रामायणम्/सुन्दरकाण्डम्/सर्गः १७
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः १६ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः १८ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तदशः सर्गः ॥५-१७॥
ततः कुमुदषण्डाभो निर्मलम् निर्मलोदयः । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।। ५-१७- १ साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः । चन्द्रमा रश्मभिः शीतैः सिषेवे पवनात्मजम् ।। ५-१७-२ स ददर्श ततः सीताम् पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। ५-१७-३ दिदृक्षमाणो वैदेहीम् हनुमान् मारुतात्मजः । स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ।। ५-१७-४ एकाक्षीमेककर्णाम् च कर्णप्रावरणाम् तथा । अकर्णाम् शङ्कुकर्णाम् च मस्तकोच्छ्वासनासिकाम् ।। ५-१७-५ अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् । ध्वस्तकेशीम् तथाकेशीम् केशकम्बलधारिणीम् ।। ५-१७-६ लम्बकर्णललाटाम् च लम्बोदरपयोधराम् । लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्याम् लम्बजानुकाम् ।। ५-१७-७ ह्रस्वाम् दीर्घाम् च कुब्जाम् विकटाम् वामनां तथा । करालाम् भुग्नवक्त्राम् च पिङ्गाक्षीम् विकृताननाम् ।। ५-१७-८ विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः । कालायसमहाशूलकूटमुद्गधारिणीः ।। ५-१७-९ वराहमृगशार्दूलमहिषाजशिवामुखीः । गजोष्ट्र हयपादीश्च निखातशिरसोपराः ।। ५-१७-१० एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः । गोकर्णीर्हस्तिकर्णीईश्च हरिकर्णीस्तथापराः ।। ५-१७-११ अतिनासाश्च तिर्यङ्नासा अनासिकाः । गजनन्निभनासाश्च ललाटोच्च्वासनासिकाः ।। ५-१७-१२ हस्तिपादा महापादा गोपादाः पादचूळिकाः । अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ।। ५-१७-१३ अतिमात्रस्यनेत्राश्च दीर्घजिह्वानखास्तथा । अजामुखीर्हस्तिमुखीर्गोमुखाः सूकरीमुखीः ।। ५-१७-१४ हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः । शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ।। ५-१७-१५ कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः । पिबन्तीः सततं पानं सदा मां ससुराप्रियाः ।। ५-१७-१६ मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः । ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ।। ५-१७-१७ स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् । तस्याधस्ताच्च ताम् देवीम् राजपुत्रीमनिन्दिताम् ।। ५-१७-१८ लक्षयामास लक्ष्मीवान् हनुमान् जन्कात्मजाम् । निष्प्रभाम् षोकसन्तप्ताम् मलसम्कुलमूर्धजाम् ।। ५-१७-१९ क्षीणपुण्याम् च्युताम् भूमौ ताराम् निपतितामिव । चारित्रव्यपदेशाड्यां भर्तृदर्शनदुर्गताम् ।। ५-१७-२० भूषणैरुत्तमोर्हीनाम् भर्तृवात्सल्यभूषणाम् । राक्षसाधिपसम्रुद्धाम् बन्धुभिश्च विना कृताम् ।। ५-१७-२१ वियूथाम् सिम्हसम्रुद्धाम् बद्धाम् गजवधूमिव । चन्द्ररेखाम् पयोदान्ते शारदाब्रैरिवावृताम् ।। ५-१७-२२ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् । स ताम् भर्तवशे युक्तामयुक्ताम् राक्षसीवशे ।। ५-१७-२३ अशोकवनिकामध्ये शोकसागरमाप्लुताम् । ताभिः परिवृताम् तत्र सग्रहामिव रोहिणीम् ।। ५-१७-२४ ददर्श हनुमान् देवीम् लतामकुसुमामिव । सा मलेन च दिग्धाङ्गीवपुषा चाप्यलंकृता ।। ५-१७-२५ मृणाली पङ्कदिग्धेव विभाति च न भाति च । मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।। ५-१७-२६ संवृताम् मृगशाबाक्षीं ददर्श हनुमान् कपिः । ताम् देवीं दीनवदनामदीनां भर्तृतेजसा ।। ५-१७-२७ रक्षिताम् स्वेन शीलेन सीतामसितलोचनाम् । ताम् दृष्ट्वा हनुमान् सीताम् मृगशाबनिभेक्षणाम् । मृगकन्यामिव त्रस्ताम् वीक्षमाणाम् समन्ततः ।। ५-१७-२८ दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः । सम्घातमिव शोकानाम् दुःखस्योर्मिमिवोथिताम् ।। ५-१७-२९ ताम् क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् । प्रहर्षमतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।। ५-१७-३० हर्षजानि च सोऽश्रूणि ताम् दृष्ट्वा मदिरेक्षणाम् । मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम् ।। ५-१७-३१ नमस्कृत्वा रामाय लक्ष्मणाय च वीर्यवान् । सीतादर्शनसम्हृष्टो हनुमान् सम्वृतोऽभवत् ।। ५-१७-३२
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे सप्तदशः सर्गः ॥५-१७॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।