रामायणम्/सुन्दरकाण्डम्/सर्गः १४
< रामायणम् | सुन्दरकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः १३ | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः १५ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-१४॥
स मुहूर्तम् इव ध्यत्वा मनसा च अधिगम्य ताम् । अवप्लुतो महा तेजाः प्राकारम् तस्य वेश्मनः ॥५-१४-१॥ स तु सम्हृष्ट सर्व अन्गः प्राकारस्थो महा कपिः । पुष्पित अग्रान् वसन्त आदौ ददर्श विविधान् द्रुमान् ॥५-१४-२॥ सालान् अशोकान् भव्यामः च चम्पकामः च सुपुष्पितान् । उद्दालकान् नाग वृक्षामः चूतान् कपि मुखान् अपि ॥५-१४-३॥ अथ आम्र वण सम्चन्नाम् लता शत समावृताम् । ज्या मुक्त इव नाराचः पुप्लुवे वृक्ष वाटिकाम् ॥५-१४-४॥ स प्रविष्य विचित्राम् ताम् विहगैर् अभिनादिताम् । राजतैः कान्चनैः चैव पादपैः सर्वतो वृताम् ॥५-१४-५॥ विहगैर् मृग सम्घैः च विचित्राम् चित्र काननाम् । उदित आदित्य सम्काशाम् ददर्श हनुमान् कपिः ॥५-१४-६॥ वृताम् नाना विधैर् वृक्षैः पुष्प उपग फल उपगैः । कोकिलैर् भृन्ग राजैः च मत्तैर् नित्य निषेविताम् ॥५-१४-७॥ प्रहृष्ट मनुजे कले मृग पक्षि समाकुले । मत्त बर्हिण सम्घुष्टाम् नाना द्विज गण आयुताम् ॥५-१४-८॥ मार्गमाणो वर आरोहाम् राज पुत्रीम् अनिन्दिताम् । सुख प्रसुप्तान् विहगान् बोधयाम् आस वानरः ॥५-१४-९॥ उत्पतद्भिर् द्विज गणैः पक्षैः सालाः समाहताः । अनेक वर्णा विविधा मुमुचुः पुष्प वृष्टयः ॥५-१४-१०॥ पुष्प अवकीर्णः शुशुभे हनुमान् मारुत आत्मजः । अशोक वनिका मध्ये यथा पुष्पमयो गिरिः ॥५-१४-११॥ दिशः सर्व अभिदावन्तम् वृक्ष षण्ड गतम् कपिम् । द्Rष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥५-१४-१२॥ वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग् विधैः । रराज वसुधा तत्र प्रमदा इव विभूषिता ॥५-१४-१३॥ तरस्विना ते तरवः तरसा अभिप्रकम्पिताः । कुसुमानि विचित्राणि सस्Rजुः कपिना तदा ॥५-१४-१४॥ निर्धूत पत्र शिखराः शीर्ण पुष्प फल द्रुमाः । निक्षिप्त वस्त्र आभरणा धूर्ता इव पराजिताः ॥५-१४-१५॥ हनूमता वेगवता कम्पिताः ते नग उत्तमाः । पुष्प पर्ण फलानि आशु मुमुचुः पुष्प शालिनः ॥५-१४-१६॥ विहम्ग सम्घैर् हीनाः ते स्कन्ध मात्र आश्रया द्रुमाः । बभूवुर् अगमाः सर्वे मारुतेन इव निर्धुताः ॥५-१४-१७॥ विधूत केशी युवतिर् यथा मृदित वर्णिका । निष्पीत शुभ दन्त ओष्ठी नखैर् दन्तैः च विक्षता ॥५-१४-१८॥ तथा लान्गूल हस्तैः च चरणाभ्याम् च मर्दिता । बभूव अशोक वनिका प्रभग्न वर पादपा ॥५-१४-१९॥ महा लतानाम् दामानि व्यधमत् तरसा कपिः । यथा प्रावृषि विन्ध्यस्य मेघ जालानि मारुतः ॥५-१४-२०॥ स तत्र मणि भूमीः च राजतीः च मनो रमाः । तथा कान्चन भूमीः च विचरन् ददृशे कपिः ॥५-१४-२१॥ वापीः च विविध आकाराः पूर्णाः परम वारिणा । महा अर्हैर् मणि सोपानैर् उपपन्नाः ततः ततः ॥५-१४-२२॥ मुक्ता प्रवाल सिकता स्फटिक अन्तर कुट्टिमाः । कान्चनैः तरुभिः चित्रैः तीरजैर् उपशोभिताः ॥५-१४-२३॥ फुल्ल पद्म उत्पल वनाः चक्र वाक उपकूजिताः । नत्यूह रुत सम्घुष्टा हम्स सारस नादिताः ॥५-१४-२४॥ दीर्घाभिर् द्रुम युक्ताभिः सरिद्भिः च समन्ततः । अम्Rत उपम तोयाभिः शिवाभिर् उपसम्स्कृताः ॥५-१४-२५॥ लता शतैर् अवतताः सन्तानक समावृताः । नाना गुल्म आवृत वनाः कर वीर कृत अन्तराः ॥५-१४-२६॥ ततो अम्बु धर सम्काशम् प्रव्Rद्ध शिखरम् गिरिम् । विचित्र कूटम् कूटैः च सर्वतः परिवारितम् ॥५-१४-२७॥ शिला गृहैर् अवततम् नाना वृक्षैः समावृतम् । ददर्श कपि शार्दूलो रम्यम् जगति पर्वतम् ॥५-१४-२८॥ ददर्श च नगात् तस्मान् नदीम् निपतिताम् कपिः । अन्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥५-१४-२९॥ जले निपतित अग्रैः च पादपैर् उपशोभिताम् । वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय बन्धुभिः ॥५-१४-३०॥ पुनर् आव्Rत्त तोयाम् च ददर्श स महा कपिः । प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् ॥५-१४-३१॥ तस्य अदूरात् स पद्मिन्यो नाना द्विज गण आयुताः । ददर्श कपि शार्दूलो हनुमान् मारुत आत्मजः ॥५-१४-३२॥ कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा । मणि प्रवर सोपानाम् मुख्ता सिकत शोभिताम् ॥५-१४-३३॥ विविधैर् मृग सम्घैः च विचित्राम् चित्र काननाम् । प्रासादैः सुमहद्भिः च निर्मितैर् विश्व कर्मणा ॥५-१४-३४॥ काननैः कॄत्रिमैः च अपि सर्वतः समलम्कृताम् । ये केचित् पादपाः तत्र पुष्प उपग फल उपगाः ॥५-१४-३५॥ सच् चत्राः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः । लता प्रतानैः बहुभिः पर्णैः च बहुभिर् व्Rताम् ॥५-१४-३६॥ काञ्चनीम् शिम्शुपाम् एकाम् ददर्श स महा कपिः । वृताम् हेममयूभिस्तु वेदिकाभिः समन्ततः ॥५-१४-३७॥ सो अपश्यद् भूमि भागामः च गर्त प्रस्रवणानि च । सुवर्ण वृक्षान् अपरान् ददर्श शिखि सम्निभान् ॥५-१४-३८॥ तेषाम् द्रुमाणाम् प्रभया मेरोर् इव महा कपिः । अमन्यत तदा वीरः कान्चनो अस्मि इति वानरः ॥५-१४-३९॥ ताम् कान्चनैः तरु गणैर् मारुतेन च वीजिताम् । किन्किणी शत निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥५-१४-४०॥ स पुष्पित अग्राम् रुचिराम् तरुण अन्कुर पल्लवाम् । ताम् आरुह्य महा वेगः शिम्शपाम् पर्ण सम्व्Rताम् ॥५-१४-४१॥ इतो द्रक्ष्यामि वैदेहीम् राम दर्शन लालसाम् । इतः च इतः च दुह्ख आर्ताम् सम्पतन्तीम् यद्Rच्चया ॥५-१४-४२॥ अशोक वनिका च इयम् दृढम् रम्या दुरात्मनः । चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता ॥५-१४-४३॥ इयम् च नलिनी रम्या द्विज सम्घ निषेविता । इमाम् सा राम महिषी नूनम् एष्यति जानकी ॥५-१४-४४॥ सा राम राम महिषी राघवस्य प्रिया सदा । वन सम्चार कुशला नूनम् एष्यति जानकी ॥५-१४-४५॥ अथवा मृग शाव अक्षी वनस्य अस्य विचक्षणा । वनम् एष्यति सा च इह राम चिन्ता अनुकर्शिता ॥५-१४-४६॥ राम शोक अभिसम्तप्ता सा देवी वाम लोचना । वन वास रता नित्यम् एष्यते वन चारिणी ॥५-१४-४७॥ वने चराणाम् सततम् नूनम् स्पृहयते पुरा । रामस्य दयिता भार्या जनकस्य सुता सती॥५-१४-४८॥ सम्ध्या काल मनाः श्यामा ध्रुवम् एष्यति जानकी । नदीम् च इमाम् शिव जलाम् सम्ध्या अर्थे वर वर्णिनी ॥५-१४-४९॥ तस्याः च अपि अनुरूपेयम् अशोक वनिका शुभा । शुभा या पार्थिव इन्द्रस्य पत्नी रामस्य सम्मिता ॥५-१४-५०॥ यदि जिवति सा देवी तारा अधिप निभ आनना । आगमिष्यति सा अवश्यम् इमाम् शिव जलाम् नदीम् ॥५-१४-५१॥ एवम् तु मत्वा हनुमान् महात्मा । प्रतीक्षमाणो मनुज इन्द्र पत्नीम् ॥ अवेक्षमाणः च ददर्श सर्वम् । सुपुष्पिते पर्ण घने निलीनः ॥५-१४-५२॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥५-१४॥
स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।