पृष्ठम्:अलङ्कारमणिहारः.pdf/१७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
11
उपमालंकारसरः (१)

अथोपमालङ्कारसरः(१).


उद्भूता भाति साम्यश्रीरुभयोर्यत्र सोपमा ।

 यत्र काव्ये उभयोरुपमानोपमेययोस्सहृदयहृदयाह्लादिनी सादृश्यलक्ष्मीः चारुसादृश्यमिति यावत्, उद्भूता व्यङ्ग्यभावमन्तरेण स्फुटतमा सती भाति निषेधाप्रतियोगितया लसति तत्रोपमालङ्कार इत्यर्थः । अत्र यत्र द्वयोस्सादृश्यं वर्ण्यते तत्रोपमालङ्कार इत्येतावदुक्तौ ‘ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्' इत्यादौ उपमालङ्कारापत्तिः, तत्र काव्यशशिनोरर्थरश्मीनां च सहृदयहृदयाह्लादिधर्मसाम्येन सादृश्यप्रतीतेः । अत उपमानोपमेययोरित्युक्तम् । कविसमयप्रसिद्ध्या उपमानोपमेयत्वयोग्ययोरित्यर्थः । न हि काव्यशशिनोरुपमानोपमेयत्वयोग्यताऽस्तीत्यदोषः । ‘गोसदृशो गवयः' इत्यादौ गोगवययोस्तथात्वेऽपि नोपमालङ्कार इति तत्रातिव्याप्तिवारणाय सहृदयहृदयाह्लादिनीति । इदं सहृदयहृदयाह्लादित्वविशेषणं सर्वालङ्कारलक्षणानुयायि । अतएव 'गौर्वाहीकः' इत्यादौ न रूपकं, 'स्थाणुर्वा पुरुषो वा' इति न सन्देहः' ‘इदं रजतम्’ इति न भ्रान्तिमान्, ‘नेदं रजतं किं तु शुक्तिः' इत्यादौ नापह्नव इत्याद्याहुः । उद्भूतेति व्यङ्ग्योपमाव्यावृत्त्यर्थम्—-

समराङ्गणमारूढं भवन्तं पश्यतां नृणाम् ।
भवं कल्पान्तसंक्रुद्धं द्रष्टुं नोत्कण्ठते मनः ॥

इत्यादौ तथाभूतं त्वां दृष्टवतस्तथाभूतभवदर्शनमासीदिति प्रतीतेः किञ्चित्कुर्वतोऽशक्यवस्त्वन्तरकृतिरूपविशेषालङ्कारः । तेन च तथाभूतो भव इव तदा त्वं स्थित इत्युपमा व्यज्यते ।