रामायणम्/सुन्दरकाण्डम्/सर्गः ६
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ५ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ७ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षष्ठः सर्गः ॥५-६॥
स निकामम् विमानेषु विषण्णः काम रूपधृत् । विचचार पुनर्लङ्काम् लाघवेन समन्वितः ॥५-६-१॥ आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् । प्राकारेण अर्क वर्णेन भास्वरेण अभिसम्व्Rतम् ॥५-६-२॥ रक्षितम् राक्षसैर् भीमैः सिम्हैर् इव महद् वनम् । समीक्षमाणो भवनम् चकाशे कपि कुन्जरः ॥५-६-३॥ रूप्य कोप हितैः चित्रैः तोरणैर् हेम भूषितैः । विचित्राभिः च कक्ष्याभिर् द्वारैः च रुचिरैर् व्Rतम् ॥५-६-४॥ गज आस्थितैर् महा मात्रैः शूरैः च विगत श्रमैः । उपस्थितम् असम्हार्यैर् हयैः स्यन्दन यायिभिः ॥५-६-५॥ सिम्ह व्याघ्र तनु त्राणैर् दान्त कान्चन राजतैः । घोषवद्भिर् विचित्रैः च सदा विचरितम् रथैः ॥५-६-६॥ बहु रत्न समाकीर्णम् पर अर्ध्य आसन भाजनम् । महा रथ समावासम् महा रथ महा आसनम् ॥५-६-७॥ दृश्यैः च परम उदारैः तैः तैः च मृग पक्षिभिः । विविधैर् बहु साहस्रैः परिपूर्णम् समन्ततः ॥५-६-८॥ विनीतैर् अन्त पालैः च रक्षोभिः च सुरक्षितम् । मुख्याभिः च वर स्त्रीभिः परिपूर्णम् समन्ततः ॥५-६-९॥ मुदित प्रमदा रत्नम् राक्षस इन्द्र निवेशनम् । वर आभरण निर्ह्रादैः समुद्र स्वन निह्स्वनम् ॥५-६-१०॥ तद् राज गुण सम्पन्नम् मुख्यैः च वर चन्दनैः । भेरी म्Rदन्ग अभिरुतम् शन्ख घोष विनादितम् ॥५-६-११॥ भेरीमृदङ्गाभिरुतम् शङ्खघोषनिनादितम् । नित्य अर्चितम् पर्व हुतम् पूजितम् राक्षसैः सदा ॥५-६-१२॥ समुद्रम् इव गम्भीरम् समुद्रम् इव निह्स्वनम् । महात्मानो महद् वेश्म महा रत्न परिच्चदम् ॥५-६-१३॥ महा जन समाकीर्णम् ददर्श स महा कपिः । विराजमानम् वपुषा गज अश्व रथ सम्कुलम् ॥५-६-१४॥ लन्का आभरणम् इति एव सो अमन्यत महा कपिः । चचार हनुमाम्स्तत्र रावणस्य समीपतः ॥५-६-१५॥ गृहाद् गृहम् राक्षसानाम् उद्यानानि च वानरः । वीक्षमाणो हि असम्त्रस्तः प्रासादामः च चचार सः ॥५-६-१६॥ अवप्लुत्य महा वेगः प्रहस्तस्य निवेशनम् । ततो अन्यत् पुप्लुवे वेश्म महा पार्श्वस्य वीर्यवान् ॥५-६-१७॥ अथ मेघ प्रतीकाशम् कुम्भ कर्ण निवेशनम् । विभीषणस्य च तथा पुप्लुवे स महा कपिः ॥५-६-१८॥ महा उदरस्य च तथा विरूप अक्षस्य चैव हि । विद्युज् जिह्वस्य भवनम् विद्युन् मालेः तथैव च ॥५-६-१९॥ वज्र दम्ष्ट्रस्य च तथा पुप्लुवे स महा कपिः । शुकस्य च महा वेगः सारणस्य च धीमतः । तथा च इन्द्रजितो वेश्म जगाम हरि यूथपः ॥५-६-२०॥ जम्बु मालेः सुमालेः च जगाम हरि यूथपः ॥५-६-२१॥ रश्मि केतोः च भवनम् सूर्य शत्रोः तथैव च । वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥५-६-२२॥ धूम्र अक्षस्य च सम्पातेर् भवनम् मारुत आत्मजः । विद्युद् रूपस्य भीमस्य घनस्य विघनस्य च ॥५-६-२३॥ शुक नाभस्य वक्रस्य शठस्य विकटस्य च । ह्रस्व कर्णस्य दम्ष्ट्रस्य रोमशस्य च रक्षसः ॥५-६-२४॥ युद्ध उन्मत्तस्य मत्तस्य ध्वज ग्रीवस्य नादिनः । विद्युज् जिह्व इन्द्र जिह्वानाम् तथा हस्ति मुखस्य च ॥५-६-२५॥ करालस्य पिशाचस्य शोणित अक्षस्य चैव हि । क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥५-६-२६॥ तेषु तेषु महा अर्हेषु भवनेषु महा यशाः । तेषाम् R^द्धिमताम् ऋद्धिम् ददर्श स महा कपिः ॥५-६-२७॥ सर्वेषाम् समतिक्रम्य भवनानि समन्ततः । आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ॥५-६-२८॥ रावणस्य उपशायिन्यो ददर्श हरि सत्तमः । विचरन् हरि शार्दूलो राक्षसीर् विकृत ईक्षणाः ॥५-६-२९॥ शूल मुद्गल हस्ताः च शक्तो तोमर धारिणीः । ददर्श विविधान् गुल्मामः तस्य रक्षः पतेर् गृहे । राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥५-६-३०॥ रक्तान् श्वेतान् सितामः चैव हरीमः चैव महा जवान् ॥५-६-३१॥ कुलीनान् रूप सम्पन्नान् गजान् पर गज आरुजान् । निष्ठितान् गज शिखायाम् ऐरावत समान् युधि ॥५-६-३२॥ निहन्त्RRन् पर सैन्यानाम् गृहे तस्मिन् ददर्श सः । क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥५-६-३३॥ मेघ स्तनित निर्घोषान् दुर्धर्षान् समरे परैः । सहस्रम् वाहिनीः तत्र जाम्बूनद परिष्कृताः ॥५-६-३४॥ हेम जालैर् अविच्चिन्नाः तरुण आदित्य सम्निभाः । ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ॥५-६-३५॥ शिबिका विविध आकाराः स कपिर् मारुत आत्मजः । लता गृहाणि चित्राणि चित्र शाला गृहाणि च ॥५-६-३६॥ क्रीडा गृहाणि च अन्यानि दारु पर्वतकान् अपि । कामस्य गृहकम् रम्यम् दिवा गृहकम् एव च ॥५-६-३७॥ ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने । स मन्दर तल प्रख्यम् मयूर स्थान सम्कुलम् ॥५-६-३८॥ ध्वज यष्टिभिर् आकीर्णम् ददर्श भवन उत्तमम् । अनन्त रत्न निचयम् निधि जालम् समन्ततः ॥५-६-३९॥ धीर निष्ठित कर्म अन्तम् गृहम् भूत पतेर् इव । अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च ॥५-६-४०॥ विरराज अथ तद् वेश्म रश्मिमान् इव रश्मिभिः । जाम्बू नदमयानि एव शयनानि आसनानि च ॥५-६-४१॥ भाजनानि च शुभ्राणि ददर्श हरि यूथपः । मध्व् आसव कृत क्लेदम् मणि भाजन सम्कुलम् ॥५-६-४२॥ मनो रमम् असम्बाधम् कुबेर भवनम् यथा । नूपुराणाम् च घोषेण कान्चीनाम् निनदेन च ॥५-६-४३॥ मृदन्ग तल घोषैः च घोषवद्भिर् विनादितम् । प्रासाद सम्घात युतम् स्त्री रत्न शत सम्कुलम् ॥५-६-४४॥ सुव्यूढ कक्ष्यम् हनुमान् प्रविवेश महा गृहम् ।
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे षष्ठः सर्गः ॥५-६॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।