रामायणम्/सुन्दरकाण्डम्/सर्गः ५५
पठन सेटिंग्स
< रामायणम् | सुन्दरकाण्डम्
← सर्गः ५४ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ५६ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥५-५५॥
संदीप्यमानां वित्रस्तां त्रस्तरक्षोगणां पुरीम्। अवेक्ष्य हनुमाँल्लङ्कां चिन्तयामास वानरः॥ १॥ तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत। लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया॥ २॥ धन्याः खलु महात्मानो ये बुद्ध्या कोपमुत्थितम्। निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा॥ ३॥ क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि। क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्॥ ४॥ वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्॥ ५॥ यः समुत्पतितं क्रोधं क्षमयैव निरस्यति। यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥ ६॥ धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्। अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम्॥ ७॥ यदि दग्धा त्वियं सर्वा नूनमार्यापि जानकी। दग्धा तेन मया भर्तुर्हतं कार्यमजानता॥ ८॥ यदर्थमयमारम्भस्तत्कार्यमवसादितम्। मया हि दहता लङ्कां न सीता परिरक्षिता॥ ९॥ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः। तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः॥ १०॥ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते। लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ ११॥ यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्। इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते॥ १२॥ किमग्नौ निपताम्यद्य आहोस्विद् वडवामुखे। शरीरमिह सत्त्वानां दद्मि सागरवासिनाम्॥ १३॥ कथं नु जीवता शक्यो मया द्रष्टुं हरीश्वरः। तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना॥ १४॥ मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्। प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्॥ १५॥ धिगस्तु राजसं भावमनीशमनवस्थितम्। ईश्वरेणापि यद् रागान्मया सीता न रक्षिता॥ १६॥ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः। तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति॥ १७॥ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः। धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्॥ १८॥ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्। भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः॥ १९॥ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः। रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः॥ २०॥ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे। पूर्वमप्युपलब्धानि साक्षात् पुनरचिन्तयत्॥ २१॥ अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा। न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते॥ २२॥ नहि धर्मात्मनस्तस्य भार्याममिततेजसः। स्वचरित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः॥ २३॥ नूनं रामप्रभावेण वैदेह्याः सुकृतेन च। यन्मां दहनकर्मायं नादहद्धव्यवाहनः॥ २४॥ त्रयाणां भरतादीनां भ्रातॄणां देवता च या। रामस्य च मनःकान्ता सा कथं विनशिष्यति॥ २५॥ यद् वा दहनकर्मायं सर्वत्र प्रभुरव्ययः। न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति॥ २६॥ पुनश्चाचिन्तयत् तत्र हनूमान् विस्मितस्तदा। हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्॥ २७॥ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि। असौ विनिर्दहेदग्निं न तामग्निः प्रधक्ष्यति॥ २८॥ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्। शुश्राव हनुमांस्तत्र चारणानां महात्मनाम्॥ २९॥ अहो खलु कृतं कर्म दुर्विगाहं हनूमता। अग्निं विसृजता तीक्ष्णं भीमं राक्षससद्मनि॥ ३०॥ प्रपलायितरक्षःस्त्रीबालवृद्धसमाकुला। जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरैः॥ ३१॥ दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा। जानकी न च दग्धेति विस्मयोऽद्भुत एव नः॥ ३२॥ इति शुश्राव हनुमान् वाचं ताममृतोपमाम्। बभूव चास्य मनसो हर्षस्तत्कालसम्भवः॥ ३३॥ स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः। ऋषिवाक्यैश्च हनुमानभवत् प्रीतमानसः॥ ३४॥ ततः कपिः प्राप्तमनोरथार्थ- स्तामक्षतां राजसुतां विदित्वा। प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार॥ ३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५.५५ ॥
स्रोतः
[सम्पाद्यताम्]पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।