इति श्रीरामायणे प्रयोगश्च । रभसात् व्यपसारयेति योजना । अस्मिन्भगवता नन्दनन्दनेन विश्लिष्टायाः कस्याश्चिन्नायिकायास्सखीं प्रत्युक्तिरूपे पद्येऽपि नीलमणिज्ञानाधीनतत्सदृशनन्दनन्दनस्मृतिः प्राधान्येन ध्वन्यते ॥
इत्यलंकारमणिहारे स्मृतिसरो दशमः.
अथ भ्रान्तिमदलंकारसरः.
चमत्कृतिमती भ्रान्तिर्यस्मिंत्सादृश्यहेतुका ।
अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति ॥ ४६
सदृशे धर्मिणि धर्म्यन्तरप्रकारकोऽनाहार्यनिश्चयस्साद्दश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः । सा च सुरनरतिर्यगादिगता यस्मिन् वचनसन्दर्भेऽनूद्यते स भ्रान्तिमान् । अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानिति व्यवहृतिस्त्वौपचारिकी । यदाहुः--
प्रमात्रन्तरधीर्भ्रान्तिरूपा यस्मिन्ननूद्यते ।
स भ्रान्तिमानिति ख्यातोऽलंकारे त्यौपचारिकः ॥
इति । लक्षणे मीलितसामान्यतद्गुणवारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्य इति । कविभिन्नगत इति वा । संशयवारणाय निश्चय इति, इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वर्तित इत्यर्थः । रङ्गे रजतमिति बुद्धेर्लौकिकतया न कविप्रतिभानिर्वर्तितत्वम् ॥