रामायणम्/सुन्दरकाण्डम्/सर्गः ९
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः ८ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः १० → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे नवमः सर्गः ॥५-९॥
तस्य आलय वरिष्ठस्य मध्ये विपुलम् आयतम् । ददर्श भवन श्रेष्ठम् हनूमान् मारुत आत्मजः ॥५-९-१॥ अर्ध योजन विस्तीर्णम् आयतम् योजनम् हि तत् । भवनम् राक्षस इन्द्रस्य बहु प्रासाद सम्कुलम् ॥५-९-२॥ मार्गमाणः तु वैदेहीम् सीताम् आयत लोचनाम् । सर्वतः परिचक्राम हनूमान् अरि सूदनः ॥५-९-३॥ उत्तमम् राक्षसावासम् हनुमानवलोकयन् । आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥५-९-४॥ चतुर् विषाणैर् द्विरदैः त्रिविषाणैः तथैव च । परिक्षिप्तम् असम्बाधम् रक्ष्यमाणम् उदायुधैः ॥५-९-५॥ राक्षसीभिः च पत्नीभी रावणस्य निवेशनम् । आह्Rताभिः च विक्रम्य राज कन्याभिर् आव्Rतम् ॥५-९-६॥ तन् नक्र मकर आकीर्णम् तिमिम्गिल झष आकुलम् । वायु वेग समाधूतम् पन्नगैर् इव सागरम् ॥५-९-७॥ या हि वैश्वरणे लक्ष्मीर् या च इन्द्रे हरि वाहने । सा रावण ग्Rहे सर्वा नित्यम् एव अनपायिनी ॥५-९-८॥ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च । ताद्Rशी तद् विशिष्टा वा Rद्धी रक्षो ग्Rहेष्व् इह ॥५-९-९॥ तस्य हर्म्यस्य मध्यस्थम् वेश्म च अन्यत् सुनिर्मितम् । बहुनिर्यूह सम्कीर्णम् ददर्श पवन आत्मजः ॥५-९-१०॥ ब्रह्मणो अर्थे क्Rतम् दिव्यम् दिवि यद् विश्व कर्मणा । विमानम् पुष्पकम् नाम सर्व रत्न विभूषितम् ॥५-९-११॥ परेण तपसा लेभे यत् कुबेरः पितामहात् । कुबेरम् ओजसा जित्वा लेभे तद् राक्षस ईश्वरः ॥५-९-१२॥ ईहा म्Rग समायुक्तैः कार्य स्वर हिरण्मयैः । सुक्Rतैर् आचितम् स्तम्भैः प्रदीप्तम् इव च श्रिया ॥५-९-१३॥ मेरु मन्दर सम्काशैर् उल्लिखद्भिर् इव अम्बरम् । कूट अगारैः शुभ आकारैः सर्वतः समलम्क्Rतम् ॥५-९-१४॥ ज्वलन अर्क प्रतीकाशम् सुक्Rतम् विश्व कर्मणा । हेम सोपान सम्युक्तम् चारु प्रवर वेदिकम् ॥५-९-१५॥ जाल वात अयनैर् युक्तम् कान्चनैः स्थाटिकैर् अपि । इन्द्र नील महा नील मणि प्रवरवेदिकम् ॥५-९-१६॥ विद्रुमेण विचित्रेण मणिभिश्च महाधनैः । विस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥५-९-१७॥ चन्दनेन च रक्तेन तपनीयनिभेन च । सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥५-९-१८॥ कूटागारैर्वराकारैर्विविधैः समलम्कृतम् । विमानम् पुष्पकम् दिव्यम् आरुरोह महा कपिः ॥५-९-१९॥ तत्रस्थः स तदा गन्धम् पान भक्ष्य अन्न सम्भवम् । दिव्यम् सम्मूर्चितम् जिघ्रन् रूपवन्तम् इव अनिलम् ॥५-९-२०॥ स गन्धः तम् महा सत्त्वम् बन्धुर् बन्धुम् इव उत्तमम् । इत एहि इति उवाच इव तत्र यत्र स रावणः ॥५-९-२१॥ ततः ताम् प्रस्थितः शालाम् ददर्श महतीम् शुभाम् । रावणस्य मनः कान्ताम् कान्ताम् इव वर स्त्रियम् ॥५-९-२२॥ मणि सोपान विक्Rताम् हेम जाल विराजिताम् । स्फाटिकैर् आव्Rत तलाम् दन्त अन्तरित रूपिकाम् ॥५-९-२३॥ मुक्ताभिः च प्रवालैः च रूप्य चामी करैर् अपि । विभूषिताम् मणि स्तम्भैः सुबहु स्तम्भ भूषिताम् ॥५-९-२४॥ नम्रैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः । स्तम्भैः पक्षैर् इव अत्युच्चैर् दिवम् सम्प्रस्थिताम् इव ॥५-९-२५॥ महत्या कुथय आस्त्रीणम् प्Rथिवी लक्षण अन्कया । पृथिवीम् इव विस्तीर्णाम् सराष्ट्र ग्Rह मालिनीम् ॥५-९-२६॥ नादिताम् मत्त विहगैर् दिव्य गन्ध अधिवासिताम् । पर अर्ध्य आस्तरण उपेताम् रक्षो अधिप निषेविताम् ॥५-९-२७॥ धूम्राम् अगरु धूपेन विमलाम् हम्स पाण्डुराम् । चित्राम् पुष्प उपहारेण कल्माषीम् इव सुप्रभाम् ॥५-९-२८॥ मनः सम्ह्लाद जननीम् वर्णस्य अपि प्रसादिनीम् । ताम् शोक नाशिनीम् दिव्याम् श्रियः सम्जननीम् इव ॥५-९-२९॥ इन्द्रियाणि इन्द्रिय अर्थैः तु पन्च पन्चभिर् उत्तमैः । तर्पयाम् आस माता इव तदा रावण पालिता ॥५-९-३०॥ स्वर्गो अयम् देव लोको अयम् इन्द्रस्य इयम् पुरी भवेत् । सिद्धिर् वा इयम् परा हि स्याद् इति अमन्यत मारुतिः ॥५-९-३१॥ प्रध्यायत इव अपश्यत् प्रदीपामः तत्र कान्चनान् (ःइअतुस्!)। धूर्तान् इव महा धूर्तैर् देवनेन पराजितान् ॥५-९-३२॥ दीपानाम् च प्रकाशेन तेजसा रावणस्य च । अर्चिर्भिर् भूषणानाम् च प्रदीप्ता इति अभ्यमन्यत ॥५-९-३३॥ ततो अपश्यत् कुथा आसीनम् नाना वर्ण अम्बर स्रजम् । सहस्रम् वर नारीणाम् नाना वेष विभूषितम् ॥५-९-३४॥ परिव्Rत्ते अर्ध रात्रे तु पान निद्रा वशम् गतम् । क्रीडित्वा उपरतम् रात्रौ सुष्वाप बलवत् तदा ॥५-९-३५॥ तत् प्रसुप्तम् विरुरुचे निह्शब्द अन्तर भूषणम् । निह्शब्द हम्स भ्रमरम् यथा पद्म वनम् महत् ॥५-९-३६॥ तासाम् सम्व्Rत दन्तानि मीलित अक्षाणि मारुतिः । अपश्यत् पद्म गन्धीनि वदनानि सुयोषिताम् ॥५-९-३७॥ प्रबुद्धानि इव पद्मानि तासाम् भूत्वा क्षपा क्षये । पुनः सम्व्Rत पत्राणि रात्राव् इव बभुः तदा ॥५-९-३८॥ इमानि मुख पद्मानि नियतम् मत्त षट्पदाः । अम्बुजानि इव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥५-९-३९॥ इति वा अमन्यत श्रीमान् उपपत्त्या महा कपिः । मेने हि गुणतः तानि समानि सलिल उद्भवैः ॥५-९-४०॥ सा तस्य शुशुभे शाला ताभिः स्त्रीभिर् विराजिता । शारदी इव प्रसन्ना द्यौः ताराभिर् अभिशोभिता ॥५-९-४१॥ स च ताभिः परिव्Rतः शुशुभे राक्षस अधिपः । यथा हि उडु पतिः श्रीमामः ताराभिर् अभिसम्व्Rतः ॥५-९-४२॥ याः च्यवन्ते अम्बरात् ताराः पुण्य शेष समाव्Rताः । इमाः ताः सम्गताः क्Rत्स्ना इति मेने हरिः तदा ॥५-९-४३॥ ताराणाम् इव सुव्यक्तम् महतीनाम् शुभ अर्चिषाम् । प्रभा वर्ण प्रसादाः च विरेजुः तत्र योषिताम् ॥५-९-४४॥ व्याव्Rत्त गुरु पीन स्रक् प्रकीर्ण वर भूषणाः । पान व्यायाम कालेषु निद्रा अपह्Rत चेतसः ॥५-९-४५॥ व्याव्Rत्त तिलकाः काश्चित् काश्चिद् उद्भ्रान्त नूपुराः । पार्श्वे गलित हाराः च काश्चित् परम योषितः ॥५-९-४६॥ मुखा हार व्Rताः च अन्याः काश्चित् प्रस्रस्त वाससः । व्याविद्ध रशना दामाः किशोर्य इव वाहिताः ॥५-९-४७॥ सुकुण्डल धराः च अन्या विच्चिन्न म्Rदित स्रजः । गज इन्द्र म्Rदिताः फुल्ला लता इव महा वने ॥५-९-४८॥ चन्द्र अम्शु किरण आभाः च हाराः कासाम्चिद् उत्कटाः । हम्सा इव बभुः सुप्ताः स्तन मध्येषु योषिताम् ॥५-९-४९॥ अपरासाम् च वैदूर्याः कादम्बा इव पक्षिणः । हेम सूत्राणि च अन्यासाम् चक्र वाका इव अभवन् ॥५-९-५०॥ हम्स कारण्डव आकीर्णाः चक्र वाक उपशोभिताः । आपगा इव ता रेजुर् जघनैः पुलिनैर् इव ॥५-९-५१॥ किन्किणी जाल सम्काशाः ता हेम विपुल अम्बुजाः । भाव ग्राहा यशः तीराः सुप्ता नद्य इव आबभुः ॥५-९-५२॥ मृदुष्व् अन्गेषु कासाम्चित् कुच अग्रेषु च सम्स्थिताः । बभूवुर् भूषणानि इव शुभा भूषण राजयः ॥५-९-५३॥ अम्शु कान्ताः च कासाम्चिन् मुख मारुत कम्पिताः । उपरि उपरि वक्त्राणाम् व्याधूयन्ते पुनः पुनः ॥५-९-५४॥ ताः पाताका इव उद्धूताः पत्नीनाम् रुचिर प्रभाः । नाना वर्ण सुवर्णानाम् वक्त्र मूलेषु रेजिरे ॥५-९-५५॥ ववल्गुः च अत्र कासाम्चित् कुण्डलानि शुभ अर्चिषाम् । मुख मारुत सम्सर्गान् मन्दम् मन्दम् सुयोषिताम् ॥५-९-५६॥ शर्कर आसव गन्धः स प्रक्Rत्या सुरभिः सुखः । तासाम् वदन निह्श्वासः सिषेवे रावणम् तदा ॥५-९-५७॥ रावण आनन शन्काः च काश्चिद् रावण योषितः । मुखानि स्म सपत्नीनाम् उपाजिघ्रन् पुनः पुनः ॥५-९-५८॥ अत्यर्थम् सक्त मनसो रावणे ता वर स्त्रियः । अस्वतन्त्राः सपत्नीनाम् प्रियम् एव आचरमः तदा ॥५-९-५९॥ बाहून् उपनिधाय अन्याः पारिहार्य विभूषिताः । अम्शुकानि च रम्याणि प्रमदाः तत्र शिश्यिरे ॥५-९-६०॥ अन्या वक्षसि च अन्यस्याः तस्याः काचित् पुनर् भुजम् । अपरा त्व् अन्कम् अन्यस्याः तस्याः च अपि अपरा भुजौ ॥५-९-६१॥ ऊरु पार्श्व कटी प्Rष्ठम् अन्योन्यस्य समाश्रिताः । परस्पर निविष्ट अन्ग्यो मद स्नेह वश अनुगाः ॥५-९-६२॥ अन्योन्यस्य अन्ग सम्स्पर्शात् प्रीयमाणाः सुमध्यमाः । एकी क्Rत भुजाः सर्वाः सुषुपुः तत्र योषितःअन्योन्य भुज सूत्रेण स्त्री माला ग्रथिता हि सा । माला इव ग्रथिता सूत्रे शुशुभे मत्त षट्पदा ॥५-९-६३॥ लतानाम् माधवे मासि फुल्लानाम् वायु सेवनात् । अन्योन्य माला ग्रथितम् सम्सक्त कुसुम उच्चयम् ॥५-९-६४॥ व्यतिवेष्टित सुस्कन्थम् अन्योन्य भ्रमर आकुलम् । आसीद् वनम् इव उद्धूतम् स्त्री वनम् रावणस्य तत् ॥५-९-६५॥ उचितेष्व् अपि सुव्यक्तम् न तासाम् योषिताम् तदा । विवेकः शक्य आधातुम् भूषण अन्ग अम्बर स्रजाम् ॥५-९-६६॥ रावणे सुख सम्विष्टे ताः स्त्रियो विविध प्रभाः । ज्वलन्तः कान्चना दीपाः प्रेक्षन्त अनिमिषा इव ॥५-९-६७॥ राज Rषि पित्R दैत्यानाम् गन्धर्वाणाम् च योषितः । रक्षसाम् च अभवन् कन्याः तस्य काम वशम् गताः ॥५-९-६८॥ युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः । समदा मदनेनैव मोहिताः काश्चिदागताः ॥५-९-६९॥ न तत्र काचित् प्रमदा प्रसह्य । वीर्य उपपन्नेन गुणेन लब्धा । न च अन्य कामा अपि न च अन्य पूर्वा । विना वर अर्हाम् जनक आत्मजाम् तु ॥५-९-७०॥ न च अकुलीना न च हीन रूपा । न अदक्षिणा न अनुपचार युक्ता । भार्या अभवत् तस्य न हीन सत्त्वा । न च अपि कान्तस्य न कामनीया ॥५-९-७१॥ बभूव बुद्धिः तु हरि ईश्वरस्य । यदि ईद्Rशी राघव धर्म पत्नी । इमा यथा राक्षस राज भार्याः । सुजातम् अस्य इति हि साधु बुद्धेः ॥५-९-७२॥ पुनः च सो अचिन्तयद् आर्त रूपो । ध्रुवम् विशिष्टा गुणतो हि सीता । अथ अयम् अस्याम् क्Rतवान् महात्मा । लन्का ईश्वरः कष्टम् अनार्य कर्म ॥५-९-७३॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे नवमः सर्गः ॥५-९॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।