पृष्ठम्:अलङ्कारमणिहारः.pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
165
स्मृतिसरः ‍‌‍‌‍‌(१०)

 अत्राद्ये विभासिनीत्यादिशब्दः श्रीनिवासहृदयस्थलीहैमनसमृद्ध्योः साधारणो धर्मः । द्वितीये मृद्वीकामितफलदेतिशब्दो हरिप्रियोद्यानवन्योः । मृद्वी दयामृदुला कामितफलदा । पक्षे--मृद्वीकानां द्राक्षाणां अमितानि फलानि ददाति तथोक्ता । एवमन्येऽपि भेदास्सुधीभिरुन्नेयाः ॥

अथास्य ध्वनिः


यथा--

 अयमेव मे सविद्युन्नियमेन घनो मनोविनोदी स्यात् । स्वयमेव यदि वृषाद्रौ न रमेत रमासखं परं ब्रह्म ॥ २८५ ॥

 अत्र सविद्युता घनेन सलक्ष्मीकस्य भगवतः स्मरणमलंकार्यान्तराभावादनुपसर्जनम् । लक्ष्मीविद्युल्लक्षणस्य बिम्बप्रतिबिम्बभावापन्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यताविरहाद्व्यङ्ग्यं च ॥

 यथा वा--

 मणिसारमयि मसारं व्यपसारय सारसाक्षि रभसात्त्वम् । मम गोकुलमौळिमणिर्मानसमतिवेलमेव लोलयति ॥ २८६ ॥

 अयि सारसाक्षि! मणिसारं रत्नश्रेष्ठं मसारं इन्द्रनीलं 'मसार इन्द्रनीले स्यात्' इति शब्दार्णवे 'मसारगल्वर्कमुखः'