचां मते रूपकमिष्यते ॥ ४३ ॥

 तत्परंपरितं द्विधा । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेषमूलकत्वे श्लिष्टपरंपरितम् । तदुभयं च केवलं मालारूपं द्विविधम् । अत्र परंपरितरूपके उत्तररूपकस्य पूर्वरूपकं प्रति हेतुत्वमिति मङ्खुकादयो मन्यन्ते । तेषामयमाशयः--विद्धन्मानसहंस' इत्यादौ राजादेः वर्ण्यत्वेन पुरस्स्फूर्तिकतया तत्र हंसाद्यारोपपूर्वकमेवावर्ण्ये विद्वन्मानसादौ पश्चात् श्लेषेण सरोविशेषाद्यारोपः । एवमश्लिष्टपरम्परितेऽपीति ॥ मम्मटादयस्तु-- पूर्वरूपकस्योत्तररूपकहेतुत्वं मन्वते । यदाहुः--'एवमारोपनिमित्तो हंसत्वाद्यारोपः' इति । तेषामयं भावः--'विद्वन्मानसहंस' इत्यादौ मानसेत्यादिश्लेषस्य प्राथमिकतया तन्मूलकार्थद्वयाभेदाध्यवसायोपजीविरूपकस्य प्रथमप्रतीत्या तद्बुद्धेरुत्तररूपकबुद्धिं प्रति हेतुत्वं युक्तमिति । हेतुहेतुमद्भावापन्नैकविषय्यन्वितान्यविषयिकत्वं परम्परितत्वमित्यस्मदीयलक्षणने मतद्वयस्यापि संग्रहो भविष्यति ॥

 तत्र केवलं श्लिष्टपरंपरितं यथा--

 भज हृदय रचितयत्नं भुजगाधिपभूमिभृच्छिरोरत्नम् । पुरुषं कमपि प्रत्नं प्रसाधनं तव ततोऽपि किमु नूत्नम् ॥ २१० ॥

 अत्र द्वयोरप्यारोपयोस्समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽपि भूमिभृत् शैल एव भूमिभृत् राजेति श्लेषमूलकेनारोपेण भगवति शिरोरत्नतादात्म्यारोपस्य समर्थनीयतायां कवेराशयः । अत एव चतुर्थचरणनिवेदितः प्रसाधनान्तरतिरस्कारोऽपि संगच्छते ॥

 यथावा--

 विपुलाहिराजविपुलाधरविपुलावासरसिक कमलाक्ष । चपलावलाहकस्त्वं बहुशस्तोयश्श्रियं समेधयसे ॥ २११ ॥

 विपुलः विशालः अहिराजविपुलाधरः शेषाद्रिः तस्य विपुलयां भूम्यां वासे रसिक हे कमलाक्ष चपलावलाहकः लक्ष्मीविद्युद्वारिवाहः ‘चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति मेदिनी । त्वं बहुशः तोयश्रियं सलिलसंपदं समेधयसे । पक्षे-- बहुशस्तः अयः शुभावहो विधिः तस्य श्रियं संपदम् । यद्वा-बहुशस्तः यः श्रियमिति छेदः बहुशस्तः त्वं चपलावलाहकः यः त्वं श्रियं संपदं समेधयसे इति वाक्यभेदेन योजना । अत्र यच्छब्दस्योत्तरवाक्यस्थतया न पूर्ववाक्ये तच्छब्दोपादानावश्यकत्वम् । अत्रोभयोरप्यारोपयोः परस्परं समर्थ्यसमर्थकभावतौल्येऽपि चपला लक्ष्मीरेव चपला विद्युदिति श्लेषभित्तिकेनारोपेण भगवति बलाहकतादात्म्यारोपस्समर्थनीय इति कवयितुरभिप्रायः । अत एव चतुर्थचरणगतसभङ्गश्लेषावेदितं बहुशस्तोयश्रीसमेधनमपि युज्यते । उदाहरणद्वयेऽपि रूपकद्वयं कार्यकारणभावेन संजातपरंपरत्वात्परंपरितं श्लिष्टशब्दनिबन्धनं मालारूपत्वविरहात्केवलं च ॥

 तदेव मालारूपं यथा--

 सकलसुमनोवसन्तं साधुकदम्बस्य घनतटि- त्वन्तम् । मुक्ताळिसरस्वन्तं स्वान्तं श्रयतान्ममाहिगिरिकान्तम् ॥ २१२ ॥

 सकलसुमनसां समस्तविदुषामेव कुसुमानाम् । साधुकदम्बस्य सज्जननिवहस्यैव रमणयिनीपतरोः । मुक्तानां प्रकृतिबन्धवियुक्तानां आळिः पङ्क्तिरेव मौक्तिकावळिः तस्याः । स्वान्तं हृदयं कर्तृ ॥

 यथावा--


 अनिमिषकुलसलिलनिधिं घनविभवविलासभरतपर्त्ववधिम् । परमहिमताहिमानीधरमरविन्देक्षणं भुवि नमानि ॥ २१३ ॥

 अनिमिषकुलं दैवतयूधमेव मीनकुलं तस्य सलिलनिधिम् । घनस्सान्द्रो विभवविलासभर एव जलदवैभवलीलातिशयः तस्य तपर्त्ववधिं ग्रीष्मावसानं वर्षासमयमित्यर्थः । परमहिमता श्रेष्ठमाहात्म्यवत्तेव अतिशयितहिमवत्ता तस्याः हिमानीधरं हिमवन्तं अरविन्देक्षणं भुवि नमानि नमेयम् ।

प्रणम्य कृष्णं सहसा पांसुक्लिष्टे महीतले ।
निष्कल्मषो भवेत्सद्यो ललाटे पांसुमण्डनात् ॥

इत्यादिप्रमाणानुसंधानेन भुवि नमानीत्युक्तिः । नमतेर्लोडुत्तमैकवचनम् । अत्र सुमनसामेव सुमनसां वसन्तमित्यादौ श्लेषमूलकेनारोपेण श्रीनिवासे वसन्तत्वाद्यारोपस्य समर्थनीयतयाऽभिमतस्य बहुधा निबन्धनात् श्लिष्टमालापरंपरितमिदम् ॥  अत्र केचित् ‘विद्वन्मानसहंस’ इत्यादौ वर्ण्ये हंसत्वाद्यारोपाच्चित्तादिषु सरस्त्वाद्यारोपस्यार्थात्प्रतीतेरेकदेशविवर्ति रूपकमेवेदमित्याहुः । वस्तुतस्तु श्लिष्टशब्दनिबन्धनाभेदारोपरूपवैचित्र्यनैयत्यात्ततो भिन्नमेवेदमिति दिक् ॥

 एवमेव--

 भद्रश्रीमलयाद्रिं श्रीवत्सविलासदानसुरसुरभिम् । हंसोल्लासनशरदं वरदं वन्दे वृषाचलद्विरदम् ॥

 इत्यत्रापि श्लिष्टपरंपरितं द्रष्टव्यम् । भद्रश्रीः मंगळसंपदेव भद्रश्रीः चन्दनम् । श्रीवत्स एव श्रीयुक्तो वत्सः । हंसाः ज्ञानिन एव मराळाः ॥

 शुद्धपरंपरितं केवलं यथा--

 पवनोदरंभरिगिरेरवनौ लवनाय रिपुकुलवनानाम् । अवनाय च भुवनानां भवनमकार्षिश्श्रिताब्जभुवन हरे ॥ २१५ ॥

 भवनं आविर्भावम् । श्रिताब्जभुवनेत्यत्र भगवति सलिलत्वारोपः श्रितेष्वब्जत्वारोपसमर्थ्यत्वेनाभिमत इति परंपरितम् । मालाश्लेषविरहात्केवलं शुद्धं च ॥

 इदमेव मालारूपं यथा--

 भूकेकिनीपयोदं राकेन्दुं तं रमाकुवलयिन्याः । नाकेशजलजभानुं लोकेशं वन्दिषीय शेषाद्रौ ॥

 अत्र लोकेशे श्रीनिवासे पयोदाद्यनेकारोपस्य भूम्यादिषु केकिन्याद्यारोपप्रतीक्षत्वान्मालापरंपरितं शुद्धम् ॥  इदमेकदेशविवर्त्यपि भवतीत्यवोचाम, तद्यथा--

 कान्तेर्नर्तनरङ्गं शान्तेरन्तःपुरं महोत्तुङ्गम् । क्षान्तेर्हरित्तुरङ्गं स्वान्ते कलयेम धाम दिव्याङ्गम् ॥

 अत्र भगवति नर्तनरङ्गादिरूपक्तैः कान्तिशान्तिक्षान्तिषु नर्तकीराज्ञीपद्मिनीरूपकाणि प्रतीयन्त इत्येकदेशविवर्ति मालापरंपरितं शुद्धम् ॥

 भुवनानामाधारं भानामवलम्बनं फणिगिरिस्थम् । शाखिकुलोल्लासकरं किंचन सौभाग्यमञ्च मम हृदय ॥ २१८ ॥

 अत्र भुवनानां लोकानामेव सलिलानां, भानां त्विषामेव ताराणां, शाखिकुलस्य वेदशाखाध्येतृनिवहस्यैव तरुनिकरस्येति श्लिष्टरूपकैर्भगवति विषये समुद्रसुधाकरवसन्तरूपकाणां गम्यमानतया इदमेकदेशविवर्ति श्लिष्टपरंपरितमिति दिक् ॥

 ज्ञानं धनं मतिमतां भानं धनमिह महस्विनां महताम् । सूनं धनं मधुकृतां नूनं धनमहिगिरीशिता नमताम् ॥ २१९ ॥

 अत्र विषयमालाकृतो न कश्चिच्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते । आरोप्यमाणमाला तु चमत्कारविशेषशालित्वाद्गण्यत एव । अथ कथं श्लिष्टपरंपरिते ‘भुजगाधिपभूमिभृच्छिरोरत्नम्, सकलसुमनोवसन्तम्' इत्यादावेकस्यारोपस्यारोपान्तरहेतुत्वं, यस्मात् श्लेषेण शैलस्य राज्ञश्च विदुषां कुसुमाना चाभेदमात्रमत्र प्रतीयते नैकत्रान्यारोपः तस्य स्वतन्त्रविषयनिर्देशापेक्षत्वात् । न च शुद्धाभेदप्रत्यय एवारोपः, विषयनिगरणात्मिकायामतिशयोक्तावतिप्रसङ्गादिति चेत्--सत्यम्, श्लेषेण शुद्धाभेदप्रतीतौ सत्यां प्रकृतारोपसमर्थनाय अन्तरा मानसस्य भगवत्संबन्धिनि गिरौ शिरोरत्नसंबन्धिराजाभेदारोपस्य एवं भगवत्संबन्धिषु देवेषु वसन्तसंबन्धिकुसुमाभेदारोपस्य च कल्पनान्नानुपपत्तिः ॥

 अथ कथं--

 सौन्दर्यरत्नसिन्धुं सौभाग्यशरत्सरोजिनीबन्धुम् । स्वान्ते यतेय बन्धुं कौन्तेयसखं फणीन्द्रगिरिबन्धुम् ॥ २२० ॥

 इत्यादौ सौन्दर्यरत्नसिंधुमित्यादिपरंपरितरूपके रूपकत्वं, अभेदारोपस्य सत्त्वेऽपि तस्य सादृश्यमूलकत्वाभावात् । न हि भगवत्सिन्ध्योस्सादृश्यमत्रोच्यते इति चेत्, न--समर्थकेन सौन्दर्ये रत्नारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वादिति दिक् । बन्धुमिति बन्धतेस्तुमुन् ॥

 एवं ‘भूकेकिनीपयोदम्’ इत्यादावारोप्यमाणयोः परस्परमारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः ॥

 प्रातिकूल्ये यथा--

 कृतिपतिशतनुतशीलं दितिसुतसंघातभूतिवातूलम् । निलयितफणिपतिशैलं कलय परं हृदय दैवमतिवेलम् ॥ २२१ ॥  दितिसुतसंघातस्य भूतिरैश्वर्यमेव भूतिर्भस्म तस्याः वातूलम् । इदं श्लिष्टकेवलपरंपरितम् ॥

 इदमेव मालारूपं यथा--

 भुवनजडतावसन्तं संतमसकदम्बकैकभास्वन्तम् । स्वान्ताहिशैलकान्तं चिन्तय दुर्व्याळकुलगरुत्मन्तम् ॥ २२२ ॥

 हे स्वान्तेति संबुद्धिः । भुवनजडता लोकजाड्यमेव जलशैत्यं तस्य वसन्तम् । दुष्टाः ये व्याळाः शठाः दैत्यादयः । त एव व्याळाः भुजगाः 'भेद्यलिङ्गश्शठे व्याळः पुंसि श्वापदसर्पयोः' इत्यमरः । तेषां गरुत्मन्तम् । नाश्यनाशकभावरूपप्रातिकूल्यमुपमानयोस्तथैवोपमेययोश्च। अनुग्राह्यानुग्राहकभावः पुनरारोपयोरविशिष्ट एव । एवमग्रेऽपि ॥

 यथा वा--  दोषोल्लासविभातं दैत्यावश्यायचण्डकरमेतम् । भज भुजगधराभरणं शरणागतपङ्कजातसितकिरणम् ॥ २२३ ॥

 दोषोल्लास एव रात्रिविकासः तस्य विभातं प्रभातम् । दैत्यानामवश्यायो गर्व एव हिमं ‘अवश्यायो हिमगर्वयोः' इति रत्नमाला । शरणागतानां पङ्कजातं दुरितबृन्दमेव कमलम् । अत्र भजेत्युक्तिः स्वहृदयं प्रतीति बोध्यम् ॥

 यथा वा--  दुस्तृष्णाकासारं सासारघनं भवाभितापानाम् । वेंकटनाथं कलये जगदातङ्कागदङ्कारम् ॥ २२४ ॥  दुस्तृष्णा दुर्विषयलिप्सैव निरवधिकपिपासा । ‘तृष्णा स्यात्तर्षलिप्सयोः' इति मेदिनी । तस्याः कासारं सरः । भवाभितापा एव तापाः तेषां सासारं धारासहितं घनम् । जगतां आतङ्काः भयान्येव आतङ्काः रोगाः तेषां अगदंकारं वैद्यम् । आतङ्कस्संज्वरे रोगे साध्वसे मुरजध्वनौ’ इतिरत्नमाला ॥

 प्रातिकूल्ये केवलपरंपरितं यथा--

 अघयूधतिमिरधूननविभातमहिराजभूधरनिकेतम् । संप्राप्य भवनिशायां शयितः को नाम न प्रबोधमियात् ॥ २२५ ॥

 प्रातिकूल्ये मालापरंपरितं यथा--

 सौहार्दचन्द्रदर्शैस्सौमुख्यलतावानलस्पर्शैः । सौख्यजलातपमर्शैरलमन्यैस्त्वयि सतीश दुर्दर्शैः

 हे ईश भगवन् ॥

 यथा वा--

 दितितनुजमृगवितंसं दुरितद्विरदाळिकेसरिवतंसम् । फणिशिखरिप्रेयांसं भजे विपत्पाकघूककुलहंसम् ॥ २२७ ॥

 दितितनुजमृगाणां वितंसं बन्धनोपकरणं ‘वितंसस्तूपकरणं बन्धने मृगपक्षिणाम्' इत्यमरः । विपदां विपाकः परिपाकः स एव घूककुलं दिवान्धयूधं तस्य हंसं भानुम् । पूर्वमुदाहरणं भगवदितराश्रयणनिन्दनपरं, इदं तु भगवत्प्रशंसापरमिति विशेषः ॥  यथा वा--

 हरिभक्तिबीजराजेरिरिणैश्शुभशीलबालतृणहरिणैः । शमदमवनदवदहनैरलं खलैरतिविशृङ्खलैर्दृष्टैः ॥ २२८ ॥

 हरिभक्तिरेव बीजराजिः तस्याः इरिणैः ऊषरैः ‘इरिणं शून्यमूषरम्' इत्यमरः । शुभं कल्याणं शीलं सद्वृत्तं तदेव बालतृणं तस्य हरिणैः कुरङ्गैः । शमः कामक्रोधाद्यभावः दमः तपः क्लेशसहनं इन्द्रियनिग्रहो वा । ‘शमथस्तु शमश्शान्तिर्दान्तिस्तु दमथो दमः' इत्यमरः । तयोस्समाहारः शमदमं तदेव वनं तस्य दवदहनैः । अतिविशृङ्खलैः खलैः दृष्टैरलं तद्दर्शनमप्यस्माकमनभिमतमिति भावः ।

 यथा वा--

 सज्जनगोव्रजरक्षणतरक्षुभिः क्षुभितमभित इदमसुरैः । दुरितदवशमनपवनैर्भवनं कोऽच्युत विनाऽविता भविता ॥ २२९ ॥

 अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके । अयमर्थः--द्वयोरेव मालारूपत्वं च पूर्वेभ्योऽत्र विशेषः । एवं पदार्थरूपकं दिङ्मात्रं दर्शितमेव । वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम् । यथा हि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थः तथाऽत्रापि वाक्यार्थघटकानां पदार्थानां रूपकमर्थावसेयमिति रसगङ्गाधरकृदादयः । अन्ये तु वाक्यार्थे वाक्यार्थान्तरारोपं निदर्शनां मन्वानाः रूपके न क्वचिदपि बिम्बप्रतिबम्बभावापन्नधर्मविशिष्टतया विषयविषयिणोरुपादानम् । सावयवरूपकेऽपि विशेष्यरूपणात्पृथगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये--

अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ।
विधिविष्टरपद्मस्य नाळदण्डो मुदेऽस्तु वः ॥

इत्यत्रापि अङ्घ्रिदण्डनाळदण्डयोर्न बिम्बप्रतिबिम्बभावापन्नवस्तुविशिष्टरूपता । तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्लिष्टत्वाद्यनुगामिधर्मेणैवोपमानोपमेयभावात् । किंतु विधातृविष्टरकमलश्लिष्टत्वरूपसाधारणधर्मवत्तासंपादनाय विशेषणविशिष्टतामात्रमुपमेयस्येति वाक्यार्थे वाक्यार्थारोपं न रूपकमित्याहुः

 तत्र प्राथमिकमतेन वाक्यार्थरूपकं यथा--

 श्रुतिशतनुतयशसस्ते प्रतियत्नो मादृशां वचोभिर्यत् । घनसारस्यान्यैस्तत्सुरभीकरणं निसर्गतस्सुरभेः ॥ २३० ॥

 प्रतियत्नो गुणाधानम् । अत्र भगवति वचस्सु चारोपविषयविशेषणतया बिम्बभूतेषु घनसारस्य सुगन्धिवस्त्वन्तराणां च विषयिविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाङ्गम् । रूपके बिम्बप्रतिबिम्बभावासंभवान्नेदं रूपकमिति वदतां वचनं त्वनादर्तव्यमेव । ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपकमिति नियमात् । यदाहुः-- 'उपमैव तिरोभूतभेदा रूपकम्' इति । यद्यत्र नाभ्युपगच्छसि रूपकं मास्मैवाभ्युपगच्छः तर्हि तत्र इवयथादिशब्दप्रयोगे माभ्युपगा उपमामपि । एवं--

त्वयि कोपो महीपाल सुधांशाविव पावकः।

इत्यादौ ।  त्वयि निग्रहसंकल्पः पयसिजनिलये दयासुधाजलधौ । शुक्लप्रतिपदुदञ्चितचन्द्रकलायां कलङ्क इव भायात् ॥ २३१ ॥

 इत्यादौ च स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययाद्यद्युपमां ब्रवीषि ब्रूहि तावत्तर्हि तत्रैव इवस्यापसारणे । ‘त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः’ ‘शुक्लप्रतिपदुदञ्चितचन्द्रकलायां कलङ्कोऽयम्’ इत्यादौ रूपकमपि । नन्वेवं रूपके बिम्बप्रतिबिम्बभावसंभवे--

त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥

इत्यत्रापि रूपकमेव स्यात् । बिम्बप्रतिबिम्बभावेन धर्मस्य सद्भावादिति चेत् इष्टैवेयमापत्तिः । तर्ह्यस्य प्राचीनैर्निदर्शनोदाहरणतोक्तिर्विरुध्येतेति चेत्--कामं विरुध्यतां निदर्शनोदाहरणत्वायोगादस्य । यद्यत्र 'मुखं चन्द्रः' इत्यादिरूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपकं, किंतु निदर्शनैवेत्यागृह्यते तदा मुखचन्द्र इत्यपि निदर्शनेत्युच्यतां निरस्यतां च रूपकमुखावलोकनदाक्षिण्यम् । किंच--त्वत्पादेत्यादौ किं पदार्थनिदर्शना ? आहोस्विद्वाक्यार्थनिदर्शना? नाद्यः बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेदप्रतीतेः । कुवलयानन्दोक्तरीत्या धर्म्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्याभेदेनारोपस्याभावाच्च । न द्वितीयः, वाक्यार्थरूपकोच्छेदापत्तेः । इष्टापत्तौ वैपरीत्यस्यापि सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वाभ्यां उद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयोर्वैलक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव । न वाक्यार्थनिदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यं--

त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥

इति । अत्र कर्त्रोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्दत्वात्तस्यैव समग्रभारसहिष्णुत्वान्निदर्शनैव । यदपि बिम्बप्रतिबिम्बभावो रूपके नास्तीत्युक्तं, तदयुक्तं, विमर्शिनीकारादिभिः 'कन्दर्पद्विपकर्णकम्बुमलिनैः’ इत्यादिना बिम्बप्रतिबिम्बभावेन रूपकस्योदाहृतत्वात् । विस्तरस्तु रसगङ्गाधरे द्रष्टव्यः ॥

 फणिपतिगिरिचूडामणिहरिसेवनजृम्भितो ममानन्दः। उदयगिरिशिखरगतविधुविलोकलुलितो महाब्धिरुद्वेलः ॥२३१ ॥

 इत्यादावपि विशिष्टरूपकं बोध्यम् । ‘त्वयि निग्रहसंकल्पः' इत्यत्र विषयिणस्स्वबुद्धिपरिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तु न तथेति वैलक्षण्यम् ॥

 इदं रूपकं वैयधिकरण्येनापि दृश्यते, यथा वा--

 वसनरुचा पल्लवितं हारगमुक्तागणेन कोरकितम् । कौस्तुभमणिना फलितं श्रीविहृतिवनं हरेरुरो ललितम् ॥२३२ ॥

 वसनरुचा पीताम्बरनत्विषा । हरेरुरः श्रीविहृतिवनमिति योजना । अत्र विषयाणां वसनरुच्यादीनां विषयिणां पल्लवादीनां च विभक्तिभेदः । वसनरुचेति तृतीयाया अभेदोऽर्थः । वसनरुगभिन्नपल्लववदिति बोधः । वसनरुगभेदे तु पल्लवेषु गृह्यमाणे हरेरुरसि विहारवनत्वरूपकं परिपोष्यते ॥

 साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्बिम्बप्रतिबिम्बभावापन्नः क्वचिदुपचरितः क्वचिच्च श्लेषात्मा केवलशब्दरूपः सोऽपि क्वचिच्छब्देनोपात्तः क्वचित्प्रतीयमानतया नोपात्तः ॥

 तत्रोपात्तोऽनुगामी यथा

 दुर्विषहविषमविषनिभजन्मजरादिव्यधातुरान्लोकान् । पालयितुं विकिरसि फणिशैलपते ननु कटाक्षममृतं त्वम् ॥ २३३ ॥

 अत्र पालयितुमिति तुमुन्नन्तेन शब्देनोपात्तं लोकपालनं मृतभगवत्कटाक्षयोरनुगामी धर्मः ॥

 अयमेवानुपात्तो यथा--

 परिपाटी तुहिनानां परिपाकश्शीतकिरणकिरणानाम् । परिवर्तनममृतानां परंपरा श्रीपतेरपाङ्गानाम् ॥ २३४ ॥

 अत्र तुहिनपरिपाटीप्रभृतीनां श्रीनिवासापाङ्गानां चानन्ददानादिरनुपात्तः प्रतीयमानो धर्मः ॥

 बिम्बप्रतिबिम्बभावापन्नस्तु विशिष्टरूपकप्रसङ्गे निरूपितः ॥

 उपचरितो यथा--

 शिशिरतया तव करुणा शिशिरांशुमरीचिवी- चिका नूनम् । हृदयं शिरीषकुसुमं पदयुगमहिशैलदीप पद्मयुगम् ॥ २३५ ॥

 अत्र शिशिरांशुमरीचिवीचिकारूपके विषये भगवत्करुणायामुपचरितश्शिशिरतारूपो धर्मश्शब्देनोपात्तः । शिरीषकुसुमादिरूपके च मार्दवसौकुमार्यादिरुपचरितो धर्मो नोपात्तः ॥

 केवलश्लेषात्मको यथा--

 अचलशिखावलमाना सुशोभिनी राधिकाऽम्बरग्राही । (राधिकाधरामृतदा) । शम्पावनी दधाना श्रियमपि हरिमूर्तिरम्बुधरमाला ॥ २३६ ॥

 अचलशिखायां शेषाद्रिशिखरे वलमाना संचरन्ती, अन्यत्र अचलः स्थिरः शिखावलानां केकिनां मानः चित्तसमुन्नतिर्यस्यास्सेति पञ्चमीबहुवीहिः । सुष्ठु शोभत इति सुशोभिनी । राधिकाम्बरग्राही अम्बरं गृह्णातीत्यम्बरग्राही ‘कर्मण्यण्' इत्यणि अण्णन्तलक्षणो ङीप् । राधिकायाः अम्बरग्राही सिचयग्राहिणी । भगवत्कर्तृकस्याम्बरग्रहणस्य तद्विग्रहे उपचारः । पक्षे--सुशोभि यत् नीरं जलं तेन अधिका । भिन्नं पदम् । अम्बरं अन्तरिक्षं गृह्णाति स्वसंचारार्थमादत्त इत्यम्बरग्राही गगनचारिणीति यावत् । द्वितीयार्धस्य ‘सुशोभिनी राधिकाधरामृतदा’ इति पाठान्तरम् । तदा सुशोभिनी उक्तोऽर्थः । राधिकायाः अधरामृतं ददातीति तथोक्ता राधायै स्वाधरसुधां प्रयच्छन्तीत्यर्थः । अन्यत्र सुशोभिनीरेण अधिका अत एव धरायाः भुवः अमृतदा सलिलवर्षिणीत्यर्थः । शं पावनीति भिन्ने पदे पावनी पवित्रा शं सुखं श्रियं पद्मामपि दधाना अन्यत्र शंपायाः तटित अवनी पालनी ‘शम्पा शतह्रदा ह्रादिन्यैरावत्यः' इत्यमरः । श्रियं श्यामां शोभामिति यावत् । दधाना अपिशब्दः पूर्वोक्तविशेषणसमुच्चायकः । हरिमूर्तिः श्रीनिवासतनुः अम्बुधरमाला कादम्बिन्येव । अत्र अचलशिखावलमानादिशब्द उपात्त एव प्रतीयते न तु लुप्तः ॥

 यथा वा--

 भुजगेन्द्रभूभृति सदा सौरभसात्कृततथाविधाभ्युदयः । हरिचन्दनतरुरिन्धे समुन्नतश्श्रीलता मनोज्ञवपुः ॥ २३७ ॥

 भुजगेन्द्रभूभृति शेषाद्रौ । सदा असौ इति छेदः। रभसात् वर्षात् शरणागतपरित्राणत्वराविशेषाद्वा ‘रभसो वेगहर्षयोः' इति विश्वः । कृतः तथाविधः आगोपालं साक्षात्कारार्हः अभ्युदयः आविर्भावो येन स तथोक्तः । मुदा सह वर्तन्त इति समुदः नताः शरणागताः यस्य सः समुन्नतः । श्रीरस्मिन्नस्तीति श्रीलं श्रीशब्दस्य सिध्मादिषु पाठात् ‘सिध्मादिभ्यश्च' इति मत्वर्थीयो लच् । ‘लक्ष्मीवान् लक्ष्मणश्श्रीलः' इत्यमरः । श्रीलस्य भावः श्रीलता तया मनोज्ञं वपुर्यस्य सतथोक्तः लक्ष्मीविशिष्टतया रमणीयदिव्यमङ्गळविग्रह इत्यर्थः । हरिरेव हरिचन्दनतरुः सदा इन्धे इति भगवत्पक्षे ॥

 चन्दनतरुपक्षेतु--सदासौरभसात्कृततथाविधाभ्युदय इति समस्तं पदम् । सदासौरभसात्कृतः परिमळव्याप्तः कृतः तथाविधः अभ्युदयः प्रादुर्भावः उत्कर्षो वा यस्य स तथोक्तः । ‘अभिविधौ संपदा च' इति कृभ्वस्तियोगे वैकल्पिकतया विहितस्सातिप्रत्ययः । अभिविधिर्व्याप्तिः । समुन्नता समधिका श्रीः किसलयकुसुमादिशोभा यासां ताः लताः शाखाः ‘समे शाखालते' इत्यमरः । ताभिः मनोज्ञं अभिरामं वपुर्यस्य स ततोक्तः हरिचन्दनतरुः भुजगेन्द्रभूभृति मलयगिराविति गम्यते । इन्धे इति योजना ॥

 अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् ॥ यथा--

 अम्बुरुहलोचनोऽयं जम्बूतरुरेव शातकुम्भाद्रौ हरति कथमितरथा पृथुमधुरफलैश्छायया च जनतापान् ॥ २३८ ॥

 शातकुम्भाद्रौ शेषाद्रौ । पृथुभिः विपुलैः मधुरैः आस्वादनीयैः प्रियैश्च फलैः प्रसिद्धैः, मुक्त्यैश्वर्यान्तैः प्रयोजनैश्च छायया अनातपेन दिव्यमङ्गळविग्रहलावण्येन च । जनानां तापान् आतपभवान् आध्यात्मिकादींश्च । अत्र श्लेषेण जम्बूतरोर्भगवति ताद्रूप्यप्रत्ययाद्धि रूपकम् । हेतुस्तु श्लिष्ट एव । एवमन्येऽपि प्रकारा विज्ञेयाः ॥

 सरिदधिपयशोबृन्दं सरसीरुहनाभलोचनानन्दम् । करयुगधृतारविन्दं शरणं तत्किमपि दैवतमविन्दम् ॥ २३९ ॥

 अत्र उपमेये उपमानस्य नारोपः अपितु कारणे कार्यस्येति न रूपकं भवतीति प्राचीनाः । एतन्मतानुसारेणैवास्माभिरपि लक्षितम् । उच्छृङ्खलाः पुनरारोपमात्रं रूपकमभिदधाना ईदृशस्थलेऽपि रूपकमेवाभिदधते । वस्तुतस्त्विह वक्ष्यमाणो हेतुहेतुमदैक्यरूपो हेत्वलङ्कार एव ॥

 ननु--

हरिभक्तिबीजराजेरिरिणैश्शुभशीलबालतृणहरिणैः।
शमदमवनदवदहनैरलं खलैरतिविशृखलैर्दृष्टैः ॥

इत्यत्र इरिणहरिणदवदहनैः खलानां किं साधर्म्यं येन तेषामपि रूपकमुदीर्यत इति चेत्--हरिभक्तिबीजराज्योः शुभशीलबालतृणयोः शमदमवनयोश्च ताद्रूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं हरिभक्तिरूपबीजराज्याद्यभाववत्त्वमेव तदिति गृहाण । एवमपि इरिणादीनां खलानां च ताद्रूप्यसिद्धौ इरिणादिरूपखलावृत्तित्वेन हरिभक्तिबीजराज्यादीनां ताद्रूप्यं सिध्येत् हरिभक्तिबीजराज्यादीनां ताद्रूप्यसिद्धौ च हरिभक्तिरूपबीजपराज्यादिशून्यत्वेन इरिणादीनां खलानां च ताद्रूप्यमित्यन्योन्याश्रयो न शङ्कनीयः । सर्वसिद्धेः कल्पनामयत्वेन कल्पनायाश्च स्वप्रतिभाकल्पलताधीनत्वात् । शिल्पवेदिभिरन्योन्यावष्टम्भमात्रायत्तस्थितिकाभिरुपलेष्टकाभिर्विचित्रभवनविशेषनिर्मितेश्चेति ॥

 अत्रेदमवधेयम्- चमत्कारविशेषाधायकतया रूपकसंदोहात्मकमपि सावयवरूपकं रूपकालंकारभेदगणनायां गण्यते यथा वज्ररत्नालंकारभेदगणनायामेकं वज्रचूडारत्नमिव संदोहात्मकवज्रकटकाङ्गदादयोऽपि गण्यन्ते । अन्यथा मालारूपस्योपमादेस्तद्भेदगणनेऽगणनाप्रसङ्गात् । एतेन गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न संघातात्मकं सावयवं गणनीयमिति परास्तम् । एवमस्मात्संघातात्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्वपरस्परनिरपेक्षत्वाभ्यामस्ति महद्वैलक्षण्यमिति ॥

 विमर्शिनीकारस्तु रूपकनिरूपणावसरे ‘क्वचिच्चाभेदमेव द्रढयितुं विषयिणो निषेधपूर्वकमारोप्यमाणत्वेन तदीयस्य वाऽभेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते’ इत्यभाणीत् । तत्राद्यस्योदाहरणं पर्यस्तापह्नुतिनिरूपणावसरे दर्शयिष्यति । द्वितीयतृतीययोरुदाहरणे तु कुवलयानन्दकृन्मतेन रूपकनिरूपणावसरे दर्शिते न्यूनाधिकाभेदताद्रूप्यरूपकोदाहाहरणे एवेति ध्येयम् ॥

अलङ्कारमणिहारः.pdf

अथास्य ध्वनिः.


 तत्र शब्दशक्तिमूलो यथा--

 विमतेषु त्वं जिष्णुर्दण्डधरश्चासि पुण्डरीकाक्ष । विनतेषु तु प्रचेता धनदोऽपि च भवसि कनकशिखरिमणे ॥ २४० ॥

 कनकशिखरी शेषाद्रिरित्यवोचाम । प्रसन्नं चेतो यस्य सः प्रचेताः । ‘प्रादिभ्यो धातुजस्य' इत्युत्तरपदलोपः । अत्र प्रकरणेन शक्तिनियन्त्रणेऽपीन्द्रयमवरुणकुबेराद्यभेदा भगवति व्यज्यन्ते ॥

 यथा वा--

 ऐशानीमाशां त्वं धत्से धृतपद्मको महोत्सेधः ॥ करपुष्करलुलिताब्जो देव त्वं सुप्रतीक एवासि ॥  हे देव त्वं ऐशानीं शम्भुसंबन्धिनीं आशां मनोरथं दिशं च धत्से पुष्णासि बिभर्षि च । धृता पद्मा श्रीः येन स धृतपद्मकः ‘शेषाद्विभाषा' इति कप् । पक्षे–-धृतं पद्मकं बिन्दुजालकं येन स तथोक्तः । महान् उत्सेधः उत्कर्ष औन्नत्यं च यस्य सः । करपुष्करेण पाणिपद्मेन शुण्डाग्रभागेन च लुलितं अब्जं शंखो येन सः लुलितानि अब्जानि कमलानि येन सः शोभनं प्रतीकं विग्रहो यस्य सः पक्षे दिग्गजविशेषश्च । अत्रापि प्रकरणवशाद्भगवति शक्तिनियन्त्रणेऽपि सुप्रतीकदिग्गजाभेदो व्यज्यते ॥

 अर्थशक्तिमूलो यथा--

 भगवन्भवत्प्रतापो हरितः परितः प्रकाशयति सततम् । विदलयति कमलवलयं शोकं लुम्पति च कोकलोकानाम् ॥ २४२ ॥

 अत्र हरित्प्रकाशकत्वादिना भगवत्प्रतापस्तपनाभिन्न इति रूपकं ध्वन्यते ॥

इत्यलंकारमणिहारे रूपकसरस्सप्तमः

अलङ्कारमणिहारः.pdf