रामायणम्/सुन्दरकाण्डम्/सर्गः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः २ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ४ →


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे तृतीयः सर्गः ॥५-३॥

स लम्ब शिखरे लम्बे लम्ब तोयद सम्निभे ।
सत्त्वम् आस्थाय मेधावी हनुमान् मारुत आत्मजः ॥५-३-१॥

निशि लन्काम् महा सत्त्वः विवेश कपि कुन्जरः ।
रम्य कानन तोय आढ्याम् पुरीम् रावण पालिताम् ॥५-३-२॥

शारद अम्बु धर प्रख्यैः भवनैः उपशोभिताम् ।
सागर उपम निर्घोषाम् सागर अनिल सेविताम् ॥५-३-३॥

सुपुष्ट बल सम्गुप्ताम् यथैव विटपावतीम् ।
चारु तोरण निर्यूहाम् पाण्डुर द्वार तोरणाम्॥५-३-४॥

भुजग आचरिताम् गुप्ताम् शुभाम् भोगवतीम् इव ।
ताम् सविद्युत् घन आकीर्णाम् ज्योतिः मार्ग निषेविताम् ॥५-३-५॥

चण्ड मारुत निर्ह्रादाम् यथा इन्द्रस्य अमरावतीम् ।
शातकुम्भेन महता प्राकारेण अभिसम्वृताम् ॥५-३-६॥

किन्किणी जाल घोषाभिः पताकाभिः अलम्कृताम् ।
आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् ॥५-३-७॥

विस्मय आविष्ट हृदयः पुरीम् आलोक्य सर्वतः ।
जाम्बूनदमयैः द्वारैः वैदूर्य कृत वेदिकैः ॥५-३-८॥

मणि स्फटिक मुक्ताभिः मणि कुट्टिम भूषितैः ।
तप्त हाटक निर्यूहैः  राजत अमल पाण्डुरैः ॥५-३-९॥

वैदूर्य तल सोपानैः  स्फाटिक अन्तर पाम्सुभिः ।
चारु सम्जवन उपेतैः  खम् इव उत्पतितैः  शुभैः ॥५-३-१०॥

क्रौन्च बर्हिण सम्घुष्टे राज हम्स निषेवितैः ।
तूर्य आभरण निर्घोषैः  सर्वतः प्रतिनादिताम् ॥५-३-११॥

वस्वोकसारा प्रतिमाम् समीक्ष्य नगरीम् ततः ।
खम् इव उत्पतिताम् लन्काम् जहर्ष हनुमान् कपिः ॥५-३-१२॥

ताम् समीक्ष्य पुरीम् लन्काम् राक्षस अधिपतेः शुभाम् ।
अनुत्तमाम् ऋद्धि युताम् चिन्तयाम् आस वीर्यवान् ॥५-३-१३॥

न इयम् अन्येन नगरी शक्या धर्षयितुम् बलात् ।
रक्षिता रावण बलैः उद्यत आयुध धारिभिः ॥५-३-१४॥

कुमुद अन्गदयोः वा अपि सुषेणस्य महा कपेः ।
प्रसिद्धा इयम् भवेत् भूमिः मैन्द द्विविदयोः अपि ॥५-३-१५॥

विवस्वतः तनूजस्य हरेः च कुश पर्वणः ।
ऋक्षस्य केतु मालस्य मम चैव गतिः भवेत् ॥५-३-१६॥

समीक्ष्य तु महा बाहः राघवस्य पराक्रमम् ।
लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः ॥५-३-१७॥

ताम् रत्न वसन उपेताम् कोष्ठ आगार अवतम्सकाम् ।
यन्त्र अगार स्तनीम् ऋद्धाम् प्रमदाम् इव भूषिताम् ॥५-३-१८॥

ताम् नष्ट तिमिराम् दीपैः भास्वरैः च महा गृहैः ।
नगरीम् राक्षस इन्द्रस्य ददर्श स महा कपिः ॥५-३-१९॥

अथ सा हरिशार्दूलम् प्रविशन्तिम् महाबलम् ।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥५-३-२०॥

सा तम् हरिवरम् दृष्ट्वा लङ्का रावणपालिता ।
स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥५-३-२१॥

पुरस्तत्क पिवर्यस्य वायुसूनोरतिष्ठत ।
मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥५-३-२२॥

कस्त्वम् केन च कार्येण इह प्राप्तो वनालय ।
कथय स्वेह यत्तत्त्वम् यावत्प्राणा धरन्ति ते ॥५-३-२३॥

न शक्यम् खल्वियम् लङ्का प्रवेष्टुम् वानर त्वया ।
रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥५-३-२४॥

अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।
कथयिष्यामि ते तत्त्वम् यन्मम् त्वम् परिपृच्छसि ॥५-३-२५॥

का त्वम् विरूपनयना पुरद्वारेऽवतिष्ठसि ।
किमर्थम् चापि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा ॥५-३-२६॥

हनुमद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।
उवाच वचनम् क्रुद्धा परुषं पवनात्मजम् ॥५-३-२७॥

अहम् राक्षसराजस्य रावणस्य महात्मनः ।
आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥५-३-२८॥

न शक्या मामवज्ञाय प्रवेष्टुम् नगरी त्वया ।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥५-३-२९॥

अहम् हि नगरी लङ्का स्वयमेव प्लवङ्गम ।
सर्वतः परिरक्षामि ह्येतत्ते कथितम् मया ॥५-३-३०॥

लङ्काया वचनम् श्रुत्वा हनुमान् मारुतात्मजः ।
यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥५-३-३१॥

स ताम् स्त्रीरूपविकृताम् दृष्ट्वा वानरपुङ्गवः ।
आबभाषेऽथ मेधावि सत्त्वान् प्लवगर्षभः ॥५-३-३२॥

द्रक्ष्यामि नगरीम् लङ्काम् साट्टप्राकारतोरणाम् ।
इत्यर्थमिह सम्प्राप्तः परम् कौतूहलम् हि मे ॥५-३-३३॥

वनान्युपवनानीह लङ्कायाः काननानि च ।
सर्वतो गृहमुख्यानि द्रष्टुमागमनम् हि मे ॥५-३-३४॥

तस्य तद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी ।
भूय एव पुनर्वाक्यम् बभाषे परुषाक्षरम् ॥५-३-३५॥

मामनिर्जत्य दुर्बद्धे राक्षसेश्वरपालिता ।
न शक्यमद्य ते द्रष्टुम् पुरीयम् वनराधम ॥५-३-३६॥

ततः स कपिशार्दूलस्तामुवाच निशाचरीम् ।
दृष्वा पुरीमिमाम् भद्रे पुनर्यास्ये यथागतम् ॥५-३-३७॥

ततः कृत्वा महानादम् सा वै लङ्का भयावहम् ।
तलेन वानरश्रेष्ठम् ताडयामास वेगिता ॥५-३-३८॥

ततः स कपिशार्दुलो लङ्काया ताडितो भृशम् ।
ननाद सुमहानादम् वीर्यवान् पवनात्मजः ॥५-३-३९॥

ततः सम्वर्तयामास वामहस्तस्य सोऽङ्गुLईः ।
मुष्ह्टिनाभिजघूनैनाम् हनुमान् क्रोधमूर्चितः ॥५-३-४०॥
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयम् कृतः ।

सा तु तेन प्रहारेण विह्वलाङ्गी नीशाचरी ॥५-३-४१॥
पपात सहसा भूमौ विकृताननदर्शना ।

ततस्तु हनुमान् प्राज्ञस्ताम् दृष्ट्वा विनिपातिताम् ॥५-३-४२॥
कृपाम् चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम् ।

ततो वै भृशसम्विग्ना लङ्का गद्गदाक्षरम् ॥५-३-४३॥
उवाचागर्वितम् वाक्यम् हनूमन्तम् प्लवङ्गमम् ।

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥५-३-४४॥
समये सौम्य तिष्ठन्ति स्त्त्ववन्तो महाबलाः ।

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥५-३-४५॥
निर्जिताहम् त्वया वीर विक्रमेण महाबल ।

इदम् तु तथ्यम् शृणु वै ब्रुवन्त्य मे हरीश्वर ॥५-३-४६॥
स्वयम्भुवा पुरा दत्तम् वरदानम् यथा मम ।

यदा त्वाम् वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥५-३-४७॥
तदा त्वया हि विज्ञेयम् रक्षसाम् भयामागतम् ।

स हि म् समयः सौम्य प्राप्तोऽय तव द्र्शनात् ॥५-३-४८॥
स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।

सीतानिमित्तंम् राज्ञस्तु रावणस्य दुरात्मनः ॥५-३-४९॥
विधत्स्व सर्वकार्याणि यानि यानिह वाञ्चसि ।

तत्प्रविश्य हरिश्रेष्ठम् पुरीम् रावणपालिताम् ॥५-३-५०॥
विधत्स्व सर्वकार्याण् यानि यानीह वाञ्चसि ।

प्रविश्य शापोपहताम् हरीश्वर ।
शुभाम् पुरीम् राक्षसराजपालिताम् ।
यदृच्छया त्वम् जनकात्मजाम् सतीम् ।
विमार्ग सर्वत्र गतो यथासुखम् ॥५-३-५१॥

॥
इति श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥

इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥५-३॥