रामायणम्/सुन्दरकाण्डम्/सर्गः ११
< रामायणम् | सुन्दरकाण्डम्
Jump to navigation
Jump to search
← सर्गः १० | रामायणम्/सुन्दरकाण्डम् सुन्दरकाण्डम् वाल्मीकिः |
सर्गः १२ → |
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥
अवधूय च ताम् बुद्धिम् बभूव अवस्थितः तदा । जगाम च अपराम् चिन्ताम् सीताम् प्रति महा कपिः ॥५-११-१॥ न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी । न भोक्तुम् न अपि अलम्कर्तुम् न पानम् उपसेवितुम् ॥५-११-२॥ न अन्यम् नरम् उपस्थातुम् सुराणाम् अपि च ईश्वरम् । न हि राम समः कश्चिद् विद्यते त्रिदशेष्व् अपि ॥५-११-३॥ अन्या इयम् इति निश्चित्य पान भूमौ चचार सः । क्रीडितेन अपराः क्लान्ता गीतेन च तथा पराः ॥५-११-४॥ नृत्तेन च अपराः क्लान्ताः पान विप्रहताः तथा । मुरजेषु म्Rदन्गेषु पीठिकासु च सम्स्थिताः ॥५-११-५॥ तथा आस्तरण मुख्य्येषु सम्विष्टाः च अपराः स्त्रियः । अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः ॥५-११-६॥ रूप सम्ल्लाप शीलेन युक्त गीत अर्थ भाषिणा । देश काल अभियुक्तेन युक्त वाक्य अभिधायिना ॥५-११-७॥ रत अभिरत सम्सुप्तम् ददर्श हरि यूथपः । तासाम् मध्ये महा बाहुः शुशुभे राक्षस ईश्वरः ॥५-११-८॥ गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः । स राक्षस इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् ॥५-११-९॥ करेणुभिर् यथा अरण्यम् परिकीर्णो महा द्विपः । सर्व कामैर् उपेताम् च पान भूमिम् महात्मनः ॥५-११-१०॥ ददर्श कपि शार्दूलः तस्य रक्षः पतेर् गृहे । मृगाणाम् महिषाणाम् च वराहाणाम् च भागशः ॥५-११-११॥ तत्र न्यस्तानि माम्सानि पान भूमौ ददर्श सः । रौक्मेषु च विशलेषु भाजनेष्व् अर्ध भक्षितान् ॥५-११-१२॥ ददर्श कपि शार्दूल मयूरान् कुक्कुटामः तथा । वराह वार्ध्राणसकान् दधि सौवर्चल आयुतान् ॥५-११-१३॥ शल्यान् म्Rग मयूरामः च हनूमान् अन्ववैक्षत । कृकरान् विविधान् सिद्धामः चकोरान् अर्ध भक्षितान् ॥५-११-१४॥ महिषान् एक शल्यामः च चागामः च कृत निष्ठितान् । लेख्यम् उच्च अवचम् पेयम् भोज्यानि विविधानि च ॥५-११-१५॥ तथा अम्ल लवण उत्तम्सैर् विविधै राग षाडवैः । हार नूपुर केयूरैर् अपविद्धैर् महा धनैः ॥५-११-१६॥ पान भाजन विक्षिप्तैः फलैः च विविधैर् अपि । कृत पुष्प उपहारा भूर् अधिकम् पुष्यति श्रियम् ॥५-११-१७॥ तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयन आसनैः । पान भूमिर् विना वह्निम् प्रदीप्ता इव उपलक्ष्यते ॥५-११-१८॥ बहु प्रकारैर् विविधैर् वर सम्स्कार सम्स्कृतैः । माम्सैः कुशल सम्युक्तैः पान भूमि गतैः पृथक् ॥५-११-१९॥ दिव्याः प्रसन्ना विविधाः सुराः कृत सुरा अपि । शर्कर आसव माध्वीकाः पुष्प आसव फल आसवाः ॥५-११-२०॥ वास चूर्णैः च विविधैर् मृष्टाः तैः तैः पृथक् पृथक् । सम्तता शुशुभे भूमिर् माल्यैः च बहु सम्स्थितैः ॥५-११-२१॥ हिरण्मयैः च करकैर् भाजनैः स्फाटिकैर् अपि । जाम्बूनदमयैश्चान्याः करकैरभिवम्वृता ॥५-११-२२॥ राजतेषु च कुम्भेषु जाम्बूनदमयेषु च । पान श्रेष्ठम् तदा भूरि कपिः तत्र ददर्श ह ॥५-११-२३॥ सो अपश्यत् शात कुम्भानि शीधोर् मणिमयानि च । राजतानि च पूर्णानि भाजनानि महा कपिः ॥५-११-२४॥ क्वचिद् अर्ध अवशेषाणि क्वचित् पीतानि सर्वशः । क्वचिन् न एव प्रपीतानि पानानि स ददर्श ह ॥५-११-२५॥ क्वचिद् भक्ष्यामः च विविधान् क्वचित् पानानि भागशः । क्वचिद् अन्न अवशेषाणि पश्यन् वै विचचार ह ॥५-११-२६॥ क्वचित् प्रभिन्नैः करकैः क्वचिद् आलोडितैर् घटैः । क्वचित् सम्पृक्त माल्यानि जलानि च फलानि च ॥५-११-२७॥ शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनः । परस्परम् समाश्लिष्य काश्चित् सुप्ता वर अन्गनाः ॥५-११-२८॥ काचिच् च वस्त्रम् अन्यस्या अपह्Rत्य उपगुह्य च । उपगम्य अबला सुप्ता निद्रा बल पराजिता ॥५-११-२९॥ तासाम् उच्च्वास वातेन वस्त्रम् माल्यम् च गात्रजम् । न अत्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दम् इव अनिलम् ॥५-११-३०॥ चन्दनस्य च शीतस्य शीधोर् मधु रसस्य च । विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥५-११-३१॥ बहुधा मारुतः तत्र गन्धम् विविधम् उद्वहन् । स्नानानाम् चन्दनानाम् च धूपानाम् चैव मूर्चितः । प्रववौ सुरभिर् गन्धो विमाने पुष्पके तदा ॥५-११-३२॥ श्याम अवदाताः तत्र अन्याः काश्चित् कृष्णा वर अन्गनाः ॥५-११-३३॥ काश्चित् कान्चन वर्ण अन्ग्यः प्रमदा राक्षस आलये । तासाम् निद्रा वशत्वाच् च मदनेन विमूर्चितम् ॥५-११-३४॥ पद्मिनीनाम् प्रसुप्तानाम् रूपम् आसीद् यथैव हि । एवम् सर्वम् अशेषेण रावण अन्तः पुरम् कपिः ॥५-११-३५॥ ददर्श सुमहा तेजा न ददर्श च जानकीम् । निरीक्षमाणः च ततः ताः स्त्रियः स महा कपिः ॥५-११-३६॥ जगाम महतीम् चिन्ताम् धर्म साध्वस शन्कितः । पर दार अवरोधस्य प्रसुप्तस्य निरीक्षणम् ॥५-११-३७॥ इदम् खलु मम अत्यर्थम् धर्म लोपम् करिष्यति । न हि मे पर दाराणाम् दृष्टिर् विषय वर्तिनी ॥५-११-३८॥ अयम् च अत्र मया दृष्टः पर दार परिग्रहः । तस्य प्रादुर् अभूच् चिन्ता पुनर् अन्या मनस्विनः ॥५-११-३९॥ निश्चित एक अन्त चित्तस्य कार्य निश्चय दर्शिनी । कामम् दृष्ट्वा मया सर्वा विश्वस्ता रावण स्त्रियः ॥५-११-४०॥ न तु मे मनसः किम्चिद् वैकृत्यम् उपपद्यते । मनो हि हेतुः सर्वेषाम् इन्द्रियाणाम् प्रवर्तते ॥५-११-४१॥ शुभ अशुभास्व् अवस्थासु तच् च मे सुव्यवस्थितम् । न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् ॥५-११-४२॥ स्त्रियो हि स्त्रीषु द्Rश्यन्ते सदा सम्परिमार्गणे । यस्य सत्त्वस्य या योनिः तस्याम् तत् परिमार्ग्यते ॥५-११-४३॥ न शक्यम् प्रमदा नष्टा मृगीषु परिमार्गितुम् । तद् इदम् मार्गितम् तावत् शुद्धेन मनसा मया ॥५-११-४४॥ रावण अन्तः पुरम् सरम् दृश्यते न च जानकी । देव गन्धर्व कन्याः च नाग कन्याः च वीर्यवान् ॥५-११-४५॥ अवेक्षमाणो हनुमान् न एव अपश्यत जानकीम् । ताम् अपश्यन् कपिः तत्र पश्यमः च अन्या वर स्त्रियः ॥५-११-४६॥ अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे । स भूयस्तु परम् श्रीमान् मारुतिर्यत्नमास्थितः ॥५-११-४७॥ अपानभूमिमुत्सृज्य तद्विचेतुम् प्रचक्रमे ।
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे एकादशः सर्गः ॥५-११॥