रामायणम्/सुन्दरकाण्डम्/सर्गः ६७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६६ रामायणम्
सर्गः ६७
वाल्मीकिः
सर्गः ६८ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

एवमुक्तस्तु हनुमान् राघवेण महात्मना ।
सीताया भाषितं सर्वं न्यवेदयत राघवे ।। ५.६७.१ ।।

इदमुक्तवती देवी जानकी पुरुषर्षभ ।
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।। ५.६७.२ ।।

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।
वायसः सहसोत्पत्य विरराद स्तनान्तरे ।। ५.६७.३ ।।

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।
पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।। ५.६७.४ ।।

पुनः पुनरुपागम्य विरराद भृशं किल ।
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।। ५.६७.५ ।।

वायसेन च तेनैव सततं बाध्यमानया ।
बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।। ५.६७.६ ।।

तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।
आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।। ५.६७.७ ।।

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। ५.६७.८ ।।

निरीक्षमाणः सहसा वायसं समवैक्षथाः ।
नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।। ५.६७.९ ।।

सुतः किल स शक्रस्य वायसः पततां वरः ।
धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।। ५.६७.१० ।।

ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।
वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ।। ५.६७.११ ।।

स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ।। ५.६७.१२ ।।

क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।
ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ।। ५.६७.१३ ।।

स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।
त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ।। ५.६७.१४ ।।

पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।
स तं निपतितं भूमौ शरण्यः शरणागतम् ।। ५.६७.१५ ।।

वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।। ५.६७.१६ ।।

मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।
भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।। ५.६७.१७ ।।

राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।। ५.६७.१८ ।।

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। ५.६७.१९ ।।

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।
न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।। ५.६७.२० ।।

तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।। ५.६७.२१ ।।

भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।
स किमर्थं नरवरो न मां रक्षति राघवः ।। ५.६७.२२ ।।

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। ५.६७.२३ ।।

ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।
समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ।। ५.६७.२४ ।।

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।। ५.६७.२५ ।।

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.६७.२६ ।।

कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।
इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।। ५.६७.२७ ।।

तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.६७.२८ ।।

हत्वा च समरे रौद्र रावण सहबान्धवम् ।
राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।। ५.६७.२९ ।।

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।। ५.६७.३० ।।

सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।। ५.६७.३१ ।।

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।
शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।। ५.६७.३२ ।।

गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।
विवर्धमानं च हि मामुवाच जनकात्मजा ।। ५.६७.३३ ।।

अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।
ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।। ५.६७.३४ ।।

हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ।। ५.६७.३५ ।।

यथा च स महाबाहुर्मां तारयति राघवः ।
असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। ५.६७.३६ ।।

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.६७.३७ ।।

एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।
एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ।। ५.६७.३८ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तषष्टितमः सर्गः ।। ५.६७ ।।