रामायणम्/सुन्दरकाण्डम्/सर्गः ४१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४० रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ४२ →

श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥


स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया । 
तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।। ५.४१.१।। 

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । 
त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।। ५.४१.२।। 

न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते । 
न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ।। ५.४१.३।। 

न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । 
हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ।। ५.४१.४।। 

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । 
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।। ५.४१.५।। 

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । 
यो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ।। ५.४१.६।। 

इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् । 
परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ।। ५.४१.७।। 

कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । 
तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ।। ५.४१.८।। 

ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् । 
हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ।। ५.४१.९।। 

इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । 
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ।। ५.४१.१०।। 

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । 
अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ।। ५.४१.११।। 

ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः । 
त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ।। ५.४१.१२।। 

अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः । 
निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ।। ५.४१.१३।। 

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः । 
उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ।। ५.४१.१४।। 

ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् । 
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ।। ५.४१.१५।। 

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । 
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ।। ५.४१.१६।। 

नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः । 
ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । 
न बभौ तद्वनं तत्र दावानलहतं यथा ।। ५.४१.१७।। 

व्याकुलावरणा रेजुर्विह्वला इव ता लताः ।। ५.४१.१८।। किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । 

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः । 
शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ।। ५.४१.१९।। 

सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना । 
जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ।। ५.४१.२०।। 

स तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः । 
युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ।। ५.४१.२१।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः ।। ५.४१।।
</poem>