पृष्ठम्:अलङ्कारमणिहारः.pdf/३३२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
326
अलंकारमणिहारे

 पूर्वत्रोदाहरणत्रये स्तुतिः अन्तिमोदाहरणद्वये निन्दा । एवंचोत्कृष्टगुणैरिति लक्षणे उत्कृष्टपदमपकृष्टस्याप्युपलक्षकं, तुल्यत्यावगतिहेतोः प्रायपाठस्यात्राप्यविशेषात् । इयं काव्यक्षदर्शे दर्शिता । इमां तुल्ययोगितां केचित्सिद्धिरिति व्यवाहार्षुः । तथाच जयदेवः काव्यलक्षणप्रतिपादके तृतीये मयूखे--

सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।
युवामेव हि विख्यातौ त्वं बलैर्जलधिर्जलैः ॥

इति । सर्वस्वकारादिमतान्तरेष्वत्र समुदितयोर्वर्ण्यावर्ण्ययोर्भगवद्विमुखचित्तवृत्तिदर्शरात्र्योस्तामसी भवतीत्येकधर्मान्वयाद्वक्ष्यमाणं दीपकमेव ॥

इत्यलङ्कारमणिहारे तुल्ययोगितासरष्षोडशः

अथ दीपकालंकाररसरः.


 तद्दीपकं स्याद्यद्वर्ण्यावर्ण्ययोरेकधर्मता ॥

 प्रकृताप्रकृतयोरेकसाधारणधर्मान्वयो दीपकम् । अत्र द्विवचनमविवक्षितम् ‘मणिश्शाणोल्लीढः' इत्यादौ बहूनामप्येकसाधारणधर्मान्वये दीपकदर्शनात् । तुल्ययोगितायामिवात्राप्यौपम्यं गम्यम् । प्रस्तुतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा-दीप इव दीपकं ‘इवे प्रतिकृतौ’ इत्यधिकारस्थेन ‘संज्ञायां च' इत्यनेन कन् । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेनेति ध्येयम् ॥