रामायणम्/सुन्दरकाण्डम्/सर्गः ८
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ७ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः ९ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
स तस्य मध्ये भवनस्य सम्स्थितम् । महद्विमानम् मणिवज्रचित्रितम् । प्रतप्तजाम्बूनदजालकृत्रिमम् । ददर्श वीरः पवनात्मजः कपिः ॥५-८-१॥ तदप्रमेयाप्रतिकारकृत्रिमम् । कृतम् स्वयम् साध्विति विश्वकर्मणाः । दिवम् गतम् वायुपथप्रतिष्ठितम् । व्यराजतादित्यपथस्य लक्ष्मिवत् ॥५-८-२॥ न तत्र किम्चिन्न कृतम् प्रयत्नतो । न तत्र किम्चिन्न महर्हरत्नवत् । न ते विशेषा नियताः सुरेष्वपि । न तत्र किम्चिन्न महाविशेषवत् ॥५-८-३॥ तपह्समाधानपराक्रमार्जितम् । मनःसमाधानविचारचारिणम् । अनेकसम्स्थानविषेषनिर्मितम् । ततस्ततस्तुल्यविशेषदर्शनम् ॥५-८-४॥ विशेषमालम्ब्य विशेषसम्स्थितम् । विचित्रकूटम् बहुकूटमण्डितम् । मनोऽभिरामम् शरद्न्दुनिर्मलम् । विचित्रकूटम् शिखरम् गिरेर्यथा ॥५-८-५॥ वहन्ति यम् कुण्डशोभितानना । महाशना व्योमचरा निशाचराः । विवृत्तविध्वस्तविशाललोचना । महाजवा भूतगणाः सहस्रशः ॥५-८-६॥ वसन्तपुष्पोत्करचारुदर्शनम् । वसन्तमासदपि कान्तदर्शनम् । स पुष्पकम् तत्र विमानमुत्तमम् । ददर्श तद्वानरवीरसत्तमः ॥५-८-७॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे अष्टमः सर्गः ॥५-८॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।