रामायणम्/सुन्दरकाण्डम्/सर्गः ४४
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ४३ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ४५ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥५-२॥
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।। ५.४४.१।। रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः । महान् विवृत्तनयनश्चण्डः समरदुर्जयः ।। ५.४४.२।। धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् । विस्फारयानो वेगेन वज्राशनिसमस्वनम् ।। ५.४४.३।। तस्य विस्फारघोषेण धनुषो महता दिशः । प्रदिशश्च नभश्चैव सहसा समपूर्यत ।। ५.४४.४।। रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ।। ५.४४.५।। तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम् । जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ।। ५.४४.६।। अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ।। ५.४४.७।। तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ।। ५.४४.८।। तत्तस्य रक्तं रक्तेन ऽञ्जितं शुशुभे मुखम् । यथा ऽ ऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ।। ५.४४.९।। चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।। ५.४४.१०।। ततः पार्श्वे ऽतिविपुला ददर्श महतीं शिलाम् । तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ।। ५.४४.११।। विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ।। ५.४४.१२।। भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ।। ५.४४.१३।। सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ।। ५.४४.१४।। स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगतः ।। ५.४४.१५।। अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमालेर्महोरसि ।। ५.४४.१६।। तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ।। ५.४४.१७।। स हतस्तरसा तेन जम्बुमाली महाबलः । पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ।। ५.४४.१८।। जम्बुमालिं च निहतं किङ्करांश्च महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ।। ५.४४.१९।। स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ।। ५.४४.२०।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ।। ५.४४।। </poem>स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।