अलङ्कारमणिहारः (भागः १)/उल्लेखसरः (९)

विकिस्रोतः तः
Jump to navigation Jump to search

अथोल्लेखसरः.


ग्रहीतृभिरनेकैर्यदेकस्यानेकधा ग्रहः ।
रूच्यादिकारणवशात्तमुल्लेखं प्रचक्षते ॥ ४३ ॥

 एकस्य वस्तुनो निमित्तवशाद्यदनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं स उल्लेखः । रुच्यदीत्यादिशब्देनार्थित्वभयादीनां संग्रहः । रुचिः अभिरतिः । अर्थित्वं लिप्सा । भयं प्रसिद्धमेव । अनेकधोल्लेखे रुच्यादीनां यथार्हं प्रयोजकत्वम् ॥

 कनकाचलेश्वरकरे कनन्तमब्जं सुधांशुरिति चक्रम् । दिनमणिरिति च विदित्वाऽहर्षि चकोरैश्च चक्रवाकैश्च ॥ २५३ ॥

 अत्र चकोरचक्रवाकैः पाञ्चजन्यसुदर्शनयोस्सुधांशुत्वेन दिनमणित्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति ॥

 वारिनिधेर्वात्सल्यं वारिजविपिनस्य विभवपौष्कल्यम् । शौरेर्महिमौज्ज्वल्यं नारीरत्नं स्मरेयमनुकल्यम् ॥ २५४ ॥

 इत्यादिमालारूपकेऽतिप्रसङ्गवारणायानेकैर्ग्रहीतृभिरित्यविव क्षितबहुत्वं ग्रहणविशेषणम् ॥

 हरिमहिशिलोच्चयाग्रे विलोक्य मत्वा बलाहकोऽयमिति । माद्यन्ति दन्तिनिवहा नृत्यन्ति कलापिनामपि कुलानि ॥ २५५ ॥

 अत्र हरिरूपस्यैकस्य वस्तुनोऽनेकैर्दन्तिकलापिकुलैर्ग्रहीतृभिरेकेनैव बलाहकत्वरूपेण प्रकारणेन ग्रहणमिति तत्रातिप्रसंगवारणायानेकप्रकारकमिति । ग्रहणमिति ग्रहणसमुदायो विवक्षितः । एकत्वं जातौ, अनेकग्रहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धेः । अनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणमित्यनेन द्वाभ्यां द्विऽधाग्रहणेऽप्ययमलंकारोऽक्षत एव । अयं च द्विविधः । शुद्धोलंकारान्तरसंकीर्णश्चेति । तत्र शुद्धो यथा--

 आर्तो लक्ष्मीपतिरित्यर्थार्थी त्वां महावदान्य इति । जिज्ञासुर्ज्ञानमिति ज्ञानी तु शरण्य इति भजति भगवन् ॥ २५६ ॥

 अत्र--

चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन ।
आर्तोजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥

इतिश्लोकार्थोऽनुसंहितः । सुकृतिनः पुण्यकर्माणः मां शरणमुपगम्य मामेव भजन्ते । ते च सुकृततारतम्येन चतुर्विधाः । सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तराधिकतमा भवन्ति । आर्तः प्रतिष्ठाहीनो भ्रष्टैश्वर्यः पुनस्तत्प्राप्तिकामः लक्ष्मीपतिरिति भजति ऐश्वर्यदानसामर्थ्याभिप्रायकं लक्ष्मीपतिपदम् । एवमग्रेऽप्यूह्यम् । अर्थार्थी अप्राप्तैश्वर्यतया अपूर्वैश्वर्यकामः । तयोर्मुखभेदमात्रम् । ऐश्वर्यविषयतथैक्यादेक एवाधिकारः । महावदान्य इति भजति । जिज्ञासुः प्रकृतिवियुक्तब्रह्मात्मकात्मस्वरूपावाप्तीच्छुः ज्ञानमेवास्य स्वरूपमिति जिज्ञासुरित्युक्तम् । ज्ञानमिति भजति । ज्ञानस्वरूपजीवशरीरक इति भजति । ज्ञानी तु भगवच्छेषतैकरसात्मस्वरूपवित् प्रकृतिवियुक्तकेवलात्मन्यपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तमेव परमप्राप्यं मन्वानः शरण्य इति परमप्राप्य इति भजतीत्यर्थः । अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामार्ताद्यनेकग्रहीतृकलक्ष्मीपतित्वाद्यनेकप्रकारकग्रहणसमुदायो भगवद्विषयरतिभावोपस्कारकः शुद्ध एवात्रायमुल्लेखालंकारः, रूपकादिभिरमिश्रितत्वात् ॥

 संकीर्णो यथा--

 तावकपदनखरेखां मत्वेन्दुकलां नमन्मृडो मकुटम्। स्पृशति निजमहिगिरीश्वर वज्रं मत्वेक्षते स्वकरमिन्द्रः ॥ २५७ ॥

 अत्र मृडाद्येकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखस्संकीर्णः ॥

 वृषगिरिपतिं तमालं कतिचित्कतिचिद्वदन्तु हरिनीलम् । ब्रूमो वयमतिवेलं पुञ्जितलक्ष्मीकटाक्षरुचिजालम् ॥ २५८ ॥

 अत्र भगवतस्तमालत्वादेः परमतत्वेन निषेध्यतयोपन्यासादपह्नुत्या संकीर्ण उल्लेखः ॥

 सन्देहसङ्कीर्णो यथा--

 तपनो वा ज्वलनो वेत्यरिललना वेत्ति तव करे चक्रम् । स्वीयं लक्ष्मीस्तु हरे केयूरं वाऽथ नूपुरं वेति ॥ २५९ ॥

 अत्र द्वयोर्ग्रहणयोः प्रत्येकं संदेहत्वं समुदायस्य तूल्लेखता ॥

 अवरोधसद्म पद्मा मनुते भूमिर्निवासभूमिं त्वाम् । नीला लीलाशालां नीलाचलमौलिलोलनीलमणे ॥ २६० ॥  नीलाचल इति शेषाद्रेरेव नामान्तरम् । अत्र यद्यवरोधसद्मत्वादीनामुपरञ्जकतामात्रेणान्वयस्तदा रूपकसंकीर्ण उल्लेखः । यदि ताद्रूप्यानुभवगोचरतया तदा भ्रान्तिमत्संकीर्णः ॥

 अयं च स्वरूपहेतुफलोल्लेखनरूपत्वात्त्रिविधः । तत्र स्वरूपोल्लेखस्समनन्तरमेवोदाहृतः ॥

 हेतूल्लेखो यथा--

 दानात्कतिचन केचिद्गानान्नाम्नां विदुः प्रसदनं ते । ध्यानात्परे वयं तु श्रीनाथाकिंचनत्वविभवेन ॥

 अत्रैकस्यैव प्रसदनस्य हेतूनामनेकधात्वेनानेकैरुल्लेखनम् ॥

 फलोल्लेखो यथा--

 विपदपहृतये दीनाश्श्रीदानायार्थलिप्सवो मनुजाः । वृद्धास्स्वबन्धमुक्त्यै तद्धाम वृषाद्रिभुवि वदन्त्युदितम् ॥ २६२ ॥

 अत्रैकस्यैव भगवदुदयस्य फलानामनेकधात्वेनोल्लेखनम् । तद्धाम तत्तेजः परं ब्रह्मेत्यर्थः ॥

अलङ्कारमणिहारः.pdf


अथ द्वितीय उल्लेखः.



एकस्य विषयादीनामनेकत्वनिबन्धनम् ।
नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोपि संमतः ॥ ४४

 विषयादीनामित्यत्रादिशब्देनाश्रयादिग्रहणम् । यत्रासत्यपि ग्रहीतृभेदे विषयाश्रयसंबन्धिनामन्यतमानेकत्वप्रयुक्तस्य वस्तुनोऽनेकप्रकारत्वमयमन्य उल्लेखः । तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते । अधिकरणसप्तमीनिर्दिष्टस्त्वाश्रयः । षष्ठ्या निर्दिष्टस्संबन्धीति विवेकः । अयमपि शुद्धसङ्कीर्णभेदेन द्विविधः ॥

 तत्र शुद्धो यथा--

 स्निग्धाः कौस्तुभरत्ने दिग्धाः कृपयाऽत्र मयि हरौ मुग्धाः । दुग्धाम्बुराशिदुहितुस्स्रग्धारा इव जयन्ति दृग्धाराः ॥ २६३ ॥

 कौस्तुभरत्ने स्निग्धाः स्नेहयुक्ताः सहोदरत्वात् । अत्र अस्मिन् मयि कृपया दिग्धाः दीनतमत्वात् । हरौ भगवति मुग्धाः व्यामोहशालिन्यः । वल्लभत्वादिति भावः । इह दृग्धाराणां विषयानेकत्वप्रयुक्त उल्लेखः ॥

 हसिते सितमसितं रुच्येतं पुरुषं तथाम्बरे पीतम् । शोणमधरे पुराणं करचरणतलेऽरुणं श्रये शरणम् ॥ २६४ ॥

 रुचीति सप्तम्यन्तम् । अत्रैकस्यैव भगवतः हसितादिषु विषयेष्वनेकेषु सितादिवर्णानेकत्वमेकेनैव ग्रहीत्रोल्लिखितमित्याश्रयानेकत्वप्रयुक्तोऽयमुल्लेखः । एतं पुराणं पुरुषमिति योजना । एतं उक्तरीत्या नानावर्णत्वाच्छबलमित्यपि गम्यते । ‘चित्रकिम्मीरकल्माषशबलैताश्च कर्बुरे’ इत्यमरः ॥

 संबन्ध्यनेकत्वप्रयुक्तस्त्वनन्तरमेवोदाहरिष्यते ।  संकीर्णो यथा--

 मृगमदतिलकति निटिले मृगपतिगिरिनेतुरुरसि लाञ्छनति। भ्रमरति नाभीकमले कमलायाः प्रसृमरा कटाक्षरुचिः ॥ २६५ ॥

 अत्रोपमया सङ्कीर्णः । यद्वा-- तत्तदधिकरणौचित्यात्कस्तूरीतिलकादितादात्म्यसम्भावनायामुपमार्थे विहितोऽपि क्विबुत्प्रेक्षायां पर्यवस्यतीत्युपमोपक्रमोत्प्रेक्षा । एतद्विमर्शस्तूत्प्रेक्षानिरूपणावसरे भविष्यति । अस्मिन् पक्षे उत्प्रेक्षया संकीर्णोऽयमाश्रयानेकत्वप्रयुक्त उल्लेखः ॥

 यथा वा--

 मौक्तिकसि दन्तपङ्क्तौ नीलसि वालेषु विद्रुमस्यधरे । हीरसि नखेषु कमले सत्यं रत्नाकरात्मजात्वमिति ॥ २६६ ॥

 अत्रोपमासङ्कीर्णः काव्यलिङ्गशिरस्कः ॥

 यथा वा--

 ऊरुयुगे रम्भाऽसि श्रीर्नासायां तिलोत्तमाभिख्या । वैभवतो विश्वाची त्वमप्सरोज्यायसीति युक्तमिदम् ॥ २६७ ॥

 हे श्रीः उरुयुगे रम्भा कदळी तन्नामकाप्सराश्च। नासायां तिलोत्तमस्य तिलकुसुमश्रेष्ठस्य अभिख्या शोभेव शोभा यस्यास्सा, तिलोत्तमेत्यभिख्या नाम यस्यास्सा, तथोक्ता तन्नामाप्सरा इति च । ‘अभिख्या नामशोभयोः' इत्यमरः । वैभवतः वैभवे सार्वविभक्तिकस्तसिः । विश्वमञ्चतीति विश्वाची सर्वजगद्व्यापिनी, तन्नामाप्सराश्च । तस्मात् त्वं अप्सरसां ज्यायसि श्रेष्ठा ततोऽप्यतिसुन्दरीत्यर्थः । पक्षे—-अप्सरसो ज्यायस्यो ज्येष्ठाः यस्यास्सेति बहुव्रीहिः । ‘नद्यृतश्च' इति प्राप्तस्य कपः ‘ईयसश्च' इति निषेधः । ‘ईयसो बहुव्रीहेर्नेति वाच्यम्' इति निषेधात् न ‘गोस्त्रियोरुपसर्जनस्य’ इति ह्रस्वः । विष्णुपुराणादावप्सरसां श्रीलक्ष्म्यपेक्षया प्रागेवाविर्भावोऽभाणि । पुराणान्तरेषु यदि श्रियोऽनन्तरमेव तासामुत्पत्तिरुपलभ्येत तदा षष्ठीतत्पुरुषोऽप्यस्तु । इतीदं युक्तमित्यन्वयः । अत्र श्लेषरूपकसंकीर्णः । काव्यलिङ्गसंकीर्णसमालंकारशिरस्कः ॥

 संबन्ध्यनेकत्वप्रयुक्तो यथा--

 भक्तानां मन्दारा भवतप्तानाममूस्सुधाधाराः । नारायणगिरिनेतुर्दाराणां सन्तु मयि दृगासाराः ॥

 अत्र कविना मन्दारत्वादिना रूपेण कटाक्षाणां रूपवतां करणाद्रूपकेण भक्तादीनामेतेषु कटाक्षेष्वभीप्सितार्थदानादिना मन्दारत्वादिभ्रान्तिरपि संभवतीति भ्रान्तिमता, भक्तादिभिरनेकैर्ग्रहीतृभिर्मन्दारत्वाद्यनेकधर्मेणोल्लेखनात्प्रागुक्तोल्लेखप्रकारेण च सह संकीर्णोऽयं संबन्धिषष्ठ्यन्तपदभेदप्रयुक्तवर्ण्यानेकत्वप्रकार उल्लेखः ॥

 केचित्तु सहचरानेकत्वप्रयुक्तमनेकविधत्वमप्युल्लेखमाहुः । तदेदमुदाहरणम्- गोपेषु गोपरूपो भूपेषु विभासि धन्विमूर्धन्यः । तापसयूधे तापस एकोऽनेकाकृतिस्त्वमब्जाक्ष ॥

 अत्र गोपादिसहचरभेदप्रयुक्तं भगवतोऽनेकविधत्वम् । एवमन्येषां सम्बन्धिनां भेदेऽप्यूह्यम् ॥

अलङ्कारमणिहारः.pdf


अथोल्लेखध्वनिः.


यथा--

 ननु नाथ मोहभुग्ना व्यसनविविग्ना विरोधिभिर्भग्नाः। उपतापैरपि रुग्णास्त्वां वीक्ष्यानन्दसंप्लवे मग्नाः ॥ २७० ॥

 अत्र चरणत्रयोदितानां चतुर्णां वीक्षणकर्तॄणामानन्दसंप्लवमग्नत्वोक्त्या क्रमेण मोहव्यसनविरोध्युपतापनिरासकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्योल्लेखस्य ध्वनिः ॥

 संकीर्णस्य यथा--

 अहिगिरिपरिसरधरणौ विहरति हरिनीलरुचिररुचि भवति । अनगच्छन्ति करिण्यो ननु नृत्यन्ति च रमेश बर्हिण्यः ॥ २७१ ॥

 अत्र ध्वन्यमानया एकैकग्रहणरूपया द्विरदजलदभ्रान्त्या तदुभयसमुदायरूप उल्लेखस्संकीर्णः। न चात्र भ्रान्तिरेव चमत्कारिणीत्युल्लेखश्शक्योऽपह्नोतुम् । अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य विच्छित्तिविशेषस्येहापि जागरूकत्वात् ॥

 द्वितीयस्योल्लेखस्य ध्वनिर्यथा--

 गगने विसृत्वरी ते स्थगयति ककुभां मुखानि तनुसुषमा । धरणौ तु विबुधतटिनीं परिरिप्सुर्भगवति फणिगिरिसुरद्रो ॥ १७२ ॥

 अत्राधिकरणभेदप्रयुक्तमेकस्यामेव श्रीनिवासविग्रहसुषमायां कादम्बिनीत्वयमुनात्वरूपानेकविधत्वं रूपकसंकीर्णं ध्वन्यते ॥

इत्यलंकारमणिहारे उल्लेखसरो नवमः.

अलङ्कारमणिहारः.pdf