अलङ्कारमणिहारः (भागः १)/परिणामसरः (८)

विकिस्रोतः तः
Jump to navigation Jump to search

 हे देव त्वं ऐशानीं शम्भुसंबन्धिनीं आशां मनोरथं दिशं च धत्से पुष्णासि बिभर्षि च । धृता पद्मा श्रीः येन स धृतपद्मकः ‘शेषाद्विभाषा' इति कप् । पक्षे–-धृतं पद्मकं बिन्दुजालकं येन स तथोक्तः । महान् उत्सेधः उत्कर्ष औन्नत्यं च यस्य सः । करपुष्करेण पाणिपद्मेन शुण्डाग्रभागेन च लुलितं अब्जं शंखो येन सः लुलितानि अब्जानि कमलानि येन सः शोभनं प्रतीकं विग्रहो यस्य सः पक्षे दिग्गजविशेषश्च । अत्रापि प्रकरणवशाद्भगवति शक्तिनियन्त्रणेऽपि सुप्रतीकदिग्गजाभेदो व्यज्यते ॥

 अर्थशक्तिमूलो यथा--

 भगवन्भवत्प्रतापो हरितः परितः प्रकाशयति सततम् । विदलयति कमलवलयं शोकं लुम्पति च कोकलोकानाम् ॥ २४२ ॥

 अत्र हरित्प्रकाशकत्वादिना भगवत्प्रतापस्तपनाभिन्न इति रूपकं ध्वन्यते ॥

इत्यलंकारमणिहारे रूपकसरस्सप्तमः

अलङ्कारमणिहारः.pdf


अथ परिणामसरः.


विषयी स्वात्मना यत्र प्रकृतानुपयोगतः ।
विषयात्मत्वमभ्येति परिणामस्स ईरितः ॥

 यत्रारोप्यमाणो विषयी किंचित्कार्योपयोगितया निबध्यमानस्स्वातन्त्र्येण तस्य तदुपयोगित्वासंभवात्प्रकृतात्मतापरिणतिमपेक्षते स परिणामः । अत एवान्वर्थसंज्ञोऽयम् । अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति भवति रूपकादस्य भिदा । अयं च परिणामो द्विविधस्सामानाधिकरण्यवैयधिकरण्याभ्याम् । सामानाधिकरण्येऽपि समासगो वाक्यगश्चेति द्विविधः । तत्राद्यो यथा ॥

 द्विरदाधिपवरदानस्फुरदादरणस्य फणिगिरिनियन्तुः । सुरदानवनुतकीर्तेर्वरदायि कराब्जमवतु सुकुमारम् ॥ २४३ ॥

 अत्र ह्यब्जस्य वरदानादिकं निबध्यते न तु करस्य । मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात् । न च करः अब्जमिवेत्युपमितसमासावलम्बनेन पूर्वपदार्थप्रधानतैव कुतो न स्यादिति वाच्यं, सामान्याप्रयोग एव तदनुशासनात् । इह च सुकुमारमिति सामान्यधर्मप्रयोगात् । अब्जस्य स्वतो वरदानादिकार्यानुपयोगितया प्रकृतभगवत्करात्मतापरिणत्यपेक्षणात्परिणामः ॥

 यथा वा--


 तावकशुभगुणसौरभविसरैरधिवासितं सतां स्वान्तम् । दुर्दान्तदैवतान्तरदुर्गन्धं दूरतो जहाति हरे ॥ २४४ ॥

 अत्र सौरभस्य स्वातन्त्र्येण सत्पुरुषस्वान्ताधिवासनेऽनुपयोगाद्भगवच्छुभगुणतया परिणामः ॥  यथा वा--

 बुध्वाऽऽचार्यानुग्रहसिद्धाञ्जनतोऽञ्जनाचलेन्दो त्वाम् । वशयन्विशदस्वान्तो भृशमभिनन्देयमुपशमिततृष्णः ॥ २४५ ॥

 अत्र सिद्धाञ्जनस्याचार्यानुग्रहतयैव भगवज्ज्ञानतद्वशीकरणक्षमत्वम् ॥

 यथा वा--

 श्रीवेङ्कटाद्रिशेखरकटाक्षमयकङ्कटावृतो योगी । चण्डकरमण्डलमपि प्रवेष्टुमीष्टे सहस्रहेतिमयम् ॥ २४६ ॥

 हेतयः शस्त्राणि अर्चींषि चेत्यर्थः। ‘रवेरर्चिश्च शस्त्रं च वन्हिज्वाला च हेतयः' इत्यमरः । कङ्कटः कवचः । अत्र कङ्कटस्य भगवत्कटाक्षतया परिणामादेव चण्डकरमण्डलप्रवेशक्षमतेति ध्येयम् ॥

 वाक्यगो यथा--

 किंनु तया संपत्त्या वैधात्र्या वाऽपि कर्मपरिणत्या । त्वां प्रेप्सोर्वितर हरे भक्तिं धनमेव मे विरक्तिघनम् ॥ २४७ ॥

 'कर्मणां परिपाकत्वादा विरञ्चादमङ्गळम्' इत्युक्तस्वरूपया ब्राह्म्याऽपि संपदा त्वामेव प्रेप्सोर्मे किं साध्यम् । भक्तिं त्वद्भक्तिरूपमेव धनं देहीत्यर्थः । अत्रारोप्यमाणं धनं भक्तिरूपापन्नमेव वितरणरूपकार्योपयोगि, न स्वात्मना । कवेर्भगवत्प्राप्तिमात्रमपेक्षमाणस्य वैरिञ्चिविभूतेरपि तृणीकरणेन केवलधनार्थिताविरहात् ॥

 यथा वा--

 फणधरधरणिधरेन्दा स्मरणं तव चरणयोः कतकरेणुः । संशयधूसरतां नस्संशमयति हंत सर्वतत्वार्थे ॥ २४८ ॥

 अत्रारोप्यमाणः कतरेणुर्भगवत्स्मरणतापत्त्यैव संशयधूसरतासंशमनलक्षणकार्ये उपयुज्यते न स्वातन्त्र्येणेति भवति परिणामः । उदाहरणबाहुल्यं बुद्धिवैशद्याय ॥

 व्यधिकरणो यथा--

 अधररुचा रागवती नलिनवती नयनपाणिचरणेन । लक्ष्मीः प्रभातलक्ष्मीराधत्ते नः प्रबोधमनवधिकम् ॥ २४९ ॥

 अत्रानवधिकप्रबोधाधानं परिमितप्रबोधाधायिन्याः प्रभातलक्ष्म्यास्स्वात्मना । बाधितं लक्ष्मीरूपेण तु संगच्छत इति भवति परिणामः । स च परस्परासापेक्षबहुसंघातात्मकतया सावयवः। तत्र पूर्वार्धगतौ द्वाववयवौ व्यधिकरणौ उत्तरार्धगतश्चैकस्समानाधिकरणः। अनवधिकं प्रबोधं असंकुचितं ज्ञानं मुक्त्यैश्वर्यमिति यावत् ॥

 अत्रेदमवधातव्यम्-यत्र विषयस्य विषयिताद्रूप्यापत्त्या प्रकृतकार्योपयोगित्वं तत्र रूपकम्, यत्र तु विषयिणो विषयताद्रप्यापत्त्या कार्योपयोगित्वं तत्र परिणाम इति । काव्यप्रकाशकारादिभिस्तु-- उभयत्राप्युत्तरपदार्थप्रधानमयूरव्यंसकादिसमासाविशेषादीदृशं वैषम्यं नातीव चमत्कारयिति परिणामः पृथगनुपात्तः ॥

 केचित्तु—"क्वचित्केवलो विषयस्स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयाऽवतिष्ठते तत्रारोप्यमाणपरिणामः, यथा—‘वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ’ अत्र वदनमिन्द्वभिन्नतयाऽवतिष्ठते, केवलस्य वदनस्य दृक्छिशिरीकारकत्वायोगात् । क्वचिच्चारोप्यमाणस्स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयाऽवतिष्ठते । तत्र विषयपरिणामः, यथा-–'वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' अत्रेन्दुर्वदनाभिन्नतयाऽवतिष्ठते, केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति विषयतावच्छेदकविषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तल्लक्षणत्वात् । अत एवोक्तं-–'तद्रूपकमभेदो य उपमानोपमेययोः' इति । तस्मान्न रूपकात्परिणामोऽतिरिच्यते” इति वदन्ति । वस्तुतस्तूक्तरीत्या विच्छित्तिविशेषस्य सद्भावे अलंकारान्तरत्वमवश्याभ्युपेत्यम् । अन्यथा तुल्ययोगितादीपकादीनामपि यत्किंचिद्वैलक्षण्यसद्भावेन पृथगलंकारता न स्यादिति दिक् ॥

अलङ्कारमणिहारः.pdf

अथ परिणामध्वनिः.


 तत्रार्थशक्तिमूलपरिणामध्वनिर्यथा--

 कल्पमहीरुह कल्पय निरतिशयां संपदं नितान्तं नः । यां सन्तोऽनुभवन्तो जन्मजरादिव्यथां न धावन्ति ॥ २५० ॥

 अत्र वक्तुः परिच्छिन्नैश्वर्यविरक्ततया व्यज्यमानभगवदभिन्नतया कल्पतरुर्विवक्षितः, तेन रूपेणैव तस्योत्तरार्धविवक्षितमुक्त्यैश्वर्यरूपनिरतिशयसंपत्संपादकत्वात् । न चात्र विषयनिगरणात्मकातिशयोक्तिश्शक्या वक्तुम् । तस्यां ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्ययः । यथा--'कमलं कनकलतायाम्' इत्यादौ कनकलताभिन्नायां वनितायां कमलाभिन्नं मुखमिति । अत्र तु भगवतः कल्पमहीरुहाभिन्नत्वेन प्रत्यये पुनर्निरतिशयसंपत्संपादनलक्षणप्रकृतकार्यसिद्धिरिति कल्पकस्यारोप्यमाणस्य भगवद्रूपविषयाभिन्नत्वं मृग्यम् । तच्च व्यङ्ग्यतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्तिः ॥

 शब्दशक्तिमूलो यथा--

 कंजायताक्षि मुग्धे संज्वरमनुविंदसे सखि किमर्थम् । आशास्व घनं कृष्णं येन त्वं शान्तिमेष्यसि क्षिप्रम् ॥ २५१ ॥

 इदं काञ्चिद्गोपिकां प्रति कस्याश्चित्सख्या वचनम् । अत्र झगिति संज्वरशमनहेतुत्वेनोपस्थिते नीलाम्बुदे पश्चान्मुग्धारूपबोद्धव्याविशेष्यकस्मरसंज्वरवत्तावैशिष्ट्यबुद्धौ सत्यां सहृदयायास्तस्याः तादृशसंज्वरशान्तिकारिश्रीकृष्णरूपविषयताद्रूप्यबुद्धिर्जाते । अयं शब्दशक्तिमूलः ॥

 यथावा--

 अयि दूयसे किमर्थं साधो दूरं विधेहि जाड्यभयम् । प्रत्यासन्नं माधवमीक्षस्व य एतदुपशमं नेता ॥ २५२ ॥

 इदं शिशिरर्तौ वेङ्कटाचलप्रान्ते निवसन्तं कंचन साधुं प्रति कस्यचिद्वचनम् । जाड्यं शैत्यं मान्द्यं च । माधवं वसन्तं भगवन्तं च । अत्राञ्जसा जाड्यशान्तिनिमित्ततयोपस्थिते वसन्ते पश्चाद्बोधनीयसा‌धुविशेष्यकजाड्यवत्तावैशिष्ट्यबुद्धौ सत्यां सहृदयस्य तादृशजाड्यशमयितृश्रीनिवासरूपविषयताद्रूप्यबुद्धिर्भवतीत्ययमपि शब्दशक्तिमूलः परिणामध्वनिः ॥

इत्यलंकारमणिहारे परिणामसरोऽष्टमः.

अलङ्कारमणिहारः.pdf