पृष्ठम्:अलङ्कारमणिहारः.pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
170
अलंकारमणिहारे


 अत्र भगवच्चरणप्रतिबिम्बेषु पद्मभ्रान्तिर्ध्वन्यते ॥

इत्यलंकारमणिहारे भ्रान्तिसर एकादशः.

अथ सन्देहसरः



सम्भावनानिश्चयान्यतरभिन्ना मनोरमा ।
सादृश्यहेतुका बुद्धिस्सन्देहालंकृतिर्मता ॥ ४७ ॥

 सादृश्यहेतुका संभावनानिश्चयान्यतरभिन्ना रमणीया धीस्सन्देहालंकारः । उत्कटैककोटिकस्संशयस्संभावना । निश्चयत्वं तु विरोधिकोट्यन्तराप्रकारकज्ञानत्वमात्रम् । न तु विरुद्धकोटिद्वयप्रकारकज्ञानभिन्नत्वम् । तथानिवेशे प्रयोजनाभावात् । संभावनेत्यादिविशेषणमुत्प्रेक्षारूपकादावतिप्रसङ्गवारणाय । स्थाणुर्वा पुरुषो वेति लौकिकसंशयवारणाय रमणीयेति, चमत्कारिणीत्यर्थः । एतच्च विशेषणमलंकारसामान्यलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपीति ध्येयम् । अयं च संदेहालंकारस्त्रिविधः, शुद्धो निश्चयगर्भो निश्चयान्तश्च । तत्र शुद्धो यस्य संशय एव पर्यवसानम् ॥

 यथा--

 किंनु तुषारासारः किं घनसारः किममृतसारो वा । शमयति यदिदं क्लममिति समशायि जनैर्हरेर्दृशो विषयैः ॥ २९५ ॥