सामग्री पर जाएँ

रामायणम्/सुन्दरकाण्डम्/सर्गः ५८

विकिस्रोतः तः
← सर्गः ५७ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ५९ →
अष्टपञ्चाशः सर्गः श्रूयताम्


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥५-५८॥


ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्॥ १॥

प्रीतिमत्सूपविष्टेषु वानरेषु महात्मसु।
तं ततः प्रतिसंहृष्टः प्रीतियुक्तं महाकपिम्॥ २॥

जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्।
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते॥ ३॥

तस्यां चापि कथं वृत्तः क्रूरकर्मा दशाननः।
तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे॥ ४॥

सम्मार्गिता कथं देवी किं च सा प्रत्यभाषत।
श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्॥ ५॥

यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्।
रक्षितव्यं च यत्तत्र तद् भवान् व्याकरोतु नः॥ ६॥

स नियुक्तस्ततस्तेन सम्प्रहृष्टतनूरुहः।
नमस्यन् शिरसा देव्यै सीतायै प्रत्यभाषत॥ ७॥

प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः।
उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः॥ ८॥

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्॥ ९॥

स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्।
उपसंगम्य तं दिव्यं काञ्चनं नगमुत्तमम्॥ १०॥

कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च।
प्रहतस्य मया तस्य लाङ्गूलेन महागिरेः॥ ११॥

शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा।
व्यवसायं च तं बुद्‍ध्वा स होवाच महागिरिः॥ १२॥

पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः॥ १३॥

मैनाकमिति विख्यातं निवसन्तं महोदधौ।
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः॥ १४॥

छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः॥ १५॥

वज्रेण भगवान् पक्षौ चिच्छेदैषां सहस्रशः।
अहं तु मोचितस्तस्मात् तव पित्रा महात्मना॥ १६॥

मारुतेन तदा वत्स प्रक्षिप्तो वरुणालये।
राघवस्य मया साह्ये वर्तितव्यमरिंदम॥ १७॥

रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः।
एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः॥ १८॥

कार्यमावेद्य च गिरेरुद्धतं वै मनो मम।
तेन चाहमनुज्ञातो मैनाकेन महात्मना॥ १९॥

स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता।
शरीरेण महाशैलः शैलेन च महोदधौ॥ २०॥

उत्तमं जवमास्थाय शेषमध्वानमास्थितः।
ततोऽहं सुचिरं कालं जवेनाभ्यगमं पथि॥ २१॥

ततः पश्याम्यहं देवीं सुरसां नागमातरम्।
समुद्रमध्ये सा देवी वचनं चेदमब्रवीत्॥ २२॥

मम भक्ष्यः प्रदिष्टस्त्वममरैर्हरिसत्तम।
ततस्त्वां भक्षयिष्यामि विहितस्त्वं हि मे सुरैः॥ २३॥

एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्॥ २४॥

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्।
लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः॥ २५॥

तस्य सीता हृता भार्या रावणेन दुरात्मना।
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्॥ २६॥

कर्तुमर्हसि रामस्य साहाय्यं विषये सती।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्॥ २७॥

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।
एवमुक्ता मया सा तु सुरसा कामरूपिणी॥ २८॥

अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम।
एवमुक्तः सुरसया दशयोजनमायतः॥ २९॥

ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु।
मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया॥ ३०॥

तद् दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं पुनः।
तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठसम्मितः॥ ३१॥

अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः॥ ३२॥

अर्थसिद्धौ हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।
समानय च वैदेहीं राघवेण महात्मना॥ ३३॥

सुखी भव महाबाहो प्रीतास्मि तव वानर।
ततोऽहं साधुसाध्वीति सर्वभूतैः प्रशंसितः॥ ३४॥

ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा।
छाया मे निगृहीता च न च पश्यामि किंचन॥ ३५॥

सोऽहं विगतवेगस्तु दिशो दश विलोकयन्।
न किंचित् तत्र पश्यामि येन मे विहता गतिः॥ ३६॥

अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम।
ईदृशो विघ्न उत्पन्नो रूपमत्र न दृश्यते॥ ३७॥

अधोभागे तु मे दृष्टिः शोचतः पतिता तदा।
तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम्॥ ३८॥

प्रहस्य च महानादमुक्तोऽहं भीमया तया।
अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम्॥ ३९॥

क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्॥ ४०॥

बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः।
आस्यप्रमाणादधिकं तस्याः कायमपूरयम्॥ ४१॥

तस्याश्चास्यं महद् भीमं वर्धते मम भक्षणे।
न तु मां सा नु बुबुधे मम वा विकृतं कृतम्॥ ४२॥

ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्।
तस्या हृदयमादाय प्रपतामि नभःस्थलम्॥ ४३॥

सा विसृष्टभुजा भीमा पपात लवणाम्भसि।
मया पर्वतसंकाशा निकृत्तहृदया सती॥ ४४॥

शृणोमि खगतानां च वाचः सौम्या महात्मनाम्।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता॥ ४५॥

तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्।
गत्वा च महदध्वानं पश्यामि नगमण्डितम्॥ ४६॥
दक्षिणं तीरमुदधेर्लङ्का यत्र गता पुरी।

अस्तं दिनकरे याते रक्षसां निलयं पुरीम्॥ ४७॥
प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः।

तत्र प्रविशतश्चापि कल्पान्तघनसप्रभा॥ ४८॥
अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः।

जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्॥ ४९॥
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्।
प्रदोषकाले प्रविशं भीतयाहं तयोदितः॥ ५०॥

अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते।
यस्मात् तस्माद् विजेतासि सर्वरक्षांस्यशेषतः॥ ५१॥

तत्राहं सर्वरात्रं तु विचरञ्जनकात्मजाम्।
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्॥ ५२॥

ततः सीतामपश्यंस्तु रावणस्य निवेशने।
शोकसागरमासाद्य न पारमुपलक्षये॥ ५३॥

शोचता च मया दृष्टं प्राकारेणाभिसंवृतम्।
काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्॥ ५४॥

सप्राकारमवप्लुत्य पश्यामि बहुपादपम्।
अशोकवनिकामध्ये शिंशपापादपो महान्॥ ५५॥

तमारुह्य च पश्यामि काञ्चनं कदलीवनम्।
अदूराच्छिंशपावृक्षात् पश्यामि वरवर्णिनीम्॥ ५६॥

श्यामां कमलपत्राक्षीमुपवासकृशाननाम्।
तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम्॥ ५७॥

शोकसंतापदीनाङ्गीं सीतां भर्तृहिते स्थिताम्।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्॥ ५८॥

मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः॥ ५९॥

एकवेणीधरा दीना भर्तृचिन्तापरायणा।
भूमिशय्या विवर्णाङ्गी पद्मिनीव हिमागमे॥ ६०॥

रावणाद् विनिवृत्तार्था मर्तव्ये कृतनिश्चया।
कथंचिन्मृगशावाक्षी तूर्णमासादिता मया॥ ६१॥

तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्।
तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः॥ ६२॥

ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्।
शृणोम्यधिकगम्भीरं रावणस्य निवेशने॥ ६३॥

ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्।
अहं च शिंशपावृक्षे पक्षीव गहने स्थितः॥ ६४॥

ततो रावणदाराश्च रावणश्च महाबलः।
तं देशमनुसम्प्राप्तो यत्र सीताभवत् स्थिता॥ ६५॥

तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्।
संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च॥ ६६॥

वित्रस्तां परमोद्विग्नां वीक्ष्यमाणामितस्ततः।
त्राणं कंचिदपश्यन्तीं वेपमानां तपस्विनीम्॥ ६७॥

तामुवाच दशग्रीवः सीतां परमदुःखिताम्।
अवाक्शिराः प्रपतितो बहुमन्यस्व मामिति॥ ६८॥

यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते।
द्विमासानन्तरं सीते पास्यामि रुधिरं तव॥ ६९॥

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः।
उवाच परमक्रुद्धा सीता वचनमुत्तमम्॥ ७०॥

राक्षसाधम रामस्य भार्याममिततेजसः।
इक्ष्वाकुवंशनाथस्य स्नुषां दशरथस्य च॥ ७१॥

अवाच्यं वदतो जिह्वा कथं न पतिता तव।
किंस्विद्वीर्य तवानार्य यो मां भर्तुरसंनिधौ॥ ७२॥

अपहृत्यागतः पाप तेनादृष्टो महात्मना।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे॥ ७३॥

अजेयः सत्यवाक् शूरो रणश्लाघी च राघवः।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः॥ ७४॥

जज्वाल सहसा कोपाच्चितास्थ इव पावकः।
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्॥ ७५॥

मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा।
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः॥ ७६॥

वरा मन्दोदरी नाम तया स प्रतिषेधितः।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः॥ ७७॥

सीतया तव किं कार्यं महेन्द्रसमविक्रम।
मया सह रमस्वाद्य मद्विशिष्टा न जानकी॥ ७८॥

देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च।
सार्धं प्रभो रमस्वेति सीतया किं करिष्यसि॥ ७९॥

ततस्ताभिः समेताभिर्नारीभिः स महाबलः।
उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः॥ ८०॥

याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः।
सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः॥ ८१॥

तृणवद् भाषितं तासां गणयामास जानकी।
गर्जितं च तथा तासां सीतां प्राप्य निरर्थकम्॥ ८२॥

वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः।
रावणाय शशंसुस्ताः सीताव्यवसितं महत्॥ ८३॥

ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः।
परिक्लिश्य समस्तास्ता निद्रावशमुपागताः॥ ८४॥

तासु चैव प्रसुप्तासु सीता भर्तृहिते रता।
विलप्य करुणं दीना प्रशुशोच सुदुःखिता॥ ८५॥

तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्।
आत्मानं खादत क्षिप्रं न सीतामसितेक्षणाम्॥ ८६॥

जनकस्यात्मजां साध्वीं स्नुषां दशरथस्य च।
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः॥ ८७॥

रक्षसां च विनाशाय भर्तुरस्या जयाय च।
अलमस्मान् परित्रातुं राघवाद् राक्षसीगणम्॥ ८८॥

अभियाचाम वैदेहीमेतद्धि मम रोचते।
यदि ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते॥ ८९॥

सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा॥ ९०॥

अलमेषा परित्रातुं राक्षस्यो महतो भयात्।
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता॥ ९१॥

अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्॥ ९२॥

चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः।
सम्भाषणार्थे च मया जानक्याश्चिन्तितो विधिः॥ ९३॥

इक्ष्वाकुकुलवंशस्तु स्तुतो मम पुरस्कृतः।
श्रुत्वा तु गदितां वाचं राजर्षिगणभूषिताम्॥ ९४॥

प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना।
कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव॥ ९५॥

का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि।
तस्यास्तद् वचनं श्रुत्वा अहमप्यब्रुवं वचः॥ ९६॥

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः॥ ९७॥

तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्।
भर्त्रा सम्प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा॥ ९८॥

इदं तु पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्।
अङ्गुलीयमभिज्ञानमदात् तुभ्यं यशस्विनि॥ ९९॥

तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्॥ १००॥

एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी।
आह रावणमुत्पाट्य राघवो मां नयत्विति॥ १०१॥

प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम्॥ १०२॥

अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः।
मणिर्येन महाबाहू रामस्त्वां बहु मन्यते॥ १०३॥

इत्युक्त्वा तु वरारोहा मणिप्रवरमुत्तमम्।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह॥ १०४॥

ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः।
प्रदक्षिणं परिक्राममिहाभ्युद‍्गतमानसः॥ १०५॥

उत्तरं पुनरेवाह निश्चित्य मनसा तदा।
हनूमन् मम वृत्तान्तं वक्तुमर्हसि राघवे॥ १०६॥

यथा श्रुत्वैव नचिरात् तावुभौ रामलक्ष्मणौ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु॥ १०७॥

यदन्यथा भवेदेतद् द्वौ मासौ जीवितं मम।
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्॥ १०८॥

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत।
उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्॥ १०९॥

ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः।
युद्धाकाङ्क्षी वनं तस्य विनाशयितुमारभे॥ ११०॥

तद् भग्नं वनखण्डं तु भ्रान्तत्रस्तमृगद्विजम्।
प्रतिबुद्ध्य निरीक्षन्ते राक्षस्यो विकृताननाः॥ १११॥

मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः।
ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे॥ ११२॥

राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल॥ ११३॥

तस्य दुर्बुद्धिता राजंस्तव विप्रियकारिणः।
वधमाज्ञापय क्षिप्रं यथासौ न पुनर्व्रजेत्॥ ११४॥

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा बहुदुर्जयाः।
राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः॥ ११५॥

तेषामशीतिसाहस्रं शूलमुद‍्गरपाणिनाम्।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम्॥ ११६॥

तेषां तु हतशिष्टा ये ते गता लघुविक्रमाः।
निहतं च मया सैन्यं रावणायाचचक्षिरे॥ ११७॥

ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमुत्तमम्।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः॥ ११८॥

ललामभूतो लङ्काया मया विध्वंसितो रुषा।
ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्॥ ११९॥

राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः।
तमहं बलसम्पन्नं राक्षसं रणकोविदम्॥ १२०॥

परिघेणातिघोरेण सूदयामि सहानुगम्।
तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान्॥ १२१॥

पदातिबलसम्पन्नान् प्रेषयामास रावणः।
परिघेणैव तान् सर्वान् नयामि यमसादनम्॥ १२२॥

मन्त्रिपुत्रान् हतान् श्रुत्वा समरे लघुविक्रमान्।
पञ्च सेनाग्रगान् शूरान् प्रेषयामास रावणः॥ १२३॥

तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्॥ १२४॥

बहुभी राक्षसैः सार्धं प्रेषयामास संयुगे।
तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम्॥ १२५॥

सहसा खं समुद्यन्तं पादयोश्च गृहीतवान्।
तमासीनं शतगुणं भ्रामयित्वा व्यपेषयम्॥ १२६॥

तमक्षमागतं भग्नं निशम्य स दशाननः।
ततश्चेन्द्रजितं नाम द्वितीयं रावणः सुतम्॥ १२७॥

व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम्॥ १२८॥

नष्टौजसं रणे कृत्वा परं हर्षमुपागतः।
महतापि महाबाहुः प्रत्ययेन महाबलः॥ १२९॥

प्रहितो रावणेनैष सह वीरैर्मदोद्धतैः।
सोऽविषह्यं हि मां बुद्‍ध्वा स्वसैन्यं चावमर्दितम्॥ १३०॥

ब्रह्मणोऽस्त्रेण स तु मां प्रबद्‍ध्वा चातिवेगिनः।
रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः॥ १३१॥

रावणस्य समीपं च गृहीत्वा मामुपागमन्।
दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना॥ १३२॥

पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम्।
तत्सर्वं च रणे तत्र सीतार्थमुपजल्पितम्॥ १३३॥

तस्यास्तु दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम्॥ १३४॥

रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्।
सोऽहं दौत्येन रामस्य त्वत्सकाशमिहागतः॥ १३५॥

शृणु चापि समादेशं यदहं प्रब्रवीमि ते।
राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम्॥ १३६॥

सुग्रीवश्च महाभागः स त्वां कौशलमब्रवीत्।
धर्मार्थकामसहितं हितं पथ्यमुवाच ह॥ १३७॥

वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः॥ १३८॥

तेन मे कथितं राजन् भार्या मे रक्षसा हृता।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि॥ १३९॥

वालिना हृतराज्येन सुग्रीवेण सह प्रभुः।
चक्रेऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः॥ १४०॥

तेन वालिनमाहत्य शरेणैकेन संयुगे।
वानराणां महाराजः कृतः सम्प्लवतां प्रभुः॥ १४१॥

तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः॥ १४२॥

क्षिप्रमानीयतां सीता दीयतां राघवस्य च।
यावन्न हरयो वीरा विधमन्ति बलं तव॥ १४३॥

वानराणां प्रभावोऽयं न केन विदितः पुरा।
देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः॥ १४४॥

इति वानरराजस्त्वामाहेत्यभिहितो मया।
मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव॥ १४५॥

तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना॥ १४६॥

ततो विभीषणो नाम तस्य भ्राता महामतिः।
तेन राक्षसराजश्च याचितो मम कारणात्॥ १४७॥

नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः।
राजशास्त्रव्यपेतो हि मार्गः संलक्ष्यते त्वया॥ १४८॥

दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस।
दूतेन वेदितव्यं च यथाभिहितवादिना॥ १४९॥

सुमहत्यपराधेऽपि दूतस्यातुलविक्रम।
विरूपकरणं दृष्टं न वधोऽस्ति हि शास्त्रतः॥ १५०॥

विभीषणेनैवमुक्तो रावणः संदिदेश तान्।
राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति॥ १५१॥

ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः।
वेष्टितं शणवल्कैश्च पट्टैः कार्पासकैस्तथा॥ १५२॥

राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः।
तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः॥ १५३॥

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः।
न मे पीडाभवत् काचिद् दिदृक्षोर्नगरीं दिवा॥ १५४॥

ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्।
अघोषयन् राजमार्गे नगरद्वारमागताः॥ १५५॥

ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः।
विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः॥ १५६॥

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्।
ततस्तन्नगरद्वारं वेगेन प्लुतवानहम्॥ १५७॥

पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्।
दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः॥ १५८॥

विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते।
लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी॥ १५९॥

दहता च मया लङ्कां दग्धा सीता न संशयः।
रामस्य च महत्कार्यं मयेदं विफलीकृतम्॥ १६०॥

इति शोकसमाविष्टश्चिन्तामहमुपागतः।
ततोऽहं वाचमश्रौषं चारणानां शुभाक्षराम्॥ १६१॥

जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्।
ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्॥ १६२॥

अदग्धा जानकीत्येव निमित्तैश्चोपलक्षितम्।
दीप्यमाने तु लाङ्गूले न मां दहति पावकः॥ १६३॥

हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः।
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः॥ १६४॥

ऋषिवाक्यैश्च दृष्टार्थैरभवं हृष्टमानसः।
पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः॥ १६५॥

ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः।
प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया॥ १६६॥

ततः श्वसनचन्द्रार्कसिद्धगन्धर्वसेवितम्।
पन्थानमहमाक्रम्य भवतो दृष्टवानिह॥ १६७॥

राघवस्य प्रसादेन भवतां चैव तेजसा।
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्॥ १६८॥

एतत् सर्वं मया तत्र यथावदुपपादितम्।
तत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति॥ १६९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५.५८ ॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।