पृष्ठम्:अलङ्कारमणिहारः.pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
167
भ्रान्तिमत्सरः ‍‌‍‌‍‌(११)

 यथा--

 जलविहृतौ प्रतिवीचि प्रतिबिम्बान्यब्धिजादृशोर्वीक्ष्य। पृथुशफरभ्रमसकलाश्शकुला दूरं द्रवन्ति भयविकलाः ॥ २८७ ॥

 पृथुशफराः महामीनाः इति भ्रमेण सकलाः संपूर्णाः 'समग्रसकलाखण्डपूर्णादीन्यप्यनूनके' इत्यमरः । शकुलाः मत्स्याः अर्भका इति भावः । अत्र शकुलभयावेगोपस्कारकतया तद्गता भ्रान्तिरलंकारः ॥

 यथा वा--

 कमलाकपोलफलके कलितः कनकाचलेश्वरकटाक्षः । दृग्दोषधूतिदत्ताञ्जनबिन्दुभ्रान्तिदश्श्रियं दत्ताम् ॥ २८८ ॥

 अत्राविशेषोक्तेस्सुरनरादिसर्वगता भ्रान्तिरलंकारः । सादृश्यनिमित्तैव भ्रान्तिरलंकारविषयो न निमित्तान्तरोपस्थापिता ॥

 यथा--

 नानेह नास्ति किंचन जाने सर्वान्तरात्मभूतं त्वाम् । भ्राम्यति योऽस्मिन्नर्थे भ्राम्यति स भवेचिरादहिगिरीन्दो ॥ २८९ ॥

 हे अहिगिरीन्दो! इह त्वयीत्यर्थः । नाना भेदः नस्ति, परब्रह्मभूतस्त्वमेक एवेत्यर्थः । तत्र हेतुः जाने इत्यादिः । त्वां सर्वान्तरात्मभूतं सर्वदेशकालवर्तिनां पदार्थानां अन्तरात्मभूतं