रामायणम्/सुन्दरकाण्डम्/सर्गः ६०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ५९ रामायणम्
सर्गः ६०
वाल्मीकिः
सर्गः ६१ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।। ५.६०.१ ।।

अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।
समीपं गन्तुमस्माभी राघवस्य महात्मनः ।। ५.६०.२ ।।

दृष्टा देवी न चानीता इति तत्र निवेदनम् ।
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।। ५.६०.३ ।।

न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ।। ५.६०.४ ।।

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।। ५.६०.५ ।।

तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।। ५.६०.६ ।।

न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ।। ५.६०.७ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्टितमः सर्गः ।। ५.६० ।।