रामायणम्/सुन्दरकाण्डम्/सर्गः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ४ रामायणम्/सुन्दरकाण्डम्
सुन्दरकाण्डम्
वाल्मीकिः
सर्गः ६ →


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥

ततः स मध्यंगतमंशुमन्तं ।
ज्योत्स्नावितानम् महदुद्वमन्तम् ।
ददर्श धीमान् दिवि भानुमन्तम् ।
गोष्ठे वृषं मत्तमिव भ्रामन्तम् ॥५-५-१॥

लोकस्य पापानि विनाशयन्तम् ।
महोदधिं चापि समेधयन्तम् ।
भूतानि सर्वाणि विराजयन्तम् ।
ददर्श शीताम्शुमथाभियान्तम् ॥५-५-२॥

या भाति  लक्ष्मीर्भुवि मन्दरस्था ।
तथा प्रदोषेषु च सागरस्था ।
तथैव तोयेषु च पुष्करस्था ।
रराज सा चारुनिशाकरस्था ॥५-५-३॥

हम्सो यथा राजतपञ्जरसथः ।
सिम्हो यथा मन्दरकन्दरस्थः ।
वीरो यथा गर्वितकुञ्जरस्थ ।
श्चन्द्रो विबभ्राज तथामभरस्थः ॥५-५-४॥

स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो ।
महाचलः श्वेत इवोच्चशृङ्गः ।
हस्तीव जाम्बूनदबद्धश्^इङ्गो ।
रराज चन्द्रह् परिपूर्णशृङ्गः ॥५-५-५॥

विनष्टशीताम्बुतुषारपङ्को ।
महाग्रहग्राहविनष्टपङ्कः ।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को ।
रराज चन्द्रो भगवान् शशाङ्कः ॥५-५-६॥

शीलातलम् प्राप्य यथा मृगेन्द्रो ।
महारणम् प्राप्य यथा गजेन्द्रह् ।
राज्यम् समासाद्य यथा नरेन्द्र ।
स्तथाप्रकाशो विरराज चन्द्रः ॥५-५-७॥

प्रकाशचन्द्रोदयनष्टदोषः ।
प्रवृत्तरक्षः पिशिताशदोषः ।
रामाभिरामेरितचित्तदोषः ।
स्वर्गप्रकाशो भगवान् प्रदोषः ॥५-५-८॥

तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः ।
स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।
नक्तम्चराश्चापि तथा प्रवृत्ता ।
विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥५-५-९॥

मत्तप्रमत्तानि समाकुलानि ।
तथाश्वभद्रासनसम्कुलानि ।
वीरः श्रिया चापि समाकुलानि ।
ददर्श धीमान् स कपिः कुलानि ॥५-५-१०॥

परस्परं चाधिकमाक्षिपन्ति ।
भुआम्श्च पीनानधिनिक्षिपन्ति ।
मत्तप्रलापानधिकम् क्षिपन्ति ।
मत्तानि चान्योन्यमधिक्षिपन्ति ॥५-५-११॥

रक्षाम्सि वक्षाम्सि च विक्षिपन्ति ।
गात्राणि कान्तासु च विक्षिपन्ति ।
रूपाअणि चित्राणि च विक्षिपन्ति ।
दृढानि चापानि च विक्षिपन्ति ॥५-५-१२॥

ददर्श कान्ताश्च समालभन्त्य ।
स्तथा परास्तत्र पुनः स्वपन्त्यः ।
सुरूपवक्त्राश्च तथा हसन्त्यः ।
क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥५-५-१३॥

महागजैश्चापि तथा नदद्भिः ।
सुपूजितैश्चापि तथा सुसद्भिः ।
रराज वीरैश्च विनिःश्वसद्भि ।
र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥५-५-१४॥

बुद्धिप्रधानान् रुचिराभिधानान् ।
सम्श्रद्दधानान् जगतः प्रधानान् ।
नानाविधानान् रुचिराभिधानान् ।
ददर्श तस्याम् पुरि यातुधानान् ॥५-५-१५॥

ननन्द दृष्ट्वा स च तान् सुरूपा ।
न्नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान्स तदानुरूपान् ।
ददर्श काम्श्चिच्च पुनर्विरूपान् ॥५-५-१६॥

ततो वरार्हः सुविशुद्धभावा ।
स्तेषाम् स्त्रियस्तत्र महानुभावाह् ।
प्रियेषु पानेषु च सक्तभावा ।
ददर्श ताराइव सुप्रभावाः ॥५-५-१७॥

श्रिया ज्वलन्तीस्त्रपयोगूढा ।
निशीथकाले रमणोपगूढाः ।
ददर्श काश्चित्प्रमदोपगूढा ।
यथा विहङ्गाः कुसुमोपगूढाः ॥५-५-१८॥

अन्याः पुनर्हर्म्यतलोपविष्टा ।
स्तत्र प्रियाङ्केषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्मपरा निविष्टा ।
ददर्श  धीमान् मदनाभिविष्टाः ॥५-५-१९॥

अप्रावृताः काञ्चनराजिवर्णाः ।
काश्चित्परार्थ्यास्तपनीयवर्णाः ।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः ।
कान्तप्रहीणारुचिराङ्गवर्णाः ॥५-५-२०॥

ततह् प्रियान् प्राप्य मनोभिरामान् ।
सुप्रीतियुक्ताः सुमनोभिरामाः ।
गृहेषु हृष्टाः परमाभिरामाः ।
हरिप्रवीरः स ददर्श रामाः ॥५-५-२१॥

चन्द्रप्रकाशाश्च हि वक्त्रमाला ।
वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।
विभूषाणानाम् च ददर्श मालाः ।
शतह्रदानामिव चारुमालाः ॥५-५-२२॥

न त्वेव सीताम् परमाभिजाताम् ।
पथि स्थिते राजकुले प्रजाताम् ।
लताम् प्रपुल्लामिव साधु जाताम् ।
ददर्श तन्वीम् मनसाभिजाताम् ॥५-५-२३॥

सनातने वर्त्मानि सम्निविष्टाम् ।
रामेक्षणां तां मदनाभिविष्टाम् ।
भर्तुर्मनः श्रीमदनुप्रविष्टाम् ।
स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥५-५-२४॥

उष्णार्दिताम् सानुसृतास्रकण्ठीम् ।
पुरा वरार्होत्तमनिष्ककण्ठीम् ।
सुजातपक्ष्मामभिरक्तकण्ठीम् ।
वनेऽप्रनृत्तामिव नीलकण्ठीम् ॥५-५-२५॥

अव्यक्तरेखामिव चन्द्ररेखां ।
पाम्सुप्रदिग्धामिव हेमरेखाम् ।
क्षतप्ररूढामिव बाणरेखां ।
वायुप्रभिन्नामिव मेघरेक्षाम् ॥५-५-२६॥

सीतामपश्यन् मनुजेश्वरस्य ।
रामस्य पत्नीम् वदताम् वरस्य ।
बभूव दुःखाभिहतश्चिरस्य ।
प्लवङ्गमो मन्द इवाचिरस्य ॥५-५-२७॥

इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥