अलङ्कारमणिहारः (भागः १)/उदाहरणालंकारसरः (५)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथोदाहरणालंकारसरः.


सामान्योक्तसुबोधाय तदेकांशनिरूपणात् ।
उक्ते तयोरवयवावयवित्व उदाहृतिः ॥ २५ ॥

 सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोस्सामान्यैकदेशयोरवयवावयविभावे उक्ते उदाहृतिः उदाहरणं नामालंकारः । अत्रार्थान्तरन्यासवारणायोक्त इति । वचनं च इवयथानिदर्शनदृष्टान्तप्रमाणोदाहरणसाक्ष्यादिशब्दैः काव्येषु व्यक्तम् । अर्थान्तरन्यासे ह्यवयवावयविभावो व्यङ्ग्यः । न च इवयथाशब्दयोस्सादृश्यवचनयोरवयवावयविभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायास्साम्राज्यात् । अन्यथा ह्युत्प्रेक्षाबोधकताऽपि दुर्घटा स्यात् । अत्रालंकारे सामान्यविशेषयोर्विशेषणानि पृथग्वा सकृद्वा निर्दिश्यन्त इति ध्येयम् ॥  यथा--

 मलिनमपि गुणमहिम्ना महति पदे वस्तु मान्यतामेति । मृगनाभिस्सुरभितया भगवत इव निटिलफलकसीमायाम् ॥ १६६ ॥

 न चात्र मलिनवस्तुमृगनाभ्योरुपमा शक्या वक्तुम् । तयोस्सामान्यविशेषभावेन सादृश्यस्यानुन्मेषात् । तथा सति तु इवादिशब्द इव सदृशादिशब्दा अप्यलंकारेऽस्मिन् प्रयुज्येरन् । अत्र मृगनाभिसुरभिताभगवद्वदनानि मलिनवस्तुगुणमहिममहापदानां विशेषाः । अत्र पद्ये इवशब्देनावयवावयविभावोक्तिः ॥

 यथा वा--

 संसर्गान्महतामिह सर्वज्ञेनापि लाल्यते कश्चित् । गरुडध्वजपदसङ्गाद्गङ्गापूरो यथा पुरामरिणा ॥

 अत्र गरुडध्वजपदसङ्गादयो महत्संसर्गादीनां विशेषाः । अत्र यथाशब्देनावयवावयविभावोक्तिः ॥

 यथा वा--

 लोकोत्तरवस्तु वहन्नेको लोके महोन्नतिं धत्ते । काकोदरशिखरीन्द्रो निदर्शनं बिभ्रदत्र लोकेशम् ॥

 एक इत्यस्य पदार्थ इति विशेष्यमुपस्कार्यम् । एवं पूर्वपद्ये कश्चिदित्यस्यापि । अत्र निदर्शनशब्देन ॥

 यथा वा--

 यत्र क्व वाऽस्तु जातस्तेजस्वी भवति भूषणं महताम् । उदधौ जातश्श्रीपत्युरस्स्थितः कौस्तुभोऽत्र दृष्टान्तः ॥ १६९ ॥

 अत्र उदधिजातकौस्तुभौ यत्र क्व वा जाततेजस्विनोर्विशेषौ । एवमग्रेऽपि द्रष्टव्यम् । अत्र दृष्टान्तशब्देन ॥

 यथा वा--

 उत्तमचेतनसंश्रयदत्तातिशयो गिरीशतां धत्ते । कश्चिदचेतनभावेऽप्याश्चर्यमिह प्रमाणमहिशैलः ॥

 उत्तमचेतनः श्रेष्ठो जीवः, अन्यत्र भगवानित्यर्थः । गिरीशतां वाग्विषये ईश्वरत्वं, अन्यत्र शैलेन्द्रताम् । अविद्यमाना चेतना ज्ञानं यस्य तस्य भावे अज्ञत्वे इत्यर्थः । अन्यत्र चेतनभिन्नत्वे गिरेरचेतनत्वादित्यर्थः । अत्र प्रमाणशब्देन ॥

 यथा वा--

 त्वामन्तर्निदधानश्श्रीमन् खेटोपि भवति तेजस्वी । अम्बुजकदम्बबन्धोर्बिम्ब इह स्यादुदाहरणम् ॥ १७१ ॥

 खेटः कुत्सितः ‘कुपूयकुत्सितावद्यखेटगर्ह्याणकास्समाः' इत्यमरः । पक्षे--खे अटतीति खेटः गगनचारीत्यर्थः । 'तत्पुरुषे कृतिः’ इत्यलुक् । अत्रोदाहरणशब्देनावयवावयविभावकथनम् ॥

 यथा वा--

 अपि बहुषु वस्तुषु महानादत्ते स्वानुरूपवस्त्वे- व । उदधिभवेष्विह कमलामुपाददानोऽत्र माधवस्साक्षी ॥ १७२ ॥

 आदौ तामसहिततां दधदपि वस्तु त्वदाश्रितं स्याच्चेत् । अन्ते रसवद्भविता हरिदयिते तत्र साक्षि तामरसम् ॥ १७३ ॥

 आदौ प्रथमं तामसेभ्यो हिततां दधदपि । पक्षे-- तामेत्याभ्यां वर्णाभ्यां सहिततां दधदित्यर्थः । अन्ते रसवत् ब्रह्मानुभववत् ‘रसो वै सः' इत्यादिश्रुतेः । रसशब्दो ब्रह्मपरः । पक्षे--अन्ते चरमभागे रसाभ्यां रेफसवर्णाभ्यां युक्तमित्यर्थः । अत्र पद्यद्वयेऽपि साक्षिशब्देनावयवावयविभाववचनम् ॥

 इवयथादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम् । निदर्शनदृष्टान्तादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्च विशषः । प्राञ्चस्तु-–"नायमलंकारोऽतिरिक्तः, उपमयैव गतार्थत्वात्। न च सामान्यविशेषयोरसादृश्यानुल्लासात्कथमुपमेति वाच्यम् । ‘निर्विशेष न सामान्यम्’ इति सामान्यस्य यत्किञ्चिद्विशेषं विना प्रकृतत्वायोगात् । तादृशविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकाभावादिवादिभिरामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्ते:" इत्याहुः ॥

 नन्वेवमुदाहरणालंकाराभ्युपगमे सामान्यस्य विशेषेण समर्थनं नार्थान्तरन्यासभेदश्शक्नुयाद्भवितुम्, अनेनैव चरितार्थत्वादिति वाच्यम् । तत्र इववायथादिशब्दप्रयोगाभावस्यैवेतो वैलक्षण्यात् एवमपि स वाचकाभावादार्थ उदाहरणालंकार एवास्तु न त्वर्थान्तरन्यासभेद इति चेत्, इदमस्त्यनयोर्वैलक्षण्यं--सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी हि गतिः । अनुवा द्यांशमात्रे विशेषत्वम् । विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्या उदाहरणालङ्कारस्य विषयः । द्वितीया त्वर्थान्तरन्यासभेदस्य । एवं च ‘मृगनाभिस्सुरभितया भगवत इव निटिलफलकसीमायाम्' इत्युदाहरणालङ्कारगते विशेषे मान्यतामेतीति प्राचीनसामान्यार्थगतैव यथोक्तरूपेण क्रिया विधेया । 'भगवद्वदने बिभर्ति तिलकत्वम्’ इति तुरीयपादपाठेनार्थान्तरन्यासगते तु पृथगुपात्तविशेषरूपेण । एवं—‘यत्र क्ववाऽस्तुजातस्तेजस्वी भवति भूषणं महताम्' इत्याद्युदाहरणालङ्कारश्लोकेष्वपि ‘यदयं जनिमानुदधौ हृदये प्रचकास्ति कौस्तुभोऽच्युत ते’ इत्याद्युत्तरार्धपाठे उदाहरणार्थान्तरन्यासविशेषयोर्वैलक्षण्यं बोध्यमिति । यदि चायमल्पो विशेषो नार्थान्तरन्यासविशेषस्योदाहरणलङ्कारात्पृथगलङ्कारतामीष्टे साधयितुं, अपि तु तद्विशेषतामित्युच्येत, तदा उदहरणालङ्कारोऽर्थान्तरन्यासस्य, प्रतिवस्तूपमा दृष्टान्तस्य, अतिशयोक्ती रूपकस्य च विशेषः, उपमैव चार्थी स्मरणभ्रान्तिमत्सन्देहा इत्यपि सुवचं स्यात्, तत्रापि विशेषस्याल्पत्वात् । उपमयैवेमं गतार्थं मन्वानाः प्राञ्चस्तु विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विनाऽन्यत्र नेष्टे प्रवेष्टुमित्यभिप्रयन्तीति दिक् ॥

इत्यलकारमणिहारे उदाहरणालङ्कारसरः पञ्चमः.

अलङ्कारमणिहारः.pdf