रामायणम्/सुन्दरकाण्डम्/सर्गः ६३

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६२ रामायणम्
सर्गः ६३
वाल्मीकिः
सर्गः ६४ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।। ५.६३.१ ।।

उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।
अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ।। ५.६३.२ ।।

स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् ।। ५.६३.३ ।।

नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।
वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ।। ५.६३.४ ।।

एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।
मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ।। ५.६३.५ ।।

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा ऽपरे ।
निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ।। ५.६३.६ ।।

इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।
वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ।। ५.६३.७ ।।

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।
संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ।। ५.६३.८ ।।

पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः ।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।। ५.६३.९ ।।

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।। ५.६३.१० ।।

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।
अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ।। ५.६३.११ ।।

किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ।। ५.६३.१२ ।।

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।। ५.६३.१३ ।।

आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।
अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ।। ५.६३.१४ ।।

विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।। ५.६३.१५ ।।

नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।
आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।। ५.६३.१६ ।।

धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।। ५.६३.१७ ।।

वनं यदाभिपन्नास्ते साधितं कर्म वानरैः ।
दृष्टा देवी न सन्देहो न चान्येन हनूमता ।
न ह्यन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः ।। ५.६३.१८ ।।

कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ।
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।। ५.६३.१९ ।।

जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।
हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। ५.६३.२० ।।

अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।
वारयन्तश्च सहितास्तथा जानुभिराहताः ।। ५.६३.२१ ।।

एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।। ५.६३.२२ ।।

दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।
अभिगम्य तथा
सव- ?
पिबन्ति मधु वानराः ।। ५.६३.२३ ।।

न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।
वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।। ५.६३.२४ ।।

ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।
श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।
प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ।। ५.६३.२५ ।।

श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।। ५.६३.२६ ।।

प्रीतो ऽस्मि सो ऽहं युद्भुक्तं वनं तैः कृतकर्मभिः ।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।। ५.६३.२७ ।।

इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान् ।
द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।। ५.६३.२८ ।।

प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।
अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सो ऽतिमात्रं ननन्द ।। ५.६३.२९ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिषष्टितमः सर्गः ।। ५.६३ ।।