रामायणम्/सुन्दरकाण्डम्/सर्गः ४०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३९ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ४१ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥


श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः । 
उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। ५.४०.१।। 

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर । 
अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। ५.४०.२।। 

यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः । 
संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ।। ५.४०.३।। 

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम । 
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ।। ५.४०.४।। 

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः । 
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।। ५.४०.५।। 

स वीर्यवान् कथं सीतां हृतां समनुमन्यसे । 
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ।। ५.४०.६।। 

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः । 
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।। ५.४०.७।। 

एष निर्यातितः श्रीमान् मया ते वारिसम्भवः । 
अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। ५.४०.८।। 

असह्यानि न दुःखानि वाचश्च हृदयच्छिदः । 
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। ५.४०.९।। 

धारयिष्यामि मासं तु जीवितं शत्रुसूदन । 
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।। ५.४०.१०।। 

घोरो राक्षसराजो ऽयं दृष्टिश्च न सुखा मयि । 
त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ।। ५.४०.११।। 

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् । 
तथा ऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ।। ५.४०.१२।। 

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे । 
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.४०.१३।। 

कथंचिद् भवती दृष्टा न कालः परिशोचितुम् । 
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ।। ५.४०.१४।। 

तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ । 
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.४०.१५।। 

हत्वा तु समरे क्रूरं रावणं सहबान्धवम् । 
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ।। ५.४०.१६।। 

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते । 
प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ।। ५.४०.१७।। 

सा ऽब्रवीद्दत्तमेवेति मया ऽभिज्ञानमुत्तमम् । 
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् । 
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।। ५.४०.१८।। 

स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः । 
प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। ५.४०.१९।। 

तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् । 
वर्धमानं महावेगमुवाच जनकात्मजा ।। ५.४०.२०।। 

अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ।। ५.४०.२१।। 

हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ । 
सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ।। ५.४०.२२।। 

यथा च स महाबाहुर्मां तारयति राघवः । 
अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ।। ५.४०.२३।। 

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च । 
ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.४०.२४।। 

स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः । 
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ।। ५.४०.२५।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चत्वारिंशः सर्गः ।। ५.४०।।
</poem>