रामायणम्/सुन्दरकाण्डम्/सर्गः ४७
दिखावट
← सर्गः ४६ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ४८ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥५-४७॥
सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान्। निशम्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षम्॥ १॥ स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः॥ २॥ ततो महान् बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम्। रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः॥ ३॥ ततस्तपःसंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालचित्रितम्। पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्॥ ४॥ सुरासुराधृष्यमसङ्गचारिणं तडित्प्रभं व्योमचरं समाहितम्। सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्॥ ५॥ विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः॥ ६॥ स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः। बलैः समेतैः सहतोरणस्थितं समर्थमासीनमुपागमत् कपिम्॥ ७॥ स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये। अवस्थितं विस्मितजातसम्भ्रमं समैक्षताक्षो बहुमानचक्षुषा॥ ८॥ स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु रावणात्मजः। विचारयन् स्वं च बलं महाबलो युगक्षये सूर्य इवाभिवर्धत॥ ९॥ स जातमन्युः प्रसमीक्ष्य विक्रमं स्थितः स्थिरः संयति दुर्निवारणम्। समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शितैः शरैस्त्रिभिः॥ १०॥ ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोचितम्। अवैक्षताक्षः समुदीर्णमानसं सबाणपाणिः प्रगृहीतकार्मुकः॥ ११॥ स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम्। तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः॥ १२॥ ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः। कपेः कुमारस्य च वीर्यसंयुगं ननाद च द्यौरुदधिश्च चुक्षुभे॥ १३॥ स तस्य वीरः सुमुखान् पतत्रिणः सुवर्णपुङ्खान् सविषानिवोरगान्। समाधिसंयोगविमोक्षतत्त्ववि- च्छरानथ त्रीन् कपिमूर्ध्न्यताडयत्॥ १४॥ स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तनेत्रः। नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः॥ १५॥ ततः प्लवङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः॥ १६॥ स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंवृतः। कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा॥ १७॥ ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः। शरान् मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे॥ १८॥ कपिस्ततस्तं रणचण्डविक्रमं प्रवृद्धतेजोबलवीर्यसायकम्। कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यनिःस्वनः॥ १९॥ स बालभावाद् युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः॥ २०॥ स तेन बाणैः प्रसभं निपातितै- श्चकार नादं घननादनिःस्वनः। समुत्सहेनाशु नभः समारुजन् भुजोरुविक्षेपणघोरदर्शनः॥ २१॥ तमुत्पतन्तं समभिद्रवद् बली स राक्षसानां प्रवरः प्रतापवान्। रथी रथश्रेष्ठतरः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः॥ २२॥ स ताञ्छरांस्तस्य हरिर्विमोक्षयं- श्चचार वीरः पथि वायुसेविते। शरान्तरे मारुतवद् विनिष्पतन् मनोजवः संयति भीमविक्रमः॥ २३॥ तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां स च मारुतात्मजः॥ २४॥ ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन्। महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे पराक्रमम्॥ २५॥ अबालवद् बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशालिनः प्रमापणे मे मतिरत्र जायते॥ २६॥ अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः॥ २७॥ पराक्रमोत्साहविवृद्धमानसः- समीक्षते मां प्रमुखोऽग्रतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः॥ २८॥ न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं ह्यस्य ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ २९॥ इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे तदानीम्॥ ३०॥ स तस्य तानष्ट वरान् महाहयान् समाहितान् भारसहान् विवर्तने। जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः॥ ३१॥ ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। स भग्ननीडः परिवृत्तकूबरः पपात भूमौ हतवाजिरम्बरात्॥ ३२॥ स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन्। ततोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्॥ ३३॥ कपिस्ततस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते। समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम्॥ ३४॥ स तं समाविध्य सहस्रशः कपि- र्महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः॥ ३५॥ स भग्नबाहूरुकटीपयोधरः क्षरन्नसृङ्निर्मथितास्थिलोचनः। सम्भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः॥ ३६॥ महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम्। महर्षिभिश्चक्रचरैः समागतैः समेत्य भूतैश्च सयक्षपन्नगैः। सुरैश्च सेन्द्रैर्भृशजातविस्मयै- र्हते कुमारे स कपिर्निरीक्षितः॥ ३७॥ निहत्य तं वज्रिसुतोपमं रणे कुमारमक्षं क्षतजोपमेक्षणम्। तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये॥ ३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ।। ५.४७।।
स्रोतः
[सम्पाद्यताम्]पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।