रामायणम्/सुन्दरकाण्डम्/सर्गः ६५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ६४ रामायणम्
सर्गः ६५
वाल्मीकिः
सर्गः ६६ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।। ५.६५.१ ।।

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।। ५.६५.२ ।।

रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।
रामे समनुरागं च यश्चायं समयः कृतः ।
एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।। ५.६५.३ ।।

वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।। ५.६५.४ ।।

क्व सीता वर्तते देवी कथं च मयि वर्तते ।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ।। ५.६५.५ ।।

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ।। ५.६५.६ ।।

श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः ।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।। ५.६५.७ ।।

समुद्रं लङ्घयित्वा ऽहं शतयोजनमायतम् ।
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।। ५.६५.८ ।।

तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।। ५.६५.९ ।।।।

तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।
संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।। ५.६५.१० ।।

दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।। ५.६५.११ ।।

दुःखमासाद्यते देवी तथा ऽदुःखोचिता सती ।। ५.६५.१२ ।।

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।
एकवेणीधरा दीना त्वयि चिन्तापरायणा ।। ५.६५.१३ ।।

अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ।। ५.६५.१४ ।।

इक्ष्वकुवंशविख्यातिं शनैः कीर्तयता ऽनघ ।
सा मया नरशार्दूल विश्वासमुपपादिता ।। ५.६५.१५ ।।

ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ।
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। ५.६५.१६ ।।

नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।। ५.६५.१७ ।।

एवं मया महाभागा दृष्टा जनकनन्दिनी ।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ।। ५.६५.१८ ।।

अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।। ५.६५.१९ ।।

विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।
अखिलेनेह यद् दृष्टमिति मामाह जानकी ।। ५.६५.२० ।।

अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ।। ५.६५.२१ ।।

एष चूडामणिः श्रीमान् मया सुपरिरक्षितः ।
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।। ५.६५.२२ ।।

त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।। ५.६५.२३ ।।

एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।
जीवितं धारयिष्यामि मासं दशरथात्मज ।
ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ।। ५.६५.२४ ।।

इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ।
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।। ५.६५.२५ ।।

एतदेव मया ऽ ऽख्यातं सर्वं राघव यद्यथा ।
सर्वथा सागरजले सन्तारः प्रविधीयताम् ।। ५.६५.२६ ।।

तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ।। ५.६५.२७ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ।। ५.६५ ।।