रामायणम्/सुन्दरकाण्डम्/सर्गः ५२
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ५१ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ५३ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५-२॥
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। ५.५२.१।। वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः ।। ५.५२.२।। तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् । विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ।। ५.५२.३।। निश्चितार्थस्ततः साम्ना ऽ ऽपूज्य शत्रुजिदग्रजम् । उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ।। ५.५२.४।। क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व । वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।। ५.५२.५।। राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् ।। ५.५२.६।। धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः । परावरज्ञो भूतानां त्वमेव परमार्थवित् ।। ५.५२.७।। गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः । ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ।। ५.५२.८।। तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ।। ५.५२.९।। विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ।। ५.५२.१०।। न पापानां वधे पापं विद्यते शत्रुसूदन । तस्मादेनं वधिष्यामि वानरं पापचारिणम् ।। ५.५२.११।। अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य । उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ।। ५.५२.१२।। प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व । दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ।। ५.५२.१३।। असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् । न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ।। ५.५२.१४।। वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः । एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतो ऽपि ।। ५.५२.१५।। कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः । भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ।। ५.५२.१६।। न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि । विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ।। ५.५२.१७।। न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् । तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ।। ५.५२.१८।। साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः । ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ।। ५.५२.१९।। अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् । इह यः पुनरागच्छेत् परं पारं महोदधेः ।। ५.५२.२०।। तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय । भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ।। ५.५२.२१।। अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ । युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ।। ५.५२.२२।। पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन । त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ।। ५.५२.२३।। हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु । मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ।। ५.५२.२४।। तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु । तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ।। ५.५२.२५।। निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् । जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ।। ५.५२.२६।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः ।। ५.५२।। </poem>स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।