रामायणम्/सुन्दरकाण्डम्/सर्गः १०
< रामायणम् | सुन्दरकाण्डम्
Jump to navigation
Jump to search
← सर्गः ९ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ११ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे दशमः सर्गः ॥५-१०॥
तत्र दिव्य उपमम् मुख्यम् स्फाटिकम् रत्न भूषितम् । अवेक्षमाणो हनुमान् ददर्श शयन आसनम् ॥५-१०-१॥ दान्तकाञ्चनिचित्राङ्गेर्वैश्च वरासनैः । महार्हस्तरणोपेतैरुपपन्नम् महाधनैः ॥५-१०-२॥ तस्य च एकतमे देशे सो अग्र्य माल्य विभूषितम् । ददर्श पाण्डुरम् चत्रम् तारा अधिपति सम्निभम् ॥५-१०-३॥ जातरूपपरिक्षिप्तम् चित्रभानुसमप्रभम् । अशोकमालाविततम् ददर्श परमासनम् ॥५-१०-४॥ वाल व्यजन हस्ताभिर् वीज्यमानम् समन्ततः । गन्धैः च विविधैर् जुष्टम् वर धूपेन धूपितम् ॥५-१०-५॥ परम आस्तरण आस्तीर्णम् आविक अजिन सम्व्र्तम् । दामभिर् वर माल्यानाम् समन्ताद् उपशोभितम् ॥५-१०-६॥ तस्मिन् जीमूत सम्काशम् प्रदीप्त उत्तम कुण्डलम् । लोहित अक्षम् महा बाहुम् महा रजत वाससम् ॥५-१०-७॥ लोहितेन अनुलिप्त अन्गम् चन्दनेन सुगन्धिना । सम्ध्या रक्तम् इव आकाशे तोयदम् सतडिद् गुणम् ॥५-१०-८॥ वृतम् आभरणैर् दिव्यैः सुरूपम् काम रूपिणम् । सव्र्क्ष वन गुल्म आढ्यम् प्रसुप्तम् इव मन्दरम् ॥५-१०-९॥ क्रीडित्वा उपरतम् रात्रौ वर आभरण भूषितम् । प्रियम् राक्षस कन्यानाम् राक्षसानाम् सुख आवहम् ॥५-१०-१०॥ पीत्वा अपि उपरतम् च अपि ददर्श स महा कपिः । भास्करे शयने वीरम् प्रसुप्तम् राक्षस अधिपम् ॥५-१०-११॥ निह्श्वसन्तम् यथा नागम् रावणम् वानर उत्तमः । आसाद्य परम उद्विग्नः सो अपासर्पत् सुभीतवत् ॥५-१०-१२॥ अथ आरोहणम् आसाद्य वेदिका अन्तरम् आश्रितः । सुप्तम् राक्षस शार्दूलम् प्रेक्षते स्म महा कपिः ॥५-१०-१३॥ शुशुभे राक्षस इन्द्रस्य स्वपतः शयन उत्तमम् । गन्ध हस्तिनि सम्विष्टे यथा प्रस्रवणम् महत् ॥५-१०-१४॥ कान्चन अन्गद नद्धौ च ददर्श स महात्मनः । विक्षिप्तौ राक्षस इन्द्रस्य भुजाव् इन्द्र ध्वज उपमौ ॥५-१०-१५॥ ऐरावत विषाण अग्रैर् आपीडित क्र्त व्रणौ । वज्र उल्लिखित पीन अम्सौ विष्णु चक्र परिक्षितौ ॥५-१०-१६॥ पीनौ समसुजात अम्सौ सम्गतौ बल सम्युतौ । सुलक्षण नख अन्गुष्ठौ स्वन्गुली तल लक्षितौ ॥५-१०-१७॥ सम्हतौ परिघ आकारौ व्र्त्तौ करि कर उपमौ । विक्षिप्तौ शयने शुभ्रे पन्च शीर्षाव् इव उरगौ ॥५-१०-१८॥ शश क्षतज कल्पेन सुशीतेन सुगन्धिना । चन्दनेन पर अर्ध्येन स्वनुलिप्तौ स्वलम्क्र्तौ ॥५-१०-१९॥ उत्तम स्त्री विम्र्दितौ गन्ध उत्तम निषेवितौ । यक्ष पन्नग गन्धर्व देव दानव राविणौ ॥५-१०-२०॥ ददर्श स कपिः तस्य बाहू शयन सम्स्थितौ । मन्दरस्य अन्तरे सुप्तौ महा अर्ही रुषिताव् इव ॥५-१०-२१॥ ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस अधिपः । शुशुभे अचल सम्काशः श्र्न्गाभ्याम् इव मन्दरः ॥५-१०-२२॥ चूत पुम्नाग सुरभिर् बकुल उत्तम सम्युतः । मृष्ट अन्न रस सम्युक्तः पान गन्ध पुरः सरः ॥५-१०-२३॥ तस्य राक्षस सिम्हस्य निश्चक्राम मुखान् महान् । शयानस्य विनिह्श्वासः पूरयन्न् इव तद् ग्र्हम् ॥५-१०-२४॥ मुक्ता मणि विचित्रेण कान्चनेन विराजता । मुकुटेन अपव्र्त्तेन कुण्डल उज्ज्वलित आननम् ॥५-१०-२५॥ रक्त चन्दन दिग्धेन तथा हारेण शोभिता । पीन आयत विशालेन वक्षसा अभिविराजितम् ॥५-१०-२६॥ पाण्डुरेण अपविद्धेन क्षौमेण क्षतज ईक्षणम् । महा अर्हेण सुसम्वीतम् पीतेन उत्तम वाससा ॥५-१०-२७॥ माष राशि प्रतीकाशम् निह्श्वसन्तम् भुजन्गवत् । गान्गे महति तोय अन्ते प्रसुतमिव कुन्जरम् ॥५-१०-२८॥ चतुर्भिः कान्चनैर् दीपैर् दीप्यमानैः चतुर् दिशम् । प्रकाशी क्र्त सर्व अन्गम् मेघम् विद्युद् गणैर् इव ॥५-१०-२९॥ पाद मूल गताः च अपि ददर्श सुमहात्मनः । पत्नीः स प्रिय भार्यस्य तस्य रक्षः पतेर् ग्र्हे ॥५-१०-३०॥ शशि प्रकाश वदना वर कुण्डल भूषिताः । अम्बाल माल्य आभरणा ददर्श हरि यूथपः ॥५-१०-३१॥ नृत्त वादित्र कुशला राक्षस इन्द्र भुज अन्कगाः । वर आभरण धारिण्यो निषन्ना दद्र्शे कपिः ॥५-१०-३२॥ वज्र वैदूर्य गर्भाणि श्रवण अन्तेषु योषिताम् । ददर्श तापनीयानि कुण्डलानि अन्गदानि च ॥५-१०-३३॥ तासाम् चन्द्र उपमैर् वक्त्रैः शुभैर् ललित कुण्डलैः । विरराज विमानम् तन् नभः तारा गणैर् इव ॥५-१०-३४॥ मद व्यायाम खिन्नाः ताः राक्षस इन्द्रस्य योषितः । तेषु तेष्व् अवकाशेषु प्रसुप्ताः तनु मध्यमाः ॥५-१०-३५॥ अङ्गहारैस्तथैवान्या कोवलैर्नृत्तशालिनी । विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥५-१०-३६॥ काचिद् वीणाम् परिष्वज्य प्रसुप्ता सम्प्रकाशते । महा नदी प्रकीर्णा इव नलिनी पोतम् आश्रिता ॥५-१०-३७॥ अन्या कक्ष गतेन एव मड्डुकेन असित ईक्षणा । प्रसुप्ता भामिनी भाति बाल पुत्रा इव वत्सला ॥५-१०-३८॥ पटहम् चारु सर्व अन्गी पीड्य शेते शुभ स्तनी । चिरस्य रमणम् लब्ध्वा परिष्वज्य इव कामिनी ॥५-१०-३९॥ काचिद् अम्शम् परिष्वज्य सुप्ता कमल लोचना । रहः प्रियतमम् गृह्य सकामेव च कामिनी ॥५-१०-४०॥ विपञ्चैइम् परिगृह्यान्या नियता नृत्तशालिनी । निद्रा वशम् अनुप्राप्ता सह कान्ता इव भामिनी ॥५-१०-४१॥ अन्या कनक सम्काशैर् म्र्दु पीनैर् मनो रमैः । मृदन्गम् परिपीड्य अन्गैः प्रसुप्ता मत्त लोचना ॥५-१०-४२॥ भुज पार्श्व अन्तरस्थेन कक्षगेन क्र्श उदरी । पणवेन सह अनिन्द्या सुप्ता मद क्र्त श्रमा ॥५-१०-४३॥ डिण्डिमम् परिग्र्ह्य अन्या तथैव आसक्त डिण्डिमा । प्रसुप्ता तरुणम् वत्सम् उपगूह्य इव भामिनी ॥५-१०-४४॥ काचिद् आडम्बरम् नारी भुज सम्भोग पीडितम् । कृत्वा कमल पत्र अक्षी प्रसुप्ता मद मोहिता ॥५-१०-४५॥ कलशीम् अपविद्ध्य अन्या प्रसुप्ता भाति भामिनी । वसन्ते पुष्प शबला माला इव परिमार्जिता ॥५-१०-४६॥ पाणिभ्याम् च कुचौ काचित् सुवर्ण कलश उपमौ । उपगूह्य अबला सुप्ता निद्रा बल पराजिता ॥५-१०-४७॥ अन्या कमल पत्र अक्षी पूर्ण इन्दु सद्र्श आनना । अन्याम् आलिन्ग्य सुश्रोणी प्रसुप्ता मद विह्वला ॥५-१०-४८॥ आतोद्यानि विचित्राणि परिष्वज्य वर स्त्रियः । निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव ॥५-१०-४९॥ तासाम् एक अन्त विन्यस्ते शयानाम् शयने शुभे । ददर्श रूप सम्पन्नाम् अपराम् स कपिः स्त्रियम् ॥५-१०-५०॥ मुक्ता मणि समायुक्तैर् भूषणैः सुविभूषिताम् । विभूषयन्तीम् इव च स्व श्रिया भवन उत्तमम् ॥५-१०-५१॥ गौरीम् कनक वर्ण आभाम् इष्टाम् अन्तः पुर ईश्वरीम् । कपिर् मन्द उदरीम् तत्र शयानाम् चारु रूपिणीम् ॥५-१०-५२॥ स ताम् दृष्ट्वा महा बाहुर् भूषिताम् मारुत आत्मजः । तर्कयाम् आस सीता इति रूप यौवन सम्पदा ॥५-१०-५३॥ हर्षेण महता युक्तो ननन्द हरि यूथपः । आश्पोटयाम् आस चुचुम्ब पुच्चम् । ननन्द चिक्रीड जगौ जगाम। स्तम्भान् अरोहन् निपपात भूमौ । निदर्शयन् स्वाम् प्रक्र्तिम् कपीनाम् ॥५-१०-५४॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे दशमः सर्गः ॥५-१०॥