अलङ्कारमणिहारः (भागः १)/प्रतीपालंकारसरः (६)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ प्रतीपालङ्कारसरः.


 प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता ॥ २६ ॥

 प्रसिद्धोपमानवैपरीत्येन वर्ण्यमानमौपम्यं प्रतीपम् । तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया । अत्र प्रसि- द्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य यच्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौपम्यस्याविशेषेऽप्युपमालङ्कारादस्य वैलक्षण्ये बीजम् । नन्वेवमौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमन्यस्य न्यूनत्वं च गम्यत इत्येतत्कुत इति चेदवधेहि--उपमाने हि साधारणधर्मसम्बन्धोऽनूद्य उपमेये विधीयत इति तावत्सर्वसंप्रतिपन्नम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम् । ते च क्रमेणोपमेयोपमानयोर्न्यूनत्वाधिक्ये प्रयोजयेते । लोकेऽपि निश्चितराजभावो यथा मान्यते तथा नानिश्चितराजभाव इति व्यक्तमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने इति नात्र दोषः । अत्र पञ्चविधे प्रतीपे वक्ष्यमाणे आद्येषु त्रिषूपमितिक्रियानिष्पत्तिरस्ति । अन्यत्र तु सा नेति भेदः ॥

 यथा--

 जल्पतु जरद्गवी हिरण्यवर्णां शरण्यदयितततमे । शुचितप्तं यदि तत्स्यात्सुचिरं त्वद्वर्णता भजेतापि ॥ १७४ ॥

 जरद्गवी श्रुतिः जीर्णा गौरित्यपि गम्यते । शुचितप्तं ग्रीष्मे पञ्चाग्निमध्यकृततपः । यद्वा शुचीति भिन्नं पदम् । शुचि शुद्धं तप्तं तपस्वि चेत्यर्थः । अग्नौ पुटपाकेन शोधितमिति तु हृदयम् । अत्र पूर्वार्धोपमागम्यमुपमानताप्रयुक्तं सुवर्णवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीपं श्रीलक्ष्मीवर्णस्योपमानत्वप्रयुक्तमाधिक्यं गमयति । शुचितापं विना प्रतीपमपि दुर्लभम्, उपमा तु स्वप्नेऽपि दूरतोऽपास्तेति जरद्गवी जल्पत्वित्याभ्यां गम्यते । शरण्यदयिततमे इति श्रियस्संबुद्धिः ॥  यथा वा--

 आदित्यवर्णतां ते श्रुतिस्स्वतन्त्रा ब्रवीतु जगदम्ब । उदयेन्महातपश्श्रीस्स यदि त्वत्पादवर्ण एव स्यात् ॥ १७५ ॥

 श्रुतिः,'आदित्यवर्णे तपसोऽधिजातः इति श्रुतिः । सः आदित्यः महती तपश्श्रीः आतपश्रीश्च यस्य स तथोक्तः उदयेत् । अभ्युदयमाविर्भावं च प्राप्नुयाद्यदि तदाऽपि त्वत्पादवर्ण एव तव चतुर्थांशवर्ण इव वर्णो यस्य स तथोक्त एव स्यात्, न तु परिपूर्णत्वद्वर्ण इति भावः । त्वच्चरणारुणवर्ण इति तु हृदयम् । अत्रापि पूर्वार्धोपमागम्यमुपमानताप्रयुक्तादित्यवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीपं जगज्जननीवर्णस्य उपमानताप्रयुक्तमाधिक्यं गमयति । महातपश्रीसाहित्येनोदितत्वमन्तरा प्रतीपमपि दुर्घटं, कुतो वा उपमावार्तेति श्रुतिस्स्वतन्त्रा ब्रवीत्वित्यनेन गम्यते । त्वत्पादवर्ण एवेति श्लेषोऽप्यस्यैवार्थस्योपस्कुरुते ॥

अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः । लाभाद्वर्ण्योपमेयस्य स्यादन्यानादरश्च तत् ॥ २७ ॥

 अद्वितीयगुणशालितया वर्ण्यमानस्यान्यत्र स्वसादृश्यमक्षममाणस्य उपमेयं कंचित्प्रदर्श्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशेषशालि । अत्युत्कृष्टतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥

 यथा--

 अहमेव पालयित्री जगतामिति दृप्य मा जल- धिपुत्रि । फणिगिरिपतिहृदि धात्रीसदृशी करुणा तवास्ति शुभदात्री ॥ १७६ ॥

 त्वमनन्तहृद्यभूषणमहमिति गर्वं जहीहि धामनिधे । संकलयसि सदृशं तव वेङ्कटनाथस्य मणिमुरसि न किमु ॥ १७७ ॥

 अत्राद्योदाहरणे तव सदृशीत्युपमितिक्रियानिष्पत्तावपि करुणाया उपमेयीकरणेन वर्ण्याया लक्ष्म्या अनादरः । द्वितीयोदाहरणे तु अनन्तहृद्यभूषणतया क्वचिदप्युपमानभावमक्षममाणस्यावर्ण्यस्य धामनिधेस्तादृशं श्रीनिवासोरस्स्थकौस्तुभमुपमेयं परिकल्प्य तस्यानादर उक्तः । अनन्तस्य गगनस्य श्रीनिवासस्य च हृद्यं मनोहरं हृदयस्थं च भूषणमिति श्लेषोपस्कृतमिदम् । अनयोर्भेदयोः फलं स्फुटमेवेति न विवेचनीयमस्ति ॥

 क्वचिदनादराप्रतीतावप्युपमेयस्योपमानताकल्पनमात्रेण प्रतीपं दृश्यते । यथा--

 करचरणनयनसदृशं सरसिरुहं परमपुरुष तव कमला । करभूषणयति गृहयति सरयति संश्रयति चापि तन्नाम ॥ १७८ ॥

 अत्रारुण्यसौगन्ध्यमार्दवादिमहिम्ना प्रसिद्धोपमानभावस्य सरसिरुहस्योपमेयत्वमात्रमुक्तम् । न तु तस्यानादरः । उपमायामिवास्मिन्नपि पूर्णलुप्तादयो भेदास्सम्भवन्तो बुद्धिमद्भिरुन्नेयाः ॥ उपमाया अनिष्पत्तिर्वर्ण्येनान्यस्य चापि तत् ॥

 वर्ण्येनेति तृतीयाया निरूपितत्वमर्थः । वर्ण्यनिरूपिता अन्यस्यावर्ण्यस्य या उपमा तस्या अनिष्पत्तिवचनं चतुर्थं प्रतीपम् । आद्ययोरवर्ण्यस्योपमेयत्वकल्पनया तृतीये वर्ण्यस्योपमेयत्वकल्पनया चोपमितिक्रयानिष्पत्तिरस्ति । अत्र तु सा नास्तीति पूर्वेभ्य उत्कर्षशालीदम् ॥

 यथा--

 अपि पुण्डरीकमक्ष्णोरुपमा स्यादुरगशैलनाथ तव । साहसिकी मन्ये श्रुतिराह यथा पुण्डरीकमेवमिति ॥ १७९ ॥

 हे उरगशैलनाथ तव अक्ष्णोः पुण्डरीकमपि उपमा स्यादिति काकुः । अपीत्यनेन पुण्डरीकस्य कादाचित्कम्लान्यादिना अरामणीयकं व्यञ्जितम् । तर्ह्यन्तरादित्यविद्यायां ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी' इति श्रुतिः कथमाह पुण्डरीकसाधर्म्यं भगवल्लोचनयोरित्यत आह--साहसिकीति । या श्रुतिः ‘तस्य यथा कप्यासम्’ इत्यादिः पुण्डरीकसादृश्यमाह, मन्ये सा साहसिकीति । सहसा वर्तते साहसिकी ‘ओजस्सहोऽम्भसा वर्तते’ इति ठक् । टिड्ढेति ङीप् । नेत्रे निमील्य वदतीति भावः । अत्र अपि पुण्डरीरमक्ष्णोरुपमा स्यादित्यनेन उपमा न सम्भवतीति गम्यते । साहसिकीत्युत्तरार्धममुमेवार्थमुपोद्बलयति ॥

 उपमानस्य कैमर्थ्यं प्रतीपं पञ्चमं विदुः ॥ २८ ॥  कः अर्थः प्रयोजनं यस्य स किमर्थः तस्य भावः कैमर्थ्यं निरर्थकत्वम् । उपमेयस्यैवोपमानकार्यधूर्वहतया उपमानकैमर्थ्यमुपमानप्रातिलोम्यात्पञ्चमं प्रतीपम् ॥

 यथा--

 गुणवशितपरब्रह्मणि फणिशिखरिणि विरचिताद्भुतानन्दे । निवसन्तः खलु सन्तः परमव्योम्नाऽपि किमिति मन्यन्ते ॥ १८० ॥ ।

 यथा वा--

 पद्मावत्याः पाणिं परिगृह्णानः फणाभृदचलेशः । लीलाब्जमपि निरास्थो निरास्थदेतत्किमर्थमिति ॥ १८१ ॥

 अत्र क्रमेण उपमेययोः फणिशिखरिपद्मावतीपाण्योरेव निरतिशयानन्ददानादिकार्यधूर्वहतया उपमानभूतयोः परमव्योमलीलाकमलयोः कैमर्थ्यमुक्तम् ॥

 तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । तुरीयस्त्वनुक्तवैधर्म्ये व्यतिरेके । पञ्चमस्तु केषांचिदाक्षेपः । तथाहि--निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । न ह्याद्ये प्रतीपे मुखमिवकमलमित्यादौ सादृश्यस्यानिष्यत्तिरसौन्दर्यं वाऽस्ति । येनोपमातो बहिष्कृतिस्स्यात् । सौन्दर्यविशेषस्य त्वयाऽप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेत्यस्ति वेदानुशासनम् । न चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य महिम्नैव तथाविधं सादृश्यमुपमेति शक्यं वदितुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवंचाद्यं प्रतीपं प्रसिद्धोपमावदुपमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव, उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेन्न तूपमासामान्यात् । तदनुस्यूतत्वेनैव तत्प्रतीतेः । न हि शर्करा माधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी भवेत् । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलङ्कारताप्रयोजकस्स्यात्तर्हि तत्पुरस्कारोऽपि तथा स्यात् ॥

 यथा--

 ननु पातकिनो वयमित्यनुतापं मा स्म दुर्जनाः कुरुत । कति कति न भवादृक्षाः कलाविहास्मृतसरीसृपगिरीशाः ॥ १८२ ॥

 अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलं, तस्य दृप्तत्वाद्यविवक्षणात् । किन्तु तदनुतापशान्तिः, एवं च फलवैलक्षण्यमात्रेणालङ्कारान्तरत्वं ब्रुवाणेनास्याप्यलङ्कारत्वमभ्युपेयं स्यात् प्रतीपषष्ठप्रभेदत्वं वा । किंच त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथगलङ्कारता स्यान्न तु प्रतीपभेदत्वं, प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात् । अन्यतमत्वं तु दूषणसहस्रकबळितत्वादलक्षणमेव । उपमालक्षणं तु सर्वसाधार णम् । पञ्चमप्रभेदस्तु येषां मतेनाक्षेपस्तेषामस्तुनामालङ्कारः । तुरीयस्य तूक्तैव गतिः ॥

इत्यलङ्कारमणिहारे प्रतीपालङ्कारसरः षष्ठः.

अलङ्कारमणिहारः.pdf